स्कन्दप्रोक्तं वेदरहस्यकथनम्

स्कन्दप्रोक्तं वेदरहस्यकथनम्

कालकालो महादेवः कालावच्छेदवर्जितः ॥ १९॥ कालावच्छेदयुक्तानां ब्रह्मविष्णुहरात्मनाम् । इन्द्रादीनाम्मुनीनाञ्च ग्रहाणाञ्चऋषेस्तथा ॥ २०॥ सप्तर्षिणाञ्चसिद्धानां पितृणाञ्च सनातनः । भूतानाञ्चभविष्याणां साम्प्रतानाञ्च शङ्करः ॥ २१॥ करोतिसृष्टिन्नाशञ्चस्थितिङ्कालस्यकल्पनाम् । मायाभिर्मोहितानाञ्च ब्रह्मविष्णुहरात्मनाम् ॥ २२॥ शरीराणिप्रविश्यैवकरोतीदञ्चराचरम् । स एव सर्वभूतानां प्राणानादायोदेति च ॥ २३॥ स एव सर्वभूतानां प्राणानादायास्तमेति च । स्त्त्र्यन्नपानोपभोगैश्च तत्तद्देहेषु सर्वदा ॥ २४॥ परां प्रीतिं वितनुते जडेष्वजड ईश्वरः । स एव जाग्रदाद्यासु ह्यवस्थास्वपि शङ्करः ॥ २५॥ अवस्थारहितश्चायं सर्वेष्वन्तर्गतस्थितिः । स एव जाग्रद्भूतेषु स्वपित्येको महेश्वरः ॥ २६॥ स एवानन्दमूर्तिहि तस्यानन्दैकलेशतः । प्रियात्मकं जगज्जालं कुरुते दुःखदायकम् ॥ २७॥ असत्यमेतच्चजडं स्वसत्यात्सत्यवत्स्थितः । करोति च जडं सर्वं चेतनानां सचेतनः ॥ २८॥ असङ्गोऽपि सदा भाति जगत्स्वेतेषु शङ्करः । समवानपि विश्वेशश्शिवस्सर्वान्तरङ्गतः ॥ २९॥ (सङ्गवानिव विश्वेशोऽसङ्गस्सर्वान्तरङ्गकः) ॥ २९॥ बुद्धेर्बोधयिता मन्ता मनसश्च गतागतिः । अप्राणः प्राणरूपेण ह्याकाशादपि चोत्तरः ॥ ३०॥ ब्रह्म ब्रह्ममयो भाति शिव एवं सनातनः । न तस्य करणं कार्यं न क्रिया परमार्थतः ॥ ३१॥ शीर्णेषु देहजालेषु ह्यशीर्णस्सर्वदा स्थितः । विकारभूते जगति निर्विकारतया स्थितः ॥ ३२॥ न नश्यन्न च सीदानो शिव एव हि केवलः । (नसन्दृशे रूपमस्य शिव एवेति केवलः ।) गुहाहितो निरिच्छोहि सदा भेदविवर्जितः ॥ ३३॥ कारणं कारणानाञ्च महान्हि तमसः परः । यस्माद्ब्रह्मेन्द्रविष्णवाद्या रुद्रास्सर्वे मरुद्गणाः ॥ ३४॥ सम्प्रसूता महादेवान्न ततोऽस्त्यधिकः परः । यस्य निश्वसितं वेदा नानाशाखाविभूषिताः ॥ ३५॥ यस्य ज्ञानेन सर्वेषां मुक्तयस्सर्वतो द्विजाः । स सन्तरति संसारमसारं भयदायकम् ॥ ३६॥ सरसोऽयं यद्रसेन जगद्रसमयं भवेत् । स एव ज्योतिषाञ्जयोतिस्स चक्षुस्स तपो महत् ॥ ३७॥ स भूमा केवलानन्दस्स बोधः केवलं शिवः । स एव स्थूलमनणू रुद्रो विश्वार्तिनाशकः ॥ ३८॥ निरिन्द्रियश्चेन्द्रियाणां गतिश्शास्ता महेश्वरः । निराभासो निरासङ्गो विश्वभासप्रवर्तकः ॥ ३९॥ सर्वं तस्मिन्महादेवे जगद्ब्रह्मणि लीयते । (सर्वं तस्मिन्महादेवे जगद्ब्रह्मपिपीलिकम् ।) विभाति मायया साक्षात्तस्मिन् ज्ञाने मुनीश्वराः ॥ ४०॥ सर्वं शिवतया भाति प्रसादेन महेशितुः । स षोडशात्मा पुरुषो नेह नानास्ति किञ्चन ॥ ४१॥ विकारमेतत्सर्व हि अविकारे विकारितम् । तस्यैव तपसा ध्यानात्तलिङ्गार्चनतोद्विज ॥ ४२॥ सर्वं शोकं तरत्येव नात्रकार्या विचारणा । भिद्यन्ते ग्रन्थयस्सर्वा एकत्वेनानुपश्यतः ॥ ४३॥ तमात्मानं महादेवं विश्वाकारतया स्थितम् । वह्निर्वायुर्जलं क्ष्मा च विद्यते तन्महेश्वरः ॥ ४४॥ (वह्निर्वायुर्जलं क्ष्मा च वियदेतद्महेश्वरः) ॥ ४४॥ एतेषामानुलोम्येन प्रातिलोम्येन सृष्टयः । सञ्जाता अत्र लीनाश्च तस्मिन्नेव महेश्वरे ॥ ४५॥ तस्माद्भूतानि जातानि तत्र जीवन्ति तान्यपि । तस्मिन्नेत्रवलयंयान्ति ईशसंस्थञ्चराचरम् ॥ ४६॥ ईशावास्यमिदं सर्वं तस्मिन्त्सर्वं प्रवर्तते । (ईशावास्यमिदं दृश्यं यस्मिन्सर्वं प्रवर्तते ।) एवं यो वेदवेदान्तैः प्रसादात्परमेश्वरात् ॥ ४७॥ गुरोश्च (गुरूक्त्य) श्रद्धया चैव सर्वज्ञस्स च शाम्भवः । समुनिस्सशिवश्चापि स शिवज्ञानवित्तमः ॥ ४८॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये स्कन्दप्रोक्तं वेदरहस्यकथनम् ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ४७ - वेदरहस्यकथनम् । १९.२-४८॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 47 - vedarahasyakathanam . 19.2-48.. Notes: Skanda स्कन्द narrates the Essence of Śivatattva शिवतत्त्व as in the Mystery of Veda-s (Vedarahasyam वेदरहस्यम्), that was enunciated by Mahādeva महादेव to Devī देवी. Encoded and proofread by Ruma Dewan
% Text title            : Skandaproktam Vedarahasyakathanam
% File name             : vedarahasyakathanamskandaproktaM.itx
% itxtitle              : vedarahasyakathanam skandaproktaM (shivarahasyAntargatA)
% engtitle              : vedarahasyakathanam skandaproktaM
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 47 - vedarahasyakathanam | 19.2-48||
% Indexextra            : (Scans 1)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org