चूलिकोपनिषद्दीपिका

चूलिकोपनिषद्दीपिका

ॐ तत्सद्ब्रह्मणे नमः । ॥ चूलिकोपनिषत् अथवा मन्त्रिकोपनिषत् ॥ (नारायणविरचितदीपिकासमेता) ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ चूलिका चूडिका लोके स्तम्भाग्रं तीक्ष्णमुच्यते । तद्वद्वेदान्तभागोऽयं चतुष्खण्डा हि पञ्चमी ॥ १॥ योगफलमात्मदर्शनं स चाऽऽत्माऽतिसन्निहितोऽपि कण्ठस्थहारवत्पराग्दृष्टिना गुरुं विना न दृश्यत इति तद्बोधनार्थमुत्तरो ग्रन्थस्तत्र हाररूपकेणाऽऽह-- ॐ अष्टपादं शुचिर्हंसं त्रिसूत्रं मणिमव्ययम् । द्विवर्तमानं तेजसैद्धं सर्वः पश्यन्न पश्यति ॥ १॥ अष्टपादमिति । अष्टौ प्रकृतिरूपाः पादा अवयवा अस्य तमष्टपादम् । तदुक्तम्-- ``भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा'' ॥ इति । अस्याः पादत्वं सर्वतः प्राथम्यसाम्यात् । शुचिरुज्ज्वलः । शुचिःशब्दः सकारान्तो नपुंसकः । शुचिमिति वा पाठः । हन्त्यज्ञानमिति हंसस्तम् । त्रीणि सूत्राणि धर्मार्थकामा यस्य मोक्षस्य स्वरूपानतिरेकात् । त्रयो गुणा वा तिस्रो नाड्यो वा । मणिं प्रकाशत्वात् । न विविधमेत्यव्ययमेकरूपम् । द्वयोः स्थूलसूक्ष्मदेहयोर्वर्तमानं तिष्ठन्तं द्विवर्तमानम् । तेजसा प्रकाशेनेद्धं दीप्तं तेजसैद्धं छान्दसी वृद्धिः । एवंविधमात्मानं कण्ठस्थाहारमिव सर्वो लोकः पश्यन्नपि न पश्यति । हारोऽप्यष्टकन्दुकावयव उज्ज्वलो हंसलक्षणोपेतास्त्रिवृत्सूत्रो मणिमयो दृढो द्वयोर्दक्षिणोत्तरभागयोर्वर्तमानस्तेजसा दीप्तश्च भवति । सर्वो लोकस्तं पश्यन्नप्यतिसान्निध्यान्न पश्यति ॥ १॥ तर्हि तद्दर्शने क उपाय इत्यत आह-- भूतसम्मोहने काले भिन्ने तमसि वैश्वरे । अन्तः पश्यति सत्त्वस्थं निर्गुणं गुणगह्वरे ॥ २॥ भूतेति । भूतमोहजनके काले कृष्णवर्ण ऐश्वर ईश्वराधिष्ठिते तमस्यज्ञाने भिन्ने नष्टे सत्यन्तरेव सन्निहितं पश्यति सत्त्वस्थं बुद्धिस्थं तत्साक्षिणं तत्प्रकाश्यं वा । ``दृश्यते त्वग्र्यया बुद्ध्या'' इति श्रुतेः । स्वयं निर्गुणमपि गुणकोटरे लिङ्गेऽहमिति भासमानं मेघण्डल इव सूर्यम् ॥ २॥ अशक्यः सोऽन्यथा द्रष्टुं ध्येयमानः कुमारकः । विकारजननीं मायामष्टरूपामजां ध्रुवाम् ॥ ३॥ ध्यायतेऽध्यासिता तेन तन्यते प्रेरिता पुनः । स्तूयते पुरुषार्थं च तेनैवाधिष्ठिता पुरा ॥ ४॥ स कुमारको जरारहितः ``त्वं कुमार उत वा कुमारी'' इति मन्त्रवर्णात् । अन्यथेश्वरानुग्रहेण तमोभेदं विना प्रकारान्तरेण द्रष्टुमशक्यः । ध्येयमानो बाह्यदृष्ट्या चिन्त्यमानोऽपि । छान्दस एकारः । अथवाऽद्यापि ध्येयं चिन्तनीयं विचार्यं मानं प्रमाणमस्य दुर्विज्ञेयत्वात् । मायां ध्यायते चिन्तयति जगत्सृष्ट्यर्थं सम्भावयति नारीमिवर्तुस्नाताम् । तदुक्तम्--'' मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् । सम्भवः सर्वभूतानां ततो भवति भारत ``॥ इति । तेनाध्यासिताऽऽक्रान्ताऽऽरूढा प्रेरिता च सती तन्यते स्वयमेव कार्यरूपेण तता भवति । कर्मकर्तरि कर्मप्रत्ययः । तेनैवाधिष्ठिता सती पुरा पुरुषार्थं भोग्यम् । स्तूयते प्रस्तुतवती । कर्मकर्ता । पुरि लुङ्चास्म इति भूतेऽनद्यतने लट् ॥ ३॥ ४ ॥ भोग्यवस्तुजनकत्वेन मायां धेन्वा रूपयति-- गौरनादवती सा तु जनित्री भूतभाविनी । असिता सितरक्ता च सर्वकामदुघा विभोः ॥ ५॥ गौरिति । इयं गौर्दोग्ध्रीश्वरवाहनानडुद्वत्सा चेत्किं हम्बारं करोति नेत्याह-- अनादवतीति । नादरहिताऽचेतनत्वाद्वक्तुमसमर्थेश्वराधीनेत्यर्थः । यद्वा गौरी शुक्ला सत्त्वप्रधाना सती नादवती वेदप्रवर्तिका । पुंवद्भावः । सर्वस्य । ``गौरं शुक्लेऽरुणेऽपि च?'' इति विश्वः । असिता तामसी । सिता चासौ रक्ता च सितरक्ता सात्त्विकी राजसी चेत्यर्थः । विभोरीश्वरस्य । सर्वकामदुघा सर्वान्कामान्दोग्धि यथेष्टकार्यकारिणी । महानारायणीये श्वेताश्वतरे चास्याश्छागीसाम्यमुक्तम्-- ``अजामेकां लोहितशुक्लकृष्णां वह्रीः प्रजाः सृजमानां (जनयन्तीं) सरूपाः । अजो ह्येको जुषमाणोऽनु शेते जहात्येनां भुक्तभोगामजोऽन्यः'' इति ॥ ५॥ इति प्रथमः खण्डः ॥ १॥ जीवानां बहुत्वं भोक्तृत्वमीश्वरस्यैकत्वं प्रयोजकत्वं चाऽऽह-- पिबन्ते नामविषयमसङ्ख्याताः कुमारकाः । (पिबन्ति) एकस्तु पिबते देवः स्वच्छन्देन वशानुगः ॥ ६॥ पिबन्त इति । नाम शब्दो विषयोऽर्थः । छान्दसत्वात्कर्त्रभिप्राये क्रियाफल आत्मनेपदम् । प्रयोजकव्यापारः कर्त्रभिप्रायं क्रियाफलमिति कैयटः । वशा वन्ध्या तामनुगतः । पर्वतराजपुत्र्या अप्रकृतत्वात् । यद्वा वशाः स्वविधेया अनुगाः परिवारो यस्य वशानुगः ॥ ६॥ तर्हि किमस्य सर्वथा भोक्तृत्वं नेत्याह-- ध्यानक्रियाभ्यां भगवान्भुङ्क्तेऽसौ प्रथमं प्रभुः । ध्यानक्रियाभ्यामिति । प्रथमं ध्यायति भगवानिदमिति ततः पश्यति सैव क्रिया तेन स प्रथमं भुङ्क्ते तदुच्छिष्टमन्यो भुङ्क्ते । ध्यात्वाऽवलोकनमेव तस्य भोजनम् । ``न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति'' इति श्रुतेः । भुङ्क्त इत्युक्ते कां भुक्ते तत्राऽऽह-- सर्वसाधारणी दोग्ध्रीमिज्यमानां सुयज्वभिः ॥ ७॥ सर्वेति । सर्वेषां साधारणीं समभोग्यामव्याकृतरूपामित्यर्थः । ``एकमस्य साधारणं'' इति श्रुतेः । दोग्ध्री तु स्वभक्षमपेक्षतेऽन्यथा दोहासम्भवाज्ञत आह--इज्यमानां सुयज्वभिः । साधुयाज्ञिकैर्हव्यकव्येन पूज्यमानाम् ॥ ७॥ तर्हि तेषामन्यापेक्षया फलविशेषेण भाव्यमित्यपेक्षायामाह-- पश्यन्त्यस्यां महात्मानं सुपर्णं पिप्पलाशनम् । उदासीनं ध्रुवं हंसं स्नातकाध्वर्यवो हयेत् ॥ ८॥ पश्यन्तीति । वृक्षस्थानीयमेकं देहं त्यक्त्वा देहान्तरं गच्छतीति सुपर्णोपमं सुपर्णम् । पिप्पलं कर्मफलमश्नाति तं पिप्यलाशनम् । वस्तुवृत्त्योदासीनं स्नातकाध्वर्यवो हवाद्धोमात्पश्यन्तीत्यन्वयः । आत्मदर्शनमेव यागादिफलम् । वहेदिति पाठे तानियं वहेन्निर्वहेद्योगक्षेमादिनेति व्याख्येयम् । हव इति पाठे हवनकर्मणि । हय इति पाठे हयोऽश्वस्तदुपलक्षितेऽश्वमेधकर्मणि । हयेदिति पाठे तानियं वर्धयेत् ॥ ८॥ अध्वर्यवफलमुक्त्वा हौत्रफलमाह-- शंसन्तमनुशंसन्ति बह्वृचाः शस्त्रकोविदाः । (शास्त्रकोविदाः) शंसन्तमिति । शस्त्रकोविदाः । सपादबन्धो मन्त्र ऋक्त्या केवलया स्तुतिः शस्त्र गीयमानया तया स्तुतिः स्तोत्रम् । ``ऋग्भिः शंसन्ति यजुर्भिर्यजन्ति सामभिः स्तुवन्ति'' इति यास्कवचनात् । शस्त्रे कोविदाः कुशलाः । फलं पूर्वोक्तमेवानुसन्धेयं सर्वत्र । सामगानां व्यापारमाह- रथन्तरे बृहत्साम्नि सप्तैवैते च गीयते ॥ ९॥ रथन्तर इति । रथन्तरे गीयते बृहत्साम्नि गीयते । सामगैर्दोग्ध्रीपतिरिति शेषः । किं बहुना सप्तैवैते च सामभेदा गायन्तीति विपरिणामः । रथन्तरं बृहत्साम वैरूपं वैराजं महानाम्नी रेवती वामदेव्यमिति सप्त सामानि । दोग्ध्रीपतिः फलं पूर्वोक्तं ददातीति ज्ञेयम् ॥ ९॥ अथर्वणां व्यापारमाह-- मन्त्रोपनिषदं ब्रह्म पदक्रमसमन्वितम् । पठन्ति भार्गवा ह्येतदथर्वाणो भृगूत्तमाः ॥ १०॥ (पठन्ते) मन्त्रेति । मन्त्राश्चोपनिषदं च मन्त्रोपनिषदम् । उपनिषदशब्दोऽकारान्तो नपुंसकमस्ति । ब्रह्म ब्राह्मणं पठन्ति मायापतिं भजन्तीति भावः ॥ १०॥ इति द्वितीयः खण्डः ॥ २॥ भार्गवग्रन्थानां विषयमीश्वरमाह-- ब्रह्मचारी च व्रात्यश्च स्कम्भोऽथ पलितस्तथा । अनडूवाल्लोहितोच्छिष्टः पठ्यते भृगुविस्तरे ॥ ११॥ कालः प्राणश्च भगवान्मन्युः पुरुष एव च । (भगवान्मृत्युः) शर्वो भवश्च रुद्रश्च श्यावाश्वः सासुरस्तथा ॥ १२॥ ब्रह्मचारीत्यादिसार्धद्वाभ्याम् । ब्रह्मचारित्वव्रात्यत्वाभ्यां सर्वविरुद्धधर्मा अस्मिन्नविरुद्धा इत्युक्तम् । स्कम्भः स्तम्भकः । स्कम्भिः स्तम्भे । वृद्धः कुमारश्चेति विरुद्धम् । अनडुत्त्वं वाह्यवाहकयोरकेत्वात् । लोहितोच्छिष्ट आर्द्रगजचर्मपरिधानत्वात् । कालः संहर्तृत्वात् । प्राणो वायुर्मूर्तत्वात् । मन्युस्तम उपाधिना । शर्वः । शॄ हिंसायाम् । भवति प्रभवति भवः । रोदनाद्रुद्रः । श्यावा विकृता अश्वा इन्द्रियाणि नेत्रादीनि यस्य । त्रिनेत्रदशभुजादिरूपत्वात् । असुरैर्वाणादिभिः सहितः सासुरः ॥ ११॥ १२ ॥ प्रजापतिर्विराट्चैव पार्ष्णिः सलिलमेव च । स्तूयते मन्त्रसंयुक्तैरथर्वविहितैर्विभुः । तं षाड्विंशकमित्येके सप्तविंशं तथाऽपरे ॥ १३॥ पुरुषं निर्गुणं साङ्ख्यमथर्वाणं शिरो विदुः । चतुर्विंशतिसङ्ख्याकमव्यक्तं व्यक्तदर्शनम् ॥ १४॥ पार्ष्णिः पादपृष्ठं तत्तुल्यः संहारे लोकमर्दनात् । सलिलः सलिलवर्णाङ्गदत्वात् । एवं विंशतिविशेषणो विभुर्मन्त्रब्राह्मणाभ्यां स्तूयते । अथर्वविहितैर्ब्राह्मणैः । विभुरीश्वरः परमात्मा । षड्विंशकं पौराणिकाः । सप्तविंशं तद्भेदा एवम् । ``मात्रा भूतनीन्द्रियाणि मनो बुद्धिरहङ्कृतिः । महान्प्रधानं तत्त्वानि षड्विंशः परमेश्वरः'' ॥ इति । चित्तेन साहित्ये सप्तविंश इति । सङ्ख्यायतेऽनयेति सङ्ख्या तत्सम्बन्धी साङ्ख्यस्तं ज्ञानगम्यमित्यर्थः । तदुक्तम्-- ``मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ``॥ इति । स्वयमव्यक्तमप्रत्यक्षं व्यक्तदर्शनं व्यक्तस्य जगतो भासकम् । १३॥ १४ ॥ अद्वैतं द्वैतमित्येतत्त्रिधा तं पञ्चधा तथा ॥ १५॥ अद्वैतं वेदान्तिनो द्वैतं काणादास्त्रिधा गुणभेदेन पञ्चधा भूतभेदेन ``स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा पुनश्चैकादशः स्मृतः'' इति श्रुत्यन्तरात् ॥ १५॥ इति तृतीयः खण्डः ॥ ३॥ ब्रह्माद्यं स्थावरान्तं च पश्यन्तो ज्ञानचक्षुषः । तमेकमेव पश्यन्ति परिशुद्धं विभुं द्विजाः ॥ १६॥ द्विजास्त्रैवर्णिका वेदविदः ॥ १६॥ यस्मिन्सर्वमिदं प्रोतं ब्रह्म स्थावरजङ्गमम् । तस्मिन्नेव लयं यान्ति बुद्बुदाः सागरे यथा ॥ १७॥ यस्मिन्भावाः प्रलीयन्ते लीनास्या व्यक्ततां ययुः । नश्यन्ते व्यक्ततां भूयो जायन्ते बुद्बुदा इव । क्षेत्रज्ञाधिष्ठितं चैव कारणैर्व्यञ्जयेद्बुधः ॥ १८॥ ब्रह्मेति । ब्रह्मकार्यं स्थावरादि यस्मिन्प्रोतं तमेकं ब्रह्मैव पश्यन्तीत्यन्वयः । लयं यान्ति सर्वे भावाः । लीनास्या लीनमास्यं मुखं द्वारमविद्यालक्षणं येषां ते तथोक्ताः सन्तो व्यक्ततां ययुर्गताः । पुनर्नश्यन्ते नश्यन्ति । भूयश्च व्यक्ततां जायन्ते जनयन्ति । अन्तर्भावितण्यर्थत्वात्सकर्मकः । गच्छन्ति वा । द्विः कथनं सृष्टिप्रलययोरभ्यासज्ञापनार्थम् । क्षेत्रज्ञेनाधिष्ठितं शरीरम् । कारणैरनुमितकारणैर्हेतुभिर्विमतं चेतनाधिष्ठितं क्रियावत्त्वाद्रथवदित्यादिभिः । व्यञ्जयेल्लक्षयेत् । बुधः पण्डितः ॥ १७॥ १८ ॥ इति चतुर्थः खण्डः ॥ ४॥ एवं सहस्रशो देवं पर्यस्यन्तं पुनः पुनः ॥ १९॥ य एवं श्रावयेच्छ्राद्धे ब्राह्मणो नियतव्रतः । अक्षय्यमन्नपानं च पितॄणां चोपतिष्ठते ॥ २०॥ एवं सहस्रशः पुनः पुनः पर्यस्यन्तं देवं जन्ममरणादिप्रबन्धमापद्यमानं जीवम् । ईश्वराराधनेनोद्धरेदिति शेषः । वैराग्यार्थमिदमभिहितम् । तस्यान्नं पानं चाक्षय्यं भवति । पितॄणां चाक्षय्यमेवोपतिष्ठते ॥ १९॥ २० ॥ ब्रह्म ब्रह्मविधानं तु ये विदुर्ब्राह्मणादयः । ते लयं यान्ति तत्रैव लीनास्या ब्रह्मशायिने लीनास्या ब्रह्मशायिन इति ॥ २१॥ इत्यथर्ववेदे चूलिकोपनिषत्समाप्ता ॥ १३॥ ब्रह्म कूटस्थम् । ब्रह्मविधानं तज्ज्ञानोपायम् । लीनास्या लीनमास्यं मुखं प्रवृत्तिद्वारं रागादि येषां ते तथोक्ताः । किमर्थं लीनास्याः । ब्रह्मशायिने ब्रह्मणि शेते तच्छीलो ब्रह्मशायी भावप्रधानो निर्देशः । ब्रह्मशायित्वाय ब्रह्मणि शयनं कर्तुमेकीभवितुमित्यर्थः । द्विरुक्तिः समाप्त्यर्था ॥ २१॥ इति पञ्चमः खण्डः ॥ ५॥ नारायणेन रचिता श्रुतिमात्रोपजीवना । अस्पष्टपदवाक्यानां दीपिका चूलिकाभिधे ॥ १॥ इति नारायणविरचिता चूलिकोपनिषद्दीपिका समाप्ता ॥ १८॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ Proofread by KS Sheshadri Sharma
% Text title            : chUlikopaniShat
% File name             : chUlikopaniShat.itx
% itxtitle              : chUlikopaniShat athavA mantrikopaniShat vyAkhyA athavA dIpikA (nArAyaNavirachitA)
% engtitle              : chUlikopaniShat
% Category              : upanishhat, vyAkhyA
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Author                : Narayana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : KS Sheshadri Sharma
% Description-comments  : vyAkhyA for mantrikopanishat 32/108; Shuklayajurveda Samanya upanishad
% Indexextra            : (vyAkhyA, Scan)
% Latest update         : September 30, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org