वामदेवकृतोपनिषत्स्तुतिनिरूपणम्

वामदेवकृतोपनिषत्स्तुतिनिरूपणम्

अहं विश्वाधीशो मनुरहमहो सूर्य इति व अहं विश्वं सर्वं सुग्नमखिलं त्वच्छ्रुतिबलात् । उताहोस्विच्छम्भो निखिलमरुतां नायक विभो भवत्पादाम्भोजोद्भवभजनपुण्याकरमतिः ॥ ३॥ पूर्णं पूर्णमदस्त्वदीयमहसा सम्पूर्णमेतज्जगत त्वां पूर्णं समुपैति तूर्णमथ वै सम्पूर्णकामोऽधुना । पूर्णात्पूर्णमहार्णवप्रतिनिधिं तूर्णं हृदाकाशगं त्वां (मत्वा) तार्णं जगदेव तस्य हृदये सम्पूर्णमातिष्ठते ॥ ४॥ ईशावास्यमिदं च सर्वमधुना त्वद्भानभातं सता- मेकं द्वन्द्वविहीनमद्भुतमहो नेहास्ति नाना जगत् । आत्मैवेदमिदमुमाह्वयमिदं ब्रह्मेदमालोक्यतां वेदान्तैर्गुरुबोधवाक्यजनितानन्दैस्त्वमात्मा विभुः ॥ ५॥ लोकद्वारमपावृतं मुनिगणप्राप्यं दुरापं सदा दुष्टानां तु हिरण्यपात्रपिहितं सत्यस्य तद्वै मुखम् । तत्पश्येम भवत्कटाक्षलहरीपाथेयपान्थाः सदा सम्राडदिचतुर्थलोकगतयः शम्भो त्वदीयार्चनात् ॥ ६॥ एष ब्रह्मैव शक्रः श्रुतिरियमधुना सर्वमेतद्विचित्रं प्रज्ञानेत्रमितीरयत्यपि विभो ब्रह्मेदमात्मेत्यपि । शारीरादिषडूर्मिकृत्यरहितो देवस्त्वमीशानदृक् दृश्यं भूतभवद्भविष्यमुखरं त्वय्येव विद्योतते ॥ ७॥ स्वामानन्दनिधि त्वदीयसहजानन्दोत्थसच्छीकराः ब्रह्माद्या मुनयस्तथा यमिगणा जीवन्ति नो मात्रया । आकाशादिशरीरमद्वयघनं बुद्धयादिबोधप्रदं ब्रह्माप्नोति परं त्वदीयकृपया जानासि त्वं त्वामनु ॥ ८॥ भीषैवोदेति भानुः सकलग्रहगणैः सप्तविप्रैश्च यक्षैः वह्नीन्द्रावपि सूरसूनुरथ वै शम्भो त्वदीयाज्ञया । निःश्वासोऽपि भवत्कृतो हि भगवन साम्नामृचां याजुषां आथर्वाणगणास्तदङ्गमखिलं त्वत्तो विभो निःसृतम् ॥ ९॥ यतो वाचां गुम्भः सह परिकरैरस्तमयते मनोवाक्शम्भो तज्जडमखिलचापल्यजनकम् । अस्थूलोप्यनणुस्तथाप्यविदुषामङ्गुष्ठमात्रोऽन्तरा नीवारोद्भवशुकसम्मितविभो पीताकृतिर्मासि वै ॥ १०॥ त्वमा काशकोशस्य चैतन्यदाता महाकाशमेतज्जगद्व्याप्य तिष्ठेत् । कुतो जातमाकाशमप्राणमित्थं न चानन्दलेशं समाप्नोति कश्चित् ॥ ११॥ त्वमात्मा वियद्वायुवह्निर्जलं क्ष्मा तवौषध्यजालं (ततौषध्यजालं) तदन्नं तु (पू) वर्षः । प्रमोदोऽथ मोदस्तथैवास्य पक्षौ त्वमीशान आनन्द आत्मा तुरीयः ॥ १२॥ त्वां सर्वान्तरगं तथापि विवशा मोहादिय वै श्रुति- श्चात्मन्यावसथा दकल्पनमिदं द्वौ वा सुपर्णेत्यपि । एकस्तत्फलमत्ति साक्षिगतिको द्वित्वं कथं त्वद्गतं (साक्षिकतया द्वित्वं कथं भावये) एकं त्वां तमसा परं सुकृतिनो जानन्ति बोधैर्हृदा ॥ १३॥ अस्तं द्वित्वनिवृत्तभावभवुके स्वात्मन्यखण्डात्मके नानाकारमबुदबुद्धिजनकं भ्रान्त्या भयं जायते । ज्ञाते रज्जुनि सर्पभूत्कृतिभयं त्यक्त्वा जनो मोदते उद्वत् त्वय्यखिलात्मके शिवतरे ज्ञाते भयं नास्ति हि ॥ १४॥ आधारमानन्दमखण्डबोधं यस्मिन लयं याति पुरत्रयं प्रभो । तस्मिन्मनः प्राणगतीन्द्रियाणि भूतानि पश्चापि च त्वां न विद्युः ॥ १५॥ यत्र त्वमात्मा भगवन्श्रुतिश्रुतः तत्केन किं पश्य महो गुणार्थान् । नद्यो यथा सरमाणाः समुद्रे तथेन्द्रियार्थस्त्वयि नाशमेति ॥ १६॥ ज्ञाते तथात्मन्यखिलं संविदः श्रुतिर्नवाभ्यासपरा वदत्यथार्थम् । वाचा समारम्भणमेव युक्त्या एकेन मृत्पिण्डमयेन सर्वम् ॥ १७॥ भूमात्वेव सुखं त्वदीयकृपया नाल्पे सुखं संसृतौ नान्यद्यत्र विपश्यति प्रियतरं नान्यद्विजानात्यपि । भूम्यन्तर्गतमेव हाटकनिधिं नैवाप्नुवन्ते जना ऊर्ध्वं सञ्चरतोऽप्यहोऽप्यहरहस्त्वामीश मोहात्सदा ॥ १८॥ आदित्यसोमदहनेषु तथैव वाचि अन्योन्यनाशमुपलक्ष्य जयादिकेषु । त्वं ज्योतिषां ज्योतिरनुत्तमोऽसि आत्मासि विश्वमखिलं त्वयि सन्निधत्ते ॥ १९॥ अन्तर्यामितया त्वमेव भगवन्जाड्यं जगत्सर्गजं वारित्वं पृथिवीन्द्रियाणि च मनः सर्वं नियम्याखिलम् । त्वामेतेन विदन्ति बाह्यगतयः सूक्ष्मादिदृश्यं शिवं तं त्वामन्तिकसंस्थितं मुहुरहो देवापि मुह्यन्ति वै ॥ २०॥ त्वां दृष्ट्वा हृदयाब्जगं मुनिगणाः शोकं तरन्तेऽखिलं तेषां त्वं तमसो गणं भिद्यन्ति च ग्रन्थयः । सर्वाक्षिश्रुतिहस्तपादवदनः सर्वेषु भूताश्रयः सर्वं विश्वमिदं विचित्रजनकं चावृत्य सन्तिष्ठसे ॥ २१॥ त्वं चक्षुषां चक्षुरसि श्रुतीढ्यः श्रुतेः श्रुतिः प्राणगणस्य प्राणः । त्वं वै मनस्यापि (?) मनो महेश सङ्गिष्वसङ्गस्त्वशरीरकोऽसि ॥ २२॥ अपाणिपादो मनसो दवीयः पश्यस्यचक्षुः स श‍ृणोष्यकर्णः । त्वं वेत्सि सर्वं न विदन्ति हि त्वां त्वामाहुरग्र्यं पुरुषं पुराणम् ॥ २३॥ मनः परोऽसि प्रकृतेः परोऽसि बुद्धे परोऽसि महतः परोऽसि । अव्यक्तव्यक्तात्पुरुषात्परोऽसि काष्ठा गतिर्ब्रह्म पुच्छं स्वमीश ॥ २४॥ अशरीरस्त्वमसि प्रसिद्धकर्मा शरीरिणां नाशगतिक्रियासु । तस्मादवस्थारहितं च शम्भुं त्वां यो विजानाति न शोचते पुनः ॥ २५॥ सृष्टानि खानि परमेश विमोहनाय त्वय्येव देव जगतीष्वथ एक एव । तस्मात्परं पश्यति विश्वमूर्तेर्नात्मानमिच्छन्ति बहिर्मुखा जनाः ॥ २६॥ विश्वं दृश्यमिदं विभाति सकलं त्वय्येव विद्योतते जाग्रत्स्वप्नसुषुप्तिषु प्रलयकृत्कोशादिहीनः सदा । त्वामात्मानमखण्डमिन्द्रियगणैरप्राप्यमाशा मुखं नित्यं वाञ्छति ब्रह्म तद्धृदि सदा चानन्दलब्धं सुखम् ॥ २७॥ चतुर्थस्तुरीयः शिवोऽदेत आत्मा महाभूतदेहेष्वसङ्गः पुराणः । स सत्येव तन्नामरूपैर्गुणैर्वा शिवः पुरुषः केवलः कोशहीनः ॥ २८॥ अमेद्यो ह्यदाह्यस्तथा छेद्यहीनस्तवाद्यास्ति वाक्पाणिदेहादिबन्धः । स्वतन्त्रो विभुर्नित्यशुद्धो विभासस्वमासा जगज्जालमेतद्विमासि ॥ २९॥ यतो वा महाभूतसङ्घानि जातान्यसङ्ख्येयकर्माणि भिन्नानि नित्यम् । येनैव जीवन्ति विभान्ति देहेर्विदेहानि नान्यत्र सन्विष्ठतेऽन्ते ॥ ३०॥ तदेतत्त्रिनेत्रं विचित्रं पवित्रमुमाश्लिष्टमात्रार्धचन्द्रार्धचूडम् । विजिज्ञास्य तद्ब्रह्म नीरूपरूपं महारूपमेकं जगत्पालनाय ॥ ३१॥ स्वमात्मा त्वं ब्रह्म त्वमसि भगवन्घोरमखिलं त्वया भेदं जानात्यविकलधिया यस्तु यमिराट् । अजानन्यश्चेत्थं त्वमसि च परादात्स तमनु ॥ ३२॥ एके त्वय्यद्वितीये जगदिदमखिलं नेह नानास्ति किञ्चित् श्रुत्या युक्त्या गुरूक्त्या मननयुतधिया तत्ववाक्यात् तपोक्त्या । द्वित्व भीतिमहेश त्वयि भयजननी द्वासुपर्णादिवाक्यैः मन्दान्सम्बोधयत्सा श्रुतिरियमधुना साक्षिणं त्वां फलादम् ॥ ३३॥ एषोऽन्तरादित्यगतो महेशो हिरण्यरूपः स हिरण्यकेशः । हिरण्यरेताश्च तथाम्बिकापतिः ध्यानैकगम्यस्तमसः परस्तात् ॥ ३४॥ एषोऽन्तर्याम्यमृतः पुराणः कविस्तथा प्राणभृत्प्राणहेतुः । त्वां ब्रह्ममन्वास उपासते चिरं मुक्त्यै धृतात्मान उतो महेशम् ॥ ३५॥ त्वं षोडशात्मा पुरुषः पुरीशयो न लोकदुःखैस्त्वमसङ्ग एकः । न सज्जसे तद्गुणभाववृत्तिषु स्थितोऽसि दूरे च तदन्तिकोऽसि ॥ ३६॥ अपाणिरादो गुणकर्महीनो गुहाहितो निष्कलस्त्वं तुरीयः । सत्यं तथाऽऽनन्दमयस्त्वमात्मा ज्ञानं सुखं संविदिति क्रमेण ॥ ३७॥ यदा तमस्त्वं न दिवा निशापि वा न सन्न चासच्छिव एव केवलः । त्वमक्षरं तत्सवितुर्वरेण्यं प्रज्ञा त्वदाज्ञावशतो विनिःसृता ॥ ३८॥ कोशातीतमखण्डमेकमरसं गन्धादिहीनं तदा नश्यद्देहकदम्बकेषु नितरां नाशादिहीनं विभुम् । स्वात्मानं प्रियदेहजालरहितं तत्साक्षिणं सर्वदा दृश्यं दर्शनदिग्भ्रमादिरहितं जानन्नरो मुच्यते ॥ क्वचिञ्जातं विश्वं क्वचिदपि विलीनं सुरगणैः क्वचित्स्तब्धं दीनं क्वचिदपि च नादैकविवशम् । षडूर्मिप्राविद्धं त्वयि तु भगवन्नब्धि विलसत्तरङ्गा द्योतन्ते न हि तु च भवांस्तद्गतगुणः (भगवान्स्तद्गतगुणः) ॥ ४०॥ स्वात्मानमानन्दमखण्डबोधमीशानमाद्यं जगतस्तस्थुषश्च । सर्वेन्द्रियानन्तगुणैर्विहीनं तत्सत्यमानन्दमजं महेश्वरम् ॥ ४१॥ त्वय्येवान्तः प्रविशति जगन्नामरूपैर्विचित्रं गतोपाधिद्वन्द्वं पवनरहिताब्धिप्रतिनिमे । यथा नद्यः सर्वान् शरणगतयः सागरमहो तथा नाम्ना रूपैः परमपुरुषे त्वय्यखिलदे ॥ ४२॥ यथोर्णनामिः सृजते तन्तुजालं जगद्विचित्रं सृजसि त्वमीश । अणोरणुस्त्वं महतो महीयान् अथापि च क्षत्रमथो नदन्ते ॥ ४३॥ वेदाहमेतं पुरुषं महान्तमादित्यवर्ण तमसः परस्तात् । ऋतं सत्यममृतं परं ब्रह्म धाम ज्ञानान्नान्यदस्तीह पन्थाः ॥ ४४॥ ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं नमाम्यहम् ॥ ४५॥ ये त्वा जगज्जगत्याहितं पदं यदेतद्विदुरमृतास्ते भवन्ति । त्वदज्ञानादिह जात्यादिधर्मैः निबन्धते जना दुःखिताः सदा ॥ ४६॥ ऋचो अक्षरे परमे त्वा महेशमलिङ्गमाकाशसधर्मकं विभुम् । त्वां यो न वेद किमृचा करिष्यति साम्नाऽथवा यजुषाथर्वणैर्वा ॥ ४७॥ हृदा पश्यन्ति मनसा मनीषिणो जानन्ति त्वां प्रथमं कवीनाम् । ब्रह्मैव तद्ब्रह्मण उज्जभार स्वाविद्यया संसरसे च मुच्यसे ॥ ४८॥ शुद्धं बुद्धमबुद्धिबोधजनकं बद्धैकमोक्षप्रदं सिद्धं साध्यगणाख्यविद्वशरकमात्मैक्ययोधे रतम् । ओङ्कारात्मककार्मुकं निजसुखामोदैकमुष्टिं ध्रुवं तं ब्रह्माखिलकोशकाशमनिशं शम्भुं परं धीमहि ॥ ४९॥ श्रद्दध्यान्न स जातु धीरहृदयो मामन्तको मारये- दित्युक्त्या गुरुवाक्यबोधजनितानन्दोज्झिताहङ्कृतिः । आत्मानं तमसः परं मृगयतां शीर्णेष्वशीर्णं सदा देहाक्षादिषु भूतभव्यगणनाकालेऽपि दृश्येऽपि च ॥ ५०॥ उद्गीथप्राणनामैर्मधुदहरपर्यङ्कतपनैः तथा वह्नीन्द्राद्यैः श्रुतिशिखरविद्योत्थसुपथा । अतः पारम्पर्यक्रममकृतवाक्येर्विधियुतैर्महेशाङ्गाबद्धैर्न भवति हि साक्षात् पराशवः ॥ ५१॥ चतुर्जालं कोशं तव च विहितं मृत्युरहितं शिरोधर्मस्तेऽद्य प्रतिसुरशरीरो विधिहनुः । तव ब्रह्म क्षत्रं भवति भगवन्नोदनभिदं यमस्तुपादंशः क इह वेत्ता गुणगणम् ॥ ५२॥ आयुर्दाता त्वमेव श्रुतिशिखरगतापारमाहात्म्यजाल एकस्त्वत्तोऽभिजातं जगदिदमखिलं स्रष्टुकामो विधिश्च । विश्वं चाप्येति चान्ते त्वयि तु भगवन्नायुषेऽहं प्रपद्ये मृत्योर्भीतः सदा त्वां घृतमधुकृतया धारया तर्पयानि ॥ ५३॥ नान्तःप्रज्ञमिदं तथा च न बहिःप्रञ्ज्ञं न नैवोभयं न प्रज्ञानघनं विशेषजनकं चानन्दबोधात्मकम् । अदृश्यं न ग्राह्यं शिवमभयभावादिरहितं असारं सारं तज्जनितभवभावादिकरणम् ॥ ५४॥ उत्फुल्लामलरक्तपद्मसमितं कोशासनोत्थप्रभं ज्योक् पश्येम विचित्रवर्णमधुना सौवर्णमत्यादरात् । उद्यन्तं भगवन्तमाशु तमसां नाशैककान्तिं सदा जीवेम प्रतिवासरं द्रविणदं त्वामाश्रिताः सर्वदा ॥ ५५॥ यतो ब्रह्मविष्णवीशरुद्रेन्द्रपूर्वा जगच्चापि नित्यं विभो सम्प्रसूताः । अहो ध्यायितेशानमध्ये हृदन्तर्महापद्मसद्मो भवव्योमगः शम्भुरीशः ॥ ५६॥ तमेवं विजानीयमात्मानमेकं किमन्याभिर्वार्ताभिर्दुस्तर्कजालैः । निसर्गो विसर्गो विभो दुःखवार्तां विमुञ्चन्तु मुञ्चन्तु दुःखैकतापम् ॥ ५७॥ ध्येयो महेशः श्रुतिजातकीर्तिः विशिष्टः शिवः शङ्करश्चादिकर्ता । समाप्तं शिखायास्तथा वाक्यजालं किमन्यत्र वाक्यादिशङ्कावकाशः ॥ ५८॥ न तत्र सूर्यः प्रतिभाति सोमो वह्निर्न ऋक्षाणि तथा हि विद्युत् । त्वद्भासनाद्भाति विचित्रमेतत् त्वं ज्योतिषां ज्योतिरसि प्रसिद्धः ॥ ५९॥ विश्वं हि भूतं भुवनं विचित्रमनेकधा जातमहो दिगीश्वरैः । न जायमानं विधिभिर्महेश रुद्रस्त्वमात्मन् भगवन् प्रसीद ॥ ६०॥ ईशानमाहुग्मृतस्य विष्पतिं त्वत्तेजः पादमिदं जगद्गतम् । (विशां पतिस्त्वं तेजसः) यतो विष्णुर्महिमा सम्बभूव ततो विराट् पुरुषश्च क्रमेण ॥ ६१॥ न कर्मणा न प्रजया धनेन न विद्यया तपसा वाऽपि शम्भो । चित्तस्य सङ्कल्पविकल्पजालत्यागेन त्वां संश्रयन्त्येव धीराः ॥ ६२॥ वेदान्तविज्ञानसुनिश्चितार्थाः सन्यासयोगाद्यतयो भक्तिभावाः । ते ब्रह्मणो लोकमवाप्य धीराः तस्यान्तकाले प्रविशन्ति च त्वाम् ॥ ६३॥ यस्मिन्निदं सञ्च विचैति सर्वं यस्मिन् देवा अधिविश्वे निषेदुः । तदेव भूतं तदु भव्यमाहुः तदक्षरं त्वां श्रुतयो वदन्ति ॥ ६४॥ त्वया वृतं खं च दिवं महीं च त्वयादित्यस्तपति तेजसेद्धः । अन्तः समुद्रे कवयो निचिक्युः त्वां दुर्दर्शं गूढमनुप्रविष्टम् ॥ ६५॥ दृष्ट्वाम्बिकोत्सङ्गगतं च बालं शूली भवल्लोलविलोचनान्तैः । स वज्रजम्भारिकरं महेश संस्तम्भयद्यो भुवनानि सप्त ॥ ६६॥ दहनपवनशक्रा यक्षरूपं महेशं तृणमपि च तदग्रे दग्धुमादातुमैच्छन् । निवृत्तभावा भगवन्तमारात् उमाप्रसादेन विदग्धमोहाः ॥ ६७॥ या चोमा भगवंस्तदेकवसतिर्यस्याः कृपालेशतो जातं विश्वमिदं विचित्रजनकं या सा स्वयं मोहयेत् । यां देवा मुनयोऽप्यमी स्तुतिशतैः स्तुत्वा त्वदीयं शुभं विज्ञानं समवाप्य मुक्तकरणा मुक्ति प्रयान्त्येव ते ॥ ६८॥ ईशानस्त्वं सर्वविद्यादिनाथस्त्वं वेदादौ स्वर एको महेशः । तस्य त्वं वै प्रकृतौ सम्प्रलीनः प्राणो देवः प्रणवस्त्वं महेश ॥ ६९॥ सदैव त्वा सन्तं न विदुग्मराः केवलमहो त्वमात्मा शक्रस्य प्रतिहतगुणो देव शतधा । चरस्येको नाडिष्वमितपरमानन्दमधुरो हृदा पश्यन्तीशं यमितकरणास्ते हि मनसा ॥ ७०॥ यो वै रुद्र इति श्रुतिः प्रतिपदं वक्ति त्वदीयांशकं चन्द्रेन्द्रानलभास्करा हरिविधिस्कन्दा गणानां पतिः । एवं त्वन्मयमेतदेव जगति तज्जादिशब्दैः स्तुतिः (श्रुतिः) निर्वक्ति प्रमथाधिनाथ सुतरां त्वां देवदेवं सदा ॥ ७१॥ वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । सर्वाणि रूपाणि सदैव शम्भो कृत्वाधितिष्ठस्यथ पद्मजेन ॥ ७२॥ स्तुतोऽसि सृष्ठिप्रथनाय चाग्रे इन्द्रेण चाशामधिपैश्च सर्वदा । ज्ञात्वा परे त्वां भवने वीतशोकाः नान्यः पन्था विद्यतेऽयनाय ॥ ७३॥ त्वन्मन्यवे करजातधनुःशरणां हेतिं तथैव शरधिं नमसां गणैश्च । वक्ति श्रुतिः प्रमथनाथ तवोरुभावं सर्वात्मकं बहुमयात् किल वेदवेद्य ॥ ७४॥ हिरण्यादिनामैः भवाद्यैश्च सोमैः शिवायेति च त्वां महेशं नतोऽस्मि । इन्द्रं मित्रं वरुणमनलं पङ्कजाज्जातमेकं नानारूपं हरिमिति मखे त्वां ह्वयन्तेऽध्वरेशम् ॥ ७५॥ तेषां तत्तच्छ्रुतिभिः परिपिबसि महासोममीशान तुष्टः । सार्धं कामैश्च पुष्णास्यखिलभवहरो ब्राह्मणान् सोमपूतान् ॥ ७६॥ त्वं वेदेषु प्रथितो विप्रवर्यो मनुष्योहं ब्रह्मणश्चाप्तकामः । तस्मात्सोमो ब्राह्मणानां हि राजा वेदेषु त्वं प्रथितश्चोपवीती । तस्माच्छ्रेयस्त्वत्पदाब्जं महेश ॥ ७७॥ द्वैधीभावैरनेकैः श्रुतशतविहितैः पूर्वपक्षैरनेक- र्नानादेहैस्त्वयीशे उपवसनपराः कल्पयन्त्यद्वितीयम् । देहैर्भूतेन्द्रियोत्थैर्जनिशतविततैः कर्मसङ्कल्पजातैः सर्वैर्भिन्ननस्त्वमात्मा भवसि श्रुतिगतैर्नेतिनेत्यादिवाक्यैः ॥ ७८॥ शुकिस्त्वं रजतं जगत्त्वयि सदा भातीदमत्यद्भुतं त्वज्ज्ञाने सनि भेदभानमखिलं त्वय्येव संलींयते । यस्मिन् ज्ञाते हि श्रुत्या मननपरिगता वादयुक्त्या गुरूक्त्या वेदान्तार्थैकसक्त्या त्वमसि भवशतोच्छेदकः साधकानाम् ॥ ७९॥ प्रज्ञानं ब्रह्म एवायमात्मा ब्रह्म पुच्छं प्रतिष्ठे- त्यहं ब्रह्मास्मीति श्रुतिशिखरगतैस्तत्वमस्यादिवाक्यैः । तत्त्वंशब्दार्थभेदव्यपगमनियता ये यतन्ते यतीन्द्रा- स्तेषां कोटीशतेषु त्वमसि भवशतोच्छेदकस्त्वन्तरात्मा ॥ ८०॥ तव ज्ञानमेकं भवच्छेदहेतुः श्रुतिश्चाह नान्यः पथेत्याह सत्यम् । भवद्भक्तिलभ्यं हि तद्ज्ञानमिष्टं न तत् श्रवणेनापि लभ्यं कदाचित् ॥ ८१॥ यद्वन्मद्यपपित्तचित्तमनिशं नाङ्गानि संवेत्त्यहो तद्वद्देहचतुष्टयं च मनसः सङ्कल्पचित्रोत्थितम् । त्वामानन्दघनं महोदधिमिव प्राप्तो यथा शीकरः नाम्ना रूपेर्विनष्टः स तु विधमनसा तद्ब्रह्म न ब्रह्मवित् ॥ ८२॥ त्वामात्मानमखण्डबोधसहजानन्दैकवृत्तिस्फुर- च्चिन्तावृत्तकथां च तत्र तनुते कर्पूरमग्निप्रभा । दग्ध्वा नाशमुपैति तद्वदधुना चित्तं महाकामदं सा वृत्तिः परमार्थदान निपुणा तद्ब्रह्म न ब्रह्मवित् ॥ ८३॥ न मुक्तिर्न बन्धोऽद्य ईशान शम्भो न चापारवेदान्तमार्गः कुतो ना । न भेदो न चाद्वैतगन्धादिलेशो नचाज्ञानविज्ञानशङ्का कृतो वा ॥ ८४॥ अहं विश्वं सर्वं भुवनमधुना वेदवचसा गुरूक्त्या त्वद्भक्त्या अभवमखिलानन्दकुहरः । अहो सत्यारत्निप्रमितमतिदेहादिषु मुधा अहं मानापन्नो भवशतजसङ्कल्पशगः ॥ ८५॥ शून्ये वा विपिने महागिरितटे सामानि गायन्नसौ आहावुहावु इति त्रिरुन्नतपदं तत्वम्पदैर्वर्जितः । जातानन्दभरः स एव त्वमसि तद्ब्रह्म न ब्रह्मवित् लिङ्गान्मे स विनृत्यति प्रतिदिनं कौतूहलैरन्वितः ॥ ८६॥ यदाकाशकोशं जगच्चक्षुयुक्तं विभृढ यदा चर्मवद्वेष्टयन्ति । तदा त्वां महेशं ह्यविज्ञाय दुःखैर्विमुक्ता भविष्यन्ति सत्यं त्रिसत्यम् ॥ ८७॥ एवं सदात्मानमसंशयेन यो वेत्ति धीरः श्रुतितर्कयुक्त्या । स त्वामनु त्वं तमनुप्रविष्टः तस्यैव शान्तिर्नेतरस्याऽऽह वेदः ॥ ८८॥ भवत्प्रसादलेशतः सुजात वेदवाक्यतः भवन्ति जन्मनिर्वृता न बोधतः परं पदम् । न वेदान्तबोधैर्न चापारवाक्यैः गुरूकत्यादिसिद्धान्तराद्धान्तवाक्यैः ॥ ८९॥ श्रुतिश्रावणैः शास्त्रवार्तादिगर्तेः महावर्तजातैः शिरोभ्रान्तिभूतैः । अगन्धमस्पर्शमरूपमद्भुतमणोरणुं त्वां महतो महान्तम् ॥ ९०॥ एवं त्वमज्ञातुमशक्तभावाः उमासहायादिगुणैर्भजन्ति । अलिङ्गलिङ्गं परमीशितारमात्मानमानन्दमगाधबोधम् ॥ ९१॥ तथापि लिङ्गेषु समर्चयन्ति बिल्वीदलैः कोमलपल्लवैस्त्वाम् ॥ ९२॥ ॥ इति शिवरहस्यान्तर्गते वामदेवकृतोपनिषत्स्तुतिनिरूपणम् ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः २६॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 26.. Notes: The composition addressed to Shiva by Rishi Vamadeva, is based on words and concepts from various Upanishads. Rishi Vamadeva is the son of Rishi Gautama. He is the seer of a large part RigVeda Mandala IV, and is also mentioned in the Upanishads. The shloka numbers have been maintained per the source text. Proofread by Ruma Dewan
% Text title            : Vamadevakritopanishatstutinirupanam
% File name             : vAmadevakRRitopaniShatstutinirUpaNam.itx
% itxtitle              : upaniShatstutinirUpaNam vAmadevakRitam (shivarahasyAntargatA)
% engtitle              : upaniShatstutinirUpaNam vAmadevakRitam
% Category              : shiva, shivarahasya, stuti, upanishhat
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 26||
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org