विष्णुकृतं शिवस्तोत्रम् १
विष्णुरुवाच -
महेशानन्ताघत्रिगुणरहितामेय विमल
स्वराकारापारामितगुणगणाकार गिरिश ।
निराधाराधारामरवर निराकार परम
प्रभापूराकारावरपर नमोऽवेद्य शिव ते ॥ ५१८॥
नमो वेदावेद्याखिलजगदुपादाननियत
स्वतन्त्रा सामन्ता नव धृत निकाराकारविरते ।
निवर्तन्ते वाचः शिवमजरमप्राप्य मनसा
यतोऽशक्तास्स्तोतुं सकृदपि गुणातीत शिव ते ॥ ५१९॥
त्वदन्यं(द्)वस्त्वेकं न हि भुवि समस्तं न भवतो-
विभिन्नं विश्वात्मन् न च परममस्त्वीश भवतः ।
ध्रुवं मायातीतस्त्वमसि सततं नात्र विशयः
कृतं कृत्यं किञ्चित्क्वचिदपि नमो वास्तु शिव ते ॥ ५२०॥
(त्वमेवर्दंलो) त्वमेवेदम्लोके निखिलममलं व्याप्य सततं
तथैवान्यं लोकं स्थिमनघ देवोत्तम विभो ।
त्वयैवैतत्सृष्टं जगदखिलमीशान भगवन्
विलासोऽयं कश्चित्तव शिव नमोऽमेय शिव ते ॥ ५२१॥
जगत्सृष्टं पूर्वं शिवयदिदमुमाकान्त सततं
त्वया लीलामात्रात्तदपि सकलं रक्षितमभूत् ।
तदेवाग्रे भालप्रकटनयनाग्न्यद्भुतकणैः
स्वयं दग्ध्वा स्थास्यस्यज हर नमोऽवेद्य शिव ते ॥ ५२२॥
विभूतीनामन्तो भव न भवतो भूतिविलस-
न्निजाकार श्रीमन् न तव गुणसीमाप्यवगता ।
अतद्वयावृत्त्याद्य त्वयि सकल वेदाश्च चकिताः
भवन्त्येवासामप्रकृतिग नमो वर्ष्य शिव ते ॥ ५२३॥
विराड्रूपं यत्ते सकलनिगमागोचरभभू-
त्तदेवं रूपं ते भवति किमिदं भिन्नमथवा ।
न जाने देवेश त्रिणयन सुराराध्यचरण
त्वमोङ्कारो वेदस्त्वस्मसि हि नमोऽघोर शिव ते ॥ ५२४॥
यदन्तस्त्वज्ञानान्मुनिवरगणा रूपमनघं
तदेवं सञ्चिन्त्य स्वमनसि सदा सङ्गविहिताः ।
ययुर्दिव्यानन्दं तदिदमथवा किन्तु न तथा
किमेतज्जानेऽहं शरणमगमं शर्व शिव ते ॥ ५२५॥
यया शक्त्या सृष्ट्वा जगदथ च संरक्ष्य बहुधा
ततः संहृत्यैतन्निवससि तदाधारमथवा ।
इदं ते किं रूपं निरुपम न जाने हर विभो
निसर्गः कोवा ते तमपि हि नमो भव्य शिव ते ॥ ५२६॥
तवानन्तान्याहुः शुचिपरमरूपाणि निगमा-
स्तदन्तस्थं यत्तत्सदसदनिरुक्तं स्थिरमपि ।
निरुक्तं छन्दोभिर्निलयनमिदं चा निलयनं
न विज्ञातं ज्ञातं सकृदपि नमो ज्येष्ठ शिव ते ॥ ५२७॥
तवाभूत्सत्यत्वानृतमपि च सत्यं कृतमभूत्
ऋतं सत्यं सत्यं कृतमुभयथारूपकमलम् ।
यतः सत्यं सत्यं सममपि समस्तं तव विभो
अतः सत्यं सत्यं कृतमपि नमो रुद्र शिव ते ॥ ५२८॥
तवाहारं हारं विदितमपि हारं विहरसे
नवाहारं हारं हरसि हर हारं न हरसि ।
नवाहारं हारं परतरविहारं परतरं
परं पारं जाने न हि नहि नमो विश्व शिव ते ॥ ५२९॥
यदेतत्तत्त्वं ते सकलमपि तत्त्वेन विदितं
न तत्तत्त्वं तत्त्वं विदितमपि तत्त्वेन विदितम् ।
न चैतत्तत्त्वं चेन्नियतमपि तत्त्वं किमु भवे-
न्न ते तत्त्वं तत्त्वं परतर नमो धिष्ण्य शिव ते ॥ ५३०॥
इदं रूपं रूपं सदसदमलं रूपमिति चे-
न्न जाने रूपं तत्तरतमविभिन्नं पदतरम् ।
यतो नान्यद्रूपं निरतमपि वेदैर्निगदितं
न जाने सर्वात्मन् क्वचिदपि नमोऽनन्न शिव ते ॥ ५३१॥
महत्द्भूतं भूतं यदपि च भूतं तव विभो
सदा भूतं भूतं किमुत भवतो भूतविषयैः ।
यदा भूतं भूतं भवति च न भूतं च भवतु
प्रभाभूतं भूतं भवति हि नमो यष्ट शिव ते ॥ ५३२॥
वशीभूता भूताः सतमपि भूतात्मकतया
न भूता भूतास्ते तव यदपि भूता विभुतया ।
यतो भूता भूतास्तव तु न हि भूतात्मकतया
न वा भूता भूता क्वचिदपि नमो भूत शिव ते ॥ ५३३॥
न ते माया माया सततमपि मायामयतया
ध्रुवं माया मय्या त्वयि वर न मायामयमपि ।
यदा माया माया न खलु-सा माययतया
न माया माया या परमियमतस्ते शिवमया ॥ ५३४॥
यदन्तः संवेद्य विदितमपि वेदैर्न विदितं
न वेद्यं वेद्यं चेन्नियतमपि वेद्यं न विदितम् ।
तदेवेदं वेद्यं विदितमपि वेदान्तनिकरैः
करावेद्यं वेद्यं जित मिति नमोऽतर्क्यं शिव ते ॥ ५३५॥
शिवं शैवं भावं शिवमपि शिवाकारमशिवं
न सत्यं शैवं तच्छिवमिति शिवं शैवम निशम् ।
शिवं शान्तं मत्वा शिवपरमतत्त्वं शिवमयं
न जाने तत्तत्त्वं शिवमिति नमोऽभेद्य शिव ते ॥ ५३६॥
यदज्ञात्वा तत्त्वं सकलमपि संसारपतितं
जगज्जन्मावृत्तिं वहति सततं दुःखनिलयम ।
तदेतज्ज्ञात्वैवावहति च निवृत्तिं परतरां
न जाने तत्तत्त्वं परमिति नमो रेष्म्य शिव ते ॥ ५३७॥
तवेदं यद्रूपं निगमविषयं मङ्गलकरं
न दृष्टं केनापि ध्रुवमिति विजाने शिव विभो ।
ततश्चित्ते शम्भो नहि मम विशदेऽतोद्यविकृतिः
प्रयत्नाल्लभ्येऽस्मिन्न किमपि नमः पूर्ण शिव ते ॥ ५३८॥
तवाकर्णं गूढं यदपरमचक्षुः श्रुतिपरं
तदेवापादं सन्नयनपदवीं नाव तनुते ।
(कदा) कदाचित्किञ्चिद्वा स्फुरतु कृपया चेतसि तव
स्फुरद्रूपं भव्यं भवहर नमो नाद्य शिव ते ॥ ५३९॥
त्वमिन्दुर्भानुस्त्वं हुतभुगसि वायुश्च सलिलं
त्वमेवाकाशोऽसि क्षितिरसि तथात्मासि भगवन् ।
ततः सर्वाकारस्त्वमसि भवतो भिन्नमणु च
न तत्सत्यं सत्यं त्रिणयन नमोऽनन्त शिव ते ॥ ५४०॥
विधुं धत्त्से नित्यं शिरसि मृदु कण्ठेऽपि गरलं
नवं नागा हारा भसितममलं भासुरतनौ ।
करे शूलं भाले ज्वलनमनिशं तत्किमिति ते
न तत्त्वं जानेऽहं भवहर नमः कूप्य शिव ते ॥ ५४१॥
तवापाङ्गस्यन्दो यदि भवति भव्यः शुभकरः
कदाचित्कस्मिंश्चिल्लघुतरनरेऽपि प्रभवति ।
स एवैतल्लोकान् विरचितुमल्पोऽपि स महान्
कृपाधारायत्तो सुखकर नमोऽनन्त शिव ते ॥ ५४२॥
भवन्तं देवेशं शिवमितरगीर्वाणसदृशं
प्रमादाद्यः कश्चिद्यदि वदति चित्तेऽपि मनुते ।
स दुःखं लब्ध्वाऽन्ते नरकमपि याति ध्रुवमिदं
ध्रुवं दैवाराध्यामितगुण नमोऽनन्त शिव ते ॥ ५४३॥
प्रदोषे रत्नाढ्ये मृदुलतरसिह्मासनवरे
भवानीमारूढामसकृदपि संवीक्ष्य भवता ।
कृतं सम्यङ् नाट्यं प्रथितमिति वेदोऽपि वदति
प्रभावः को वाऽयं तव हर नमो दीप्य शिव ते ॥ ५४४॥
श्मशाने सञ्चारस्तव किल न ते क्वापि गमनं
यतो विश्वं व्याप्याखिलमपि सदा तिष्ठति भवान् ।
विभुं नित्यं शुद्धं शिवमयमतो व्यापकमिति
श्रुतिः साक्षाद्वक्ति स्वयमपि नमः सूद्य शिव ते ॥ ५४५॥
धनुर्मेरुः शेषोऽप्यथ वरगुणो यानमवनि-
स्तवेनेन्द्र चक्रे निगमनिकरा वाजिनिकराः ।
पुरो लक्ष्यं यन्ता विधिरिषुरहं चेति निगमः
किमेवं त्वय्येषो निगदति नमः पर्ण्य शिव ते ॥ ५४६॥
मृडं सत्त्वोपेतं भवमनतिरिक्तं च रजसा
तमोयुक्तं शुद्धं शिवमपि शिवं निष्कलमिति ।
वदत्येषो (वं) वेदस्त्वमसि तदुपास्यं ध्रुवमिदं
त्वमोङ्काराकारो ध्रुवमिति नमोऽनन्त शिव ते ॥ ५४७॥
जगत्सुप्तिं बोधं व्रजति भवतो निर्गतमपि
प्रवृत्तिं व्यापारं पुनरपि सुषुप्तिं च सकलम् ।
त्वदन्यं त्वत्प्रायं व्रजति शरणं नेति निगमो
वदत्यद्धा सर्वं शिवमिति नम स्तुत्य शिव ते ॥ ५४८॥
त्वमेको लोकानामधिपतिरुमानाथ जगतां
शरण्यः प्राप्यस्त्वं जलनिधिरिवानन्तपयसाम् ।
त्वदन्यो निर्वाणं न वितरति निर्वाणपतिर-
प्यतः सर्वोत्कृष्टस्त्वमसि हि नमो नीप्य शिव ते ॥ ५४९॥
तवैवांशो भानुस्तपति विधुरप्येति पवनः
पवत्येषो वह्निर्ज्वलति सलिलं चापि वहति ।
त्वदाज्ञाकारित्वं सकलसुरवर्गस्य सततं
त्वमेकःस्वातन्त्र्यं वहसि हि नमोऽनन्त शिव ते ॥ ५५०॥
स्वतन्त्रोऽयं सोमः सकल भुवनैकप्रभुरयं
नियन्ता देवानामयमिह नियन्ताऽस्य न परः ।
शिवःसिद्धोऽपायाद्रहित इति वेदोऽपि वदति
स्वयं त्वामाशास्यं भयहर नमो रथ्य शिव ते ॥ ५५१॥
नमो रुद्रानन्तानघ हर नमः श्रीधर विभो
नमो गौरीनाथ त्रिणयन शरण्याङ्घ्रिकमल ।
नमः शर्व श्रीमन्ननघमहदैश्वर्यनिलय
स्मरारे पापारे जय जय नमः शोच्य शिव ते ॥ ५५२॥
महादेवामेयानघगुणगणग्राम सततं
नमो भूयोः भूयः पुनरपि नमस्ते पुनरपि ।
पुराराते शम्भो पुनरपि नमस्ते शिव शिव
नमो भूयोभूयः शिव शिव नमोऽनन्त शिव ते ॥ ५५३॥
कदाचिद्गण्यन्ते निबिडनिपतद्वृष्टिकणिकाः
कदाचिन्नक्षत्राण्यपि सिकतलेशाः कुशलिभिः ।
अनन्तैराकल्पं शिवगुणगणांश्चारुरसनै-
र्नशक्यन्ते नूनं गणयितुमुषित्वापि सततम ॥ ५५४॥
मयाऽविज्ञायेशानिशमपि कृता ये तु मनसा
सकामेनामेयाः सततमपराधा बहुविधाः ।
त एव (त्वयैव) क्षन्तव्याः क्वचिदपि शरीरेण वचसा
कृता नैते नूनं शिव शिव कृपासागर विभो ॥ ५५५॥
प्रमादाद्येकेचिद्विततमपराधा विधिहता
कृताः सर्वे तेऽपि प्रशममुपयान्तु स्पुटतरम् ।
शिव श्रीमन् शम्भो शिव शिव महेशेति च जपन्
क्वचिल्लिङ्गाकारे शिव हर वसामि स्थिरतरम् ॥ ५५६॥
॥ इति शिवरहस्यान्तर्गते विष्णुकृतं शिवस्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १० । ५१८-५५६॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 10 . 518-556..
Proofread by Ruma Dewan