सुब्रह्मण्यषडक्षराष्टोत्तरशतनामस्तोत्रम्
शरण्यः शर्वतनयः शर्वाणीप्रियनन्दनः ।
शरकाननसम्भूतः शर्वरीशमुखः शमः ॥ १॥
शङ्करः शरणत्राता शशाङ्कमुकुटोज्ज्वलः ।
शर्मदः शङ्खकण्ठश्च शरकार्मुकहेतिभृत् ॥ २॥
शक्तिधारी शक्तिकरः शतकोट्यर्कपाटलः ।
शमदः शतरुद्रस्थः शतमन्मथविग्रहः ॥ ३॥
रणाग्रणि रक्षणकृद्रक्षोबलविमर्दनः ।
रहस्यज्ञो रतिकरो रक्तचन्दनलेपनः ॥ ४॥
रत्नधारी रत्नभूषो रत्नकुण्डलमण्डितः ।
रक्ताम्बरो रम्यमुखो रविचन्द्राग्निलोचनः ॥ ५॥
रमाकलत्रजामाता रहस्यो रघुपूजितः ।
रसकोणान्त रालस्थो रजोमूर्ती रतिप्रदः ॥ ६॥
वसुदो वटुरूपश्च वसन्तऋतुपूजितः ।
वलवैरिसुतानाथो वनजाक्षो वराकृतिः ॥ ७॥
वक्रतुण्डानुजो वत्सो वरदाभयहस्तकः ।
वत्सलो वर्षकारश्च वसिष्ठादिप्रपूजितः ॥ ८॥
वणिग्रूपो वरेण्यश्च वर्णाश्रमविधायकः ।
वरदो वज्रभृद्वन्द्यो वन्दारुजनवत्सलः ॥ ९॥
नकाररूपो नलिनो नकारयुतमन्त्रकः ।
नकारवर्णनिलयो नन्दनो नन्दिवन्दितः ॥ १०॥
नटेशपुत्रो नम्रभ्रूर्नक्षत्र ग्रहनायकः ।
नगाग्रनिलयो नम्यो नमद्भक्तफलप्रदः ॥ ११॥
नवनागो नगहरो नवग्रहसुवन्दितः ।
नववीराग्रजो नव्यो नमस्कारस्तुतिप्रियः ॥ १२॥
भद्रप्रदश्च भगवान् भवारण्यदवानलः ।
भवोद्भवो भद्रमूर्तिर्भर्त्सितासुरमण्डलः ॥ १३॥
भयापहो भर्गरूपो भक्ताभीष्टफलप्रदः ।
भक्तिगम्यो भक्तनिधिर्भयक्लेश विमोचनः ॥ १४॥
भरतागमसुप्रीतो भक्तो भक्तार्तिभञ्जनः ।
भयकृद्भरताराध्यो भरद्वाजऋषिस्तुतः ॥ १५॥
वरुणो वरुणाराध्यो वलाराति मुखस्तुतः ।
वज्रशक्त्यायुधोपेतो वरो वक्षः स्थलोज्ज्वलः ॥ १६॥
वस्तुरूपो वशिध्येयो वलित्रय विराजितः ।
वक्रालको वलयधृत् वलत्पीताम्बरोज्ज्वलः ॥ १७॥
वचोरूपो वचनदो वचोऽतीतचरित्रकः ।
वरदो वश्यफलदो वल्लीदेवीमनोहरः ॥ १८॥
इति सुब्रह्मण्यषडक्षराष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
Proofread by Preeti N Bhandare