वीरेश्वरस्तुतिः - १

वीरेश्वरस्तुतिः - १

॥ वीरेश्वरस्तुतिः - १ - गौरीमनोरमणभजनस्तोत्रम् ॥ मन्मानसं भव भवच्चरणार्चनाय तावत्प्रसूनमिदमस्तु शरीरमस्य । धूपाय नित्यमसवोऽप्युपहारयोग्याः चक्षूंषि दीपकलिकाफलतां प्रयान्तु ॥ १॥ यद्यन्मदीयमनघं वसु चन्द्रमौले तत्तत्तवैव पदपूजनयोग्यमस्तु । स्वामिन् त्रिनेत्र मम गात्रमिदं पवित्रं लिङ्गार्चनाय भगवन्ननुकूलमस्तु ॥ २॥ धीरैस्सहारसुकुमारकुमारदारैः साकं निराकुलमुमारमणार्चनेन । कालं नयामि विमलैः कमलाविलासैः श्रीकालकाल सकलैः सकलैरलं मे ॥ ३॥ जन्मानि सन्तु शतशोऽथ सहस्रशो वा किं तावताऽपि यदि भक्तिरुमासहाये । धन्यानि तानि सकलानि तदेति मन्ये धन्यं त्रिलोचनकृपैकविधानभूतम् ॥ ४॥ मत्प्रार्थनीयमिदमेव भवत्पदाब्जभक्तिर्भवत्पादसरोरुहपूजनाय । तेनैव मे सकलसिद्धिपरम्परा स्यात् एतावदेव मम देयमपि त्वयापि ॥ ५॥ भक्तिर्भवे प्रतिभवेऽपि विरक्तिरर्थे शक्तिर्गिरीशनगमनेऽनुरक्तिः । लिङ्गार्चने रतिरनङ्गहरे प्रवृत्तिः बिल्वार्चने मतिरुमेशकथासु मे स्यात् ॥ ६॥ अद्यावधि प्रलयकालमहावसानपर्यन्तमन्तकरिपुत्रिपुरान्तकाख्या । नृत्यं करोतु रसनारुचिराङ्गणे मे श्रीशूलपाणिचरणे करवाणि वाणीम् ॥ ७॥ यागैरलं सकलयोगकुलैरलं मे दानैरलं परिमलैः कमलाविलासैः । अन्यैश्च धर्मनिकरैः सुकरैरपारे गौरीमनोरमण ते चरणौ भजामि ॥ ८॥ भाग्यैरलं बहुविधैर्निधिकोटिभिर्वा मातङ्गकोटिभिरलं कमलाविलासैः । गोकोटिकोटिभिरलं महिषीकुलैर्वा गौरीमनोरमण ते चरणौ भजामि ॥ ९॥ गर्भेऽर्भकत्वसमयेऽपि विवेकशून्यः त्वत्पादपद्मविमुखः कुमुखः कठोरः । तत्तावदीशकृपया न पुनर्ममास्तु गौरीमनोरमण ते चरणौ भजामि ॥ १०॥ पौगण्डमण्डिततनुव्यसनप्रहर्षवर्षाभियोगमभिभोगमपि प्रपद्य । भक्त्या स्मृतोऽपि भगवन् न मया जडेन गौरीमनोरमण ते चरणौ भजामि ॥ ११॥ सोन्मादयौवनवनोपहतेन तेन नाराधितोऽसि न मनागपि कीर्तितोऽसि । तत्तावदीश्वर पुनर्न ममास्तु मास्तु गौरीमनोरमण ते चरणौ भजामि ॥ १२॥ नारीमनोहरविहारपराभिभूतचित्तेन तावदसकृन्न नमस्कृतोऽसि । तन्मास्तु मास्तु हर मास्तु कदापि मास्तु गौरीमनोरमण ते चरणौ भजामि ॥ १३॥ वित्तार्जनाय बहुदेशविनाशदोषव्यापारपूरिततनुर्न तदा कदाऽपि । अभ्यर्चितोऽपि हि मया तदपास्यमेव गौरीमनोरमण ते चरणौ भजामि ॥ १४॥ दारोरुहारपरिहारविहारकारकारानुकारकरणेन वयोऽपि नीतम् । तेनालमेव हरहारभयापहारं गौरीमनोरमण ते चरणौ भजामि ॥ १५॥ हारप्रवीरपरमादरतो हरारं हारं सहारमनुवारमपि स्मरामि । नाद्यापि हारचिरसङ्गतिराविरासीत् गौरीमनोरमण ते चरणौ भजामि ॥ १६॥ मारोपकारकशरप्रवरप्रहारसंहारभीरुदरुणीचरणोपघातैः । नीतं दिनं प्रतिदिनं शमनं न मेने गौरीमनोरमण ते चरणौ भजामि ॥ १७॥ संसारसागरविचारविदूरगर्ते वृत्तिर्न वृत्तिरपि हारमनोहरेषु । हारोपहारकरणेऽपि न मे प्रवृत्तिः गौरीमनोरमण ते चरणौ भजामि ॥ १८॥ मन्दारकुन्दनवबिल्वदलप्रवालवल्लीदलैरपि न लिङ्गसमर्चनाय । यत्नः कृतः क्रतुशतादिकधर्मजालैः गौरीमनोहरण ते चरणौ भजामि ॥ १९॥ अङ्गारसागरशरीरविकारभार संहार मारहर हारविचारहीनः । दैनन्दिनप्रलयसंहरणप्रवीण गौरीमनोहरण ते चरणौ भजामि ॥ २०॥ मामेव मामकधिया परिपश्य पश्यका तावतापि तव तात वतातिहानिः । त्वं दीनबन्धुरिति किं श्रुतिषु श्रुतोऽपि गौरीमनोहरण ते चरणौ भजामि ॥ २१॥ ॥ इति शिवरहस्यान्तर्गते वीरेश्वरस्तुतिः - १ - गौरीमनोरमणभजनस्तोत्रं सम्पूर्णम् ॥ बृहस्पतिशतानन्दसंवादे वीरेश्वरस्तुतिवर्णनं - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४७। १९-३९॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 47. 19-39.. Proofread by Ruma Dewan
% Text title            : Vireshvara Stuti - 1
% File name             : vIreshvarastutiH1.itx
% itxtitle              : vIreshvarastutiH 1  gaurImanoramaNabhajanastotram (bRihaspatishatAnandasaMvAde shivarahasyAntargatA)
% engtitle              : vIreshvarastutiH 1
% Category              : shiva, stuti, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 47| 19-39||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org