श्रीसुब्रह्मण्यषोडशनामस्तोत्रम्
ध्यानम् -
षड्वक्त्रं शिखिवाहनं त्रिनयनं चित्राम्बरालङ्कृतं
शक्तिं वज्रमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् ।
पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदा
ध्यायामीप्सितसिद्धिदं शिवसुतं स्कन्दं सुराराधितम् ॥
सुब्रह्मण्यं प्रणाम्यहं सर्वज्ञं सर्वगं सदा ।
अभीप्सितार्थ सिद्ध्यर्थं प्रवक्ष्येनामषोडशम् ॥
ॐ प्रथमोज्ञानशक्त्यात्मा द्वितीयो स्कन्द एव च ।
अग्निगर्भस्तृतीयस्तु बाहुलेयश्चतुर्थकः ॥ १॥
गाङ्गेयः पञ्चमः प्रोक्तः षष्ठः शरवणोद्भवः । (पञ्चमोविद्यात्)
सप्तमः कार्तिकेयश्च कुमारश्चाष्टमस्तथा ॥ २॥ (कुमारस्यादथाष्टकः)
नवमः षण्मुखः प्रोक्तो दशमस्तारकान्तकः । (षण्मुखश्चैव दशमःकुक्कुटद्वजः)
एकादशश्च सेनानीः गुहो द्वादश एव च ॥ ३॥ (एकादशःशक्तिधरो)
त्रयोदशो ब्रह्मचारी शिवतेजाश्चतुर्दशः । (षाण्मातुर चतुर्दशः)
क्रौञ्चदारी पञ्चदशः षोडशः शिखिवाहनः ॥ ४॥ (क्रौञ्चभित् पञ्चदशकः)
षोडशैतानि नामानि यः पठेद्भक्तिसंयुतः ।
बृहस्पतिसमो वाचि ब्रह्मतेजियुतो भवेत् ।
यद्यत्प्रार्थयते मर्त्यस्तत्सर्वं लभते ध्रुवम् ॥ ५॥
(alternative phalashrutiH
एतत् षोडशनामानि जपेत् सम्यक्सदादरम् ।
विवाहेदुर्गमे मार्गे दुर्जये च तथैवच ॥
कवित्वेच महाशस्त्रे विज्ञानार्थीफलंलभेत् ।
कन्यार्थी लभतेकन्या जयार्थी लभते जयम् ॥
पुत्रार्थी पुत्रलाभश्च धनार्थी लभते धनम् ।
आयुरारोग्य वश्यश्च धनधान्य सुखावहम् ॥
॥ इति श्री शङ्करसंहितायां शिवरहस्यखण्डे
श्री सुब्रह्मण्यषोडशनामस्तोत्रम् ॥)
Encoded and proofread by antaratma at Safe-mail.net