यमदूतकृतं शिवलिङ्गार्चनमहत्त्वाख्यानम्

यमदूतकृतं शिवलिङ्गार्चनमहत्त्वाख्यानम्

यमदूताः ऊचुः - नित्यत्वेनैव विधिना प्राप्तं तल्लिङ्गपूजनम् । तत्कदापि हि न त्याज्यं न त्याज्यं सर्वथा द्विजैः ॥ १२३॥ लिङ्गार्चनविहीनस्य समस्ता निष्फला क्रिया । ततः सर्वार्थसिध्यर्थं लिङ्गपूजा विधीयते ॥ १२४॥ नित्यकर्मसमृध्यर्थं नित्यत्वेन श्रुतं श्रुतैः । शिवलिङ्गार्चनं कार्यं यत्नेन प्रत्यहं द्विजैः ॥ १२५॥ शिवलिङ्गार्चनं नित्यं नित्यमध्ययनं तथा । ततः सर्वार्थसिध्यर्थं लिङ्गपूजा विधीयते ॥ १२६॥ विभूतिधारणं नित्यं नित्यं रुद्राक्षधारणम् । शिवलिङ्गार्चनं नित्यं कुर्वन्नपि कदाचन ॥ १२७॥ यदि त्यक्ष्यति मोहेन प्रत्यवैति न संशयः । सर्वेप्सितार्थदं नित्यं सुलभं लिङ्गपूजनम् ॥ १२८॥ त्यक्त्वा वृथा जनाः सर्वे नरके निपतन्त्यहो । लिङ्गपूजनमात्रेण बहवो मुनयः पुरा ॥ १२९॥ ययुः कैलासनिलयमयत्नेनैव दुर्लभम् । लिङ्गपूजापरं शैवं निरीक्ष्य यमकिङ्कराः ॥ १३०॥ दूरादेव पलायन्ते स्मरन्तो यमशासनम् । न लिङ्गपूजनादन्यन्निःश्रेयसकरं परम् ॥ १३१॥ सत्यमेतत्सत्यमेतत्सत्यमेतन्न संशयः । इति तद्वचनं श्रुत्वा भानुः सन्तुष्टमानसः ॥ १३२॥ लिङ्गार्चनपरो भूत्वा काश्यां न्यवसदादरात् । वीरेशनिकटे विष्णुरेकपादेन सादरम् ॥ १३३॥ चकारोग्रं तपस्तीव्रं ज्वलपञ्चाग्निमध्यगः । अशीतियुगपर्यन्तं तपः कृत्वा पुनर्मुदा ॥ १३४॥ इदानीं शिवगङ्गायां करोत्युग्रं तपोऽम्बिके । ब्रह्मादयोऽपि ते देवास्तेनैव सह सादरम् ॥ १३५॥ तथैवोग्रं तपः कृत्वा तिष्ठत्यविकलं सदा ॥ १३६॥ तज्ज्ञानवापीजलमादरेण देवाः समस्ताः सततं वरेण्यम् । ज्ञानैकरूपं विमलं पिबन्ति हृल्लिङ्गवृद्ध्यै शिवलिङ्गनिष्ठाः ॥ १३७॥ ॥ इति शिवरहस्यान्तर्गते यमदूतकृतं शिवलिङ्गार्चनमहत्त्वाख्यानं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः ६ । १२३-१३७॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 6 . 123-137.. Notes: Yamadūta-s यमदूताः speak about the essentiality of worshiping Śivaliṅga शिवलिङ्ग and that the adoration of the same, is sought and attained by all the Deva-s देवाः as a resultant of revering the waters of Wisdom of Jñānavāpī ज्ञानवापी. Proofread by Ruma Dewan
% Text title            : Yamadutakritam Shivalingarchanamahattvakhyanam
% File name             : yamadUtakRRitaMshivalingArchanamahattvAkhyAnam.itx
% itxtitle              : shivaliNgArchanamahattvAkhyAnam (yamadUtakRitaM shivarahasyAntargatam)
% engtitle              : yamadUtakRRitaM shivalingArchanamahattvAkhyAnam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 6 | 123-137||
% Indexextra            : (Scan)
% Latest update         : March 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org