ऐतरेयोपनिषद् सस्वरा
॥ ॐ ॥
ॐ वाङ्मे॒ मन॑सि॒ प्रति॑ष्ठिता॒ मनो॑ मे॒ वाचि॒
प्रति॑ष्ठितमा॒विरा॒वीर्म॑ एधि वे॒दस्य म॒ आणी᳚स्थः श्रु॒तं मे॒ मा
प्रहा॑सीर॒नेना॒धीते॑नाहोरा॒त्रान् सन्द॑धाम्यृ॒तं व॑दिष्यामि स॒त्यं व॑दिष्यामि॒
तन्माम॑वतु॒ तद्व॒क्तार॑मव॒त्वव॑तु॒ मामव॑तु व॒क्तार॒मव॑तु व॒क्तारम्᳚ ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
अथ ऋग्वेदीयैतरेयोपनिषत् ।
अथ प्रथमोऽध्यायः ।
अथ प्रथमः खण्डः
आत्मा वा इदमेक एवा᳚ग्र आसीन्नान्यत्किञ्च॑न मि॒षत् ।
स ईक्षत लोकान्नु सृ॑जा इ॒ति ॥ १॥
स इ॒मांल्लोकानसृजत । अम्भो मरीचीर्मरमा᳚पोऽदोऽम्भः परेण
दि॒वं द्यौः प्रतिष्ठा᳚ऽन्तरि॑क्षं मरीच॒यः ।
पृ॒थिवी मरो या अ॒धस्तात्ता आ॒पः ॥ २॥
स ईक्षतेमे नु लोका लोकपालान्नु सृ॑जा इ॒ति ।
सोऽद्भ्य एव पुरुषं समुद्धृत्या᳚मूर्च्छ॒यत् ॥ ३॥
तमभ्य॑तपत्तस्याभितप्तस्य मुखं निर॑भि॒द्यत यथाऽण्डम् ।
मुखाद्वाग्वाचो᳚ऽग्निर्नासिके निर॑भिद्येतां नासिकाभ्यां प्रा॒णः
प्रा॒णाद्वा॒युरक्षिणी निर॑भिद्येताम॒क्षीभ्यां चक्षु॒श्चक्षुष॑
आदि॒त्यः क॒र्णौ निर॑भिद्येतां कर्णाभ्यां श्रोत्रं॒ श्रोत्रद्दिश॒स्त्वङ्
निर॑भिद्यत त्वचो लोमानि लोमभ्य ओषधिवनस्पतयो हृ॒दयं
निर॑भिद्यत हृ॒दयान्मनो मनसश्च॒न्द्रमा नाभिर्निर॑भिद्यत
ना॒भ्या अपानोऽपानान्मृ॒त्युः शिश्नं निर॑भिद्यत शिश्ना॒द्रेतो᳚
रेत॑स आ॒पः ॥ ४॥
॥ इति प्रथमः खण्डः ॥
अथ द्वितीयः खण्डः
ता ए॒ता दे॒वताः सृ॒ष्टा अ॒स्मिन्महत्यर्णवे प्रापतंस्तमशनायापिपासाभ्याम᳚न्ववार्जत् ।
ता एनमब्रुवन्नायतनं नः प्र॑जानी॒हि य॒स्मिन्प्रतिष्ठिता अ॒न्नम॑दामेति ॥ १॥
ताभ्यो गामानयत्ता अब्रुवन्न वै नोऽयम॑लमि॒ति ।
ताभ्योऽश्वमानयत्ता अब्रुवन्न वै नोऽयम॑लमि॒ति ॥ २॥
ताभ्यः पुरुषमानयत्ता अब्रुवन् सुकृतं᳚ बते॒ति पुरुषो वाव॑ सुकृतम् ।
ता अब्रवीद्यथाऽऽदयतनं प्रवि॑शते॒ति ॥ ३॥
अ॒ग्निर्वाग्भूत्वा मुखं᳚ प्राविशद्वा॒युः प्राणो भूत्वा नासिके᳚
प्राविशदादित्यश्चक्षुर्भूत्वाऽक्षिणी᳚ प्राविशाद्दिशः॑ श्रोत्रं भूत्वा कर्णौ᳚
प्राविशन्नोषधिवनस्पतयो लोमा᳚नि भूत्वा त्वचं᳚ प्राविशंश्च॒न्द्रमा
मनो भूत्वा हृदयं᳚ प्राविशन्मृ॒त्युरपानो भूत्वा नाभिं᳚ प्राविशदापो
रेतो भूत्वा शिश्नं᳚ प्राविशन् ॥ ४॥
तमशनायापिपासे अब्रूतामावाभ्यामभिप्रजानीही॒ति ।
स ते अब्रवीदेतास्वेव वां देवतास्वाभ॑जाम्ये॒तासु भागिन्न्यौ क॑रोमी॒ति ।
तस्माद्यस्यै कस्यै च दे॒वतायै हविर्गृ॒ह्यते भागिन्यावेवास्यामशनायापिपा᳚से भ॒वतः ॥ ५॥
॥ इति द्वितीय खण्ड ॥
अथ तृतीयः खण्डः
स ईक्षतेमे नु लोकाश्च लोकपालाश्चान्नमेभ्यः सृ॑जा इ॒ति ॥ १॥
सोऽपोभ्य॑तपत्ताभ्योऽभितप्ताभ्यो मूर्तिर॑जाय॒त यो वै सा मूर्तिरजायताऽन्नं वै॒ तत् ॥ २॥
तदेतदभिसृष्टं पराङत्यजिघांसत्तद्वा॒चा जिघृक्षत्त॒न्ना शक्नोद्वा॒चा ग्र॑हीतुम् ।
स यद्धैनद्वा॒चाऽग्रहैष्यद॒भिव्याहृत्य है॒वान्न॑मत्र॒प्स्यत् ॥ ३॥
तत्प्रा॒णेनाजिघृक्षत्त॒न्नाशक्नोत् प्रा॒णेन ग्र॑हीतुम् ।
स यद्धैनत्प्रा॒णेनाग्र॑हैष्यद॒भिप्राण्य है॒वान्न॑मत्र॒प्स्यत् ॥ ४॥
तच्च॒क्षुषाऽजिघृक्षत्त॒न्नाशक्नोच्च॒क्षुषा ग्र॑हीतुम् ।
स यद्धैनच्च॒क्षुषाऽग्र॑हैष्यद् दृ॒ष्ट्वा हैवान्न॑मत्र॒प्स्यत् ॥ ५॥
तच्छ्रो॒त्रेणाजिघृक्षत्त॒न्नाशक्नोच्छ्रो॒त्रेण ग्र॑हीतुम् ।
स यद्धैन॒च्छ्रोत्रेणाग्रहैष्यच्छ्रु॒त्वा है॒वान्न॑मत्र॒प्स्यत् ॥ ६॥
तत्त्व॒चाऽजिघृक्षत्त॒न्नाशक्नोत् त्व॒चा ग्र॑हीतुम् ।
स यद्धैनत्व॒चाऽग्रहैष्यत्स्पृ॒ष्ट्वा है॒वान्न॑मत्र॒प्स्यत् ॥ ७॥
तन्म॒नसाऽजिघृक्षत्तन्नाशक्नोन्म॒नसा ग्र॑हीतुम् ।
स यद्धैनन्म॒नसाऽग्रहैष्यद्धया॒त्वा है॒वान्न॑मत्र॒प्स्यत् ॥ ८॥
तच्छि॒श्नेनाजिघृक्षत्त॒न्नाशक्नोच्छि॒श्नेन ग्र॑हीतुम् ।
स यद्धैनच्छि॒श्नेनाग्रहैष्यद्वि॒सृज्य है॒वान्न॑मत्रप्स्यत् ॥ ९॥
तद॒पानेनाजिघृक्षत्त॒दावयत् ।
स एषोऽन्नस्य ग्रहो यद्वायुरन्नमायुर्वा ए॒ष य॒द्वायुः ॥ १०॥
स ईक्षत कथं न्विदं मदृते स्यादि॒ति स ईक्षत कतरेण प्रपद्या इ॒ति ।
स ईक्षत यदि वा॒चाऽभिव्याहृतं यदि प्रा॒णेनाभिप्राणितं यदि च॒क्षुषा
दृ॒ष्टं यदि श्रो॒त्रेण श्रु॒तं यदि त्व॒चा स्पृ॒ष्टं यदि म॒नसा ध्या॒तं यद्य॒पानेनाभ्यपानितं
यदि शि॒श्नेन विसृष्टमथ को᳚ऽहमि॒ति ॥ ११॥
स एतमेव सीमानं विदर्यैतया द्वाराप्रा᳚प॒द्यत । सैषा विदृतिर्ना॒म द्वास्तदेतन्नान्दनं
तस्य त्रय आवसथास्त्रयः॑ स्व॒प्ना अ॒यमावसथोऽयमावसथोऽयमावस॑थ इ॒ति ॥ १२॥
स जातो भूतान्यभिव्यै॒ख्यत् किमिहान्यं वावदिषदि॒ति ।
स एतमेव पुरुषं ब्रह्म ततममपश्यदिदमद॑र्शमहो ॥ १३॥
तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम । तमिद᳚न्द्रं सन्तमिन्द्रमि॑त्याच॒क्षते प॒रोक्षे᳚ण ।
प॒रोक्षप्रि॑या इव हि दे॒वाः परोक्षप्रिया इव॑ हि देवाः ॥ १४॥
॥ इति तृतीयः खण्डः ॥
इत्यैतरेय-द्वितीयारण्यके चतुर्थोऽध्यायः ।
इति उपनिषत्सु च प्रथमोऽध्यायः ।
अथ द्वितीयो अध्यायः ।
अथ चतुर्थः खण्डः
पुरुषे॒ ह वा अयमादि॒तो ग॑र्भो भ॒वति । यदेतद्रेतस्तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजः
सम्भूतमात्मन्येवात्मानं बिभ॒र्ति तद्य॒या स्त्रियां सिञ्चत्य॒थैनज्जनयति तदस्य प्रथ॑मं ज॒न्म ॥ १॥
तत् स्त्रियां आत्मभूयं गच्छति यथा स्वमङ्गं तथा ।
तस्मादेनां न हिनस्ति सास्यैतमात्मानमत्र गतं भावय॒ति ॥ २॥
सा भावयित्री भावयितव्या॑ भवति तं स्त्री गर्भ᳚ बिभ॒र्ति सोऽग्र एव कुमारं
जन्मनोऽग्रेऽधिभावय॒ति स यत्कुमारं जन्मनोऽग्रेऽधिभावयत्यात्मानमेव तद्भावयत्येषां
लोकानां सन्तत्या एवं सन्तता ही॒मे लो॒कास्तदस्य द्विती᳚यं ज॒न्म ॥ ३॥
सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रति॑धीयते । अथास्याऽयामितर आ॒त्मा
कृतकृत्यो वयोगतः प्रैति स इतः प्रयन्नेव पुन॑र्जायते तदस्य तृती᳚यं जन्म ॥ ४॥
तदु॑क्तमृ॒षिणा- ``गर्भे॒ नु सन्नन्वे॑षामवेदम॒हं दे॒वानां॒
जनि॑मानि॒ विश्वा᳚ । श॒तं मा॒ पुर॒ आय॑सीररक्ष॒न्नध॑
श्ये॒नो ज॒वसा॒ निर॑दीयमिति । (ऋग्वेदे मण्डले ४ सूक्तं २७। १)
गर्भ एवैतच्छयानो वा॒मदेव एव॑मुवा॒च ॥५॥
स एवं विद्वानस्माच्छरीरभेदादूर्ध्वसूत्क्रम्यामुष्मिन् स्वर्गे लोके
सर्वान्कामानाप्त्वाऽमृतः समभव॑त्सम॒भवत् ॥ ६॥
॥ इति चतुर्थः खण्डः ॥
इत्यैतरेयारण्यके पञ्चमोऽध्यायः ।
इति उपनिषत्सु द्वितीयोध्यायः समाप्तः ।
अथ तृतीयो अध्यायः ।
अथ पञ्चमः खण्डः
कोऽयमात्मेति व॒यमुपास्महे । कतरः स आत्मा । येन वा॑ रूपं पश्यति येन
वा॑ शब्दं शऋणोति येन वा॑ गन्धानाजिघ्रति येन वा॑ वाचं व्याकरोति येन
वा॑ स्वादु चास्वादु च वि॑जाना॒ति ॥ १॥
यदेतद् हृदयं मनश्चैतत्संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा
दृ॒ष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुरसुः कामो व॑श इ॒ति ।
सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि॑ भव॒न्ति ॥ २॥
ए॒ष ब्रह्मैष इन्द्र ए॒ष प्रजापतिरेते स॒र्वे देवा इमानि च पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीत्येतानीमानि च क्षु॒द्रमिश्राणीव बीजानीतराणि चेतराणि चाण्डजानि च जरायुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरं सर्वं तत्प्र॒ज्ञानेत्रं प्र॒ज्ञाने᳚ प्रतिष्ठितं प्र॒ज्ञाने᳚त्रो लो॒कः प्र॒ज्ञा प्रति॒ष्ठा प्रज्ञा᳚नं ब्रह्म ॥ ३॥
स ए॒तेन प्राज्ञेनात्मनाऽस्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे
लोके सर्वान्कामानाप्तवाऽमृतः समभव॑त्सम॒भवदित्योम् ॥ ४॥
॥ इति पञ्चमः खण्डः ॥
इत्यैतरेयाण्यके षष्ठोऽध्यायः ।
इति उपनिषत्सु तृतीयोऽध्यायः ।
ॐ वाङ्मे॒ मन॑सि॒ प्रति॑ष्ठिता॒ मनो॑ मे॒ वाचि॒
प्रति॑ष्ठितमा॒विरा॒वीर्म॑ एधि वे॒दस्य म॒ आणी᳚स्थः श्रु॒तं मे॒ मा
प्रहा॑सीर॒नेना॒धीते॑नाहोरा॒त्रान् सन्द॑धाम्यृ॒तं व॑दिष्यामि स॒त्यं व॑दिष्यामि॒
तन्माम॑वतु॒ तद्व॒क्तार॑मव॒त्वव॑तु॒ मामव॑तु व॒क्तार॒मव॑तु व॒क्तारम्᳚ ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
इत्यैतरेयोपनिषत्सम्पूर्णा ।
Encoded and proofread by Premraj Ware