कुमारसहस्रनामस्तोत्रम् अथवा कार्तिकेयसहस्रनामस्तोत्रम्
ॐ श्रीगणेशाय नमः ।
भैरवः -
धनं दारान्सुतान्क्षेत्रं धान्यं पशुधनं तथा ।
प्राप्नोति पुरुषो नित्यं स्मरणाद्यस्य स्वामिनः ॥
तस्य वक्ष्ये कुमारस्य दिव्यं नामसहस्रकम् ।
सर्वतः पापहं धर्म्यं जप्यमेतन्मुमुक्षुभिः ॥
विनियोगः -
अस्य श्रीस्वामिकार्तिकेयनामसहस्रस्य, ब्रह्मा ऋषिः,
गायत्री छन्दः, षडाननो देवता, हां बीजं, कुमारायेतिशक्तिः,
नम इति कीलकं, आत्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थं
चतुर्वर्गसिद्धयर्थे पाठे विनियोगः ॥
कां कीं कूं कैं कौं कः इति न्यासः
ध्यानं -
देवं षण्मुखभूषितं सुचतुरं तं द्वादशाक्षं जटो-
त्तंसं शक्तिधरं सुशुक्लममलं सद्वैजयन्त्याश्रितम् ।
घण्टापाणिमुमाङ्क शीलिनमऽजानन्दं शिखीन्द्रालयं
ध्यायेऽभीष्टवरप्रदं हृदि सदा रक्ताङ्गरागस्रजम् ॥
ॐ कार्तिकेयाय विद्महे । सेनाधिपतये धीमहि ।
तन्नः कुमारः प्रचोदयात् ॥ repeat 3 times
अथ सहस्रनामस्तोत्रम् ।
ॐ भैरव उवाच -
ॐ कुमारः कवची कन्दः कर्मठः कलिकालजित् ।
कन्दर्परूपः कामेशः कालपुत्रः कलाधरः ॥ १॥
कलङ्करहितः कालकलनः कलिकालिकः ।
कलाकलितकः कामी कामनाशः करास्पदः ॥ २॥
कठोरचित्तः कलशी कलः कलकलाकरः ।
करीरनीलः किञ्जल्ककलितः कोकिलालपः ॥ ३॥
करिवक्त्राग्रगः कीलाजटः कलिलनाशनः ।
कोलपूज्यः कीलमोक्षः कपिलः कपिलाननः ॥ ४॥
कलकलः कलालापः कन्दर्पी कपटापहः ।
कः कं केनः कपेन्द्रास्यः कपिः कपिलरूपधृत् ॥ ५॥
कीनाशनाशः कङ्कालधारी कक्कोलभक्षकः ।
कपोली कमलाकान्तः कमलः कीशवर्धनः ॥ ६॥
कीरवाक्क्रूरहाक्तूरः कूर्मपृष्ठःक्रमोऽक्रमः ।
क्रौञ्चारिः क्रकचोदीर्णः कृत्तिवासः कृती कृतम् ॥ ७॥
करालः कुलसम्पूज्यः कूलहा कुलचेतनः ।
क्रव्याद्गणपरीवारः क्रव्यादः कदलीमृदुः ॥ ८॥
कलापियानः कृकरः कारुः कारी करः कुरः ।
कल्लोलदोःकटीनग्नः कोटिदः कोटितत्परः ॥ ९॥
कटकी कटवः कोट्टस्थानः करभवर्तनः ।
कालरूपः कम्बगलः करिगः कलगः करी ॥ १०॥
कर्मीरः कल्मषः कण्ठी कृतज्ञः कृत्तिभास्वरः ।
कुवेरबन्धुः काशीपः कृशमध्यः कृशानुदृक् ॥ ११॥
कुण्डल्यलङ्कृतः केशचणः कचमणिः कचः ।
कश्मीरनिलयः कम्पश्चराचरगुरुश्चरः ॥ १२॥
चलाचलश्चलज्जिह्वश्चम्पापतिश्चमूपतिः ।
चषालनिलयश्चण्डीप्रियपुत्रश्चयश्चुपः ॥ १३॥
चमूरचर्मवासी च चमकश्चमरीगतिः ।
चपलाद्युतिभृच्चण्डश्चण्डालक्षपणश्चहः ॥ १४॥
चकोरनेत्रश्चेलासश्चमसी चीनवस्त्रभृत् ।
चार्वाङ्गश्चीरवांश्चन्द्रकलाकलितशेखरः ॥ १५॥
चन्द्रशीतश्चन्द्रद्योती चन्द्रकावृतदेहभृत् ।
चन्दनालेपनश्चन्द्रश्चन्द्रशेखरलालितः ॥ १६॥
चाणूरमर्दनश्चक्रधारी चक्रवरानतः ।
चक्रमध्यगतश्चक्री चाक्रिकश्चण्डविग्रहः ॥ १७॥
चम्पकालङ्कृतश्चार चारुनेत्र चलाऽलकः ।
चलद्भूश्चीभनश्चारुश्चौरहा चोलपूजितः ॥ १८॥
चरित्रचञ्चुचण्डीशशास्ता चामरचर्चितः ।
चलनीलगतिश्चोष्यास्वदुज्ञश्चुम्बकश्चलः ॥ १९॥
चलाक्षश्चपलोन्माथी चम्पेयधवलश्चकः ।
चम्पूस्तव्यश्चारकश्चचरकज्ञनिषेवितः ॥ २०॥
चाणिक्यकुशलश्चित्रश्चित्रकर्माच चर्मभृत् ।
अलुम्पकश्च चण्डांशुश्चामीकरनिभाननः ॥ २१॥
चटत्कारकृतारावश्चण्डीवन्द्यश्चलालिकः ।
चतुर्थीप्रियपूर्वश्च चतुर्थीप्रियपालनः ॥ २२॥
चतुरश्चतुराङ्गाढ्यश्चतुष्पथकृतालयः ।
चतुरव्रतपूज्यश्च चतूरश्चरणार्चितः ॥ २३॥
चञ्चरीककृतालापश्चिरध्येयश्चिरातृपः ।
चञ्चुरश्चोद्यकर्ता च चोदकश्चोदनाप्रियः ॥ २४॥
चुलकाचमकश्चित्रचित्रकाङ्कितगोधिकः ।
चित्राङ्गदश्चित्रभूषश्चित्ताभस्मानुलेपनः ॥ २५॥
चिन्तानाशकरश्चित्तसुखदश्चित्तपद्मभूः ।
चतुरात्माचतुर्बाहुश्चतुर्व्यूहश्चतुर्मुखः ॥ २६॥
चतुरथकरश्चार्वीगम्यश्च चतुरक्षरः ।
अनादिरगदोऽनन्तोऽजरोऽक्षरविचारकः ॥ २७॥
अप्रमेयोऽन्तरङ्गोऽणुरनूनोऽनवरोऽनघः ।
अघहाऽनघचिन्त्यश्च अघासुरनिसूदनः ॥ २८॥
अघस्थिरोऽगस्त्यनतोऽबलाबलददोऽवनः ।
अमोघविक्रमोऽगम्योऽनुत्तानोऽनुत्तरोऽपरः ॥ २९॥
अपारोऽकृत्रिमाचारोऽपारावारगभीरधीः ।
अतर्क्योऽनर्घ्यमाहात्म्योऽनेकाधारोऽलयोऽरिधृत् ॥ ३०॥
अत्रस्नुरगजाभर्ताऽगेशयोऽङ्गार्धवाशितः ।
असङ्गोऽविभ्रमोऽभङ्गोऽन्धघ्नोऽब्जाधृतशेखरः ॥ ३१॥
अलङ्घ्योऽतीन्द्रियोऽतीन्द्रोऽगोजावञ्चनपेशलः ।
अस्तभ्यमूर्तिरन्तज्ञोऽनन्तार्चितपदद्वयः ॥ ३२॥
अचेत्यश्चाक्षरोऽकोपोऽकुसृतिरमलाम्बरः ।
अङ्गार्पितप्रदाकुश्च अचलाटनतत्परः ॥ ३३॥
अमोघविक्रमोमर्त्यस्तुतोऽमृतपदोऽपदः ।
अमरार्पितसद्भोगोऽभवोऽम्बुजकृतासनः ॥ ३४॥
अम्बुजार्चितपादाब्जोऽरजोऽफल्गुमनोरथः ।
अहीनबाहुरऽग्राह्यो हीनाहितविभूषणः ॥ ३५॥
अहीनभोगदोऽभोगोंऽंसपीठधृतभूतिकः ।
अग्राङ्गनोऽङ्गदोनङ्गप्रीतिकृदऽगजार्चितः ॥ ३६॥
अग्रगण्यो महामात्योऽमदोऽदमविभेदकः ।
अघोषघोष्योऽघोरश्च अमलामलखविग्रहः ॥ ३७॥
अग्रदर्श्यग्रमाताचानलसोऽलसकोपनः ।
अनेककोटिदोऽकोटिररक्तोऽलक्ष्यरूपकः ॥ ३८॥
अमृतांशोऽमृतांशुश्चाप्यमृतेश्वर एवच ।
अमृतांशप्रसन्नश्च अमरेशोऽमरारिहा ॥ ३९॥
अकल्यकलहोऽकल्योऽमूर्त्तानन्दविग्रहः ।
आलोक आप्लवोऽप्याल आनन्देश्वर एवच ॥ ४०॥
आम्नायोऽथागमज्ञेय आचारनिधिरेवच ।
आज्ञाधरोऽथाज्यभोग इनश्चेभमुखस्तथा ॥ ४१॥
इन्द्रैन्दुकलाधारी इन्द्रजालपटुस्तथा ।
ईड्यईशान ईरीच तालाङ्कस्ताल विग्रहः ॥ ४२॥
तलातलगतोमाली माल्यवान्ककुदी तथा ।
कलङ्कहा कपाली च कालिकारमणस्तथा ॥ ४३॥
करालरूपः कालाग्निः शिखावाञ्छिखिवाहनः ।
शिरीषकोमलाङ्गश्च करीराभः करीरभृत् ॥ ४४॥
कनकाङ्गददोर्दण्डः कनकाशो जयीतथा ।
जालन्धररिपुस्तारस्तारकान्तक एवच ॥ ४५॥
तारकस्तारवादी च तारस्तारकराजजित् ।
तरिस्तरुणरूपीच तरुशायी जटान्तकः ॥ ४६॥
तात्पर्यज्ञस्तलोन्माथी तारापतिरथोतलः ।
तलिनं च तडागश्च ततरूपश्च तारदृक् ॥ ४७॥
तुलाहीनोथ तालज्ञस्तुहिनांशुस्तुतालिकः ।
स्तोत्रं स्तुन्दिलरूपश्च तुहिनाचलसंश्रयः ॥ ४८॥
तोतुलाप्रियकारीच तालुस्तौतिलरूपकः ।
तुलापुरुषसंवादस्तर्कगम्यस्तलोज्झितः ॥ ४९॥
तालज्ञानरतस्तापहन्ता तरणिरेवच ।
तपोवनरतस्तुण्डिस्तुतस्तापन एवच ॥ ५०॥
तमालवन चारीच तिलकस्ततविश्चकः ।
तमीभर्ता तमोहन्ता तामसस्तुमलप्रियः ॥ ५१॥
त्वङ्गनस्तङ्गनस्तञ्च तमोरिस्त्वचिसारकः ।
ताम्राक्षस्त्र्यम्बकस्त्र्यक्षस्तीक्ष्णज्योतिस्त्रिबन्धुहृत् ॥ ५२॥
त्रिपुरारिस्त्रिमूर्तीशस्ततीयपदसंश्रयः ।
त्रिबन्धुस्त्रिपुराधीशस्तृतीयनयनोज्ज्वलः ॥ ५३॥
त्रिपदासारगेयश्चत्रिपुटीशरणं तथा ।
पवनः पालकः पालीपाणिः पाल्यग्रणीः पटुः ॥ ५४॥
पातालालयहा पानसक्तः पङ्कजलोचनः ।
पलायनपरः पीठसंस्थितापीठपूजितः ॥ ५५॥
पुरोहितः पुरोग्रामी पुरारातिः पूरेश्वरः ।
प्रवीणः पुण्यदृक्पूततनुः पर्वतसंश्रयः ॥ ५६॥
परीक्षकः पुराणज्ञः प्रमाणम्प्रत्ययः प्रमा ।
प्रमाता परमन्धाम परम्ब्रह्म पराश्रयः ॥ ५७॥
परापरगतिः पारः पुराणपुरुषः परम् ।
प्रकृतिप्रभवः पाता प्रलयः पद्मविष्टरः ॥ ५८॥
पद्माक्षः पद्मभूः पार्थवरदः पार्थिवः पणः ।
परापतिःपरेशानः पुरुषश्चपितामहः ॥ ५९॥
पीनवक्षाःपीतवपुः पत्रिगः पथिकः पतः ।
पुरोळाशरतः पान्थः परेता वृतएवच ॥ ६०॥
पाशीपालशहस्तश्च पद्माङ्कः परमेश्वरः ।
पुराणगम्यःपूतश्च पुष्पपूज्यः पुरेशयः ॥ ६१॥
प्रद्युम्नःपुष्पबाणश्च पूज्यः पुष्पशिखीमयः ।
परमेष्टी प्रकृतीष्टः परापरकृतास्पदः ॥ ६२॥
पूर्वः पौलस्त्यवरदः पौलोमीकुचमर्दनः ।
प्रजापालः प्रजालोपी पूतनान्तक एवच ॥ ६३॥
पूतनामा पान्थतोषी पर्यङ्कशयनः पटः ।
परमायुः पशुपतिः पल्लीवासी परायणः ॥ ६४॥
प्रमोदी पत्तनं पर्व पवित्रं पात्रमेवच ।
पालनः सर्वभूतानां पूर्णः पूरयिता पतिः ॥ ६५॥
पुण्यकीर्तिश्च पापघ्नः पविहस्तश्च पक्षिराट् ।
पतङ्गधामा पूर्णाशः पतगेशः प्रशान्तधीः ॥ ६६॥
याज्यो यजनपूज्यश्च यष्टायक्षप्रियो यमः ।
यमाप्यो ययुरूपश्च यायी यानरतो ययी ॥ ६७॥
यानपानगतिर्यागी यमलोकैकशासनः ।
यशस्वी यापनो यामो योगेन्द्रो याज्ञिकप्रियः ॥ ६८॥
यन्ता यशोधरो यज्वा यक्षेशो यामलागमः ।
योद्धा युगैकनिलयो युगलं युगनामभृत् ॥ ६९॥
योजनाप्यो यागगम्यो यज्ञभुग्यजतां वरः ।
यायजूको यज्ञभोपा युगवर्तो यमात्मकः ॥ ७०॥
यज्ञघ्नो यमभीतिघ्नो यमारिर्यक्षपालकः ।
यूपो लक्ष्मीधरो लास्यो ललितो ललितागमः ॥ ७१॥
लम्बोदरार्च्यो लज्जावाल्लाभदो ललिताननः ।
लङ्केशार्चितपत्पद्मो ललनाललितो ललः ॥ ७२॥
लक्ष्यो ललितदेहश्च लाक्षारुणपदद्वयः ।
लयेशो लङ्घितारातिर्लिङ्गरूपी लताश्रयः ॥ ७३॥
लम्बनो लघुचेष्टश्च रतीशाभो रतिप्रियः ।
रमणो राक्षसेन्द्रघ्नो रक्षोधिपसुपूजितः ॥ ७४॥
राकापतिवपू राजा रमापतिवरप्रदः ।
राजराजार्चितो रात्रिधवाङ्कितकलेवरः ॥ ७५॥
रामपूज्यो रामस्पर्धो रेवतीजानिपूजितः ।
रेवारतो राज्यप्रदो रावणारातिपूजितः ॥ ७६॥
रसातलगतो रामो रमणीरामकोपिच ।
रात्रिनाथाननो रङ्गनर्तको रणकत्थनः ॥ ७७॥
रालार्च्यो रक्तनेत्रश्च रसज्ञो रसवल्लभः ।
रमाप्रियो रावणार्च्यो रामेशो रामवल्लभः ॥ ७८॥
रोहिणीशो रमाभर्ता रसनो रभसप्रियः ।
रणार्जितयशो रक्तनेत्रो रल्लकवासनः ॥ ७९॥
रतीशदेहदाही च रतिज्ञो रसभाववित् ।
रोहिताश्वो रत्नमौलिरिङ्गनोपोभसद्गतिः ॥ ८०॥
इननेत्र इलापुत्र ईशानः सर्वकर्मणाम् ।
ईड्य ईश्वरपुत्रश्च ईप्सितार्थफलप्रदः ॥ ८१॥
ईतिभङ्गश्चखलहा खलपूः खलपावनः ।
खसत्ताकः खसूतिश्च खगतिः खचरेश्वरः ॥ ८२॥
खमूर्धा खमणिः खड्गहस्तः खचरलोचनः ।
खगयानो गणेशानो गजासुरनिसूदनः ॥ ८३॥
गमागमविहीनश्च गमागमविशेषकः ।
गमा गमातिगज्ञेयो गाङ्गेयो गणसूर्गणः ॥ ८४॥
गम्भीरनिनदोगेयप्रियो गुरुविशेषितः ।
गरीयान्गहनङ्गण्डमाली गुणगणार्चितः ॥ ८५॥
गुण्यो गणकपूज्यश्च गगनामलसत्त्वधृत् ।
गञ्जालयो गञ्जपतिर्गुहावासी गिरिप्रियः ॥ ८६॥
गतिःसंन्यासतत्त्वानां गम्यो गतपरात्मनाम् ।
गयादितीर्थसङ्घानां पावनो गतिमान्गतिः ॥ ८७॥
घस्मरो घुसृणलेपी घृणी घृतभुजार्चितः ।
घृणिमान्घर्षणोऽघानां घनाघनरवो घनः ॥ ८८॥
घनवाद्यरतःच्छन्दः छविमांञ्छिदुरोहसाम् ।
छन्दसां च्छन्दरूपश्च जरातीतो जपप्रियः ॥ ८९॥
जपाकुसुमसङ्काशोजनपालो जलेश्वरः ।
जालन्धरधरो जाली जालन्धरनिषूदनः ॥ ९०॥
जाज्वल्यमानतेजाश्व जगतीशो जनातिगः ।
जम्बारातिप्रियो जम्बूप्रसूनाभरणो जटी ॥ ९१॥
जाबालवेशप्रच्छन्नोजजशाली जटापहः ।
जाढ्यहाजङ्गलावासी जन्मसाफल्यदो नृणाम् ॥ ९२॥
जवनो जीवनं जीवप्राणदो जयतांवरः ।
जल्पाकोजनजन्मादिर्जलदाश्रय एवच ॥ ९३॥
जलदो जर्जरीवाद्यरतोझङ्कार एवच ।
झरप्रवाह्योढक्काढ्यो फणत्कारप्रियस्तथा ॥ ९४॥
बन्धुरो बन्धुराङ्गश्च बन्धमोचनतत्परः ।
बालखिल्याग्रणीर्बन्धुप्रियो वधरसंश्रयी ॥ ९५॥
बलिप्रियो बलारातिरतिदोबहुदो बहुः ।
बाहुभूष्यो बलिघ्नश्च बलासुरनिषूदनः ॥ ९६॥
बलदो बलिनांश्रेष्ठो बलिष्ठो बलिदायकः ।
बाहुलो बलिदर्पघ्नो बहुलाबलहोबली ॥ ९७॥
बकासुरप्रमाथीच बकपत्री बलोज्ज्वलः ।
भासुरो भास्करो भालतलाङ्कितकलोज्ज्वलः ॥ ९८॥
भामाप्रियो भस्मरूक्षो भमाली भगमाल्यपि ।
भगी भगवदीड्यश्च भुवनेशो भगौच्चयकृत् ॥ ९९॥
भोगी भोगिविभूषश्च भूशायी भारहापिच ।
भूतप्रभुश्चभूतीशो भगनेत्रहरो भपः ॥ १००॥
भानुर्भाभूमिशायो च भूतिदायी भुवोगतिः ।
भोगास्पदं भूपवन्द्योभोगिकङ्कण एवच ॥ १०१॥
भौमासुरप्रमाथीच भौमपीडानिवारणः ।
भौमदेवो भूमिदेवभक्तिपूजितपत्कजः ॥ १०२॥
भूमिद्वारं मतिर्मन्ता मरणत्रासकारकः ।
महिषासुरघाती च महिषासनभीतिदः ॥ १०३॥
मननाप्यो मनोध्येयोमतिमान्मननप्रियः ।
मनोरथपथातीतो मनोरथगतिप्रदः ॥ १०४॥
मनोभिरामो मान्यश्च महेश्वासो महाकृपः ।
महीभरणदक्षश्च महाभीतिप्रभञ्जनः ॥ १०५॥
मुनिर्मननशीलश्च। मुनीनान्त्राणकारणम् ।
मरुज्ज्येष्ठो मरुत्त्वांश्चमरुपातामृतापहः ॥ १०६॥
मठाश्रयो मणिस्थानो मञ्जीरध्वनिसङ्गतः ।
महाशयो महाशश्च महादेहो महातपाः ॥ १०७॥
महाचरितचञ्चुश्च महाश्चर्यनिधिर्महः ।
महनीयपदद्वन्द्वो महानीतिर्महागुणः ॥ १०८॥
महाधृतिर्महाशान्तो महीभरणतत्परः ।
मयूरपृष्ठगो मन्त्रिग्रामणोर्मन्त्रपारगः ॥ १०९॥
महासीनो महाचित्तो महानन्दो महोदयः ।
वाजिकृतारियूगश्च वाजपेयैकसाधकः ॥ ११०॥
वानप्रस्थार्च्यपत्पीठो वरणीयोमलात्मनाम् ।
वृन्दारकोत्तमो वन्यवृत्तिर्वननवञ्चकः ॥ १११॥
वन्दारुगम्यो वृन्दश्रीर्वनमाली विशाम्पतिः ।
वनेचराग्रणीर्वन्द्यचरणो वनपालकः ॥ ११२॥
वसुर्वसुप्रदो वस्तुसाधको वास्तुपूजितः ।
वासिन्तीवासितोवल्गत्पाणिर्वचनसौख्यदः ॥ ११३॥
वल्लीव्रततिगुप्तात्मा वामनो वामलोचनः ।
विशुद्धात्मा विरूपश्चविस्तारो विग्रहीविषः ॥ ११४॥
विकृतो विश्वरूपश्च विख्यातो विश्वदृग्वहः ।
विमोचितामरो वाली वालिबन्धकएवच ॥ ११५॥
व्यासो व्यसनसक्तश्च विरजा वीरणीस्तथा ।
विबुधाग्र्यचरो विश्वो वीरो वर्धनएवच ॥ ११६॥
विरामोखिलभूतानां वर्धनश्चापदांवटः ।
वृषारूढो विवस्वांश्च वृषशास्तावृषध्वजः ॥ ११७॥
विश्वक्षेत्रो विशालाक्षो विमन्युर्विशदाशयः ।
विभीषणो विशेषज्ञो विज्ञानी च विमर्शकः ॥ ११८॥
विकल्पकल्पितो वीणावादनैकरतो वणिक् ।
वाणिनीवननो वर्चो वित्तो वार्धकिरूपधृत् ॥ ११९॥
वाडवास्यो वरूथी च वसुधातलभूषणम् ।
वसुन्धराधरो वर्मभृतांवरनिनादितः ॥ १२०॥
वक्ता च वनिताढ्यश्च व्रतवान्व्रतसंयुतः ।
वेदगर्भो वादिरूपो वासनाक्षयदो वशी ॥ १२१॥
शरणं शरधच्छर्म शशिभूषितशेखरः ।
शरीरधृतभूमिश्च शरभः शशिशीतलः ॥ १२२॥
शीतलामलदेहश्रीः शीतांशुनयनोज्ज्वलः ।
श्रीपर्णः शर्मदः शम्भुः श्रीस्तुतः शलभः शलः ॥ १२३॥
शशिविन्दुः शमीगर्भःशब्दब्रह्म शचीपतिः ।
शिवश्च शरभूः शार्ङ्गधन्वा शान्तमनाः शमः ॥ १२४॥
शिखियानः शिखीशैलगर्भवासी शिवात्मजः ।
शल्यहारी शूलपाणिः शूलभूः शूलरोगहृत् ॥ १२५॥
शल्यस्त्तुतः शरासङ्गधुतारिशवलः शमी ।
शशः शङ्करकीर्तिश्च शान्तात्मा शम्बलापहः ॥ १२६॥
शम्बलाग्रामवासी च शंवाहः शमभूः शिशुः ।
श्मशाननिलयः श्वेतच्छविः शक्तिमयः शिवः ॥ १२७॥
शनिपीडापहः शङ्कुकीली शवरसंस्तुतः ।
षाण्मातुरश्च षढ्वक्त्रःसहनसहजः सुहृत् ॥ १२८॥
सहस्रदः सहस्राक्षः सद्भूतिः सद्गतिः सदः ।
सेनाभर्तो सभारत्नं सर्वभूतावसानभूः ॥ १२९॥
सर्वः सर्गश्च सन्मात्रं सिद्धसेवितपद्युगः ।
सिद्धिदः साधकः सिद्धः सुरासुरनमस्कृतः ॥ १३०॥
सुरासुरबलत्राता सुरासुरबलापहः ।
सप्तस्वरार्च्यकीर्तिश्च सप्तलोकैकसंश्रयः ॥ १३१॥
सप्तसप्तिसुतेजाश्च सुकलःसकलातिहृत् ।
सर्वावासः सर्वबीजं सिन्धुशायी स्वदः स्वभूः ॥ १३२॥
सदोद्योगी सुलीलश्च सद्भूतिः सर्गभावनः ।
स्वभावः सर्वगः सन्धिः सदसत्पतिरेवच ॥ १३३॥
सामोदः सुभगः सत्यः सर्वाधारी सभूतपः ।
सदेवासुरसङ्गीतः सहस्रांशुकिरीटधृत् ॥ १३४॥
सज्जःसङ्कलितालोकः सर्वभूतसमाश्रयः ।
सद्भोगनिलयः सिन्धुः सङ्गीतागमविश्रुतः ॥ १३५॥
साहित्यामृततृप्तश्च सौहित्याशी सुरेश्वरः ।
सत्त्ववन्द्यः सत्वधामा सर्वमङ्गलसंश्रयः ॥ १३६॥
सुधीः सत्सुलभः सङ्गविकलः सुविशारदः ।
हरात्मजो हताशङ्को हर्यश्वो हलिपूजितः ॥ १३७॥
हनूमत्संस्तुतो हालापानसक्तो हरीश्वरः ।
हिरण्यकवचो हन्ताऽपदां हाभो हतास्वरः ।
हेतिहस्तो हयो हालो हयगो हारभूषितः ॥ १३८॥
फलश्रुतिः -
इत्येवं कार्तिकेयस्य सर्वागमरहस्यकम् ।
नाम्नामष्टाभिरधिकं सहस्रं सत्फलप्रदम् ॥ १३९॥
अवाप्नुवन्ति तत्सर्वम्पाठेनास्य मनीषिणः ।
भूतप्रेतपिषाचाद्या दूरादेवक्षयन्ति हि ॥ १४०॥
नतादृग्जायतेनर्थं लोके किञ्चन भूतजम् ।
योदृशी विघ्नशान्त्यर्थं शक्तिरस्य मता सताम् ॥ १४१॥
तस्मान्निः संशयोभूत्वा धर्मकामार्थसिद्धये ।
स्वामिनः कार्तिकेयस्य पठेन्नाम्नां सहस्रकम् ॥ १४२॥
इति स्वामिकार्तिकेयसहस्रनामाभिधं चतुर्थाङ्गं समाप्तम् ॥
Encoded by Sivakumar Thyagararajan
Proofread by Sivakumar Thyagararajan, Preeti N Bhandare