श्रीसुब्रह्मण्यषोडशनामावलिः
ध्यानम् -
षड्वक्त्रं शिखिवाहनं त्रिनयनं चित्राम्बरालङ्कृतं
शक्तिं वज्रमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् ।
पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदा
ध्यायामीप्सितसिद्धिदं शिवसुतं स्कन्दं सुराराधितम् ॥
सुब्रह्मण्यं प्रणाम्यहं सर्वज्ञं सर्वगं सदा ।
अभीप्सितार्थ सिद्ध्यर्थं प्रवक्ष्येनामषोडशम् ॥
ॐ ज्ञानशक्त्यात्मने नमः । स्कन्दाय । अग्निगर्भाय । बाहुलेयाय ।
गाङ्गेयाय । शरवणोद्भावाय । कार्तिकेयाय । कुमाराय । षण्मुखाय ।
तारकान्तकाय (कुक्कुटद्वजाय) । सेनान्ये (शक्तिधराय) ।
गुहाय । ब्रह्मचारिणे । शिवतेजसे (षाण्मातुराय) ।
क्रौञ्चदारिणे (क्रौञ्चभिदे) । शिखिवाहनाय नमः ॥ (१६)
षोडशैतानि नामानि यः पठेद्भक्तिसंयुतः ।
बृहस्पतिसमो वाचि ब्रह्मतेजियुतो भवेत् ।
यद्यत्प्रार्थयते मर्त्यस्तत्सर्वं लभते ध्रुवम् ॥ ५॥
इति श्रीसुब्रह्मण्यषोडशनामावलिः समाप्ता ।