मुक्तिका उपनिषत्
Excerpts from MUKTIKAA UPANISHHAD
॥ मुक्तिका उपनिषत् ॥
ऋग्वेदस्य तु शाखाः स्युरेकविंशतिसंख्यकाः ।
नवाधिकशतं शाखा यजुशो मारुतात्मज ॥
सहस्रसंख्यया जाताः शाखाः साम्नः परंतप ।
अथर्वणस्य शाखाः स्युः पंचाशद्भेदतो हरे ॥
एकैकस्यास्तु शाखाया एकैकोपनिषन्मता ।
तासामेकामृचं यश्च पठते भक्तितो मयि ॥
स मत्सायुज्यपदवीं प्राप्नोति मुनिदुर्लभाम् ।
इयं कैवल्यमुक्तिस्तु केनोपायेन सिद्ध्यति ।
मांडूक्यमेकमेवालं मुमुक्षूणां विमुक्तये ॥
तथाप्यसिद्धं चेज्ज्ञानं दशोपनिषदं पठ ।
ज्ञानं लब्ध्वा चिरादेव मामकं धाम यास्यसि ॥
तथापि दृढता नो चेद्विज्ञानस्याञ्जनासुत ।
द्वात्रिंशाख्योपनिषदं समभ्यस्य निवर्तय ॥
विदेहमुक्ताविच्छा चेदोष्टरशतं पठ ।
तासं क्रमं सशांतिं च श्रुणु वक्ष्यामि तत्त्वतः ॥
ईशकेनकठप्रश्नमुंडमांडूक्यतित्तिरिः ।
ऐतरेयं च छांदोग्यं बृहदारण्यकं तथा ॥
ब्रह्मकैवल्यजाबालश्वेताश्वो हंस आरुणिः ।
गर्भो नारायणो हंसो बिन्दुर्नादशिरः शिखा ॥
मैत्रायणी कौषीतकी बृहज्जाबालतापनी ।
कालाग्निरुद्रमैत्रेयी सुबालक्षुरिमन्त्रिका ॥
सर्वसारं निरालंबं रहस्यं वज्रसूचिकम् ।
तेजोनादध्यानविद्यायोगतत्त्वात्मबोधकम् ॥
परिव्राट् त्रिशिखि सीता चूडा निर्वाणमंडलम् ।
दक्षिणा शरभं स्कंदं महानारायणाव्हयम् ॥
रहस्यं रामतपनं वासुदेवं च मुद्गलम् ।
शांडिल्यं पैंगलं भिक्षुमहच्छारीरकं शिखा ॥
तुरीयातीतसंन्यासपरिव्रजाक्षमालिका ।
अव्यक्तैकाक्षरं पूर्णा सूर्याक्ष्यध्यात्मकुंडिका ॥
सावित्र्यात्मा पाशुपतं परं ब्रह्मावधूतकम् ।
त्रिपुरातपनं देवीत्रिपुरा कठभावना ॥
हृदयं कुंडली भस्म रुद्राक्षगणदर्शनम् ॥
तारसारमहावाक्यपंचब्रह्माग्निहोत्रकम् ।
गोपालतपनं कृष्णं याज्ञवल्क्यं वराहकम् ॥
शाट्यायनि हयग्रीवं दत्तात्रेयं च गारुडम् ।
कलिजाबालिसौभाग्यरहस्यऋचमुक्तिका ॥
एवमष्टोत्तरशतं भावनात्रयनाशनम् ।
ज्ञानवैराग्यदं पुंसां वासनात्रयनाशनम् ॥
गृहीत्वाष्टोत्तरशतं ये पठंति द्विजोत्तमाः ।
प्रारब्धक्षयपर्यंतं जीवन्मुक्ता भवंति ते ॥
ऐतरेयकौषितकीनादबिंद्वात्मप्रबोधनिर्वाणमुद्गलाक्षमालिकात्रिपुरासौभाग्य-
बह्वृचानामृग्वेदगतानां दशसंख्याकानामुपनिषदां वाङ्मे मनसीति शांतिः ॥
ईशावास्यबृहदारण्यजबालहंसपरमहंससुबालमन्त्रिकानिरालंबत्रिशिखीब्राह्मणमंडलब्राह्म-
णाद्वयतारकपैंगलभिक्षुतुरीयातीताध्यात्मतारसारयाज्ञवल्क्यशाट्यायनीमुक्तिकानां
शुक्लयजुर्वेदगतानामेकोनविंशतिसंख्याकानामुपनिषदां पूर्णमद इति शांतिः ॥
कठवल्लीतैत्तिरीयकब्रह्मकैवल्यश्वेताश्वतरगर्भनारायणामृतबिंद्वमृतनादकालाग्निरुद्रक्षुरिका-
सर्वसारशुकरहस्यतेजोबिंदुध्यानबिंदुब्रह्मविद्यायोगतत्त्वदक्षिणामूर्तिस्कंदशारीरक-
योगशिखैकाक्षराक्ष्यवधूतकठरुद्रहृदययोगकुंडलिनीपंचब्रह्मप्राणाग्निहोत्रवराहकलिसंतरण-
सरस्वतीरहस्यानां कृष्णयजुर्वेदगतानां द्वात्रिंशत्संख्याकानामुपनिषदां सह नाववत्विति शांतिः ॥
केनच्छांदोग्यारुणिमैत्रायणिमैत्रेयीवज्रसूचिकायोगचूडामणिवासुदेवमहत्संन्यासाव्यक्तकुंडिका-
सावित्रीरुद्राक्षजाबालदर्शनजाबालीनां सामवेदगतानां षोडशसंख्याकानामुपनिषदामाप्यायंत्विति शांतिः ॥
प्रश्नमुंडकमांडुक्याथर्वशिरोऽथर्वशिखाबृहज्जाबालनृसिंहतापनीनारदपरिव्राजकसीताशरभ-
महानारायणरामरहस्यरामतापनीशांडिल्यपरमहंसपरिव्राजकान्नपूर्णासूर्यात्मपाशुपत-
परब्रह्मत्रिपुरातपनदेवीभावनाब्रह्मजाबालगणपतिमहावाक्यगोपालतपनकृष्णहयग्रीव-
दत्तात्रेयगारुडानामथर्ववेदगतानामेकत्रिंशत्संख्याकानामुपनिषदां भद्रं कर्णेभिरिति शांतिः ॥
Please send corrections to Sunder Hattangadi; Last updated त्oday