प्रयागगयायोध्यामहिमवर्णनैवमीश्वरप्रोक्ता सुधेश्वरशिवस्तुतिः

प्रयागगयायोध्यामहिमवर्णनैवमीश्वरप्रोक्ता सुधेश्वरशिवस्तुतिः

Ganganirgamane Prayagagayayodhya Mahima Varnanm and Sudheshvara Shiva Stuti by Ishvara गङ्गानिर्गमने प्रयागगयायोध्यामहिमवर्णनैवमीश्वरप्रोक्ता सुधेश्वरशिवस्तुतिः (शिवरहस्यान्तर्गते शिवगौरीसंवादे) देवी - कानि तीर्थानि पुण्यानि सा गङ्गाप्लावयच्छिवा । तन्मे वद महादेव नहि तृप्तास्मि शङ्कर ॥ १॥ सूतः - तद्देव्या वचनं श्रुत्वा महादेवो महेश्वरः । प्राह गम्भीरवाक्यानि तदाऽपर्णां प्रहर्षयन् ॥ २॥ ईश्वरः - मत्पादमूलतो देवि यदा गङ्गा विनिर्गता । हरिद्वारात्तदा पुण्या विबुधैश्चैव संयुता ॥ ३॥ कुरुक्षेत्रं गता गङ्गा तस्माच्चापि विनिर्गिता । कुरुक्षेत्रं गता गङ्गा स्नानात्पापविनाशिनी ॥ ४॥ प्रतिपेदे मधुवनं तत्र तीर्थे मनोरमे । मुनिभिः संस्तुता स्नाता दृष्टा पीताघहारिणी ॥ ५॥ प्रयागवनमासाद्य यत्र पूर्वं पितामहः । अयजद्धयमेधेन मां मेधपतिमीश्वरम् ॥ ६॥ तत्रासीत्सरिदुत्कृष्टा यत्र प्राची सरस्वती । ततावभृथमासाद्य ब्रह्मा प्राह सरस्वतीम् ॥ ७॥ --- ब्रह्मा - सरस्वति महाभागे सर्वदा सर्वपावनी । सरसः पावनाज्जाता पुण्यान्मानसनामकात् ॥ ८॥ मेरौ देवासुरैः पूर्व प्रार्थितासि मनोरमे । अस्मिन्देशवरे पुण्ये सरसस्त्वं विनिर्गता ॥ ९॥ तस्मात्सरस्वतीत्याख्यां गमिष्यसि महीतले । एकांशेन वसात्रैव एकांशेन वसेर्मयि ॥ १०॥ इत्थं सा ब्रह्मणो वाक्यं प्रणम्याह सरस्वती ॥ सरस्वती - नाहं वसामि भूलोके त्वन्मखात्पावनाय हि । समानीताहममला त्वया यास्ये पितामह ॥ ११॥ ब्रह्मलोकं च सावित्र्या निवसामि त्वया सह । --- ईश्वरः - सरस्वत्याश्च वचनाद्ब्रह्मा क्रोधाच्छशाप ताम् ॥ १२॥ यस्मान्मद्वाक्यनिर्घातः कृतो देवि त्वयाऽधुना । अदृश्या चासि भूलोके पातालतलवाहिनी ॥ १३॥ भव त्वं शापिता मत्तः स इत्थं शप्तवाञ्शिवे । इत्थं शप्ता तदा ब्रह्म्णा प्रयागेऽभूत्सरस्वती ॥ १४॥ यमुनाऽपि तथैवागान्नीलनीरतरङ्गिणी । गङ्गायमुनयोर्मध्ये अन्तर्बद्धाऽभवत् तदा ॥ १५॥ ब्रह्मणः सा महेशानी प्रयागमभितः शुभे । सितासिते ते सरितौ देवि यत्रैव सङ्गते ॥ १६॥ तत्राप्लुता जनाः सर्वे ब्रह्मलोकपरायणाः । तनुं यस्त्यजते तत्र स मुक्तो भवति प्रिये ॥ १७॥ तत्राक्षयवटो नाम विटपैर्बहुभिर्वृतः । तत्प्रतीच्या महादेवि प्रयागेशोऽहमास्थितः ॥ १८॥ विष्णुनाराधितश्चाहं तेन तुष्टस्स्तुतस्था । प्रयागमाधवेनाहं पूजितस्तत्र शङ्करि ॥ १९॥ सम्पूज्य मां बिल्वपत्रैः तुष्टाव परमेश्वरम् ॥ --- माधवः - दुरदृष्टविनाशकं महेशं जनिनाशं प्रतिबद्धकष्टजालम् । कनिष्ठं वरिष्ठं तथा ज्येष्ठमीशं वसिष्ठादिवन्द्यं नतोस्मीष्टसिद्ध्यै ॥ २०॥ श्रीमत्प्रयागवनसुन्दरनीलकण्ठ पाहीश पापगिरिदारणशूलटङ्क । भक्तेष्वकुण्ठदय कुण्ठितवेदवाक्य वैकुण्ठपूजितपदागसुतोपकण्ठ ॥ २१॥ --- ईश्वरः - इत्थं स्तुतोऽस्मि तेनैव तत्स्थानेशः कृतो मया । तदुत्तरेऽहं सोमेशः पूजितः सुरसत्तमैः ॥ २२॥ बिल्वैर्मन्दारकुसुमैः स्तुतो‍ऽहं विबुधैरपि ॥ --- देवाः - पुरारे भवारे यमारे प्रसीद प्रसीदाधुना देवदेवश शम्भो । चरित्रं पवित्रं विचित्रं तवाद्य त्रिनेत्राधुना पापजालैकहारि ॥ २३॥ --- इत्थं स्तुतोऽहममरैर्निवसामि गिरीन्द्रजे । गङायमुनयोः सन्धौ लिङ्गं मङ्गलदं मम ॥ २४॥ यः प्रयागे महातीर्थे माघे मकरगे रवौ । तत्र स्नात्वा मासमेकं विमुक्तः सर्वकिल्विषैः ॥ २५॥ तीर्थाधिदेवो मां भक्त्याप्रयोगेशं समर्चयन् । तताप परमं देवि तप उग्रं समास्थितः ॥ २६॥ मां तुष्टावाम्बिके तत्र तीर्थराजत्वसिद्धये ॥ --- तीर्थराजः - शिव शैवजनावने धुरीण श्रुतिगणकारण कारणाद्यकर्ण । फणिरणितपदाब्जकङ्कण मम पापाद्यखिलाघशोषण ॥ २७॥ --- तीर्थाधिदेवो मां स्तुत्वा मत्तस्तीर्थवरोऽभवत् । यः प्रयागं समासाद्य त्रिरात्रं समुपोषितः ॥ २८॥ शतजन्मोत्थपापेभ्यो मुच्यते नात्र संशयः । प्रयागेश्वरमभ्यर्च्य दृष्टआ नत्वा महेश्वरम् ॥ २९॥ स्नानदानार्चनात्सिद्धिः तस्य स्यान्नात्र संशयः । त्रिवेणीसङ्गमो यत्र तत्र पापभयं कुतः ॥ ३०॥ तत्रावसत्सदा विष्णुर्वेणीमाधवसञ्ज्ञितः । मां ध्यायन्सर्वदा देवि स्नातॄणां फलदायकः ॥ ३१॥ गङ्गा च यमुना चैव यत्र गुप्ता सरस्वती । प्रवहत्यनिशं देवि यस्यान्तो नैव विद्यते ॥ ३२॥ अन्तर्वेद्यां ब्रह्मणोऽपि कृतं पुण्यमनन्तकम् । ये स्नात्वाऽथ प्रयागेशं पश्यन्ति च गणोत्तमाः ॥ ३३॥ सम्पूज्य बिल्वपत्रैश्च मुक्त एव न संशयः । प्रयागमन्यतीर्थेषु यः स्मरन्स्नाति भक्तिमान् ॥ ३४॥ स गङ्गायमुनोद्भेदे स्नाति नित्यं महेश्वरि । प्रयागे मकरे भानौ माघे स्नात्वा इनोदये ॥ ३५॥ स सर्वपापसङ्घेभ्यो मुक्तो मुक्तिं परां व्रजेत् । तस्माद्विनिर्गता पुण्या देवि गङ्गा सरस्वती ॥ ३६॥ यमुना च महादेवि ब्रह्मारण्यं सुशोभनम् । अविमुक्तं तदा प्राप्य चक्रतीर्थं सरिद्वरा ॥ ३७॥ मणिकर्णीभवन्नाम्ना ख्याता गङ्गा च पावनी । तस्मादयोध्यां विपुला अगमत्सुरसंयुता ॥ ३८॥ गङ्गासरय्वोर्यः सन्धौ स्नात्वा सन्तर्प्य वै पितॄन् । गयायां चैव पुण्यात्मा धर्मारण्यादिकेषु च ॥ ३९॥ फल्गुर्नाम नदी तत्र स्नानतः पापनाशिनी । भगीरथाश्रमं प्राप्य पितॄन्सन्तारयेत् सुतः ॥ ४०॥ गया कीकटदेशस्था पितॄणां तृप्तिदायिनी । पिण्डं तृप्तिप्रदं देवि तत्र दत्तमथाक्षयम् ॥ ४१॥ गयासुरशिरःस्थाने मत्पादं प्रकटीकृतम् । ईशानसञ्ज्ञं तत्पादं सुराणां चाथ वैभवम् ॥ ४२॥ मत्पादे पिण्डदानेन यमलोके महेश्वरि । वासये स्वपितॄन् भक्त्या पुनरावृत्तिवर्जिते ॥ ४३॥ अयोध्या मथुरा माया काशी काञ्ची अवन्तिका । पुरी द्वारवती चैव पितॄणां तृप्तिदायिकाः ॥ ४४॥ अयोध्यायां ममास्त्येकं सुधेशाख्यं महेश्वरि । लिङ्गं मङ्गलदं पुण्यं दृष्ट्वा रघुवरार्चितम् ॥ ४५॥ बिल्वपत्रैस्तथा पुष्पैः सरयूसम्भवैर्जलैः । समभ्यर्च्य प्रणम्येशं स्तोत्रमेतत् पठेन्नरः ॥ ४६॥ पापसङ्घैर्विमुच्येत नात्र कार्या विचारणा ॥ ४७॥ --- (ईश्वरप्रोक्ता सुधेश्वरशिवस्तुतिः) सुधाधारकलाधारपरिपूर्णोत्तमाङ्गक । नमस्तेऽस्तु महादेव दीनबन्धो प्रसीद मे ॥ ४८॥ नमस्ते देवदेवेश राघवैः परिपूजित । भवरोगहरापारपापराशिविनाशक ॥ ४९॥ प्रसीद देव विश्वेश परमेश्वर शङ्कर । शम्भो शाश्वत सर्वज्ञ विश्वाधिक जगत्प्रभो ॥ ५०॥ नमस्ते शिव कामारे मयि देव कृपां कुरु । --- इति स्तुत्वा महादेवं सुधेशपरमेश्वरम् ॥ ५१॥ सरय्वां यः सकृत्स्नात्वा प्रणम्याथ सुधेश्वरम् । बिल्वैः सम्पूज्य भक्तयाथ रुद्राध्यायं पठेन्नरः ॥ ५२॥ मुक्त एव स पापेभ्यो नात्रास्ति विशयोऽम्बिके ॥ गङ्गातुङ्गतरङ्गसङ्घविलसत्फुल्लैः सरोजोत्पलैः नीलस्वच्छपतङ्गपुत्रिसहिता गुप्ता च वाण्या तदा । ब्रह्मादित्रिदशैर्हरीन्द्रपवनैर्याता पतिं सागरं तीरोद्भासिमहर्षिसङ्घवनजापारैः सुमैरर्चितम् ॥ ५३॥ शुकपिकबककाककोकघूकैर्निभृतविनादितकेकिचक्रवाकैः । गहनविपिनवृक्षमस्तसंस्थैः घनपाषाणकणाशनादितुष्टैः ॥ ५४॥ ॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे गङ्गानिर्गमने प्रयागगयायोध्यामहिमवर्णनैवमीश्वरप्रोक्ता सुधेश्वरशिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ३०॥ - - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 30.. - Notes: Shiva describes to Devi, the glory and merits of worship at the various Shiva Tirtha Kshetra-s that are located along the path of River Ganga - that include Kurukshetra, Mathura, Prayaga (Prayagaraja, Tirtharaja), Ayodhya, Kashi, and Sagareshwara. The story of Brahma's curse causing Saraswati to vanish is narrated. Saraswati reappears at the confluence of Ganga and Yamuna forming Triveni Sangam at Prayagaraja, that is abode to Prayagesha Shivalinga to the West of a Akshaya Vata (perennial Banyan tree). Vishnu resides there in form of Veni Madhava to worship Prayageshwara Shiva. The time periods of Magha (month) and Ravi (Sun) transit in Makara rashi (Capricorn) are highlighted, for bathing at Prayagaraja. Rivers Saryu and Phalgu; respectively connect Ayodhya and Gaya, to River Ganga. Sagareshwara Shivalinga is located at the Ganga-Sagara-Sangamam, which is described in the subsequent chapter. Shiva mentions about the Sudesha Shivalinga in Ayodhya, where Shri Rama worshipped Him as Sudheshwara. The shloka numbers have been maintained per the source text. Proofread by Ruma Dewan
% Text title            : Ganganirgamane Prayagagayayodhya Mahima Varnanm and Sudheshvara Shiva Stuti by Ishvara
% File name             : sudheshvarashivastutiHgangAnirgamaneprayAgagayAyodhyAmahimavarNanaivaMIshvaraproktA.itx
% itxtitle              : sudheshvarashivastutiH evaM prayAgagayAyodhyAmahimavarNanaM Ishvaraproktam (shivarahasyAntargatA)
% engtitle              : sudheshvarashivastutiH evaM prayAgagayAyodhyAmahimavarNanaM Ishvaraproktam
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 30|| -
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org