गुह्यषोढान्यासोपनिषत्
अथ गुह्यां न्यसेत् । शिवो भवेत् । शक्तिरूपो भवेत् ।
विद्याराज्ञीन्यासमेवं चरेत् । न जपो न पूजा न साधनं न
कालनियमो न दिवा न रात्रिः । सर्वकालं न्यसेत् । शक्तियुक्तो भवेत् ।
यथाधिकारवान् न्यसेत् । पूर्णदीक्षां लभेत् । षोढारूपो भवेत् ।
चिन्तामणिर्भवेत् । क्रीं मातृस्थाने न्यसेत् । परात् परतरो भवेत् ।
शिवो भवेदित्येकः । अथ ताराद्वयपुटितां मातृकां मातृकापुटितां
तां मातृकास्थाने न्यसेत् । परातीतारूपो भवेदिति द्वितीयः । अथ
शक्तिकाद्वयपुटितां मातृकां मातृकापुटितां तां न्यसेत् । तुर्यारूपो
भवेत् । तृतीयकलारूपो भवेत् । कालसङ्कलनात् काली । सहेलं सलीलं
वा स्मरणाद्वरदानेषु चतुरा । तेनेयं दक्षिणा । सम्बोधनद्वयपुटितां
मातृकां मातृकापुटितं नामद्वयं लिपिस्थाने न्यसेत् । तुर्यात् परारूपो
भवेत् । चतुर्थीकलारूपो भवेत् । लोकपालसंवादिनी चतुर्थी ।
अथ पञ्चमीं कलां न्यसेत् । पञ्चमीकलारूपो भवेत् । सुभगात्रयं
कूर्चवह्निललनां वह्नेस्त्रिकोणदैवतस्य लालनाच्छ्रीकण्ठरूपस्तुर्या
परातीता । एतत्पुटितमातृकापुटितमेतन्मन्त्रं मातृकास्थाने न्यसेदिति
पञ्चमी । शिवत्वं गच्छति । स सर्वरूपो भवेत् । अथ षष्ठीं
कलां न्यसेत् । पूर्णां विद्याराज्ञीं लिपिस्थाने न्यसेद्व्यापयेत् । स शिवो
भवेत् । स सर्वज्ञत्वं गच्छति । स कविर्भवेत् । स संन्यासी भवेत् ।
देवो ह वै भवेत् । विश्वरूपो भवेत् । अयुतं न्यसेत् । ऋषिच्छन्दादि
पूर्ववद्भवेत् । ब्रह्माण्डगोलकेऽपि या जगतीतले तां सर्वां भुनक्ति ।
यस्याः स्मरणात् सिद्धो निदेशवर्ती च भवेत् तां न्यसेत् । न्यसनं
न्यासः । सम्यक् न्यासः सन्न्यासः । न तु मुण्डितमुण्डः । तस्य देवादयो
नमस्यन्तीति प्रोतं वेद । ॐ शिवम् ॥
(शाक्त-उपनिषदः)
इत्याथर्वणे सौभाग्यकाण्डे गुह्यषोढान्यासोपनिषत् समाप्ता ।
Proofread by Kasturi navya sahiti