श्रीव्याघ्रालयेशशतकम्
चित्रं कालस्य शक्त्या प्रशिथिलभुवनैश्चर्यभूम्ना समिन्धे-
यत्र त्रैलोक्यनाथः पथि पथिकजनाराधनार्थं कपाली ।
पुत्रः श्रीषण्मुखश्चोत्तरभुवि भगवान् वासुदेवश्च शैवं
सत्रं किं वर्ण्यते तच्चिवशिव शिवलोकायते व्यग्रदेशः ॥ १॥
सङ्केते योजनाभिस्तिसृभिरभिमिते शङ्करस्य प्रसिद्धे
सन्त्यद्यापि प्रतिष्ठाः शतमखहरमष्टोत्तरं देवतानाम् ।
सङ्ख्या नास्ति द्विजानां सदनमिह सहस्त्राधिकं यत्र सर्वे
सन्तुष्यन्त्याशु तं द्रागखिलभयहरं व्याघ्रदेशं प्रपद्ये ॥ २॥
आस्ताञ्चोरारिराजग्रहपरिभवभीरन्तकस्याप्यशङकं
शास्ता यत्रास्ति संवत्सरभजनमृते मण्डलेनापि चित्रम् ।
भक्तानां भुक्तिमुक्ती वितरति भगवानाशुतोष्यस्तमेतं
भक्त्या वैयाघ्रदेशं वयमपि शरणं प्राप्नुमो वाञ्छिताप्त्यै ॥ ३॥
शिष्टा यं यान्ति दिश्यः दिग्भ्यः स्वयमपि च यतो हन्त धावन्ति दिष्टया
दुष्टाः सर्वेऽपि तस्मादभयदमनिशं व्याघ्रदेशं शरण्यम् ।
पुष्टं सम्प्राप्य शम्भुं शरणमुपगतोऽस्मीश्वरस्य प्रसादात्
कष्टे कालेऽप्यकस्मात् कलयति करुणां केषुचित् कामवैरी ॥ ४॥
वन्दे वर्णानशेषान् परतरभगवद् ग्रामगानाश्रमान् वा
वन्धान भक्तानभक्तानजमृगगजगोपक्षिसर्पादिजन्तून् ।
पुण्यानप्यग्रहारानखिलमठगणानापणान् वृक्षपङ्क्तिं
तृण्यां च व्याघ्रगेहत्रिनयनकृतसान्निध्यसङ्केतरूढाम् ॥ ५॥
मा भृन्मे जन्मभूमौ मम यदि मरणानन्तरं व्याघ्रदेशे
शोभातोतत्रिलोके भवतु भगवतो धाम्नि मानुष्यमास्ताम् ।
जीवोऽयं जङ्गमत्वेऽप्यनतिरतिरिह स्थावरत्वेऽपि जनन्मी
देवैरप्यर्च्यते तद्विदुरजविदुरव्यासवाल्मीकिमुख्याः ॥ ६॥
पष्याम्यन्तः पवित्रं परमपशुपतिस्थानमानन्द भूम्ना
विश्वं विस्मृत्य लीये विमलतरपरब्रह्मसायुज्यसौख्ये ।
नश्यत्त्राये समाधौ नगवरतनयावल्लभे भक्तिमैत्री-
विश्वासान् प्रार्थये प्राञ्जलिरहमनिशं व्याघ्रगेहेश ईशे ॥ ७॥
यत्र त्रैलोक्यनाथत्रिनयनभगवन्नित्यसान्निध्ययोगात्
सत्रं सान्द्रं समस्तास्सुरसुरमुनयो मानुषीभूय यात्वा ।
धन्यैः सर्वैर्मनुश्यैः सहचरभजनं कुर्वते सर्वलोकाः
मन्ये यान्तीश्वरस्योदर इव सततं व्याघ्रगेहे च चित्रम् ॥ ८॥
ब्रह्मण्यास्तिक्यसत्यार्जवविनयदयौदार्यदाक्षिण्यभाजां
साम्योनस्थानमानस्वजनधनवतां व्याघ्रदेशद्विजानाम् ।
योगो योग्येऽत्र पात्रे कलयतु करुणामर्थिने नीवृदन्त-
र्भागे भाग्यैकलभ्ये दिशतु च शरणं नीलकण्ठोपकण्ठे ॥ ९॥
योगे यः सज्जनानां त्रिजगति महतां व्याघ्रदेशद्विजानां
योगे यः सम्यगिन्धे रजनिकर इव व्योमदेशद्विजानाम् ।
भागेनेशो यदात्मा भवति स भगवत्कार्यकर्तैहिकान् मे
भोगान् पुष्णातु शोणाचलनिलयमहादेवदेशद्विजन्मा ॥ १०॥
भस्मव्यालिप्तभक्तावलिपरिकलितस्नानपानादिपूते
यस्मिन् स्नाता नरौघा यमपुरगमनं यातनाद्यं च हित्वा ।
सेवन्ते व्याघ्रगेहाधिपपरमशिवं प्राप्य सारूप्यवन्तो
देवन्ते तत्र नित्यं भवतु भवतटाकोत्तमे मज्जनं मे ॥ ११॥
विश्वव्याप्तं विरिश्चादिभिरपि विचितं तत्त्वमत्यन्तशुद्धं
शश्वच्छान्तं शशाङ्काङ्कितमतिधवलं दृष्टवान्यस्य मूले ।
विश्वामित्रप्रभावः शिव शिव भगवान् व्याघ्रपादः स भास्वः
नश्वत्थोऽस्माकमंहो हरतु हरिहरब्रह्ममुख्यामरात्मा ॥ १२॥
यच्छाया पादभाजां हरति भवपरीतापमध्वश्रमान्तं
तुच्छो वृक्षस्तुषारो मरुदपि कुरुते यस्य वेदिं पवित्राम् ।
अच्छामारुह्य लोकस्त्यजति परमधःपातशङ्कां स मुक्त्या-
मिच्छामीशस्य शाखी दिशतु मम महान् व्याघ्रगेहान्तगाही ॥ १३॥
मूलं पाताललोके मुनिभिरपि नुतं सत्यलोके किलाग्रं
भूलोके मध्यमात्रं मणिकटकदृढं दृश्यते यस्य पीनम् ।
सेवारोहावरोहानसुरसुरजना येन तन्वन्ति मन्ये
देवस्य व्याघ्रगेहे बहिरूपनिहितं चिन्तयन्तं ध्वजेन्द्रम् ॥ १४॥
स्थूलं तुङ्ग गभीरं परिकलितमहावेदिमूलं पताका-
मालाभिः किङ्किणीभिर्मणिमयकटकैः कङ्कणैश्चोल्लसन्तम् ।
तालाकारं कठोरं वृषभपरिवृढेनाङ्कितं काङ्कटीकं
व्यालोक्यं व्याघ्रगेहे बहिरुपनिहितं भावये केतुदण्डम् ॥ १५॥
शिष्टानिष्टातिदुष्टासुररुधिरझरी तुन्दिला तुङ्गदंष्ट्रा
तुष्टा रुष्टाट्टहासत्रुटितविधिकटाहोदरोदारवीर्या ।
तिष्ठन्ती तिन्दुकाधोभुवि भुजधृतनानायुधा भद्रकाली
(तिन्दुकः कश्चित् वृक्षविशेषः)
कष्टं तीव्रं कलिं नः शमयतु विशदं व्याघ्रदेशेशकन्या ॥ १६॥
भद्रान् भर्गस्य भक्तान भसितसितजटाभस्मरुद्राक्षमाला
जालालङ्कारकान्तानभिनवपरिधानोत्तरीयाभिरामान् ।
दन्तश्रीभिर्दिगन्तानपि धवलयतः सन्ततं व्याघ्रपुर्या-
मन्तर्भूताननन्तानहमनुकलये पावनान् पापशान्त्यै ॥ १७॥
प्रादक्षिण्यानिशाम्रेडिभिरतिनिबिडर्जङ्गमानेकपङ्क्ति
प्राकारभ्रान्तिरीशाङ्गणभुवि मिषतां तन्यते यैर्जनानाम् ।
प्रातः प्रारभ्य शश्वत्प्रगुणितभगवन्नामसङ्कीर्तनाद्यान्
प्राज्ञान् व्याघ्रालयाधीश्वरभजनजनान् प्राञ्जलीन् भावये तान् ॥ १८॥
दिव्या दीपा यदीया दिवि भुवि भुवने भोगिनां चान्धकारं
प्रव्याप्तं द्रावयन्ति प्रबलतममलं बाह्यमाभ्यन्तरं च ।
नव्या नानाश्मक्लृप्ता नयनपथनभोनाकलोकातिगा सा
भव्याय व्याघ्रगेहाम्बरवरसहजा वेदिका नोऽस्तु नित्यम् ॥ १९॥
कालारेः कार्यकाराः शिव शिव करदा वावनीन्द्राश्च काले
काले नित्यान्नदानोत्सवनियमविधेः सर्वसम्भारजातम् ।
भूलोकात् कृत्स्नतोऽस्मादनवधिमनुजैराहरन्तीह यस्यां
स्थूलाकारातुला सा लसतु मम हृदि व्याघ्रगेहापग्रशाला ॥ २०॥
राज्ञां कैङ्कर्यमास्ताममरपरिवृढा शङ्कराज्ञाकरत्वात्
प्राप्य प्रायो यतन्ते यजनसदनतश्चातिपूते यदन्ते ।
शक्रः सर्वङ्कषोऽग्निः पचति पटुतरं वाति वायुर्यथेष्टं
पाथः सूतेऽम्बुपालो लसतु मन हृदि व्याघ्रगेहायशाला ॥ २१॥
अन्येषां सक्तिरास्तामतिरजतगिरीनन्नशैलानसङ्खथा
नह्नायैवोपदंशानपि विरचयतो यस्थ वह्नयाद्यपेक्षा ।
मन्ये मर्त्यत्वसिद्धथै भवतु भगवतो व्याघ्रगेहाग्रशाला
धन्या यत्पादधूल्या धरणिरपि नमो भूमिदेवाय तस्मै ॥ २२॥
यातायातत्रिलोकीजनजनितजगत्कुड्यकुट्टाकघुष्टया
प्रातः सायं सदापि प्रबलबहुलकोलाहलैर्यत्र नित्यम् ।
मध्याह्णे मान्यवर्णार्णवमणिमकुटान्यन्यवर्णार्णवेभ्यो
वर्धन्ते व्याघ्रगेहाम्बरवरमनिशं नस्तदन्तः समिन्धाम् ॥ २३॥
विप्राः कत्यस्तसङ्ख्या अपि भुवि विबुधाश्चावतीर्य द्विजत्वं
बिभ्राणा यत्र शङ्के सह सकलमहीदेवसङ्घेन भुक्त्वा ।
भुक्तीच्छाभूमनित्यक्षतनिजयजनांशामृतेच्छा भवन्ति-
व्यक्तं वैयाघ्रगेहाम्बरवरमनिशं नस्तदन्तः समिन्धाम् ॥ २४॥
भक्तः श्रीबिल्वमाङ्गल्यक यैति भगवान् भक्तिसाक्षात्कृतश्री-
कृष्णः कृत्स्नः प्रदेशं शिवशिवजटिलं वीक्ष्य देहेन गेहम् ।
गत्वा गौरीशमश्नु द्विजजनवनगं यत्र दृष्टवा सजग्धिं
चक्रे वैयाघ्रगेहाम्बरवरमनिशं नस्तदन्तः समिन्धाम् ॥ २५॥
ब्रह्मक्षत्रार्यशूद्राद्यनवधिजनताभुक्तभूयिष्ठभिस्सा
शिष्टोच्छिष्टान्नसम्भावितसकलचरस्थावरात्मप्रपञ्चम् ।
ब्रह्मज्योतिःस्वरूपं यदखिलमनघं शुद्धयशुद्धी न यस्मिन्न्
सम्यग्वैयाघ्रगेहाम्बरवरमनिशं नस्तदन्तः समिन्धाम् ॥ २६॥
इन्द्राद्या लोकपाला प्रतिदिशमधिकारास्पदभ्रंशभीत्या
तन्द्रां त्यक्त्वा तपस्यां विदधति हिमवातातपासारसाहाः ।
चन्द्रापीडस्य विष्वग्बहुलबलिशिलात्मना यत्र नित्यं रूपतां प्राप्य यत्र
सन्द्रष्टव्यं तदाभ्यन्तरमजिरमवेद् व्याघ्रगेहेशितुर्माम् ॥ २७॥
स्तम्भौगैः शातकौम्भैः शमनजिदभिषेकाम्बुकुम्भैरसङ्ख्यैः
शुम्भन्तं शम्भुभक्तैर्विगतभवभयैर्वीतडम्भैर्विभान्तम् ।
फुम्भिन्याधारमम्भोधरसरणिरुधं सम्भृताभोगयोगं
गम्भीरं व्याघ्रगेहात्रिपुरहरमहामण्डपं गन्तुमीहे ॥ २८॥
श्रीमद्रामायण भागवतमपि महाभारतं सेतिहासं
धीमत्सङ्घैः पुराणं सकलमपि सदा पठ्यते यत्र नित्यम् ।
सामाद्याम्नायमन्त्रव्रजजपभगवन्नामगानादिमन्तं
सामोदं व्याघ्रगेहत्रिपुरहरमहामण्डपं चिन्तये तम् ॥ २९॥
भाट्टप्राभाकरव्याकरणविधिभिर्वेदवेदान्तचिन्ता
भाम्भिर्भट्टारकौघैरमितमखिशतैः शास्त्रिभट्टैश्च भान्तम् ।
प्रेष्टुं ष्टं साष्टाङ्गयोगाभ्यसनकृतधियां प्रौढयोगीश्वराणां
प्रेम्णा वैयाघ्रगेहत्रिपुरहरमहामण्डपं भावयेऽहम् ॥ ३०॥
कैलासं काशिका दुस्त्यजमसुरपतेर्गोपुरं भूयसा किं
लोक्यान्तर्गतान्यस्थलकुलमखिलं प्रोज्य ञ्झप सर्वात्मनायम् ।
शैलापत्यस्य भर्ता भजति सविरगो ब्रह्मघोषेण मन्ये
शैवोऽहं व्याघ्रगेहत्रिपुरहरमहामण्डपं भावये तम् ॥ ३१॥
विन्यस्ताश्वत्थदीपद्वितयविलसितं वीतमायाविरोधं-
संन्यासिस्तोमसान्द्रं सनकमुखमुनिव्रातसञ्चिन्त्यमानम् ।
मन्ये वैयाघ्रगेहत्रिपुरहमहामण्डपं मण्डपानां
धन्यं धर्मार्थकामाद्यविरलपुरुषार्थप्रदं पूजयेऽहम् ॥ ३२॥
धाम्नो धावल्यवृद्धया धवलितभुवनं स्थूलतातुङ्गताभ्यां
स्थेम्ना चाणूकृताद्रीश्वरमतुलककुत्पुच्छशऋङ्गास्यनासम् ।
भूम्ना दैयाघ्रगेहत्रिपुरहरमहामण्डपे भासमानं
नाम्ना नन्दीति गीतं नयनसुखकरं वृद्धमीडे वृषेन्द्रम् ॥ ३३॥
रुद्रं यद्रूपधारी वहति हरिरशेषाण्डमाण्डैकधुर्यं
क्षुद्रैरन्यैरधार्यं हरमुपरि कथं कुर्युरैरावताद्याः ।
शक्तः सिंहोऽपि गौरीं शरणमुपययावेव किं भूयसा तं
व्यक्तं व्याघ्रालयाधीश्वरवृषवपुषं भावये वासुदेवम् ॥ ३४॥
यास्यैकस्यैव हीह त्रिजगति सुमहत्यग्रपूजा तदास्ता-
मस्मिन्वैयाघ्रगेहे निखिलजनमहातृप्तिकृत्यन्नवृष्ट्याम् ।
दस्युष्वप्यत्र भावादनुदिनमधिकं शिष्ययत्तदन्नम् ।
यसिन्धुं याति मन्ये सततमपि नमो विघ्नराजाय तस्मै ॥ ३५॥
मन्थाग्रं दध्यमत्रादिव कनकमयं यस्य रूपी वराग्रं
हन्त ब्रह्माण्डभाण्डात् बहिरुपरि मुदा दृश्यते मुक्तभक्तैः ।
मन्तव्यो मध्यभागः सुरनरसुखदो मृलदेशोऽसुरौघं
हन्ति श्रीव्याघ्रगेहोदरगृहमनिशं नस्तदन्तः समिन्धाम् ॥ ३६॥
निष्ठापात्युज्ज्वलाष्टापदमयमखिलं भाति यद्यस्य दिव्यो
दिष्टयास्यां विष्टपाण्डोदरभुवि घटदीपायते दीप्तिभूमा ।
मृष्टानां यन्मषीनां द्युतिततिभिरिनो याति खद्योतभावं
द्रष्टव्यं व्याघ्रगेहोदरगृहमनिशं नस्तदन्तः समिन्धाम् ॥ ३७॥
श्रद्धालूनां नृणां यच्छ्रवणमननसन्दर्शनाद्यैरघौघं
दग्ध्वाशूत्पाद्य भक्तिं भवमपि हृदये भावयित्वात्मसाम्यम् ।
दत्ते देवालयोघैरवनितलगतैरर्चनीयं जनानां
स्मर्तव्यं व्याघ्रगेहोदरगृहमनिशं नस्तदन्तः समिन्धाम् ॥ ३८॥
द्वीपत्वं दिव्यसेवारवरतभगवद्भक्तपाथोधिमध्ये
दीपत्वं भक्तिभाजां मनसि च भजते भावनीयं यदैशम् ।
गोपानस्यातिगुप्तं गुरुगुणसुजनं क्रान्तसोपानमन्तं
तापानां व्याघ्रगेहोदरगृहमनिशं नस्तदन्तः समिन्धाम् ॥ ३९॥
पारं पश्यामि नाहं परमशिवापदाभ्यन्तरागाररत्न
द्वारे सोपानपार्श्वद्वितयमितवतां भक्तपारावराणाम् ।
दारूर्म्याध्मातघण्टाघणघणरणिताघोषपुष्येषु तेषां
पूरे वैयाघ्रगेहाधिपपुरुकृपया विन्दुभावं वहेयम् ॥ ४०॥
पीनाविच्छिन्नघण्टाघणरणिताम्रेडनाजेल्यभिख्या
गानानन्दो द याभ्युच्चरितजयनमोनादवानान्यघौषैः ।
नानाभट्टादिभक्तैरविरतनिबिडं नीलकण्ठालयाग्र-
स्थानं वैयाघ्रगेहोदरगतमनिशं मानसे नः समिन्धाम् ॥ ४१॥
नृत्तैर्गी तैश्च वाद्यध्वनिभिरपि जगन्मोहनैर्देहिनो ये
नित्यं व्याघ्रालयेशं शमनरिपुमहोरात्रमाराधयन्ते ।
तेषां तौर्यत्रिकं नः शमयतु शमलं शश्वदन्तर्महान्तं
तोषं पुष्णातु चोपर्युपरि पुरुपरब्रह्मसम्मोदकल्पम् ॥ ४२॥
सम्यग्वैयाघ्रगेहाधिपपदमखिलं शोधयन्तीह भक्त्या
सम्मार्जन्यम्बुगोविट्प्रभृतिभिरपि ये कर्म येषामकामम् ।
सन्मानुष्यैकसाध्यं मुनिभिरपि मुहुः श्लाध्यते मुक्तिमूलं
सन्मार्गस्थानहन्तानधशतशमनायानहन्तानुपास्ये ॥ ४३॥
निर्मायं व्याघ्रगेहोदरगतभगवद्गर्भगेहं गभीरं
ब्रह्माद्यैरप्यगम्यं बहुमतमिह ये सम्प्रविश्यानुवेलम् ।
निर्माल्यौघं निरस्य स्वयममलजलैः शोधयन्ते वयं तान् ।
ब्रह्मप्रायान् प्रयामः शरणमशरणाश्चन्द्रचूडद्विजेन्द्रान् ॥ ४४॥
माल्यं पुष्पं च पूतं पुरुपुररिपवे दीयते यैरमूल्यं
काल्यादिष्वत्र कालेष्वनुदिनमतुलं येषु दैवानुकूल्यम् ।
पाल्या वैयाघ्रगेहाधिपपरमशिवोदयानवाटीह यैस्तान्
बाल्यादारभ्य भक्त्या कृतबहुसुकृतान् मालिकान् मानये तान् ॥ ४५॥
भक्त्या भर्गादवाप्तं शबलतुलसिकाशङ्खगङ्गापगाम्भो
भस्मादिव्याजभाजं भवभयभिदुरं भासुरं भूसुरा ये ।
भक्तौघेभ्यः प्रसादं ददति भगवतो व्याघ्रमेहस्थगौरी-
भर्तुर्गर्भालयस्थान् भवहृदयविदो देवलान् भावये तान् ॥ ४६॥
सन्त्वन्ये देवला ये भुवि भुवनभराः केवलं स्वार्थतन्त्रैः
किं तैः कार्यं जनानां जगदुपकृतये यत्स्वरूपेण दिष्टया ।
हन्त श्रीशङ्करोऽवातरदिह कृपया शङ्कराख्योऽनुकम्पा-
सिन्धुः स व्याघ्रगेहाधिप इव दयते देवलाद्योऽतिथीनाम् ॥ ४७॥
स्थूलं वैयाघ्रगेद्युतिततिततये नालमेतत्त्रिलोकं
भूलोके तच्च दिव्याम्बरवरमनलं गर्भगेहांशुभूम्ने ।
गर्भागारं तदन्तर्गतमणिमहसां गर्वितानां प्रकाशं
गर्भे धत्ते कथञ्चित् शिव शिव भगवत्प्राभवप्रौढिभूमा ॥ ४८॥
सन्ध्या रात्रिः प्रभातं दिनमपि सकलं यत्र साम्यं भजन्ते
वन्ध्याः कालस्य भेदावरमणिमयता वञ्चितोदञ्चिताभाः ।
सन्ध्यादानेन दीपा विदधति विविधा यत्र रत्नातपौष्ण्यं
तं ध्येयं व्याघ्रगेहेशितुरनुकलये गर्भगेहस्य गर्भम् ॥ ४९॥
किं दीपैः किं मणीन्द्रैः किरणिभिरिह किं किङ्करीभूतवद्भिः
किं दा ग्ला नैरिन्दुसूर्यादिभिरपि सुषमाकन्दलीसुन्दराङ्गम् ।
सन्दीप्तं तुल्यकालोदिततुहिनकररादित्यकोटिप्रकाशं
मन्दीकुर्यान्महोऽस्मन्मतितिमिरभरं व्याघ्रगेहस्थमैशम् ॥ ५०॥
किं भूम्ना भारतीनां भवतु भगवतो व्याघ्रगेहेशितुः श्री-
शम्भोः पादारविन्दद्वितयतलयुगे भक्तिरस्माकमग्रया ।
सम्भाव्यं भाव्यतेऽम्भोरुहनयनमुखैरीश्वरैरन्तरङ्गे
गम्भीरे यद्गभस्तिप्रतिहतगरुडभ्रातृकोटिप्रकाशम् ॥ ५१॥
लीयन्ते यत्र मुक्ता मुहुरहह मुदा यत्र लीना न भूयो
जायन्ते यत्सितानप्यरुणयति नखानात्मरामाभिवृद्धया ।
व्यक्तैः श्रीशङ्खचक्राङ्कुशकलशसरोजादिरेखासहस्रै
र्युक्तं तद्व्याघ्रगेहाधिपपदतलयोर्युग्ममव्यात् सदास्मान् ॥ ५२॥
इन्द्रोपेन्द्रादिवृन्दारकनिकरकिरीटाग्ररत्नारुणाना-
मिन्दुप्रायत्वदा ये नतिषु सुषमया सुन्दरास्ते ममान्ध्यम् ।
सन्द्राव्य व्याघ्रगेहेश्वरचरणनखाः सन्ततं भान्तु भासां
सन्दोहेन प्रदीपा इव हृदि महितस्नेहयोगेन हृद्ये ॥ ५३॥
धन्यैर्धायं धियैकं प्रपदमहिवराधारभूतादिकूर्मं
मन्ये पादाग्रमन्यन्महदतिसुभगं मन्दरोद्धारकूर्मम् ।
हन्येते यन्न मुक्तिः कथमुपरि न चेत्तद् द्वयी जह्नुभूभूत्-
कन्याढ्यं विश्वभारैरधितमिह बिभृयाव्द्याघ्रगेहेशदेहम् ॥ ५४॥
शङ्के वैयाघ्रगेहप्रभवितुरतुले शङ्करस्याभिजाते-
जङ्घेपङ्केरुहेषोरिषुधियुगकृतौ मातृके प्रागभूताम् ।
न्याङ्कादह्नाय भस्मीकृतवति भगवत्यङ्गजं भग्नवाञ्छा- ।
सङ्घायङ्काधिरूढा भजति भवमुमा यद्वयाप्तस्मरार्त्या ॥ ५५॥
जानेऽहं व्याघ्रङ्गेहेशितुरलमतुले जानुनी जह्नुकन्या
जानेरानन्दमूर्तेरखिलमुनिमनोमौक्तिकानां समुद्गौ ।
पीनावङ्कौ च चीनांशुकपरिपिहितौ नौमि तत्रापि मान्य-
स्थानं वन्दे भवान्याः परममनुपमं वाममङ्क विशेषात् ॥ ५६॥
नग्नं केचित्किलाहुः कनकवसनिनं केचनान्येऽद्रिकन्या-
मग्नं शार्दूलचर्माम्बरमपरे दन्तिचर्मान्तरीयम् ।
भग्नारिं व्याघ्रगेहेश्वरमभिदधते भाषणं भक्तिभाजा
मग्नीन्द्वादित्यनेत्रो वितथमपि विभुर्भूषणं वेत्ति मन्ये ॥ ५७॥
कारुण्याभीष्टपट्टाम्बरपरिकलितस्वर्णकाञ्च्यञ्चितं वा
कारुण्योपात्तकाकर्कोटककलितकरित्वग्वरालङ्कृतं वा ।
सारोदारोरुसर्पान्तरदृढघटितव्याघ्रचर्माम्बरं वा
सारोग्यं व्याघ्रगेहाधिपतिकटितटं चिन्तये चित्तशुद्धयै ॥ ५८॥
अन्तःस्थानन्तकोटित्रिभुवनकृतया कार्श्यविश्लेषभीत्या
सन्ध्यर्थं धार्यते यः सदुदरनहनव्याजभाजा हि भर्त्रा ।
हन्त श्रीनाभिरोमावलिवलिविलसन् विश्ववोहा ढा पि यो वा
वन्ध्यापुत्रायते तं स्मरतु मम मतिर्व्याघ्रगेहेशमध्यम् ॥ ५९॥
हारं हाराहिमालापरिवृतवनमालास्थिमालादिमाला-
धारं धाराधिकाक्तं विलसितभसितोद्धूलितं धूसराभम् ।
वारं वारं वरोरःस्थलमखिलमहापापपाथोधिपोतं
स्मारं स्मारं स्मरारिं भजतु मम मतिर्व्याघ्रगेहेशितारम् ॥ ६०॥
गौर्या गाढाङ्कपालीपिशुनमतिशुभं भस्म यस्मादवाप्तं
गौराभं कुङ्कुमाङ्के कठिनकुचतटे तारहारादिरम्ये ।
दिव्येभ्यो भूषणेभ्योऽप्यतिशयसुभगं भाव्यते मां पुनीता-
मव्याजं व्याघ्रगेहत्रिपुरहरमहोरःस्थलं तद्विशालम् ॥ ६१॥
स्थूलस्थूणर्द्धिकूलङ्कषघनसुषमानायतानात्तशुम्भ-
च्छूलश्रेष्ठासिटङ्काभयवरमृगरुद्राक्षभिक्षाकपालान् ।
लोलाँल्लोकैकपालानहिकटकधरानाकृतास्थ्यङ्गुलीयान्
व्यालोकेऽन्तर्बलिष्ठान् व्ययजितबहुदान् व्याघ्रगेहेशबाहून् ॥ ६२॥
क्षीराब्धेः सर्वदेवासुरवरमथितादुत्थितान्यद्भुतानि
स्त्रीरत्नादीनि तैस्तैरहमहमिकया स्वीकृतानि त्रिलोकीम् ।
भस्मीकर्तुं समर्थं सरभसमुदितं क्ष्वेलमद्यापि देवो
यस्मिन् धृत्वावतीदं जगदवतु स मां व्याघ्रगेहेशकण्ठः ॥ ६३॥
हन्त श्रीकण्ठकार्ष्ण्योदयमधिकमधःकृत्य धावल्यमग्रयं
दन्तश्रीसन्ततीनां तिरयति नितरां योऽरुणिम्नां महिम्ना ।
गन्धर्वार्च्याम्बिका यद्गतममृतरसं सम्यगापीय गङ्गा-
गन्धायाप्यभ्यसूयत्यलमवतु स मां व्याघ्रगेहेश्वरोष्ठः ॥ ६४॥
कर्णौ सत्कुण्डलिभ्यां विरचितविलसत्कुण्डलौ कान्तिदानैः-
कर्णौ कानीनतोऽन्यौ कपिलसितकपोलस्थलादर्शबिम्बे ।
बिब्वोकं बिन्बितत्वात् कमपि विदधतौ कम्रबिम्बाधरश्री-
सम्बन्धाव्याघ्रगेहेशितुरतिसुभगौ सन्ततं चिन्तयेऽहम् ॥ ६५॥
व्यासाद्यैः कालिदासादिभिरपि कविभिर्वर्णिता कर्णपूर-
व्यासक्त्यासन्नभास्वत्फणिफणमणिभामण्डलीमण्ड्यमाना ।
नासाराया यमारेरपि सरति यया प्राणवायुः सदा सा
नासास्मान् व्याघ्रगेहेशितुरवतु चिरं चिन्मयस्यातिचित्रा ॥ ६६॥
आदित्याकारमाद्यं जनयति दिवसं चन्द्ररूपं द्वितीयं
मेदिन्यामत्र रात्रिं रचयति मुहुरप्यग्निरूपं तृतीयम् ।
कालं सन्ध्याभिधानं कलयति जगतां भूतये येषु तेभ्यः
कालारे व्याघ्रगेहत्रिपुरविजयिनो वीक्षणेभ्यो नमोऽस्तु ॥ ६७॥
ब्रह्मण्यं बन्धहीनं द्रुहिणहरिहरातीतमाद्यन्तशून्यं
ब्रह्म व्याघ्रालयस्थं प्रकटयति यया स्वीयमैश्वर्यमस्यै ।
दृष्टित्रय्यै नमोऽस्तु त्रिपुरविजयिनस्त्रीक्षणस्य त्रिलोकी
सृष्टिस्थित्यन्तकृत्त्रीश्वरविषयजुषे विश्वभूतिप्रदात्र्यै ॥ ६८॥
चिल्लीलीलालवोत्थापितविलसदसत्प्रायमायाप्रपञ्चं
मल्लीबाणादिभस्मीकरणचणतृतीयेक्षणोद्भासमानम् ।
चिल्लीनस्याष्टमूर्तेरवतु चिरमरं व्याघ्रगेहेशितुः श्री-
मल्लारीड्यस्य शम्भोरलिकतलमलीकाकुलं मामजस्रम् ॥ ६९॥
भ्रूवल्लीलास्यरङ्गं भुवनजनमनः क्षोभदं भूतिदिग्धं
धावल्यावल्यगारं तिलकमिव तलेनाग्निनेत्रं दधानम् ।
सावर्ण्यातीतवर्णोज्ज्वलसजलजटाजूटसञ्जातनाना-
लावण्यैकालवालं स्मरतु मम मतिर्व्याघ्रगेहेशफालम् ॥ ७०॥
प्रागद्भिर्विश्वमम्भोमयमिदमखिलं कर्तुकामेव वेग-
प्रागल्भ्यच्यावितोच्चावचमकरमहामत्स्यनक्रोरगाभ्रात् ।
भागीरथ्यात्तपाता महितलमगता मार्गमध्ये यदन्त-
र्भागग्रस्ता जटाटव्यवतु भगवतो व्याघगेहेशितुर्माम् ॥ ७१॥
सारा सा दिव्यसिन्धुर्यदुदरसरसीभावमाप्तापि भीमान्-
सारासान् सर्वसिन्धुप्रचुरितसलिलान् सप्तसिन्धूनपीमान् ।
सारङ्गाद्युग्रयादोमुखरितजलभूम्नात्यधःकुर्वतीन्धे ।
सारं गुर्वी जटाटव्यवतु भगवतो व्याग्रगेहेशितुर्माम् ॥ ७२॥
दर्पान्धाबन्धसर्पप्रवरनिकरशूत्कारवातौघघूर्ण-
त्कल्पान्ताम्भोधिकल्पद्युसरिदुदकसङ्घोषसम्पूर्णगर्भम् ।
कोटिश्लिष्टान्तरिक्षं विविधविधिशिरोमुण्डकोटीकुटीरं
कोटीरं व्याघ्रगेहेशितुरतिरुचिरं चिन्तयामीन्दुचिह्नम् ॥ ७३॥
गर्भे गाङ्गं प्रगल्भं प्रलयजलनिधिप्रायमम्भः सशब्दं
बिभ्रन्नीशेच्छयोपर्यपरिपिठरवद्ब्रह्ममुण्डांश्च पीनान् ।
बद्धत्वात् सर्पसङ्घान् बहिरपि मुकुटे मुग्धमिन्दुं कपर्दो
बुद्धिव्यामोहकारी भवति शिवशिव व्याघ्रगेहेशभूमा (भूम्ना) ॥ ७४॥
प्रेङ्खत्प्राचीनमुण्डप्रकरसहचरासङ्ख्यगङ्गातरङ्ग
प्रेङ्खाखेलत्किरीटामृतकिरणमहोमोहियादःकदम्बम् ।
दृप्तैर्दवीर्करेन्द्रैर्दृढपरिकलितं तप्तताम्राभमाभा
लिप्ताशं व्याघ्रगेहत्रिपुरहरसटाबन्धमन्तः समीक्षे ॥ ७५॥
श्रीमन्मुग्धेन्दुचूडं जलमुखरजटाजूटजुष्टं त्रिनेत्रं
नासालक्ष्मीविलासोज्ज्वलमुखकमलश्रीलसन्नीलकण्ठम् ।
भूयो भूयो भुजङ्गाङ्गदभुजगमृगाद्यञ्चितं चिन्तयेऽहं
हारीभूतोरगोरः स्थलमुदरकृशं व्याघ्रगेहेशदेहम् ॥ ७६॥
कृत्तार्तिं कृत्तिचेलाकलितकटितटं सर्पकाञ्चीकलापं
चारूरूरं सुजानुं सुजनजननभित्सुन्दराकारजङ्घम् ।
पादाग्रीदनभङ्गयश्चितममलनखं रागरन्योदराङ्घ्रिं
वन्देऽहं देहमैशं मुहुरतिसुभगं व्याघ्रगेहस्थमाद्यम् ॥ ७७॥
भास्वद्भस्माङ्गरागाधिकधवलितसर्वाङ्गमयङ्घ्रिमूले
दोस्सीमस्वोष्ठबिम्बेऽप्यरुणिमकलितं कण्ठनालेऽतिकालम् ।
भास्वत्सोमाग्निनेत्रोपरि शिरसि जटाजूदलक्ष्म्या लसन्त्या
लास्येनानन्ददं मे हृदि मुहुरुदियाव्द्याघ्रगेहेशगात्रम् ॥ ७८॥
पातालाङ्घ्रिं वरोवीर्वलयकटितटं सत्यलोकोत्तमाङ्गं
पातारं विष्टपानां परिकलितविराडात्मना चानुवेलम् ।
पातिव्रत्येन चिन्ता भजतु मम महापापापाकोपजातात्
पातित्यात्तूर्णसुत्तारयतु च कृपया व्याघ्रगेहेश्वरो माम् ॥ ७९॥
शैवं पादादि केशावधि वपुरथ केशादिपादावसानं
चैवं संस्तूय भूयो हृदयभुवि समाधाय सञ्चिन्त्य भक्त्या ।
कैवल्यं प्रार्थयामो मुहुरमितदयं व्याघ्रगेहस्थमाद्यं
दैवं द्राक् नोऽकूलं भवतु भवभयापायदानन्दरूपम् ॥ ८०॥
सत्सङ्क्रान्त्युत्सवाष्टम्यभिनवशिवरात्रयादिकालेषु मन्ये
यत्सायुज्यं प्रयातास्त्रिभुवनजनताः सम्यगम्भोजजन्मा ।
वत्सस्तेयेन कृष्णात् पुनरधिगतया पुष्टया सृष्टिशक्त्या
चित्स्वच्छात्मा चरीकर्त्यवतु स भगवान् व्याघ्रगेहेश्वरो माम् ॥ ८१॥
धर्मार्थो काममोक्षावपि भुवि पुरुषार्था हि तेष्वर्थकामौ
जन्मोपेक्ष्यापि गृह्णन्त्यलमखिलजना जीवितादप्यभीष्टौ ।
धर्मों मोक्षश्च श्व धात्रयामधिकमशरणौ णाः तद्द्वयार्थं यतन्ते
सम्यग्व्याघ्रालयाधीश्वरकृतकृपया यत्र तेभ्यो नमोऽस्तु ॥ ८२॥
नित्यन्यायार्जिता यैरधिकतममनःशुद्धिपूर्वं विधेयो
मत्यैर्धर्मस्तदर्थं विदधति विविधाधर्मवृन्दं वृथान्धाः ।
पृथ्वयां व्याघ्रालयाधीश्वरपुरहरमुद्दिश्य यैर्दिश्यतेऽन्नं
पथ्यं भक्त्या यथाशक्त्यतिथिषु हृदि तान् कुर्महे धर्मशीलान् ॥ ८३॥
मोक्षोपायेषु मुख्यं त्रयमिह भगवत्प्रापकं प्राकृतानां
साक्षाज्ज्ञानं च सत्कर्म च मदनरिपौ पुंसि भक्तिश्च भद्रा ।
राक्षस्या शिक्षया स्यादनवधिजनिभिर्ज्ञानमर्थाद्यशुद्धया
रूक्षं कर्मापि भाक्तिर्भवतु मम भृशं व्याघ्रगेहाधिनाथे ॥ ८४॥
तर्कग्रन्थान्तराणामतिकठिनतया दुर्गमो ज्ञानयोगो
निष्कामः कर्मयोगो भगवति निहितो दुष्करः किञ्च ताभ्याम् ।
भूयान्नानाभवान्ते त्रयसुलभतमे भक्तियोगेऽधिकारो
भूयान् स व्याघ्रगेहत्रिनयनकरुणापाङ्गपातेन मे स्यात् ॥ ८५॥
गीतादीनामगाधादतिशयविशदं यस्य नारायणीये
गीतं ज्ञानादियोगत्रयगुणगणने साम्यभाजोऽप्यसाम्यम् ।
भीतानां मादृशानां गतिरिह यमृते नास्ति तं भक्तियोगं
भूतानामेकबन्धुर्वितरतु भगवान व्याघ्रगेहेश्वरो मे ॥ ८६॥
बाहुश्रुत्यं तपश्च व्रतकुलमखिलं ब्रह्मचर्य च वाचां
याहुल्येनालमैन्द्रं सदनमपि विफलं यां विना यां प्रसिद्धाम् । (बाहुल्ये)
प्राहुः प्रेमस्वरूपां त्रिजगति मुनयो मुक्तिमाप्ताः पुरा या-
मू हुस्तां भक्तिमाशु प्रदिशतु भगवान् व्याघ्रगेहेश्वरो मे ॥ ८७॥
जायादायादवित्तादिषु विगतदयेष्वत्यधःपातपाश-
प्राया मायामयेषु स्वयमदयति या सैव देवे दयाब्धौ ।
जायेत व्याघ्रपुयां वसतिविषयभेदोद्भवद्भक्तिसंज्ञा
सायुज्यस्यापि दोग्ध्री सपदि मम रतिः कापि सर्वार्थसिद्धयै ॥ ८८॥
भक्तिः प्रेमैव हि प्रेम च सुभगजनेषूचितं दुर्भगस्त्री-
सक्तास्तत्सौभगाब्धौ भगवति सुकरं स्त्रीषु कृच्छ्रेण कृत्वा ।
भुक्तेश्चाधःपतन्तीश्वरविमुखतया तादृशो मा स्म भूवं
भक्तानां सङ्गमो मे भवतु च सततं व्याघ्रगेहेशभाजाम् ॥ ८९॥
सत्सङ्गावाप्तभक्तिर्भ ग वति हृदयं न्यस्य हृद्यष्टमूर्ते-
रुत्सङ्गारूढगौरीकरकलितपरिष्वङ्गमङ्गं सगङ्गम् ।
चित्स्वच्छं व्याघ्रगेहस्थितमतिमहितं चिन्तयन् भस्मधूली-
भृत्स्वच्छन्दं चरेयं चिरमिह शिवरामादिनामानि गायन् ॥ ९०॥
नाम्नां नानाकथानामपि निशमनया योदिताभाग्यभाजा
माम्नायाचार्यबोधादपि परमतमन्तत्वसूक्ष्मं प्रसूते ।
धाम्ना संसारतापस्त्रिजगति परमानन्दतामेति यस्या
भूम्ना किं व्याघ्रगेहाधिपमुपरि ततो भक्तितोऽन्यं न याचे ॥ ९१॥
कर्मज्ञानादिकक्ष्या दुरधिगमतमं सम्मतं साम्यहीनं
ब्रह्मज्ञानं प्रसूते बत भुवि बधिरस्यापि या पातमात्रे ।
धर्मज्ञानां जनानां जनिमृतिहनने जाग्रतीस्ता वृणेऽहं
ब्रह्मघ्नामप्यघघ्नीं व्यसननिरसनीं व्याघ्रगेहेशभक्तिम् ॥ ९२॥
यल्लाभे भाग्यमाजामहिजगदवनीचक्रमेकातपत्रं
स्वलोकश्च स्वयं द्रागहमहमिकया पाहि पाहीत्यभीक्ष्णम् ।
संल्लापैः पादमूले पतति हि तरसा पारमेष्ठ्येन साकं
दुर्लभ्याशैव तस्यै सततमपि नमो व्याघ्रगेहेशभक्त्यै ॥ ९३॥
निःस्वः पापोऽपि नेच्छाम्यहमवनिमिमां नापि वस्वौकसाराः
न स्वर्ग नापवर्गं न नरकहरणं चार्थये चार्थमेकम् ।
सस्वातत्र्न्यो भवेयं प्रतिभवमितया व्याघ्रगेहेशभक्त्या
दुःस्वप्नप्रायमङ्गं जगदपि सकलं विस्मरनासञ्चरेयम् ॥ ९४॥
सोऽहं देहात्मबुद्धिद्रढिमदमदनेन्धानमाहात्म्यमाया-
मोहान्धो गेहगेहाधिकगहनतया साहसेनाभिभूये ।
द्रोहव्यूहावगाढव्यसनमकलयन् व्याघ्रगेहेशभक्त्या
सो मो हापोहं सुसूक्ष्मं मनसि भगवतस्तत्त्वमुद्भावयेयम् ॥ ९५॥
दारिद्रैयवर्याधिभिश्चाधिभिरपि विविधैः शत्रभिश्वाभिभूये
दारद्रव्याधिचौर्येच्छभिरतिपिशुनैर्दाम्भिकैः कालशक्त्या ।
कारुण्यार्द्रैः सुहृद्भिर्गुरुभिरपि दुरात्मेति दूरीक्रियेऽस्यां
कारयां व्याघ्रगेहत्रिनयनकरुणापातकालं प्रतीक्षे ॥ ९६॥
भावे भावे भवानीपतिभजनमहावासना मेऽस्तु माता
देवस्तातो गुरुश्चास्त्विह मम सुहृदः सन्तु भक्ताः सहस्रम् ।
भक्तिर्भार्यास्तु पुत्रो भवतु भगवतस्तत्त्वबोधो बुघैश्च
त्यक्तो मा भूवमेवं व्यसनिनमवताव्द्याघ्रगेहेश्वरो माम् ॥ ९७॥
व्यक्तं व्यामोहदं च व्यसनमितमिदं साम्प्रतं मे चिराय
त्यक्तं येनेश्वराराधनमतिकठिनानीश्वराराधनार्थम् ।
धिक् तं मां स्त्रैणमन्धं मुखरयति मुदा यः स्वभक्त्यर्थमित्थं
भक्तः स्यां व्याघ्रगेहत्रिपुरविजयिनस्तस्य सर्वात्मनाहम् ॥ ९८॥
कल्पाद्युत्पन्नमेतत्रिभुवनमखिलं यस्पदाम्भोजधूली-
कल्पं मन्ये महत्त्वं मधुरिपुरपि नो वेद साक्षाधती दी यम् ।
स्वःपाताजो हरिर्यः स्वयमपि भगवान् यत्कला यस्य भूम्नः
स्वल्पा देवाश्च भक्त्या सततमपि भजे व्याघ्रगेहेश्वरं तम् ॥ ९९॥
वेदे शास्त्रे पुराणादिषु च बहुविधं वर्ण्यते वस्तु नाम्नां
भेदेनाभिन्नमेकं यदिह हरिहरब्रह्मशक्रादयोऽमी ।
ये देवास्ते तदंशाः किमु पुनरपरे कृष्णरामार्जुनाद्या
मोदायोदेतु तत्त्वं मनसि तदनिशं व्याघ्रगेहस्थितं मे ॥ १००॥
गात्रं कैलासगोत्रप्रभवमपि हृतं यस्य शास्त्रेण नेत्रं
श्रोत्रं वेदेन लूनं रसनमपि पुराणेन नूनं क सोऽहम् ।
स्तोत्रं क्वाहो पवित्रं परतरभगवद्भक्तिमाहात्म्यपाली-
पात्रं व्याघ्रालयाधीश्वरशतकमिदं कस्य काव्यं न जाने ॥ १०१॥
॥ इति श्रीव्याघ्रालयेशशतकं सम्पूर्णम् ॥
Proofread by Gopalakrisnan