सुब्रह्मण्यषडक्षराष्टोत्तरशतनामावलिः
ॐ शरण्याय नमः । शर्वतनयाय । शर्वाणीप्रियनन्दनाय ।
शरकाननसम्भूताय । शर्वरीशमुखाय । शमाय । शङ्कराय ।
शरणत्रात्रे । शशाङ्क मुकुटोज्ज्वलाय । शर्मदाय ।
शङ्खकण्ठाय । शरकार्मुक हेतिभृते । शक्तिधारिणे ।
शक्तिकराय । शतकोट्यर्कपाटलाय । शमदाय । शतरुद्रस्थाय ।
शतमन्मथविग्रहाय नमः । (१८)
ॐ रणाग्रण्ये नमः । रक्षणकृते । रक्षोबलविमर्दनाय ।
रहस्यज्ञाय । रतिकराय । रक्तचन्दनलेपनाय । रत्नधारिणे ।
रत्नभूषाय । रत्नकुण्डलमण्डिताय । रक्ताम्बराय । रम्यमुखाय ।
रविचन्द्राग्निलोचनाय । रमाकलत्रजामात्रे । रहस्याय । रधुपूजिताय ।
रसकोणान्तरालस्थाय । रजोमूर्तये । रतिप्रदाय नमः । (३६)
ॐ वसुदाय नमः । बटुरूपाय । वसन्तऋतुपूजिताय ।
वलवैरिसुतानाथाय । वनजाक्षाय । वराकृतये । वक्रतुण्डानुजाय ।
वत्साय । वरदाभयहस्तकाय । वत्सलाय । वर्षकाराय ।
वसिष्ठादिप्रपूजिताय । वणिग्रूपाय । वरेण्याय ।
वर्णाश्रमविधायकाय । वरदाय । वज्रभृद्वन्द्याय ।
वन्दारुजनवत्सलाय नमः । (५४)
ॐ नकाररूपाय नमः । नलिनाय । नकारयुतमन्त्रकाय ।
नकारवर्णनिलयाय । नन्दनाय । नन्दिवन्दिताय नटेशपुत्राय ।
नम्रभ्रुवे । नक्षत्रग्रहनायकाय । नगाग्रनिलयाय । नम्याय ।
नमद्भक्तफलप्रदाय । नवनागाय । नगहराय । नवग्रहसुवन्दिताय ।
नववीराग्रजाय । नव्याय । नमस्कारस्तुतिप्रियाय नमः । (७२)
ॐ भद्रप्रदाय नमः । भगवते । भवारण्यदवानलाय ।
भवोद्भवाय । भद्रमूर्तये । भर्त्सितासुरमण्डलाय । भयापहाय ।
भर्गरूपाय । भक्ताभीष्टफलप्रदाय । भक्तिगम्याय ।
भक्तनिधये । भयक्लेशविमोचनाय । भरतागमसुप्रीताय ।
भक्ताय । भक्तार्तिभञ्जनाय । भयकृते । भरताराध्याय ।
भरद्वाजऋषिस्तुताय नमः । (९०)
ॐ वरुणाय नमः । वरुणाराध्याय । वलारातिमुखस्तुताय ।
वज्रशक्त्यायुधोपेताय । वराय । वक्षः स्थलोज्ज्वलाय ।
वस्तुरूपाय । वशिध्येयाय । वलित्रयविराजिताय । वक्रालकाय ।
वलयधृते । वलत्पीताम्बरोज्ज्वलाय । वचोरूपाय । वचनदाय ।
वचोऽतीतचरित्रकाय । वरदाय । वश्यफलदाय । वल्लीदेवी
मनोहराय नमः ॥ (१०८)
इति सुब्रह्मण्यषडक्षराष्टोत्तरशतनामावलिः समाप्ता ।
Names are arranged in syllable sequence of the mantra
sharavaNa bhava
Proofread by Preeti N Bhandare