याज्ञवल्क्यप्रोक्तं शिवाराधनमहिमानुवर्णनम्
महादेवः परो देवो महादेवः परात्परः ।
महादेवः परं ज्ञानं महादेवो महानतः ॥ ३४॥
महादेवरतस्तावन्महात्मा महतामपि ।
सेवनीयः प्रयत्नेन महादेवमनोहरः ॥ ३५॥
महादेवविहाराणां स्थलं शाम्भवमानसम् ।
अतः स पूज्यः सततं शाम्भवः शिवतत्परः ॥ ३६॥
शिवाभिमानस्थलमेकमेव तदेतदेकान्तशिवार्चकस्य ।
शिवार्चकादप्यधि कोऽस्ति लोके यतः स एवाप्रतिमप्रभावः ॥ ३७॥
तं भावमेवाप्रतिमप्रभावं मन्ये सुराणामपि सेवनीयम् ।
स एव मृत्युणञ्जयपूजनेन धन्योऽपि मान्योऽपि महानुभावः ॥ ३८॥
यो यस्तिष्ठति शाङ्करो भुवि स मे पूज्यः स पूजार्हतां
प्राप्तः शङ्करपूजया सुरगणास्तत्पूजनैः पावनाः ।
तत्पादप्रणतास्तदङ्घ्रिजरजोलेशप्रसादं परं
वाञ्छत्येव सुधां सुधामपि मुहुस्त्यक्त्वा वृथेत्यादरात् ॥ ३९॥
कालाद्भीतिः कालकालार्चनेन नाभूद्भीतः प्रत्युतास्माद्यमोऽपि ।
तस्मात् को वा कालकालान्यदेवं मोहाद्धातुं पूजितुं वा प्रमत्तः ॥ ४०॥
प्रवृत्तिरीशान्यसुरार्चनेषु न स्याच्छिवाराधनतत्पराणाम् ।
यस्माच्छिवान्यामररूपबुद्धिः हानाय तावद्भवतीति मन्ये ॥ ४१॥
असद्वस्तुहानाय ते वस्तुबुद्धिः प्रवृद्धापि तत्कार्यहेतुः स्वतः स्यात् ।
उपादानमप्यस्ति सद्दानवृद्धया सदित्येव बुद्धिः शिवब्रह्मणीति ॥ ४२॥
यद्ब्रह्म तत्तावदुमासहायस्वरूपमासाद्य हृदि प्रविष्टम् ।
कष्टानि दुष्टानि निराकरोति तत्कष्टनाशाय यतः प्रवृत्तम् ॥ ४३॥
अशिवार्चनभावनानिवृत्तिर्यदि जाता बहुपुण्यसञ्जयैः ।
शिव एव सदा विचिन्तनीयो मनसः सृष्टिरपीश पूजनीया ॥ ४४॥
मनो महेशेन यदा प्रकृष्टं सृष्टं तदा तस्य शिवार्चनेन ।
गता भवत्येव स कालवार्ता किं कालकालप्रवणस्य तस्य ॥ ४५॥
कालान्तकाराधकपादुकार्चचर्चापि वर्चश्चिरमातनोति ।
तेनैव पापौघलयोऽपि तेन स्वर्गोऽपि मुक्तिश्च भवत्यवश्यम् ॥ ४६॥
अहो वदन्ति प्रमथाधिनाथाः कृत्वा कथञ्चिद्गिरिशार्चनानि ।
धन्याः परं शङ्करपूजनेन नयन्ति तावद्दिवसानपीति ॥ ४७॥
इदं परं भाग्यमिति स्मरन्तः संसारवार्तामपि विस्मरन्तः ।
महेशनामानि सदा जपन्तः शिवालयेषु प्रचरन्ति सन्तः ॥ ४८॥
सन्तस्तावत्सन्ततं साम्बमीशं स्मृत्वा स्मृत्वा देवदेवं च मत्वा ।
दत्वा चित्तं शङ्करे साधु नत्वा कृत्वा पूजां यान्ति साम्बं महेशम् ॥ ४९॥
अपर्णास्मणं मत्वा कृपार्णवमनामयम् ।
महामृत्युञ्जयं शैवाः पूजयन्ति प्रयत्नतः ॥ ५०॥
कः शाम्भवेन सदृशस्तत्वज्ञो न भविष्यति ।
तेन तत्वं यथा ज्ञातं तथाऽन्येन न बुद्धयते ॥ ५१॥
शिवं शिवङ्करत्वेन ज्ञात्वा केवलमव्ययम् ।
सर्वमन्यत्परित्यज्य निरातङ्कोऽधितिष्ठति ॥ ५२॥
महद्भाग्यमिति ज्ञातं शाम्भवं जन्म केवलम् ।
जन्मनामुत्तमं जन्म शाम्भवं तत्किलोत्तमम् ॥ ५३॥
शाम्भवं जन्म सम्प्राप्य शम्भुपूजां करोति यः ।
स एव धन्यः श्रेष्ठश्च वरिष्ठोऽपि विशेषतः ॥ ५४॥
सर्वकष्टविनाशाय शिपिविष्टार्चने रताः ।
भवन्ति बहवो लोके मुक्तास्ते सर्वथा ध्रुवम् ॥ ५५॥
शिवस्मरणमात्रेण जीवन्मुक्तो भवेन्नरः ।
शिवशब्दोच्चारणेन देवपूज्यो भविष्यति ॥ ५६॥
॥ इति शिवरहस्यान्तर्गते याज्ञवल्क्यप्रोक्तं शिवाराधनमहिमानुवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ३८। ३४-५६ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 38. 34-56 ..
Proofread by Ruma Dewan