पारमात्मिकोपनिषत् सव्याख्या

पारमात्मिकोपनिषत् सव्याख्या

मूलम् । प्रथमोऽनुवाकः । ॐ विष्णुस्सर्वेषामधिपति परमः पुराणः परो लोकानामजितो जितात्मन् भवते भवाय स्वाहा ॥ १.१॥ सुसूक्ष्मः सार्वः सर्वेषामन्तरात्मा तस्थुः तस्थुषां जङ्गमो जङ्गमानां विभुर्विभूणां विभवोद्भवाय स्वाहा ॥ १.२॥ ज्योतिर्वा पारमात्मिकं सार्वं विश्वं भवं भवाय प्राभूतं प्राहिण्वन् परम्पराय सुकृतं कृताय तस्मै पराय ईशिषे स्वाहा ॥ १.३॥ ईशो यस्माद्विततं वितत्य कं धृतं कामहूतो जुहोति ककुदं ककुच्छित्वा भूयः पराय स्वाहा ॥ १.४॥ रायामीशो रहितो भरन्त्यै रां रां वहन्त्याहितः रायां पतिं रां रां धरते धरित्र्यै रां वहतोद्वहाय स्वाहा ॥ १.५॥ यो ब्रह्मशब्दः प्रणवः प्रधानः शब्दः शब्दान्तरात्मनित्यो वियन्तः यत्तः प्रतरन् प्रकामं प्राजापत्यं प्रतरन् प्रकुर्वन् भूयो भूत्यै अचरं चराय स्वाहा ॥ १.६॥ यो वा त्रिमूर्तिः परमः परश्च त्रिगुणं जुषाणः सकलं विधत्ते । त्रिधा त्रिधा वा विदधे समस्तं त्रिधा त्रिरूपं सकलं धराय स्वाहा ॥ १.७॥ यद्वा कृतममृतञ्चराणां यत्सर्वनिष्ठमजरं समस्तं यत्पश्यमानमात्माभिजुषाणमन्तस्सुषुप्त्यानभिगम्यमानाय स्वाहा ॥ १.८॥ कः कोशमङ्गे कुशलं विधाय साकृतं कृण्वतेऽग्र इदꣳ सुकान्तं ककुद्वते ते कामचरं चराय स्वाहा ॥ १.९॥ यं यज्ञैर्मुनयो जुषन्ति यं देवाः परमं पवित्रं भविष्यन्त्यार्तिषु प्रणताः प्रधानाः यं सूरयो जपन्तो योगिनः सूक्ष्मैः सुप्रदर्शनैः पश्यन्तीश्वराय स्वाहा ॥ १.१०॥ द्वितीयोऽनुवाकः । यो वा गविष्ठः परमः प्रधानः पदं वा यस्य सत्त्वमासीत् यस्योपरि त्वं मुनयो न पश्यन्ति तस्मै मुख्याय विष्णषेस्वाहा ॥ २.१॥ यो वा वायुर्द्विगुणोऽन्तरात्मा सर्वेषामन्तश्चरतीह विष्णोः स त्वं देवान् मनुष्यान् मृतान् परिसञ्जीवसे स्वाहा ॥ २.२॥ त्वमग्ने त्रिगुणो वरिष्ठः परं ब्रह्म परं ज्योतिः सर्वेषां त्वं पालनाय हुतममृतं वहिष्यसे स्वाहा ॥ २.३॥ त्वं जीवस्त्वमापस्सर्वेषां जनिता त्वमाहरः त्वं विष्णो श्रमापनुदाय चतुर्गुणाय स्वाहा ॥ २.४॥ भूमेर्वितन्वन् प्रतरन्प्रकामः पोपूयमानः पञ्चभिः स्वगुणैः प्रसन्नैस्सर्वाणि मां धारयिष्यसि स्वाहा ॥ २.५॥ मनस्त्वं भूत्वा मनःप्रदोऽग्रे त्वत्तो भूतं सम्भावयिष्यसि सर्वेषां कायानामर्हमर्हते स्वाहा ॥ २.६॥ त्वं बुद्धिर्भूतानामन्तरात्मा पुण्यवतां पुण्येषु सज्जमानः त्वं बुद्ध्वा विचिन्वमानः पुष्परुपाय स्वाहा ॥ २.७॥ यः सूक्ष्मान् सञ्चरमाणान् भावाभावान् भव्याभव्यान् कुर्वन्नात्मीयममितो धुनोति धुरं वहिष्यसे स्वाहा ॥ २.८॥ यस्या दौ भयाद्भगवानुत्तस्ते स्वयं सूर्यस्य त्वं कालं वहमानः यस्मात्तेज आत्मीयं कृत्वा सर्वानस्मान् पालयिष्यसि स्वाहा ॥ २.९॥ यं त्वं पालनायाभिभूतं देवास्सर्वे विचरन्ति ते देवास्त्वमेव सर्वे माया मायैषते स्वाहा ॥ २.१०॥ तृतीयोऽनुवाकः । यस्त्वं भूत्वा पर्जन्यो बिभेति रन्ध्रे प्रजाभिराकृष्यमाणः सत्यं कालं व्रतेन पालयन् ह्लादयिष्यसे स्वाहा ॥ ३.१॥ कामो भूत्वा प्रजानामन्तरास्थितस्सर्वान् लोकान्ह्लादयन् जीवमानः सन्दर्पणाय हरये पराय स्वाहा ॥ ३.२॥ अङ्गादङ्गादनुप्राविशत्सर्वान् लोकान् संरक्षणाय यो वा वसन् देवो मातरिश्वा स योऽस्माकं भूत्यै भूतये स्वाहा ॥ ३.३॥ यौ मोहयन् भूतानां सर्गादिरक्षणाय यः सङ्कोचः सङ्कोचनाय भवते स्वाहा ॥ ३.४॥ यो वा दशात्मा उपरि स्पृशन्वा देवानां जेनातिपामुत्तरः जेनातिर्ज्योतिषे स्वाहा ॥ ३.५॥ यो ब्रह्मा ब्रह्मविदामात्मा स्यादात्मचक्षुषां भूतिर्भूतिमतां सुकृतं कृताय स्वाहा ॥ ३.६॥ सारस्वतो वा एष देवो न हि पारमात्मिकः हयोऽभयो वा सर्व सन्धुषे स्वाहा ॥ ३.७॥ यो वा परं ज्योतिः परं सन्दधानः परमात्मा पुरुषं सञ्जनयिष्यसे स्वाहा ॥ ३.८॥ यो दोषश्चतुरश्चतुर्थश्चतुरः पदार्थान् सर्वं लोकस्य सन्दधानस्ते सन्ते सत्त्वमादधानाय स्वाहा ॥ ३.९॥ यस्यैता ब्रह्ममूर्तयो बृहद्ब्रह्माणं ब्रह्म आदधानः यं ब्रह्म ब्रह्मगुप्तये परम्पराय स्वाहा ॥ ३.१०॥ चतुर्थाऽनुवाकः । वाको वा अनुवाको वाकं वाकं सञ्जुपमाणः देवस्य स्वं स्वगुप्तये स्वयं जेनातिषे ज्योतिषे स्वाहा ॥ ४.१॥ द्वावेतौ पक्षी अचरं चरन्तौ नाधुरं व्यधुनीते यश्चैकं भुनक्ति भोक्ये स्वाहा ॥ ४.२॥ यो वा आयुः परमात्मा न मीढुषः पारस्थगत्परं परायणः पराय लोकानां परमादधानः परम्पराय स्वाहा ॥ ४.३॥ तेजसां तेजस्तेज आदधानः सत्त्वस्तेजस्तेजसां तेजस्तेजसे स्वाहा ॥ ४.४॥ सह सम्पायास्त्वमाशिषमाशिभूताभूतमाशिषमाशिराशीराशिरनुभूमिः स्वाहा ॥ ४.५॥ यो ह संयोगो ध्यानं जुषमाणः सन्धुः सन्धुक्षणानां संयोगः सन्दधानः पुण्यः पुण्यानां पुण्याय स्वाहा ॥ ४.६॥ सहस्रं वा यस्य वै वितानमादधानः सहस्रं वा आशिषः सहस्रं यस्य वै सासिकाः सहस्रं सहस्राय स्वाहा ॥ ४.७॥ स्वातीका गुप्तयो गुप्तिः सत्त्वं सत्त्वानां (सत्यं सत्यानां) सात्वम्पदं तत्सत्त्वं सत्त्वमासीत् सात्त्वं सात्त्वं वै सत्त्वमादधानाय स्वाहा ॥ ४.८॥ सत्त्वं वा उद्रेकमासीद्यत्सत्त्वमुभयौरनुगोप्ता तत्सत्यं सत्यम्पदाय सत्याय स्वाहा ॥ ४.९॥ सत्यो जेनाति सत्यान्तरात्मा सत्योद्योगः सत्यः सत्कर्मा सत्यं सत्यं वितानमासीत्सत्यं सत्याय स्वाहा ॥ ४.१०॥ पञ्चमोऽनुवाकः । सत्यः सत्यं पुण्यमासीत्पुण्यो वा दैविकं सत्यं सत्त्वमार्षं सत्यं सत्त्वं सत्पथाय स्वाहा ॥ ५.१॥ सत्यो ज्योतिः सत्त्वं प्राणाः सत्त्वाधाराः सत्त्वं संयानाः सत्यः सत्त्वं प्रकाशं ज्योतिषे स्वाहा ॥ ५.२॥ कामीमुमामीशिषमीशिषाणां तत्सत्यं सत्यरूपं सत्यं सत्याय सन्दधानाय स्वाहा ॥ ५.३॥ अरिणिर्वा आरन्द आवारन्द आरन्दोऽयमानन्दते मारन्दमीशिषे स्वाहा ॥ ५.४॥ यत्सत्यं वा विष्णुरुद्योगः सूर्यो गौर्वा विष्णुर्विशत् विश्वं विश्वं सन्दधानः तद्विश्वं विष्णवे विश्वरूपाय स्वाहा ॥ ५.५॥ तद्भूर्भूस्थं भूस्थो वा विश्वरूपस्तद्भूः प्राणः सङ्ख्यातः भूरासीद्भूरसि भुवोऽसि सुवरसि भूर्भूतये स्वाहा ॥ ५.६॥ आपो वा अपोऽन्तरात्मा यो वेदो वेदानामाधारः वेदान्तरात्मा सरसो रससङ्ख्यातो रसं रसमासीद्रसाय स्वाहा ॥ ५.७॥ त्रयी वा कामं त्रयीमयं त्रिगुणं त्रेतात्मकं त्रयी वा जेनातिः त्रिगुणं त्रिगुणात्मकं तस्मै त्रेताग्नये त्रिगुणाय स्वाहा ॥ ५.८॥ द्वौ वा मुख्यौ मुख्याधारौ ससुखौ सानन्दौ सस्मेरौ स्थेरयितौ सानन्दमानन्दते स्वाहा ॥ ५.९॥ स एकैकः साधारः साधिष्ठानो नाधिष्ठानः कं कं कस्मै पदे पदे पातः पादाय पादिते स्वाहा ॥ ५.१०॥ षष्ठोऽनुवाकः । स्वयमादिः सर्वान्तरात्मा देवस्य स्वयं क्रीडात्मकमवासृजत् यः स्वयं लोकमवधारमवधारयन् स्वाहा ॥ ६.१॥ यः स्वयं सृष्टमात्मना गुप्तमनुसन्दितानमचरं चरन्तं स्वयं क्रीडं क्रीडयन् क्रीडान्तरमनुप्राविशत् स्वाहा ॥ ६.२॥ स्वौजसा सर्वमादधाति यः पापीयांसमनुपदमाहिंसत् सुपुण्यं पुण्यात्मकं पुण्यं वितानं दाधार देवाय स्वाहा ॥ ६.३॥ क्ष्मामेकां सलिलावसन्नां श्रुत्वा स्वनन्तीमनु स्वयं भूत्वा वराहो जहार तस्मै देवाय सुकृताय पित्रे स्वाहा ॥ ६.४॥ यः कुं धरमाणः कुं धरतां कुं धरतामित्यवोचत् तां सानुमन्तो विदधत्स्वतेजसा तस्मै देवाय वरिष्ठाय वरदाय पित्रे स्वाहा ॥ ६.५॥ पृथां प्रस्खलन्तीं प्रमृज्यामृजाङ्गीं य ऊर्वोरुपादधात् तस्मै मुख्याय वरदाय पित्रे स्वाहा ॥ ६.६॥ लालयन् लालितकङ्कणाङ्गीं तस्मै प्रजेशाय वरदाय पित्रे स्वाहा ॥ ६.७॥ प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणां स्वाहा ॥ ६.८॥ यो धूर्धूरं धूर्धूरं धूर्वराणां सुधूर्धूरसि धूर्धूराणां धूरसि धूर्वङ्ग मे स्वाहा ॥ ६.९॥ यो वाप्यहिंसीज्जरया जरन्तं तं दैत्यमुख्यममृता-त्मरूपं सुखुरं खुराणां किञ्चित्स्वनन्तं तस्मै नृसिंहाय सुरेशपित्रे स्वाहा ॥ ६.१०॥ सप्तमाऽनुवाकः । सासिष्वसन्तं सवने सवित्रे तस्मै सुरेशाय सुरवृन्दकर्त्रे स्वाहा ॥ ७.१॥ यो वा नृसिंहो विजयं बिभर्षि साराजिमन्तं रयिदं कवीनां साराजिमन्तं सजयं सहस्रं तस्मै सुयन्त्रे सुशेवधये स्वाहा ॥ ७.२॥ रयिः ककुद्मान् दधद्विनष्टं रयिमद्विधानं तस्मै ककुत्त्रे विकटाय पित्रे स्वाहा ॥ ७.३॥ राकामहꣳ सुहवाꣳ सुष्टुती हुवे श‍ृणोतु नः सुभगा वोधतु त्मना सीव्यत्वपः सू च्याच्छिद्यमानया ददातु वीरꣳ शतदायमुक्थ्यं स्वाहा ॥ ७.४॥ वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीर नामानि कृत्वाऽभिवदन् यदास्ते स्वाहा ॥ ७.५॥ दिग्दोषो यस्य विदिशश्च कर्णौ द्यौरास वक्त्रमुदरं नभो वा सासि वा स्म या स्वयमाप दन्तं तस्मै वरत्रे वरदाय कस्मै स्वाहा ॥ ७.६॥ पद्यास्य वक्षाः परमः सुपुण्यः पद्मा जनित्री परमस्य वासः सूक्ष्म सावित्रं स्वयमादधानः सावित्रख्यं परमं सुपुण्यं स्वाहा ॥ ७.७॥ यः पुण्डरीकः परमान्तरात्मा कम्राङ्गरूपं कमलं दधार सासिष्वसन्तं सरसे रसाय स्वाहा ॥ ७.८॥ रयीणां पतिं यजतं बृहन्तं रारागमुक्तं गुरुं सश्रीकं तं रायिरूपं रयिभूतभूतं रयिमत्सुरत्रः स्वाहा ॥ ७.९॥ रायां पतत्त्रे रयिमादधात्रे रायो बृहन्तं रयिमत्सुपुण्यं राराजिमन्तं रतये रमन्तं तं बिम्बवन्तं ककुदाय भद्रे स्वाहा ॥ ७.१०॥ अष्टमोऽनुवाकः । यत्सारभूतं सकलं धरित्रीं मोदप्रायेणानुभूतमनुविधं सूक्ष्मः सुरेशः सकलं बिभर्ति तस्मै सुरेशाय सकलं सुपुण्यं स्वाहा ॥ ८.१॥ फलो वा एष लोकानामजरो महात्मा विश्वं यः पाति विमलोऽमलाख्यस्तस्मै ककुत्त्रे वरदस्य पुष्ट्यै स्वाहा ॥ ८.२॥ धूर्नो वहन्तां रतये रमन्तां प्रभूतिमन्तस्समयं सुषुम्ना अं राजिमन्तं सकलस्य गुप्त्यै स्वाहा ॥ ८.३॥ विश्वं बिभर्ति प्रसुरोऽभूदन्तं संराजवन्तं सकलं प्ररूढं स नो वितत्य प्रहिणोतु पत्त्रे स्वाहा ॥ ८.४॥ सो वा स्वरूपः समदृक् समग्रो विधुदं तुदन् यो विदधत्पदं वा वियति प्रकाशं बृहते गुहेन तं बिम्बवन्तं समदं समग्रं स्वाहा ॥ ८.५॥ भूर्भुवं वा भुवो वा सुवो वा किञ्चित्स्वनन्तं सुषुवे समस्तं सर्वस्य दातारमजरं जरित्रे स्वाहा ॥ ८.६॥ दाक्षायण्यां प्रसृतं समस्तं सङ्कोचयित्वा सकलं वितानं संवासयन् यः सकलं वरिष्ठं तस्मै प्रजेशाय धुरन्धराय स्वाहा ॥ ८.७॥ आशास्समस्ताः प्रतरन्ननु तमन्तस्तास्ता वसेद्द्यौः कमला समस्ताः सा मे गृहे समधत्त पुष्टिं स्वाहा ॥ ८.८॥ यो जङ्गमानां सकलं विभर्षि सर्वं वियद्विचरते शक्ष्यन् तन्नौकूले वान्तिकेऽजस्रं स्वाहा ॥ ८.९॥ यो वा दशानां प्रसृताः समस्तास्तां तां दधानास्समयात्सुबीजाः शब्दादिरीत्यै स्वबलं बलाय स्वाहा ॥ ८.१०॥ नवमोऽनुवाकः । चत्वारो दोषः प्रहरन्ति यस्य सर्वस्य गोप्त्रे सुरसाय धान्ने सोमस्य पुण्यं रयिमत्प्रवृद्ध्यै स्वाहा ॥ ९.१॥ वक्षो वसत्यस्य वरां वरिष्ठं वाकं दधाना ववृधे समस्तं तस्मै वरिष्ठाय वरप्रवृद्ध्यई स्वाहा ॥ ९.२॥ अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशं स्वाहा ॥ ९.३॥ विष्णुर्वरिष्ठो वरदानमुख्यो यो विश्वर्षीन् ध्यायन्नकुर्वन् विश्वं हीषद्विष्णवे याः प्रभविष्णवे ता अमितम्भरत्रे स्वाहा ॥ ९.४॥ अब्जोऽजुषन्तः प्रपतत्पतन्तः पूम्पूम्पुषन्तः पुनयः प्रवालः कङ्कं जनित्रे समतेजसं ते स्वाहा ॥ ९.५॥ मामात्मगुप्तां वहते स्वभूत्यै तां राजिमन्तां धूर्धूरयन्तीं धूरसि ध्रुवाय स्वाहा ॥ ९.६॥ यं चिन्तयन्तो निगमान्तरूपं यं विश्वरूपं परमात्मपुण्यं तं विन्दमानां सकलं व्रजन्तीं तं दैवमुख्यं सुरतं भवाय स्वाहा ॥ ९.७॥ पुण्यां च पुण्यः पुरुषे पुरग्रे तां राजिमन्तां निशि चोदितानां निदधाति पुष्टयै हरन् पराय स्वाहा ॥ ९.८॥ स नो भूतो यो वाऽमृतात्मा सुपुष्टिमस्मत्पितरं पवित्रं स नोऽस्तु भूत्यै कमलं पराय स्वाहा ॥ ९.९॥ स एव नित्यं सकलाः समूर्तयः सुरतास्त्वनन्तास्ते जयन्तो वियति क्षयाणां तत्तत्सवित्रे हरते पराय स्वाहा ॥ ९.१०॥ दशमोऽनुवाकः । या गौर्वरिष्ठा सह सोर्धरित्री वसुं वसुं वै वसुनीह भद्रा रेरीजयन्तो रजतं रजते स्वाहा ॥ १०.१॥ वायोरन्तरात्मा वहति समस्तः सपुण्यदेवेति स सूरिमुक्तः सूरिः सुराणां सुरसोऽप्यसुदः समूह्य देवा वरदाय पित्रे स्वाहा ॥ १०.२॥ यस्योपरिष्टादधितिष्ठदात्मा सर्वोपरिष्टात् परमात्मा मुक्तं तं विरजं नित्यमनु सम्पराय स्वाहा ॥ १०.३॥ तमस्सर्वभूतमधुनाध्वरेण तं सत्त्वरूपमनुप्रविस्य सङ्क्लेशयन् सृष्टिनिमित्ताय तस्मै परब्रह्मणे परज्यौतिषे स्वाहा ॥ १०.४॥ जेनातिर्जेनातिषां जेनातिरोजो वलमाहरत्सत्त्वात्मकं सञ्जेनातिरिप्थं तस्मै सूक्ष्मसूक्ष्माय तेजसे स्वाहा ॥ १०.५॥ सत्त्वं सत्त्वात्मकं वा रजो रजस आत्मकस्तमस्तमस आधारः साकृतं निरीश्वरमीश्वराय स्वाहा ॥ १०.६॥ अनिर्भिण्णं यस्येदमासीदुदकात्मकं यस्योदावोऽयनुथमुच्चरुच्चैरुगाय स्वाहा ॥ १०.७॥ यस्येच्छा लोके वा प्रजायतिर्लोके यस्मै वासि तस्मै वासीत् यद्वास्सञ्जातं (?) यत्सर्वमीशमाशिषे स्वाहा ॥ १०.८॥ इति पारमात्मिकोपनिषत् समाप्ता ।

प्रथमोऽनुवाकः सव्याख्या

ॐ विष्णुस्सर्वेषामधिपति परमः पुराणः परो लोकानामजितो जितात्मन् भवते भवाय स्वाहा ॥ १.१॥

यः सर्वलोकैरपि वन्दनीयः स्मृतिं शुभां यच्छति यो नराणाम् । तस्मै नमो यः कुलदैवतं नरः स राघवो मे हृदि सन्निधत्ताम् ॥ श्रीलक्ष्मीवल्लभाद्यां तां विखनोमुनिमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ श्रीविष्णुमानसाज्जातो विष्ण्वागमविशारदः । तं वन्दे सूत्रकर्तारं वैष्णव विखनोमुनिम् ॥ व्याप्नोतीति विष्णुः सर्वव्यापक इत्यर्थः ॥ यच्च किञ्चिज्जगत्सर्वे दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितः ॥ इति श्रुतेः । विश्वव्यापनशीलत्वाद्विष्णुरित्युच्यते बुधैः ॥ इति ॥ नन्वादौ तावत् परब्रह्मपरञ्ज्योतिपरतत्त्वपरमात्मादिशब्दा विद्यन्ते । चत्वारः पारमात्मिकं भवति । उपक्रमोपसंहारावभ्यासोऽपूर्वताफलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥ इति वचनात् त्रयाणां पारमात्मिकत्वमिति चेदुच्यते ॥ अष्टाक्षरश्च यो मन्त्रो द्वादशाक्षर एव च । षडक्षरश्च यो मन्त्रो विष्णोरमिततेजसः ॥ एते मन्त्राः प्रधानास्तु वैदिकाः प्रणवैर्युताः । प्रणवेन विहीनास्तु तान्त्रिका एव कीर्तिताः ॥ इति भगवन्मन्त्रेष्ववव्यापकमन्त्रापेक्षया व्यापकमन्त्राः प्रधानाः । व्यापकमन्त्रेषु च अष्टाक्षरषडक्षरौ । अष्टाक्षरेण प्रतिपाद्यो नारायणः । षडक्षरेण प्रतिपाद्यो विष्णुः । प्रधानभूतनारायण-विष्णुशब्दाभ्यां वासुदेवादिशब्दैश्च उत्तरत्र प्रतिपाद्यैः परब्रह्मपरञ्ज्योतिःपरन्तत्त्वपरमात्मादिशब्दैः पर्यायवाचकैश्च क्रियाकण्डत्वाद्दुःखित एव विष्णुशब्दप्रयोगः ॥ किञ्च- विप्णोरंशस्तु पुरुषः'' इति दैविकव्यूहभूतस्य पुरुषस्य मानुषव्यूहभूतस्य वासुदेवस्य मूलभूतत्वाद्विष्णुशब्बग्रहणम् । यद्वा---सर्वमन्त्रा अपि परब्रह्मपरञ्ज्योतिःपरन्तत्त्वपरमात्मादिशब्दप्रयोगात् अद्वारकत्वेन सद्वारकत्वेन भगवल्लीलाप्रतिपादकत्वात् भगवत्प्रादुर्भावा-विर्भावलीलाप्रतिपादकत्वाद्वा सर्वेषामधिपतिः सर्वेषां ब्रह्मरुद्रादीनां नित्यमुक्ता .... सर्वशब्दस्य सङ्कोचाभावात् .... चेतनाचेतन-वर्गाणामण्डाद्बहिर्भूतानामप्यधिपतिनि .... ``पतिं विश्वस्या-त्मेश्वरम्'' इति श्रुतेः ॥ श्वेताश्वतरे- पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेशमीड्यम् । ब्रह्मादिदेवसङ्घेषु स एव पुरुषोत्तमः । स्त्रीप्रायमितरत् सर्व जगद्ब्रह्मपुरस्सरम् ॥ इति ॥ परमः परि न मास्मेति परमः समाभ्यधिकरहितः । यद्वा उत्कृष्टः पुराणः अनादिः परो लोकानाम् । एकतो वा जगत्सर्वमेकतो वा जनार्दनः । सारतो जगतः कृत्स्यादतिरिक्तो जनार्दनः ॥ इति ॥ अजितः जेतुमशक्यः ब्रह्मरुद्रादिभिर्देवदानवयक्षराक्षसादितः रहितः इत्यर्थः । यद्वा- यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । इति श्रुतेरवाङ्मनसो गोचरत्वात् योगिभिरप्यजितः ॥ नारसिंहपुराणे- हिरण्यकशिपोस्त्रस्तान् सेन्द्रान् देवान् बृहस्पतिः । क्षीरोदस्यान्तरं गत्वा स्तूयतां तत्र केशवः । युष्माभिः संस्तुतो विष्णुः प्रसन्नो भवति क्षणात् ॥ इत्यारभ्य हिरण्यवधानन्तरम् । तस्य कोपाभिभूतस्य नृसिंहस्य जगत्पतेः । दृष्ट्वा भयानकं रूपं तत्रसुर्देवदानवाः ॥ इत्यारभ्य शरभनिर्माणादिकं प्रतिपाद्यते । ततस्तस्य भवानीश .... ण्डस्थानमयाचत । पृष्ठभागे चतुर्वक्त्रं तस्य रुद्रो न्यवेशयत् । सोमसूर्यौ नयनयोर्मारुतं पक्षयोर्द्वयोः ॥ पादेषु भूचरान् सर्वान् शिवस्तस्य न्यवेशयत् एवं निर्माय शरभं भवः प्रमथनायकः ॥ ससर्ज नरसिंहं तं समुद्दिश्य भयानकम् । ततः क्षणेन शरभो नादपूरितदिङ्मुखः ॥ अभ्याशभगमद्विष्णोः निनदन्भैरवस्वनम् । तमभ्याशगतं दृष्ट्वा नृसिंहः शरभं रुषा । जघान निशितैरुग्रैस्तीक्ष्णैर्नखवरायुधैः ॥ निहते शरभे तस्मिन् रौद्रे मधुनिघातिना । तुष्टुवुः पुण्डरीकाक्षं देवा देवर्षयस्तथा ॥ इति ॥ भवाय रुद्राय अजितः जितार्तभक्तैः जितात्मन्, अहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विजः ॥ इति वचनात्, भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । इति भगवद्वचनाच्च । यद्वा-परशुराममन्तरत्वात् रामभद्रेण जितात्मन् । यद्वा--- स्वभक्तस्य भीष्मस्य प्रतिज्ञापरिपालनार्थे जगद्रक्षणार्थ च भवाय उत्पन्नाय भवते तुभ्यं स्वाहा । स्वाहास्वधावषड्वौषण्णमःपर्यायवाचकाः । भारते - ओमिति ब्रह्मणो योनिर्नमःस्वाहास्वधावषट् । यस्यैतानि प्रयुज्यन्ते यथाशक्ति कृतान्यपि ॥ न तस्य त्रिषु लोकेषु परं लोकेषु संविदुः । इति वेदा वदन्ति स्म वृद्धाश्च परमर्षयः ॥ स्वधा नम इति .... वषट्कारोति च (?) । नमःशब्दप्रधानाद्वा स्वाहाशब्द इवेति तु ॥ स्वाहाशब्दे नमःशब्दः प्रतिपादितः । अनेन प्रपत्तिः प्रतिपादिता ॥ लक्ष्म्या सह हृषीकेशो देव्या कास्ययरूपया । रक्षकः सर्वसिद्धान्ते वेदान्तेषु च गीयते ॥ लक्ष्मीं महीं च शेषं हि विभूतिमुभयात्मिकाम् ॥ ``अस्येशाना जगतो विष्णुपत्नी'', लक्ष्मीविशिष्ट एवैकः प्रपत्तव्य इहोदितः ॥ इति ॥ लक्ष्मीविशिष्ट एव प्रपत्तव्य इत्यभिप्रायेणादौ विष्णुशब्दः । एतत्सर्वमेकादशानुवाके विस्तरेणोच्यते ॥ १॥

सुसूक्ष्मः सार्वः सर्वेषामन्तरात्मा तस्थुः तस्थुषां जङ्गमो जङ्गमानां विभुर्विभूणां विभवोद्भवाय स्वाहा ॥ १.२॥

अजडं स्वात्मसम्बोधि नित्यं सर्वावगाहि यत् । ज्ञानं नाम गुणं प्राहुः प्रथमं गुणचिन्तकाः ॥ स्वरूपं ब्रह्मणस्तच्च गुणश्च परिगीयते । जगत्प्रकृतिभावो यः सा शक्तिः परिकीर्तिता ॥ श्रमहानिस्तु या तस्य सततं कुर्वतो जगत् । बलं नाम गुणस्तस्य कथितो गुणचिन्तकैः ॥ कर्तृत्वं नाम यत्तस्य स्वातन्त्र्यं परिबृंहितम् । ऐश्वर्यं नाम तत्प्रोक्तं गुणतत्त्वार्थचिन्तकैः ॥ तस्यापादानभावेऽपि विकारविरहे हि यः । वीर्ये नाम गुणस्यायमच्युतम्यापराह्वयः । सहकार्यमपेक्ष्यं यत् तत्तैजसमुदाहृतम् ॥ इति ॥ ज्ञानादिषाड्गुण्यसम्पूर्णे नानाव्यूहैकहेतुकं लक्ष्मीलक्षणसंयुक्तम् । ``सत्यं ज्ञानमनन्तं ब्रह्मं'' इति श्रुतेः । निरुपाधिकसत्तायोगत्वं सत्यत्वं नित्यासङ्कुचितज्ञानैकाकारत्वं ज्ञानत्वं कालतो वस्तुतो देशतश्चापरिच्छिन्नत्वमनन्तत्वमिति ब्रह्मस्वरूपशोधकवाक्यप्रतिपन्नसत्त्वादिविशिष्टम् । श्रीविष्णुपुराणे सम्भर्तेति तथा भर्ता भकारोऽर्थद्वयान्वितः । नेता गमयिता स्रष्टा गकारार्थस्तथा मुने ॥ ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ वसन्ति तत्र भूतानि भूतात्मन्यखिलात्मनि । स च सर्वेषु भूतेषु वकारार्थस्तथा मुने ॥ ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥ एवमेव महाभाग मैत्रेय भगवानिति । परमब्रह्मभूतस्य वासुदेवस्य नान्यथा । शब्दोऽयं सोपचारेण ह्यन्यत्र ह्युपचारतः ॥ इति ॥ भगवच्छब्दशब्दितमित्यादिगुणविशिष्टं परं ब्रह्म विष्णुरेवेति विज्ञापनेन सुसूक्ष्म इत्युक्तम् । श्रीवैखानसे तर्ककण्डे ब्रह्मचिन्ताध्यायेऽभिहितम्- आपः पृथिव्या सूक्ष्मास्तु तेभ्यस्तेजस्ततोऽनिलः । तस्मादाकाशमेतस्मात्तन्मात्राणि मनीषिणः ॥ तेभ्यः सूक्ष्मो ह्यहङ्कारस्त्रिधाभूय व्यवस्थितः । तस्मान्महान् त्रिधा भूतो बुद्धिलक्षणलक्षितः ॥ तस्मात्तु मूलप्रकृतिरव्यूढगुणबृंहिता । ततो व्यष्टिसमष्ट्याख्यो जीवः सूक्ष्मतरः स्मृतः ॥ ततो व्योमपदे(?) विष्णोः स्थानमानन्दपूरितम् । तस्मात्तत्पञ्चशक्तिस्थं पञ्चोपनिषदात्मकम् ॥ पञ्चमूर्तिविभेदेन विभिन्नं विश्वतोमुखम् । आभूतसम्प्लवस्थानं स्वरूपं चिद्धनं परम् ॥ विष्णोरकुण्ठवीर्यस्य नानाव्यूहैकहेतुकृत् । ततः षड्गुणसपूर्णे लक्ष्मीलक्षणसंयुतम् ॥ सत्यं ज्ञानमनन्तारव्यं भगवच्छब्दशब्दितम् । सूक्ष्मात्सूक्ष्ममिति ख्यातं स्वरूपं रूपवर्जितम् ॥ जातिक्रियादिरहितं सरूपं गुणसङ्गतम् । सूक्ष्मात्सूक्ष्ममवाप्नोति परब्रञेदमव्ययम् ॥ इति ॥ सार्वः ``सर्व खल्विदं ब्रह्म'' इत्यादिश्रुतिसिद्धम् । आत्मा बुद्धौ धृतौ जीवे स्वभावे परमात्मनि ॥ इति ॥ सर्वेषामन्तरात्मा ब्रह्मरुद्रादीनामन्तरात्मा । ``अन्तः प्रविष्टः शास्ता जनानाꣳ (?) सर्वात्मा'' इति श्रु तेः, ``यस्त्वात्मा शरीरं यस्य पृथिवी शरीरम्'' इत्यादिश्रुतेश्च । तस्थुः तस्थुषां स्थावराणां मध्ये अतिशयेन तथा परभृतः ``मेरुः शिखरिणामहम्'' इति भगवद्वचनात् । जङ्गमो जङ्गमानां जङ्गमेष्वप्यतिशयं जङ्गमभूतः । यद्वा शक्तिप्रदः । विभुर्विभूणां आकाशादीनामपि । तथा विभवोद्भवाय एव तस्य परमात्मन उद्भवः प्रादुर्भावः अवतारादिषु-- यस्यावताररूपाणि समर्चन्ति दिवौकसः । अपश्यन्तः परं भावं नमस्तस्मै परात्मने ॥ इति ॥ एवमवतारादिषु प्रादुर्भावः- न ह्यस्य जन्मनो हेतुः कर्मणो वा महीपते । आत्ममायां विनेशस्य परस्य स्रष्टरात्म नः ॥ रामायणे-- स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः ॥ अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥ इति ॥ तस्मै दिशं प्रतिपाद्य ज्योतिर्मयानि सर्वाण्यपि पारमात्मिकान्येवेति प्रतिपादयति ॥ २॥

ज्योतिर्वा पारमात्मिकं सार्वं विश्वं भवं भवाय प्राभूतं प्राहिण्वन् परम्पराय सुकृतं कृताय तस्मै पराय ईशिषे स्वाहा ॥ १.३॥

सूर्यचन्द्राग्न्यादिपु स्थितं ज्योति पारमात्मिकम् । यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ इति ॥ ज्योतींषि विष्णुर्भुवनानि विष्णुना सर्वाणि विष्णुर्गिरयो दिशश्च । नद्यः समुद्राश्च स एव सर्वे यदस्ति यन्नास्ति च विप्रवर्यः ॥ इति ॥ नक्षत्राणि च विश्वलोकं साव विश्वं सर्वलोकसञ्ज्योतिः । पारमात्मिकं ``अथ यदतः परो दिवो ज्योतिर्दीप्यते'' ``विश्वतः पृष्ठेषु सर्वतः पृष्ठेप्वनुत्तमेषु'' इत्यादिश्रुतिसिद्धम् । ``एक एव रुद्रो नद्वितीयाय तस्थे'', । यो देवानां प्रभवश्चोद्भवश्च विश्वाधिपो रुद्रो महर्षिः । हिरण्यगर्भे जनयामास पूर्वं स नो बुद्ध्या शुभया संयुनक्तु ॥ इति श्रुतिषु श्रूयमाणत्वात् । विश्वाधिपस्य रुद्रस्य जननं कथमुपपद्यत इति शङ्कायां तद्वा श्रुत्यर्थं भवशब्दः भवाय रुद्राय प्राभूतं प्रभूतं बहुविधमित्यर्थः । परं भव मुत्पत्तिं प्राहिण्वन् प्रायच्छन् । ``नारायणाद्रुद्रो जायते'' इत्यादिश्रुतिभ्यः ``ललाटात्क्रोधजो रुद्रो जायते'' इत्यादि । ब्रह्मणो वै ललाटाच्च ततो देवस्य वै द्विज । क्रोधाविष्टस्य सञ्जज्ञे रुद्रः संहारकारकः ॥ इति ॥ ``अष्टौ वसव एकादश रुद्राः'', ``सहस्राणि सहस्रशो ये रुद्राः'' इति श्रुत्यन्तरेषु श्रूयमाणत्वात् पारमात्मिकोपनिषदि च प्राभूतं प्राहिण्वन्नित्युक्तम् । अनेनैकत्वनिवृत्तिः । अस्य मन्त्रस्य परम्पराय इत्यारभ्य ईशो यस्मादित्यत्रान्वयः । सुकृतं कृताय तस्मै पराय ईशिषे ॥ ३॥

ईशो यस्माद्विततं वितत्य कं धृतं कामहूतो जुहोति ककुदं ककुच्छित्वा भूयः पराय स्वाहा ॥ १.४॥

ईशः रुद्रः यस्मात् सागराणामुज्जीवनकारणात् विततं विस्तृतं धृतं शिरसा धृतं कं गङ्गाजलं वितत्य भूमौ विस्तार्य सुकृताय कृतवते वरमनं विश्वं भवं भवाय प्राभूतं प्राहिण्वन् परम्पराय सुकृतं कुताय तस्मै पराय परं कामहुतः कामदाहको रुद्रः ककुदं श्रेष्ठः दक्षः ककुच्छित्वा जुहोति अग्नौ प्रक्षिप्तवान् । भूयः पुनरपि पराय विभक्तिव्यत्ययः ब्रह्मणः शिरश्छित्वा प्रक्षिप्तवान् । एवम्भूताय रुद्राय सुकृतं कृताय ईशिषे समर्थाय तुभ्यं इत्यर्थः । अयमेवार्थो मात्स्ये ततः क्रोधपरीतेन संरक्तनयनेन च । वामाङ्गुष्ठनखाग्रेण छिन्नं तस्य शिरो मया ॥ ब्रह्मा- यस्मादनपराद्धस्य शिरश्छिन्नं त्वया मम । तस्माच्छापसमायुक्तः कपाली त्वं भविष्यसि ॥ ब्रह्महत्याकुलो भूत्वा चरन् तीर्थानि भूतले । ततोऽहं गतवान्देवि हिमवन्तं शिलोच्चयम् ॥ तत्र नारायणः श्रीमान् मया भिक्षां प्रयाचितः । ततस्तेन स्वकं पार्श्व्वे नखाग्रेण विदारितम् ॥ स्रवतो महती धारा तस्य रक्तस्य निःसृता । विष्णुप्रसादात्सुश्रोणि कपालं तत्सहस्रधा । स्फुटितं बहुधा जातं स्वप्नलब्धं धनं यथा ॥ विष्णुधर्मे- अच्युतानन्तगोविन्दमन्त्रमानुष्टुभं परम् । नमःसम्पुटीकृत्य जपन् विषधरो हरः ॥ यन्नजीर्णं च गरलं कण्ठे स्तब्धं कपालिनः । अन्तरात्मधृतस्तस्य हृदये गरुडध्वजः ॥ इति ॥ मैत्रलोके भक्ष्यमाणे तथा मातृगणेन वै । नृसिंहमूर्तिदेवेशं प्रदद्याद्भगवान् शिवः ॥ इति ॥ वराहे- प्रागितिहासेऽगस्त्वं प्रति रुद्रः--ब्रह्माणं च पुरा सृष्टः पुण्डरीकाक्षः रुद्रेण दृष्टः । कस्त्वमिति प्रोक्तः सृज इति प्रजाः । अविज्ञातासमर्थोऽहं निमग्नः सलिले द्विजः । इत्यारभ्य जलमध्ये कालमेघसङ्काशः पुण्डरीकाक्षः रुद्रेण दृष्टः कस्त्वमिति पृष्टस्य वचनम्-- अहं नारायणो देवो जलशायी सनातनः । दिव्यं चक्षुर्भवतु ते तेन व .... यत्नतः ॥ एवमुक्तस्तदा तेन यावत्तस्याप्यहं तनुः । तावदङ्गुष्ठमात्रं तु ज्वलद्भास्करतेजसम् ॥ तमेवाह प्रपश्यामि तस्य नाभौ तु पङ्कजम् । ब्रह्माणं तत्र पश्यामि ह्यात्मानं च तदङ्कतः ॥ इत्यारभ्य रुद्रेणानन्तरं (?) विष्णुः- सर्वज्ञस्त्वं न सन्देहो ज्ञानराशिः सनातनः । देवानां च परः पूज्यः सर्वदा त्वं भविष्यसि ॥ एवमुक्तः पुनर्वाक्यमुवाचोमापतिस्तथा । अन्यद्देहि वरं देव प्रसिद्धं सर्वजन्तुषु ॥ मर्त्यो भूत्वा भवानेव मामाराधय केशव । मां वहस्व च देवेशं वरं मत्तो गृहाण च । येनाहं सर्वदेवानां पूज्यात्पूज्यतरोऽभवम् ॥ विष्णुः-- देवकार्यावतारेषु मानुषत्वमुपागतः । त्वामेवाराधयिष्यामि त्वं च मे वरदो भव ॥ यत्त्वयोक्तं वहस्वेति देवदेव उमापते । सोऽहं नमामि देव त्वां मेघो भूत्वा शतं समाः ॥ एवमेव हरिर्देवः सर्वेशः सर्वभावनः । वरदोऽभूत्ततो मह्यं तेनाहं दैवतैर्नतः ॥ इत्यादि ॥ पुराणसङ्ग्रहे- अङ्गुष्ठाग्रविनिर्भिण्णादण्डकोशात्स्रवज्जलम् । विष्णोरादाय चार्ध्ये वै ददौ तस्मै चतुर्मुखः ॥ तत्पादशौचविमलं तोयमासीत्सरिद्वरा । पुण्या त्रिपथगङ्गा यां दधार शिरसा स्वयम् ॥ ईश्वरसहितायाम्- पुरा त्रिभुवनाक्रान्तं हरिणा बलिबन्धने । मम लोके पदं प्राप्तं दृष्ट्वा विष्णोर्महात्मनः ॥ पाद्यं दत्तं मया पुत्र कमण्डलुजलेन वै । कमण्डलुजलं स्वल्पं कृतमन्तर्गतं हि तत् ॥ धर्म समीपतो दृष्ट्वा .... चोक्तं जलं भव । द्रवीभूतस्तथा धर्मो हरिभक्त्या महामुने ॥ गृहीत्वा धर्मपानीयं पादं नाथस्य तुष्टये । क्षालितं परया भक्त्या पाद्यार्घ्यादिभिरर्चितः ॥ तदम्बु पतितं दृष्ट्वा दधार शिरसा हरः । पावनार्थं जटामध्ये योग्योऽस्मीत्यवधारणात् । वर्षायुतानथ बहून् न मुमोच तथा हरः ॥ श्रुतिरपि-``ये मरुतामर्चयन्ति रुद्रं यत्तेजनी चारुदन्तं पदं यद्विष्णोरुपमं निधाय तेन पासि गुह्यं गोनाम्'' इतीयं श्रुतिः त्रिविक्रमावतारमुद्दिश्य गङ्गाविषयत्वेन श्रूयत इति केचिद्वदन्ति । ब्रह्मरुद्रादीनामपि वरप्रदानादिषु समर्थतेत्यर्थः ॥ ४॥

रायामीशो रहितो भरन्त्यै रां रां वहन्त्याहितः रायां पतिं रां रां धरते धरित्र्यै रां वहतोद्वहाय स्वाहा ॥ १.५॥

रायां ``रै ऐश्वर्ये'' इति धातुसिद्धैश्वर्यवाचकरैशब्दाभिहि- तानामैश्वर्याणां ईशः तद्भोगार्हः परमतमः प्रभुः रहितः ताभिरैश्वर्यैर्विहीनः चतुर्दशाब्दप्रमाणवनवासहेतुकपितृवाक्य-परिपालनद्वारा समस्तैश्वर्यरहित इत्यर्थः । रां सकलप्राणिपोषकां रां भूमिं प्रति वहन्त्या आत्मसौशील्या-नुकूलप्रभुसेवां वाञ्छन्त्या अतिभक्तिभरसहितभरतोपयुजा सकलप्रजया भरन्त्यै सकलप्राणिसंरक्षणमाप प्रक्रियायै रां आहितः भूमिं प्रति तत्प्राप्तिं प्रति यः वनवासात्पुर-मागच्छेति महाभक्तिपुरस्कृतप्रयत्नेन प्रार्थितः यः रायां पतिं प्रसिद्धक्षत्रियधर्मरूपाणामैश्वर्याणां पतिं अत्र विभक्तिव्यत्ययश्छान्दसः । ``बहुलं छन्दसि'' इत्यत्र बहुल-ग्रहणादतः पतिः प्रतिष्ठापक इत्यर्थः । यः रां स्वीयपठनश्रवणधारणानुष्ठानैः परिपावयित्रीं सकललोकान् रां रावयति समस्तदुरितातिगा ऋग्यजुस्सामात्मिका श्रुतिः तां धरते तत्प्रतिपाद्यत्वेन प्रतिष्ठां धत्ते । प्रतिपाद्यमाहात्म्य इत्यर्थः । यः पुनरपि चतुर्दशाब्दसङ्कल्यितवनवास-प्रतिज्ञानिहत्यनन्तरं धरित्र्यै श्रीमदयोध्याभूमिप्रास्यै हेतुभूतां रां सकललोकपावनहेतुभूतश्रीरामायणकथारूपिणीं कीर्तिसम्पत्तिं वहतः वहते । अत्रापि विभक्तिव्यत्ययश्छान्दसः । उद्वहाय अवतारविशेषेऽपि परमपावनशक्तिवहाय श्रीरामस्वरूपाय परमात्मने स्वाहा नम इति सूत्रार्थः ॥ ५॥

यो ब्रह्मशब्दः प्रणवः प्रधानः शब्दः शब्दान्तरात्मनित्यो वियन्तः यत्तः प्रतरन् प्रकामं प्राजापत्यं प्रतरन् प्रकुर्वन् भूयो भूत्यै अचरं चराय स्वाहा ॥ १.६॥

उत्तरप्रतिपाद्यमानायाः न्यासविद्यायाः प्रधानभूतप्रणव-स्वरूपप्रतिपादनमुखेन न्यासविद्याफलं च प्रतिपादयति-यो ब्रह्मशब्द इत्यादिना । यो ब्रह्मशब्दवाच्यप्रणवः । ``ओमिति ब्रह्म'' इति श्रुतिः । तस्य प्रधानोऽयं शब्दः शब्दान्तरात्मशब्दबुद्धिकर्मणां त्रित्रिक्षणावस्थायित्वात् शब्दनाशेऽपि परमात्मनो नाशाभावात् नित्य इत्युक्तम् । कठवल्लिकोपनिषदि- सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्तेपदं सङ्ग्रहेण ब्रवीम्योमित्येतत् ॥ एतद्ध्येवाक्षरं ब्रह्म ह्येतदेवाक्षरं परम् । एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ इति ॥ विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ अकारेणोच्यते विष्णुः सर्वलोकेश्वरो हरिः । उद्धृता विष्णुना लक्ष्मीरुकारेण तथोच्यते । मकारस्तु तयोर्दास इति प्रणवलक्षणम् ॥ सर्वशेषिंस्तवाहमिति प्रपत्तिप्रतिपाद्यद्वारा प्रपन्नस्यप्राप्यं प्रतिपादयति-वियत्त इत्यादिना । वियत्तः आकाशात्परं प्रतरन् स्वर्गादिकमतिक्रम्य प्रकामं अत्यन्तं प्राजापत्यं प्रजापतिलोकं प्रतरन् प्रकुर्वन् प्रकर्षेण ब्रह्मलोकमपि तरणं कुर्वन् भूयो भूत्यै नित्यैश्वर्याय अणिमाद्यष्टैश्वर्यानपेक्षया नित्यत्वात् ``अपहतपाप्मा(?) विजरो विमृत्युर्विशोको विजिघित्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः'' इति गुणाष्टकाविर्भावायार्चिरादिमार्गेण गत्वा सायुज्यं प्रतिपन्नायेति प्रपन्नास्ते तपस्विनः भक्तास्तपस्विनः । किङ्करा मम ते नित्यं भवन्ति निरुपद्रवाः ॥ लोकेषु विष्णोर्निवसन्ति केचित्समीपमृच्छन्ति च केचिदन्ये । अन्ये तु रूपं सदृशं भजन्ते सायुज्यमन्ये स तु मोक्ष उक्तः ॥ सायुज्यमुभयोरत्र भोक्तव्यस्याविशिष्टता । सार्ष्टिता तत्र भोगस्य तारतम्यविहीनता । सामरस्यं हि सायुज्यं वदन्ति ब्रह्मवादिनः ॥ ऐहलौकिकमैश्वर्यं स्वर्गाद्यं पारलौकिकम् । कैवल्यं भगवन्तं च मन्त्रोऽयं साधयिष्यति ॥ वसिष्ठकरालजनकसंवादे- परेण परधर्मे च भवत्येष समेत्य वै । विशुद्धधर्मा शुद्धेन बुधेन च सुबुद्धिमान् ॥ विमुक्तधर्मा मुक्तेन समेत्य भरतर्षभ । वियोगधर्मणा चैवावियोगात्मा भवत्यपि ॥ विमोक्षणाविमोक्षश्च समेत्येह तथा भवेत् । शुचिकर्मा शुचिश्चैव भवत्यमिति .... त्यमान् ॥ विमलात्मा च भवति समेत्य विमलात्मना । केवलात्मा तथा वैषः केवलेन समेत्य वै ॥ स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमुपाश्नुते । एतावदेतत्कथितं मया ते तथ्यं महाराज यथार्थतत्त्वम् । अमत्सरस्त्वं प्रतिगृह्य चार्धं सनातनं ब्रह्म विशुद्धमाद्यम् ॥ इति ॥ अष्टैश्वर्यं मानसोल्लासे- अत्यन्तमणुषु प्राणिष्वात्मत्वेन प्रवेशनम् । अणिमासञ्ज्ञमैश्वर्यं व्याप्तस्य परमात्मनः ॥ ब्रह्माण्डादिशिवान्तायाः षट्त्रिशत्तत्त्वसंहृतेः । भवाश्च व्याप्यवृत्तित्वमैश्वर्य महिमाह्वयम् ॥ परमाणुसमाङ्गस्य समुद्धरणकर्मणि । गौरवे मेरुतुल्यत्वं गरिमाणं विदुर्बुधाः ॥ महामेरुसमाङ्गस्य समुद्धरणकर्मणि । अत्यत्पत्वमतुल्यत्वं लघिमेति प्रकीर्त्यते ॥ पातालवासिनः पुंसो ब्रह्मलोकावलम्बनम् । प्राप्तिनामकमैश्वर्यं सुष्ठुहाष्ट्र्यौपयोगिनाम् (?) ॥ आकाशगमनादीनामन्यासां सिद्धिसम्पदाम् । स्वेच्छामात्रेण संसिद्धिः प्राकाम्यमभिधीयते ॥ स्वशरीरप्रकाशेन सर्वार्थानां प्रकाशनम् । प्राकाम्यमिदमैश्वर्यमिति केचित्प्रचक्षते ॥ स्वेच्छामात्रेण लोकानां सृष्टिस्थित्यन्तकर्तृता । सूर्यादिना वियोक्तृत्वमीशित्वमभिधीयते ॥ सलोकपालाः सर्वेऽपि लोकाश्चेद्वशवर्तिनः । तदैश्वर्यं वशित्वाख्यं सुलभं शिवयोगिनाम् ॥ इति ॥ चराय संसरते प्रत्यगात्मने अचरन्नाशरहितमैश्वर्यं कुर्वन् । यद्वा अचरन्नाशरहितमैश्वर्यं कुर्वन् चराय सृष्टिस्थितिसंहारादिगतिं कुर्वते तुभ्यमित्यर्थः ॥ विष्णुपुराणे प्राजापत्यं ब्राह्मणानां ब्राह्मं सन्न्यासिनां स्मृतम् । एकान्तिनः सदा ब्रह्मध्यायिनो योगिनो हि ते । तेषां तत्परमस्थानं यद्वै पश्यन्ति सूरयः ॥ इति ॥ प्रधानशब्द इत्यनेन त्रिमात्रशब्दः । एवं श्रूयते उपनिषदि- यःपुनरेतत्त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नः । यथा पादोदरस्त्वचा विनिर्मुच्यते एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकम्'' इति । प्रणवशब्दार्थः अथर्वशिरसि- ``अरसादुच्यते प्रणवः यस्मादुच्चार्यमाण एव ऋचो यजूंषि सामान्यथर्वाङ्गिरसश्च यज्ञब्रह्म ब्राह्मणेभ्यः प्रणवयति । तस्मादुच्यते प्रणवः'' इति । न्यासविद्यास्वरूपमुत्तरत्र प्रतिपाद्यते ॥ ६॥

यो वा त्रिमूर्तिः परमः परश्च त्रिगुणं जुषाणः सकलं विधत्ते । त्रिधा त्रिधा वा विदधे समस्तं त्रिधा त्रिरूपं सकलं धराय स्वाहा ॥ १.७॥

त्रिविक्रमस्यायं मन्त्रः । यः परमात्मा विष्णुः त्रिमूर्तिः ब्रह्मविष्णुशिवात्मकः । विष्णुपुराणे सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् । स सञ्ज्ञां याति भगवानेक एव जनार्दनः ॥ इति ॥ यद्वा--त्रिविक्रमत्वात्पदविक्षेपभेदेन त्रिमूर्तिः ``इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्'' इति श्रुतिः । परमः त्रिविक्रमावतारापेक्षया ब्रह्मरुद्रादिषु समाभ्यधिकाभावात् परमशब्दः । परश्च अवतारत्वेऽपि उत्कृष्टः । त्रिगुणं जुषाणः ``जुषी प्रीतिसेवनयोः'' इति त्रिगुणेषु सात्विकराजसतामसेषु प्रीतिं कुर्वन् । यद्वा-सेवमानः सकलं चिदचिदात्मकं प्रपञ्चं विधत्ते । ``व्यस्कभ्नाद्रोदसी विष्णुरेते दाधार पृथिवीमभितो मयूखैः'' इति विष्णुरेव ब्रह्यशब्दवाच्य इति ज्ञापयितुं ब्रह्माभ्यधितिष्ठतु भुवनानि धारयन्निति । ``नमो विष्णवे बृहते करोमि ।`` बृहत्वात् बृंहणत्वाच्च तद्ब्रह्मेति प्रकीर्तितम् ॥ इति ॥ यद्वा-विधत्ते जगत्सृष्टद्यादिश्चरभेदेन त्रिधा त्रिधा वा विदधे समस्तं ह्रस्वदीर्घसमरूपेण गार्हपत्यान्वाहार्याहवनीय इति त्रिधाग्निरूपेण उत्तममध्यमाधमस्वर्गनरकमोक्षैत्यादि समस्तं त्रिधा त्रिधा विदधे चकार त्रिरूपं स्त्रीपुन्नपुंसकादि त्रिधा भूत्वा त्रिविक्रमरूपी भूत्वा निवहं स्वस्वकीयसहितैर्देव-मनुष्यादिभिरावृतं विधत्ते धृतवान् तस्मै ॥ ७॥

यद्वा कृतममृतञ्चराणां यत्सर्वनिष्ठमजरं समस्तं यत्पश्यमानमात्माभिजुषाणमन्तस्सुषुप्त्यानभिगम्यमानाय स्वाहा ॥ १.८॥

त्रिविक्रमावतारे प्रत्यक्षे कृतस्य परमात्मानपरं रूपं स्वप्नेऽपि देवैर्द्रष्टुमशक्यमित्याहयच्चेति । कृतं त्रिविक्रमरूपेण कृतं सर्वनिष्ठमन्तर्व्याप्तमजरमपहतपाष्मत्वादियुतं समस्तं बहिश्च व्याप्तम् । यद्वा परिदृश्यमानं सर्वमात्माभिजुषाणम् । आत्मा बुद्धौ धृतौ जीवे स्वभावे परमात्मनि । इति ॥ जीवात्मना सेवमानमेवंविधरूपमन्तर्हृदये सुषुष्त्यास्वप्नेनापि अमृतञ्चराणां अमृतं चरन्तीति अमृतञ्चरा देवाः । तेषामपि अनभिगम्यमानाय ध्यातुमशक्याय । यद्वा-चराणां देवादीनाममृतं कृतं समुद्रमथनादिकं कृतम् । यद्रूपं तत्पश्यमान चेदपि सुषुष्त्या स्वप्नेनापि प्राप्तुमशकयमिति तस्मै ॥ ८॥

कः कोशमङ्गे कुशलं विधाय साकृतं कृण्वतेऽग्र इदꣳ सुकान्तं ककुद्वते ते कामचरं चराय स्वाहा ॥ १.९॥

कः कोशं ब्रह्माण्डकोशमङ्गे स्वाङ्गे कुशल क्षेमसहितं विधाय साकृत आकृतिसहितं कृण्वते तत्र ब्रह्माणं कुर्वते अग्रे सृष्ट्यादौ ककुद्वते श्रेष्ठचराय ब्रह्मणे सुकान्त मनोहरं कामचरं अण्डकोशं विधाय तत्र साकृतं आकृतिसहितब्रह्माणं कृण्वते तुभ्यम् । अन्यत्रोपनिषदि-``अथ पुनरेव नारायणः सोऽन्यं कामो मनसाध्यायत । तस्य ध्यानान्तस्थस्य ललाटात् स्वेदोपहताः प्रपत आपस्तासु तेजो हिरण्मयमण्डलस्तत्र ब्रह्मा चतुर्मुखोऽजायत'' इति ॥ ९॥

यं यज्ञैर्मुनयो जुषन्ति यं देवाः परमं पवित्रं भविष्यन्त्यार्तिषु प्रणताः प्रधानाः यं सूरयो जपन्तो योगिनः सूक्ष्मैः सुप्रदर्शनैः पश्यन्तीश्वराय स्वाहा ॥ १.१०॥

यं परमात्मानं महाविष्णुं यज्ञैः ``यज देवपूजासङ्गतिकरणदानेषु'' इति समाराधनैः पाकयज्ञहविर्यज्ञसोमयज्ञैः । द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ इति ॥ ``यज्ञेन दानेन तपसा नाशकेन ब्राह्मणा विविदिषन्ति'' इतिश्रुतेः । द्रव्ययज्ञादिभिर्मुनयः वैखानसाः । वैखानसैर्मुनिगणैः नित्यमाराधितोऽमलैः । वैखानसैमुनिश्रेष्ठैः पूजिताय वेङ्कटेशाय नमः ॥ इति पद्मवचनार्चनम् । अत्र प्रतिपादिता मुनय आपस्तम्बादयः । किन्नरः स्वरिति चेत् । गारुडे-- पुरा चतुर्मुखादेशाच्चत्वारो मुनयोऽमलाः । प्रणीय वैप्णवं शास्त्रं भूमावभ्यर्च्य यं नृपः ॥ मरीचिर्मन्दरे विष्णुमर्चयामास केशवम् । आदेशाद्ब्राह्मणो विष्णुं श्रीनिवासे त्रिरर्चयेत् ॥ काश्यपो विष्ण्वधिष्ठाने शुभक्षेत्रे भृगुर्मुनिः । नन्दायां दक्षिणे सीम्नि श्रमात्तरे (?) सखा । तच्छुद्धौ शुचिषं नाम भृगुणा स्थापितो हरिः ॥ इति ॥ ब्रह्मकैवर्ते पुष्करतीर्थवैभववर्णने--- निम्नगानां यथा गङ्गा'' इत्यारभ्य, यथा मुनीनां विखना आदिभूत उदाहृतः ॥ इति श्रुतिः ॥ धेनुर्वहाणामदितिस्सुराणां ब्रह्मा ऋभूणांविखनामुनीनाम् ॥ इति ॥ एवं श्रुतिस्मृतिपुराणादिमुख्यत्वेन वैखानसानामेव मुनिशब्दवाच्यत्वप्रतिपादनात् यज्ञैर्मुनयो जुषन्ति इत्युक्तत्वात् । आपस्तम्बादीनामद्वारभगवद्भजनविधि-प्रतिपादनाभावात् । पञ्चपूजाप्रतिपादकस्य यमित्यत्र एकवचनास्वारस्याभावाच्च । वैखानसाः मुनयः जुषन्ति । यज्ञैः प्रीणयन्ति सेवां कुर्वन्तीति वा । यज्ञशब्द आराधनपरः यं महाविष्णुं प्रधानदेवाः ब्रह्मरुद्रादयः । न यस्य रूपं न बलप्रभावो न च स्वभावः परमस्य पुंसः । विज्ञायते शर्वपितामहाद्यैस्तं वासुदेवं प्रणमाम्यचिन्त्यम् ॥ इति ॥ रूपबलप्रभावातिशयेन चिन्त्यत्वात् परमं इत्युक्तम् । पवित्रं उपनिषदि ``स एष सर्वभूतान्तरात्मापहतपाष्मा(?) दिव्यो देव एको नारायणः इति । अशुद्धा ब्रह्मरुद्राद्या जीवा विष्णोर्विभूतयः । तान्वै कुदृष्टसाम्यत्व परत्वादप्युपासते ॥ इति ॥ अतएव पवित्रमित्युक्तम् । यद्वा स्वभक्तान् वज्रादपि त्रायत इति पवित्रशब्दप्रयोगः । दन्ता गजानां कुलिशाग्रविष्णुराशीर्णयत्तेन जलं ममैतत् । महद्विपत्तित्वविनाशनो यो जनार्दनानुस्करणानुभावः ॥ इति ॥ अमृतापहरणे गरुडेन्द्रयोर्युद्धे च द्रष्टव्यम् । अतएव आर्तिषु प्रणता भविष्यन्ति । श्रीमद्रामायणे बालकाण्डे- राक्षसो रावणो मूर्खो वीर्योत्सेकेन बाधते । इत्यादि । वधार्थं वयमायातास्तस्य वै मुनिभिस्सह । सिद्धगन्धर्वयक्षाश्च ततस्त्वां शरणं गताः ॥ त्वं गतिः परमो देवः सर्वेषां नः परन्तपः । वधाय देवशत्रूणां नृणां लोके मनः कुरु ॥ एवमुक्तः सुरगणैः विष्णुस्त्रिदशपुङ्गवः । पितामहपुरोगांश्च सर्वलोकनमस्कृतः ॥ अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्मसंहितान् । भयं त्यजत भद्रं वो वधार्थं युधि रावणम् ॥ सपुत्रपौत्रं सामात्यं समन्त्रिज्ञातिबान्धवम् । हुत्वा क्रूरं दुरात्मानं देवर्षीणां भयावहम् ॥ इत्यादि ॥ भागवते- पुरासुराय गिरिशो वरं दत्वाप सङ्कटम् । इत्यारभ्य अन्ते तु सङ्कटं लेभे नर चितः शिव इत्युक्तं (?) बाणासुरयुद्धे च द्रष्टव्यम् । प्रसादयामास भवो देवं नारायणं प्रभुम् । शरणं च जगामाद्यं वरेण्यं वरदं हरिम् ॥ इति ॥ अनेन ब्रह्मरुद्रादीनामुपास्यराहित्यं तत्प्रयुक्तव्रतानामप्युपादेयराहित्यं च दर्शितम् । प्रधानधर्मार्थकाममोक्षचतुर्विधपुरुषार्थेषु स्वाभिमतार्थप्रधान- मार्तिषु स्वाभिमतार्थालाभे नाशे च प्रणता भविष्यन्ति । गीतायाम्- चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः । उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । इति ॥ यं परमात्मानं यं मन्त्रमिति काकाक्षिन्यायेनोभयत्रान्वयः । यं मन्त्रराजमष्टाक्षरं यं विष्णुषडक्षरं मन्त्रं जपन्तः । पराशरः- त्रिविधो जपयज्ञः स्यात्तस्य भेदं निबोधत । यदुच्चनीचस्वरितैः शदैः स्पष्टपदाक्षरैः ॥ मन्त्रमुच्चारयेद्वाचा वाचिकोऽयं जपः स्मृतः । शनैरुच्चारयेन्मन्त्रमीषदोष्ठौ प्रचालयेत् ॥ अपरैरश्रुतं किञ्चिद्य उपांशुजपः स्मृतः । धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् ॥ मन्त्रार्थचिन्तनं भूयः कथ्यते मानसो जपः । त्रयाणां जपयज्ञानां श्रेष्ठं स्यादुत्तरोत्तरम् ॥ अष्टाक्षरश्च यो मन्त्रो द्वादशाक्षर एव च । षडक्षरश्च यो मन्त्रो विष्णोरमिततेजसः ॥ एते मन्त्राः प्रधानाः स्युर्वैदिकाः प्रणवैर्युताः । प्रणवेन विहीनास्तु तान्त्रिका एव कीर्तिताः ॥ इति ॥ सूरयो नित्यसूरयः अनन्तगरुडादयः पश्यन्ति । ``तद्विष्णोः परमं पदं सदा पश्यन्ति सूरय'' इति श्रुतिः । यद्वा ब्रह्मविदः पश्यन्ति योगिनः यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधिरित्यष्टा-ङ्गयोगिनः ध्यानेन पश्यन्ति । यद्वा- योगः सन्नहनोपायध्यानसङ्गतिभक्तिषु । इति भगवत एवोपायोपेयत्वम् । अनेन सिद्धरूपा प्रपत्तिः साध्यरूपा प्रतिपाद्यते । समर्थपुरुषार्थानां साधकस्य दयानिधे । प्रमतः पूर्वसिद्धत्वात्सिद्धोपायविदो विदुः ॥ भक्तिप्रपत्तिप्रमुखैस्तद्वशीकारकारणम् । तत्तद्बलानि साध्यत्वात्सारतव्योपायं विदुर्बुधाः ॥ इति ॥ ईदृशः परमात्मा यः प्रत्यगात्मा तथेदृशः । तत्सम्बन्धानमिति (?)योगः प्रकीर्तितः ॥ यद्वा- योगःसन्नहनोपायध्यानसङ्गतिभक्तिपु ॥ इति ॥ स्वामिन् स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् । स्वदत्तस्वधया स्वार्धं स्वस्मिन्न्यस्यति मां स्वयम् ॥ इति ॥ सर्वदानुसन्धानम्-- स्वोज्जीवनेच्छा यदि ते स्वदत्तायां स्पृहा यदि । आत्मनिक्षेपणं दास्यं हरेः स्वाम्यं सदा स्मरेत् ॥ इति ॥ कर्मयोगिनस्तं सुप्रदर्शनैः उद्दिष्टादिकालव्यतिरिक्तकालेषु भगवदाराधनादिकं कुर्वन्ति । भगवद्भक्ताः कैङ्कर्यपराः परात्मयोगिन इत्युच्यन्ते । एतेषां भगवद्विश्लेषमसहमानानाम् । न प्रदोषे हरिं पश्येत् .... । यदि पश्येत्प्रमादेन द्वादशाब्देन नश्यति ॥ इति हरिदर्शननिषेधे नास्त्येव स्मृतिः- अर्चकान् परिचाराश्च वैष्णवान् ज्ञानिनो यतीन् । दासीदासादिकांश्चैव .... ॥ तापत्रयानलोज्वालामालिते देहमन्दिरे । विष्णुभक्तिरसैः शान्ति जानन् कः कालमीक्षते ॥ कालोऽस्ति यज्ञे कालोऽस्ति दाने कालोऽस्ति वै जपे । सर्वेशदर्शने कालो वक्ष्यमाणस्तदञ्चितः ॥ इति ॥ मौनं वाचोनिवृत्तिः स्यान्नात्र भाषणसंस्कृतम् । नान्यदेवेरणं विष्णोः सदा ध्यायेच्च कीर्तयेत् ॥ सुप्रदर्शनैरित्युक्तं सुप्रदर्शनैः पश्यन्ति । अत्र प्रणता इत्यनेन परमात्मनो नारायणस्य पादारविन्दे न्यस्तभरा उच्यन्ते । परमात्मनि नारायणे सर्वभारसमर्पणात् । सञ्ज्ञातनैरपेक्षं तु नम इत्युच्यते बुधैः । भरन्यासबलादेव स्वयत्नविनिवृत्तये । अत्रोपायान्तरस्थाने रक्षको विनिवेशते ॥ इति ॥ प्रकर्षेण नताः प्रणताः । नमःशब्दस्य स्थूलसूक्ष्मपरमो जन इति अहिर्बुध्न्येन व्याख्यातम् । प्रेक्षावतः प्रवृत्तिर्या प्रह्वभावात्मिका स्वतः । उत्कृष्टः परमुद्दिश्य तन्नमः परिगीयते ॥ लोके चेतनवर्गस्तु द्विधैव परिगीयते । ज्यायांश्चैव तथाज्यायान् नैवाख्या विद्यते परा ॥ कालतो गुणतश्चैव प्रकर्षो यत्र तिष्ठति । शब्दस्यौन्मुख्यया वृत्त्या ज्यायानित्यवलम्ब्यते ॥ अतश्चेतनवर्गस्तु स्मृतः प्रत्यवरो बुधैः । तज्ज्यायायांश्च तयोर्योगः शेषशेषितयेष्यते ॥ अज्यायांसः परे सर्वे ज्यायानेको मतः परः । नन्त्रनन्तृस्वभावेन तेषां तेन समन्वयः ॥ नन्तव्यः परमः शेषी शेषा नन्तार ईरिताः । नन्तृनन्तव्यभावोऽयं न प्रयोजनपूर्वकः ॥ निश्चयो हि स्वभावोऽयं नन्तृनन्तव्यतात्मकः । उपाधिरहितो नायं येन भावेन चेतनाः ॥ नमनं जायते तस्मै तद्वा नमनरुच्यते । भगवान् नः परो नित्यमहं प्रत्यवरः सदा ॥ इति भावो नमः प्रोक्तो नमसः कारणं हि सः । नमयत्यपि वा देवं प्रह्वभावयति ध्रुवम् । अतो वा नम उद्दिष्टं यत्तन्नामयति स्वयम् ॥ वाचा नम इति प्रोच्य मनसा वपुषा च यत् । तन्नमः पूर्वमुद्दिष्टमतोऽन्यन्न्यूनमुच्यते ॥ इयं करणपूर्तिः स्यादङ्गपूर्तिमिमां श‍ृणु । शाश्वती मम संसिद्धिरियं प्रह्वो भवामि यत् ॥ पुरुषं परमुद्दिश्य न मे सिद्धिरतोऽन्यथा । इत्यङ्गमुदितं श्रेष्ठं फलेच्छा तद्विरोधिनी ॥ अनादिवासनारोहादनैश्वर्यत्वभावजात् । मलावकुतिठतत्वाच्च दृक्क्रियाविहतिर्हि या ॥ तत्कार्पण्यं तदुद्बोधो द्वितीयं ह्यङ्गमीदृशम् । स्वस्वातन्त्रद्यावबोधस्थं तद्विरोध उदीर्यते ॥ परत्वे सति देवोऽयं भूतानामनुकम्पया । अनुग्रहैकधीर्नित्यमित्येतद्भक्तवत्सलः ॥ उपेक्षको यथा कर्मफलदायीति या मतिः । विश्वासात्मतया यत्तो त्वदीयं वा तु वै सदा ॥ एवम्भूतोऽप्यशक्तः सन् नस्त्राता भवितुं क्षमः । इति बुद्ध्वा स्वदेवस्य गोप्तृशक्तिनिरूपणम् ॥ चतुर्थमङ्गमुद्दिष्टममुप्या व्याहृतिः पुनः । उदासीनो गुणाभावादित्युत्प्रेक्षा निमित्तजा ॥ स्वस्वस्वामिनिवृत्तिर्या प्रातिकूल्यविवर्जनम् । तदङ्गं पञ्चमं प्रोक्तमाज्ञाव्याख्यातवर्जनम् ॥ अशास्त्रीयोपवामे तु तद्व्याख्यात उदीर्यते । चराचराणि भूतानि सर्वाणि भगवद्वपुः ॥ अतस्तदानुकूल्यं मे कार्यमित्येव निश्चयः । षष्ठमङ्गं समुद्दिष्टं तद्विघाते निराकृतिः ॥ पूर्णमङ्गैरुपाङ्गैश्च नमनं ते प्रकीर्तितम् । स्थूलो यो नमनस्यार्थः सूक्ष्ममन्यं निशामय ॥ चेतनस्थं यदा मन्त्रं स्वस्मिन् स्वीये च वस्तुनि । नम इत्यक्षरद्वन्द्रं तद्धाम ह्यन्यवाचकम् ॥ अनादिवासनारूढमिथ्याज्ञाननिबन्धनात् । आत्मात्मीयपरार्चस्ता यास्वतन्त्रस्वतामिति (?) । मेन एवं समीचीना बुद्ध्या साऽत्र निवार्यते ॥ नाहं मम स्वतन्त्रोऽहं नास्तितस्स्वार्थ उच्यते । न मे देहादिकं वस्तु स शेषः परमात्मनः ॥ इति बुद्ध्वा निवर्तन्ते तानि सेयं मनीषिका । अनादिवासनाजातैर्बोधैस्तैस्तैर्विकल्पितैः ॥ रुषितं यद्दृदं चित्तं स्वातन्त्र्यं सत्त्वधीमयम् । चित्तद्वैष्णवसार्वात्म्यप्रतिबोधसमुत्थया ॥ नम इत्यनया वाचा मन्त्रात्स्वस्मादपोह्यते । इति ते सूक्ष्म उद्दिष्टः परमं स्वं निशामय ॥ पन्था नकार उद्दिष्टो मः प्रधान उदीर्यते । विसर्गः परमेशस्तु तत्रार्धोऽयं निरूप्यते ॥ अनादिपरमेशस्तु शक्तिमान् पुरुषोत्तमः । स्वप्राप्तये प्रधानोऽयं पन्था नमननामवान् ॥ इति ते त्रिविधः प्रोक्तो नमःशब्दार्थतां प्रति । निवेदयेत् स्वमात्मानं विप्णोरमिततेजसि ॥ तदात्मना मनशान्तस्तद्विष्णोरिति मन्त्रतः । शरीरपातकाले च सार्थस्वानुग्रहं स्वयम् ॥ परिपाकं प्रपन्नानां प्रयच्छति यथातथम् । अङ्कोलतैलसिक्तानां बीजानामचिराद्यथा । विपाकः फलपर्यन्तस्तथात्रेति निदर्शितः ॥ १०॥ इति प्रथमोऽनुवाकः सम्पूर्णः ।

द्वितीयोऽनुवाकः सव्याख्या

यो वा गविष्ठः परमः प्रधानः पदं वा यस्य सत्त्वमासीत् यस्योपरि त्वं मुनयो न पश्यन्ति तस्मै मुख्याय विष्णषेस्वाहा ॥ २.१॥

यो वा गविष्ठ इत्यादि पञ्चमन्त्राननुक्रमात् पञ्चोपनिषन्मन्त्रे यः परमात्मा गविष्ठः भूमिस्थः अवकाशप्रदः । यद्वा चराचरात्मकेषु लोकेषु आकाशरूपेण स्थितः । परमः व्याप्त्या परमः प्रधानः पञ्चभूतेषु प्रधानः कारणभूतः । पदं वा यस्य सत्त्वमासीत् यस्याकाशस्य पदमुत्पत्तिस्थानं त्वमेवासीत् । आसीदिति छान्दसः । यस्य परमात्मनस्तव उपरि त्वं मुनयो न पश्यन्ति । मननशीलो मुनिः नारायणपारायणो निर्द्वन्द्वो मुनिरिति वा मुख्याय तस्मै विष्णवे तुभ्यम् ॥ १॥

यो वा वायुर्द्विगुणोऽन्तरात्मा सर्वेषामन्तश्चरतीह विष्णोः स त्वं देवान् मनुष्यान् मृतान् परिसञ्जीवसे स्वाहा ॥ २.२॥

यः परमात्मा वायुः महाभूतचतुर्थः । द्विगुणः शब्दस्पर्शवान् इति । द्वा वायोरिति अन्तरात्मा व्याप्त । सर्वेषामन्तश्चरतीह प्रकृतिमण्डले विष्णोः स वायुः त्वं देवान् मनुष्यान् मृतान् परिसञ्जीवसे देवान वर्धयसि मृतान् मनुष्यान् सान्दीपनीपुत्रब्राह्मणपुत्रादीन् सञ्जीवसे तुभ्यम् ॥ २॥

त्वमग्ने त्रिगुणो वरिष्ठः परं ब्रह्म परं ज्योतिः सर्वेषां त्वं पालनाय हुतममृतं वहिष्यसे स्वाहा ॥ २.३॥

हे अग्ने त्वं त्रिगुणो गन्धरसविहीनास्त्रयौग्नेरिति वरिष्ठः श्रेष्ठः परं ब्रह्म परं ज्योतिः ``अग्निः सर्वा देवताः'' इति श्रुतिः । सर्वदेवात्मकत्वात्परम्ब्रह्मशब्दप्रयोगः । प्रलयकालापेक्षया उत्कृष्टज्योतिः । सर्वेषां देवमनुष्यादीनां त्वं पालनाय रक्षणाय हुतममृतं वहिष्यसे । अमृतरूपेण सर्वेषां प्रापयिष्यसि । त्वया हुतममृतरूपेण कलाद्वारेण प्रापयिष्यसि । श्रीवैखानससूत्रे ``यथावास्य सुषुम्ना ज्योतिष्मती प्राणाहुती रेतोधाः'' इत्येता आहुतीर्गृहीत्वा ``रश्मयश्चतस्रः पृश्नौ सन्दधीरन् सह वा शुद्धा अमृतावहाचीनुहि दिव्यालोकपावनीत्येताभिश्चन्द्रमसमाप्याययत्यसौ नु राजा सोम आप्यायितो मूलगामीव पायान्नस्यमृतोद्गारिसुरप्रिया'' इत्येताभिरमृतेन तां देवतां तर्पयति । मनुष्याणां त्वधिकं पाकभेदेन प्रापयसि । त्वं समर्थः । एवंरूपायाग्निस्वरूपिण इत्यर्थः ॥ ३॥

त्वं जीवस्त्वमापस्सर्वेषां जनिता त्वमाहरः त्वं विष्णो श्रमापनुदाय चतुर्गुणाय स्वाहा ॥ २.४॥

हे विष्णो जीवकारणभूता आपस्त्वं छान्दोग्ये ईरितं ``पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति'' इति ॥ आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥ इति ॥ सर्वेषां जनिता उत्तरोत्तरं कारणत्वेन जनिता । त्वमाहरः त्वमाहर छान्दसत्वात् त्वमाहर इति । सर्वेषां श्रमापनुदः सर्वेषां स्नानपानादिना श्रमशान्तिप्रदः । यद्वा रामकृप्णाद्यवतारादिषु कालिन्द्यादिरूपेण श्रमशान्तिप्रदः । सम्भक्षयित्वा भूतानि जगत्येकार्णवीकृते । नागपर्यङ्कशयने शेतेऽसौ परमेश्वरः ॥ इति ॥ चतुर्गुणाय गन्धविहीनाश्चत्वारोऽपां गुणा इति तस्मै ॥ ४॥

भूमेर्वितन्वन् प्रतरन्प्रकामः पोपूयमानः पञ्चभिः स्वगुणैः प्रसन्नैस्सर्वाणि मां धारयिष्यसि स्वाहा ॥ २.५॥

हे परमात्मन् प्रकामः । धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ । कामभूतः भूमेः पञ्चभिः स्वगुणैः शब्दस्पर्शरूपरसगन्धा इति पञ्चेन्द्रियविषयभूतैर्गुणेः सर्वान् वितन्वन् विस्तारयन् विषयप्रवणान् कुर्वन् पोपूयमानः पवित्रभूतः प्रतरन् तदाक्रम्य स्थितस्सन्, गीतायाम्- त्रिभिर्गुणमयैर्भावैरेभिस्सर्वमिदं जगत् ॥ मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ इति ॥ (श्रीमद् भगवद्गीता ७.१३) स्वतेजसाऽप्याधीतैः प्रसन्नैर्गुणैरिमान् लोकान् धारयिष्यसि । ``व्यस्कभ्नाद्रोदसी विष्णुणुरेते दाधार पृथिवीमभितो'' इति श्रुतेः । भूम्या ऐन्द्रियविषयशक्तप्रदायेत्यर्थः ॥ ५॥

मनस्त्वं भूत्वा मनःप्रदोऽग्रे त्वत्तो भूतं सम्भावयिष्यसि सर्वेषां कायानामर्हमर्हते स्वाहा ॥ २.६॥

हे परमात्मन् त्वं अग्रे सृष्ट्यादौ मनो भूत्वा त्वत्तः त्वत्सकाशादुद्भूतमनोभिमानिदेवतां सम्भावयिष्यसि सङ्कल्पयिष्यसि । सर्वेषां देवमनुष्यादीनां कायानां शरीराणां यथार्हे मनःप्रदः । एतस्माज्जायते प्राणो मन सर्वेन्द्रियाणि च । इति श्रुतेः ॥ मन एव मनुष्याणां कारणं बन्धमोक्षयोः ॥ इति ॥ मनोरूपेण भवितुं अर्हते समर्थायेत्यर्थः ॥ ६॥

त्वं बुद्धिर्भूतानामन्तरात्मा पुण्यवतां पुण्येषु सज्जमानः त्वं बुद्ध्वा विचिन्वमानः पुष्परुपाय स्वाहा ॥ २.७॥

हे परमात्मन् त्वं बुद्धिः बुद्धिरूपः । भूतानां पञ्चभूतानां अन्तरात्मा तत्तदभिमानिदेवतानामन्तरात्मा । पुण्यवतां पुण्येषु सज्जमानः निविष्टः । त्वं बुद्ध्वा विचिन्वमानः ``बुद्धिस्तात्कालिकी मता'' इति । तया बुद्ध्या विचिन्वमानः पुण्यरूपाय ``सत्यं तपो दमः शमो दानं धर्मः प्रजननमग्नयोऽग्निहोत्रं यजमानः संन्यासः'' इति ते पुण्यशब्दवाच्याः । ``यद्र्योम्नः स्थानं गलान्तरं बुद्धेर्वचनमहङ्कारस्य हृदयचित्तस्य नाभिरिति बुद्ध्या विचिन्वमानः'' इत्युक्तत्वात् । अभ्यासरूपमात्रेण वा विचिन्वमानः तस्मै ॥ ७॥

यः सूक्ष्मान् सञ्चरमाणान् भावाभावान् भव्याभव्यान् कुर्वन्नात्मीयममितो धुनोति धुरं वहिष्यसे स्वाहा ॥ २.८॥

यः परमात्मा सूस्मान् भूतसूक्ष्मान् सञ्चरमाणान् विरजापर्यन्तं सञ्चरमाणान् भावाभावान् सूक्ष्मरूपत्वात् भावरूपान् सुखदुःखानुभवाभावात् अभावरूपान् भव्यान् ``अपहतपाष्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः'' इति गुणाष्टकाविर्भावाय भव्यान् अमानवकरस्पर्शात्पूर्वं गुणाष्टकाविर्भावाभावान् अभव्यान् कुर्वन्नात्मीयं ब्रह्मालङ्कारादिनालङ्कृत्य मुक्तं परमात्मसम्बन्धं कुर्वन् अमितः अमानवः सुकृतदुष्कृते धुनोति । कौषीतकिब्राह्मणे ``तमेतं देवयजनं पन्थानमासाद्याग्निलोकमागच्छति । स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकम् । तस्य ह वा एतस्य ब्रह्मलोकस्यारो ह्रदो मुर्ह्र्तोऽन्वेष्टिहा विरजा नदील्यो वृक्षः सालज्जं संस्थानं अपराजितमायतनं इन्द्रप्रजापती द्वारगोपौ विभुप्रमितं विचक्षणसन्ध्यमितौजाः पर्यङ्कः प्रिया च मानसी प्रतिरूपा च चाक्षुषी पुष्पाण्यादायावयतौ वै च जगन्यम्बा चाम्बावयवाश्चाप्सरसोऽम्बया नद्यः । तमित्थंविधा गच्छति । तं ब्रह्माहाभिधावत मम यशसा विरजां वा पालयन्नदीं प्रापं न वा अयं जिगीष्यतीति ॥ तं पञ्चशतान्यप्सरसां प्रतिधावन्ति । शतं मालाहस्ताः शतमाञ्जनहस्ताः शतं चूर्णहस्ताः शतं वासोहस्ताः शतं फणहस्तास्तं बह्मालङ्कारेणालङ्कुर्वन्ति । स ब्रह्मालङ्कारेणालङ्कृतो ब्रह्मविद्वान् ब्रह्मैवाभिप्रैति । स आगच्छत्यारं ह्रदं तं मनसात्येति । तमृत्वा सम्प्रतिविदो मज्जन्ति । स आगच्छति । मुहूर्तान्विहेष्टिहा-स्तेऽस्मादपद्रवन्ति । स आगच्छति विरजां नदीं तां मनसैवात्येति । तत्सुकृतदुष्कृते धूनुते । तस्य प्रिया ज्ञातयस्सुक्रृतमुपयन्त्यप्रिया दुष्कृतम् । तद्यथा रथेन धावयन् रथचक्रे पर्यवेक्षत एवमहोरात्रे पर्यवेक्षते । एवं सुकृतदुष्कृते धूनुते सर्वाणि च द्वन्द्वानि । स एष विसुकृतोविदुष्कृतो ब्रह्मविद्वान् ब्रहौवाभिप्रैति ॥ कतल्यं स आगच्छतील्यं वृक्षं तं ब्रह्मगन्धः प्रविशति । स आगच्छति सालज्जं संस्थानं तं ब्रह्म स प्रविशति । स आगच्छत्यपराजितमायतनं तं ब्रह्मतेजः प्रविशति । स आगच्छतीन्द्रप्रजापती द्वारगोपो तावस्मादपद्रवतः । स आगच्छति विभुप्रमितं तं ब्रह्मयशः प्रविशति । स आगच्छति विचक्षणामासन्दीं बृहद्रथन्तरे सामनी पूर्वौ पादौ ध्यैत नौधसे चापरौ पादौ वैरूपवैराजे शाक्वररैवते तिरश्ची सा प्रज्ञा प्रज्ञया हि विपश्यति । स आगच्छत्यमितौजसं पर्यङ्कं तं स प्राणः । तस्य भूतं च भविष्यच्च पूर्वौ पादो श्रीश्चेरा चापरौ बृहद्रथन्तरे अनूच्ये भद्रयज्ञायज्ञीये शीर्षण्यमृचश्च सामानि च प्राचीनागानं यजूंषि तिरश्चीनानि सोमांशव उपस्तरणमुद्गीथ उपश्रीः श्रीरुपबर्हणम् । तस्मिन् ब्रह्मास्ते । तमित्थंवित्पादेनैवाग्र आरोहति । तं ब्रह्माह कोऽसीति । तं प्रतिब्रूयात् ऋतुरस्म्यार्तवोऽस्म्याकाशाद्योनेस्मभूतो हाव । एतत् संवत्सरस्य तेजोभूतस्य भूतस्य त्वमात्मासि यस्त्वमसि सोऽहमस्मीति । तमाह कोऽहमस्मीति ॥ सत्यमिति ब्रुऽयात् । किं तत्सत्यमिति । यदन्यद्देवेभ्यश्च प्राणेभ्यश्च तत्सद्ध यद्देवाश्च प्राणाश्च तद्यत्तदेतया चाभिव्याह्रियते सत्यमिति । एतावदिदं सर्वमिदं सर्वमसीत्येवैनं तदाह । तदेतच्छ्लोकेनाप्युक्तम्-- यजूदरः सामशिरा असावृङमूर्तिरव्ययः । स ब्रह्मेति हि विज्ञेय ऋषिर्ब्रह्ममयो महान् ॥ इति ॥ तमाह केन पौसानि नामान्याप्नोतीति । प्राणेनेति ब्रूयात् । केन स्त्रीनामानीति । वाचेति । केन नपुंसकनामानीति । मनसेति । केन गन्धानिति । घ्राणेनेति ब्रूयात् । केन रूपाणीति । चक्षुषेति । केन शब्दानिति । श्रोत्रेणेति । केनान्नरसानिति । जिह्वयेति । केन कर्माणीति । हस्ताभ्यामिति । केन सुखदुःखे इति । शरीरेणेति । केनानन्दं रतिं प्रजातिमिति । उपस्थेनेति । केनेत्या इति । पादाभ्यामिति । केन धियो विज्ञातव्यं कामानिति । प्रज्ञयेति प्रब्रूयात् । तमाहापैव खलु मे ह्यसावयं ते लोक इति । सा या ब्रह्मणि चिति या व्यष्टिस्तां चितिं जयति तां व्यष्टिं व्यश्नुते य एव वेद य एव वेद ॥ धुरं वहिष्यसे पारमात्मिकोपनिषन्मन्त्राध्येता वैष्णवो मन्त्रार्थवित्परमैकान्ती च तस्य धुरं वहिष्यसे ॥ शरणं त्वां प्रपन्ना ये ध्यानयोगविवर्जिताः । तेऽपि मृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम् ॥ ``ब्रह्मविदाप्नोति परम्'' इति श्रुतेश्च । (तैत्तिरीयोपनिषदि २.१.१) मत्पदद्वन्द्वमेकं ये प्रपद्यन्ते परायणम् । उद्धरिष्याम्यहं देवि तस्मात् संसारसागरात् ॥ इति ॥ ८॥

यस्या दौ भयाद्भगवानुत्तस्ते स्वयं सूर्यस्य त्वं कालं वहमानः यस्मात्तेज आत्मीयं कृत्वा सर्वानस्मान् पालयिष्यसि स्वाहा ॥ २.९॥

यस्य सृष्टिस्थितिसंहारादिकं परमात्मनो नारायणस्य नियमनातिक्रमभयात् भगवान्- उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ (बालबोधिनी शाङ्करभाष्यम्) उत्पत्त्यादिकं परमात्माधीनमिति यो वेत्ति स भगवान् षाडगुण्यवित्पूरर्व्ं .... ``भीषास्माद्वातः पवते । भीषोदेति सूर्यः । भीषास्मादग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चम इति ।'' कथमुपेति । सत्यं कालं वहमानः । ``कला मुहूर्ताः काष्ठाश्चाहोरात्राश्च सर्वशः । अर्धमासा मासा क्रतवः संवत्सरश्च कल्पन्ताम्'' । इति । अहोरात्रादिकालं यथाप्रकारं देवमनुष्यादिपु प्रापय .... न्नं देहाद्यैः प्रतिदिनं युद्धसामर्थ्यसम्भवकारणात् । आत्मीयं तेजः पराभवाभिभवसामर्थ्यं तेज इति प्रणवादिकं तेजः सर्वानस्मान् सूर्यरूपेण पालयिष्यसि । षड्विंशब्राह्मणे- ``देवाश्च वा असुराश्च लोकेष्वंसन्ततेऽसुरा आदित्यमभिद्रवन् स आदित्यो .... भित्त .... र्मरूपेण तिष्ठत्यप्रजापतिमुपायावत् । तस्य प्रजापतिरेतत् भेषजमश्यत् ऋतं च सत्यं च ब्रह्म चोङ्कारं च त्रिपदां च गायत्रीं ब्रा .... मपश्यत्'' इत्यादि ॥ श्रीविष्णुपुराणे- मन्देहा राक्षसा घोराः सूर्यमिच्छन्ति घातितुम् । प्रजापतिकृतः शापस्तेषां मैत्रेय रक्षसाम् ॥ अक्षयत्वं शरीराणां मरणं च दिनेदिने । ततः सूर्यस्य तैर्युद्धं भवत्यत्यन्तदारुणम् ॥ इत्यादि । वैष्णव .... कारं तस्य तत्प्रेरकं परम् । तेन तत्प्रेरितं ज्योतिरोङ्कारेणाथ दीप्तिमान् ॥ दहत्यशेषरक्षांसि मन्देहाख्यानि यानि वै । ततः प्रयाति .... ब्राह्मणैरभिरक्षितः ॥ वालखिल्यादिभिश्चैव प्रभुर्वैखानसैरपि । महात्मभिर्महात्मा वै जगतः पालनाद्यतः ॥ इति भगवदाज्ञा .... यात् जगत्पालनादिकं करोति जगत्पालनादिशक्तिप्रदाय तुभ्यम् ॥ ९॥

यं त्वं पालनायाभिभूतं देवास्सर्वे विचरन्ति ते देवास्त्वमेव सर्वे माया मायैषते स्वाहा ॥ २.१०॥

हे परमात्मन् पुत्रेण सह बाणासुरपरिपालनार्थमागतं सर्वे त्वयाभिभूतं अभिभवं प्राप्तं रुद्रं सर्वदेवाः ब्रह्मादयः प्रमुखं श्रुत्वा अध्याहारः पश्येति जीवभूतेन नरसिंहे कोपशा न्त्यर्थे विचरन्ति शरभ .... विनागतिं कुर्वन्ति ये च सर्वे रुद्रदेवाः (?) ब्रह्मादयः विचरन्ति स्वरक्षकत्वेन गतिं कुर्वन्ति देवास्त्वमेव सर्वे यद्यद्विभूतिमत्सत्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवं इति ॥ त्वद्विभूतिभूताश्चेच्छरभनिर्माणादिगतं कथं कुर्वन्तीति चेत् तत्राह माया मायैषते पूषा ते माया आश्चर्यकारिणी विद्या सैव माया । अन्येषां माया का माया । दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ इति भगवद्वचनात् । (श्रीमद् भगवद्गीता ७.१४) शरभरूपेण गतानां ब्रह्मरुद्रादीनामपि नृसिंहरूपिणा संहारादिकं नारसिंहपुराणादिष्ववगम्यते सप्तत्रिंशेऽध्याये- हिरणयकशिपोस्त्रस्तान् सेन्द्रान् देवान् बृहस्पतिः । क्षीसेदस्यान्तरं गत्वा स्तूयतां तत्र केशवः । युष्माभिः संस्तुतो विष्णुः प्रसन्नो भवति क्षणात् ॥ इत्यारभ्य - युष्मदागमनं सर्वे जानाम्यसुरसूदनाः । हिरण्यकविनाशार्थं स्तुतोऽहं शङ्करेण च ॥ इत्यारभ्य हिणयवधानन्तरम्- तस्य कोपाभिभूतस्य नृसिंहस्य जगत्पतेः । दृष्टा भयानकं रूपं तत्रसुर्देवदानवाः ॥ इत्यादिस्तोत्रानन्तरं ब्रह्मसमीपगमनादिकं प्रतिपाद्य- तस्मिन् भगवति क्रुद्धे नरसिंहे महात्मनि । प्रवेपते जगदिदं देवेशे कुपिते भृशम् ॥ त्वत्तो हि नान्यच्छरणं देवानामिह विद्यते । नरसिंहसमुद्भूतं भयं नाशय नो हरे ॥ इत्यारभ्य अनन्तरं रुद्रवचनं - हतो हिरण्यकशिपुर्यो स दैत्यो महाबलः । को नः शमयिता तस्य .... हरिमेधसः ॥ त्वं मे जनयिता तात स ते जनयिता हरिः । तस्य देवस्य कः शक्तो विष्णोर्वै निग्रहे भवेत् ॥ यद्भयात्पवते वायुः सूर्यस्तपति यद्भयात् । यद्भयाद्धरणी धत्ते निग्रहे तस्य कः प्रभुः ॥ तथाप्युपायं पश्यामः परमेण समाधिना । कृते यस्मिन् भवेच्छ्रेयस्तूर्ष्णीभावो न रोचते ॥ अश्वानां माहिषः शत्रुर्वारणानां मृगाधिपः । वानराणां तथा मेषः पक्षिणां गरुडः स्मृतः ॥ मूषकानां तु मार्जालो मृगाणां श्वा प्रकीर्तितः । वायसानां दिवाभीत।(?)सिंहानां शरभस्तथा ॥ ततः समे भजिष्यामः शरभं भयशान्तये । शरभोऽधिष्ठितोऽस्माभिः नृसिंहं शमयिष्यति ॥ इत्येवमुक्तो भगवान् ससर्ज शरभं तथा । यस्य सन्दर्शनादेव त्रस्तमासीज्जगत्त्रयम् ॥ ततस्तस्य भवानीशस्तुण्डस्थानमरोचत । पृष्ठभागे चतुर्वक्त्रस्तस्य रुद्रो न्यवेशयत् ॥ सोमसूर्यौ नयनयोर्मारुतः पक्षयोर्द्वयोः । पादेषु भूधरान् सर्वान् शिवस्तस्य न्यवेशयत् ॥ एवं निर्माय शरभं भवः प्रमथनायकः । ससर्ज नरसिंहं तं समुद्दिश्य भयानकम् ॥ ततः क्षणेन शरभो नादपूरितदिङ्मुखः । अभ्याशमगमद्विष्णोर्विनदन् भैरवस्वरम् ॥ तमभ्याशगतं दृष्ट्वा नृसिंहः शरभं रुषा । जघान निशितैरुग्रैर्दंष्ट्रानखवरायुधैः ॥ निहते शरभे तस्मिन् रौद्रे मधुनिघातिना । तुष्टुवुः पुण्डरीकाक्षं देवा देवर्षयस्तथा ॥ इति ॥ गारुडे-- हन्तुमभ्यागतं रौद्रं शरभं नरकेसरी । नखैर्विदारयामास हिरण्यकशिपुं यथा ॥ निकृत्तबाहूरुशिरा वज्रकल्पमुखैर्नखैः । मेरुपृष्ठे नृसिंहेन सहस्रार्कसमं च तत् ॥ पाद्मे- तौ युध्यमानौ तु चिरं वेगेन बलवत्तरौ । विनाशं जग्मतुर्देवौ नृसिंहशरभाविति ॥ ततः क्रुद्धो महाकायो नृसिंहेऽभिमुखस्वनः । सहस्रशिरसं नेत्रैस्तस्य गात्रं न्यकर्तयत् ॥ पतितं भीममत्युग्रं विबुधा द्रष्टुमागताः । ऋषयो देवगन्धर्वा यत्र शेते हरो हतः ॥ तं दृष्ट्वा परमं जग्मुर्विस्मयं ते दिवौकसः । प्रशशंसुस्तदा कर्म नरसिंहस्य चाद्भुतम् ॥ इति ॥ १०॥ इति द्वितीयोऽनुवाकः सम्पूर्णः ।

तृतीयोऽनुवाकः सव्याख्या

यस्त्वं भूत्वा पर्जन्यो बिभेति रन्ध्रे प्रजाभिराकृष्यमाणः सत्यं कालं व्रतेन पालयन् ह्लादयिष्यसे स्वाहा ॥ ३.१॥

यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः । इति यज्ञोद्भवो भूत्वा यः पर्जन्यः सत्यं कालं पालयन् रन्ध्रे भगवदाज्ञाभङ्गे विभेति सः । त्वं रन्ध्रे अनावृष्टद्यादौ व्रतेन कारिकेष्ट्यादिना प्रजाभिराकृष्यमाणः वर्षप्रदानादिना ह्लादयिष्यसे तुभ्यम् ॥ १॥

कामो भूत्वा प्रजानामन्तरास्थितस्सर्वान् लोकान्ह्लादयन् जीवमानः सन्दर्पणाय हरये पराय स्वाहा ॥ ३.२॥

हे परमात्मन् कामो भूत्वा प्रजानामन्तरास्थितः । अनङ्गत्वात्तत्रस्थितस्सन् सर्वान् लोकान् जनान् ह्लादयन् जीवमानः अभिलषितवस्तुलाभादिमुखेन सन्तोषयन् सन्दर्पणाय गर्वरूपाय हरये हरयित्रे ननु कामदाहकत्वाद्रुद्रस्य सर्वहन्तुत्वमुपपद्यत इति चेत् तदसत् । ब्रह्माणमिन्द्रमग्निं च यमं वरुणमेव च । निगृह्य हरते यस्मात्तस्माद्धरिरिहोच्यते ॥ स शुक्लाज्जायते कामो मज्जायाः क्रोध एव च । अस्थिभ्यो जायते लोभो मेदसश्च मदस्तथा ॥ मांसात् प्रजायते मोहोऽसृग्भ्यः क्रोधः प्रजायते । त्वचश्चैवापि धर्मस्तु क्रमाज्जातस्ततो दश ॥ इति ॥ भगवतोऽपि शुक्लादुत्पत्त्यादिकं श्रूयत इति चेत् ॥ २॥

अङ्गादङ्गादनुप्राविशत्सर्वान् लोकान् संरक्षणाय यो वा वसन् देवो मातरिश्वा स योऽस्माकं भूत्यै भूतये स्वाहा ॥ ३.३॥

यः परमात्मा मातरिश्वा वाय्वन्तर्यामी देवः क्रीडाकामः अङ्गादङ्गादनुप्राविशत् त्वदङ्गात्पुत्रस्याङ्गं जीवेन सह दीपात् दीपमिव जननात्प्राविशत् ``अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे'' इति श्रुतेः । (कौषीतकि ब्राह्मणोपनिषद्द्वितीयोऽध्यायः- श्लोक ११) भारते-- वायुः प्रवेशनं चक्रे सङ्गतः परमात्मना । इति । स देवः सर्वान् लोकान् जनान् प्रति संरक्षणाय निवसन् योऽस्माकं मातरिश्वनः अन्तर्यामिणः अस्माकं भूत्यै भूतये निरवधिकैश्वर्याय ॥ ३॥

यौ मोहयन् भूतानां सर्गादिरक्षणाय यः सङ्कोचः सङ्कोचनाय भवते स्वाहा ॥ ३.४॥

यः परमात्मा सर्गादिरक्षणाय सृष्टिस्थितिसंहारार्थे भूतानां इन्द्रियाणि मोहयेत् । ``मुह वैचित्र्ये'' [ ०४।००९५ (कौमुदीधातुः-११९८) मुहꣳ वैचित्त्ये (परस्मैपदी सकर्मकः) इति यः अन्तर्यामी सन् सङ्कोचः । ``अणोरणीयान्'' [अणोरणीयान् महतो महीयान् आत्मा गुहायां निहितोऽस्य जन्तोः । तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः ॥ (श्वेताश्वतरोपनिषसि ३.२०) इत्यादि सङ्कोचनाय भवते तस्मै ॥ ४॥

यो वा दशात्मा उपरि स्पृशन्वा देवानां जेनातिपामुत्तरः जेनातिर्ज्योतिषे स्वाहा ॥ ३.५॥

यः परमात्मा मत्स्यादिदशावताररूपी द्वादशात्मापि केषाञ्चित् वा आदित्यमण्डलवर्ती उपरि स्पृशन् सेर्वषामुपरि स्थित्वा स्वकिरणैर्मेध्यामेध्यादिकं स्पृशन देवानां मध्ये ज्योतीरूपः जेनातिषां चन्द्राग्न्यादिज्योतिषां उत्तरः स्वयं वा स्पृशन् तैरभेद्यैरस्पृष्टः जेनातिर्ज्योतिषे ज्योतिषां जेनातिर्भवति तस्मै ॥ ५॥

यो ब्रह्मा ब्रह्मविदामात्मा स्यादात्मचक्षुषां भूतिर्भूतिमतां सुकृतं कृताय स्वाहा ॥ ३.६॥

यः परमात्मा ब्रह्मविदां ब्रह्मा छान्दसत्वात् दीर्घः परम्ब्रह्म । आत्मा स्यादात्मचक्षुषां अन्तः प्रविश्य नियन्ता य आत्मा । परमात्मत्वेन पश्यतां परमात्मा । भूतिर्भूतिमतां ऐश्वर्यवतामैश्वर्यरूपः सुकृतं कृताय कृतवते तस्मै ॥ ६॥

सारस्वतो वा एष देवो न हि पारमात्मिकः हयोऽभयो वा सर्व सन्धुषे स्वाहा ॥ ३.७॥

हयग्रीवमन्त्रः-एष देवो लीलाविभूतो हयग्रीवरूपेण स्थितः अयं केवलहयो न भवति । किन्तु अभयप्रदः भयरहितः सारस्वतः अखिलविद्याधारस्वरूपी पारमात्मिकः परमात्मा जगत् सर्वं सन्धुषे कृपाकटाक्षेण प्रेक्षयसि तुभ्यम् ॥ ७॥

यो वा परं ज्योतिः परं सन्दधानः परमात्मा पुरुषं सञ्जनयिष्यसे स्वाहा ॥ ३.८॥

यः परं ज्योतिः परमात्मा यं निर्हेतुककृपाकटाक्षेण रक्षितुमिच्छति तं पुरुषं परं सन्दधानः उत्कृष्टगुणं सन्दधानं सञ्जनयति सञ्जनयिष्यसे तुभ्यं व्यत्ययः । यद्वा रामकृष्णाद्यवतारादिषु वसुदेवदशरथादिषु परं सन्दधानः पुरुषं प्रति सम्यक् जनिष्यसे ``जनी प्रादुर्भावे'' इति प्रादुर्भावं प्रजननं कुर्वते । न तस्य जन्मनो हेतुः कर्मणो वा महीपते । आत्ममायां विनेशस्य परमा सृष्टिरात्मना ॥ इति ॥ नायमाप्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ इति ॥ जायमानं हि पुरुषं यं पश्येन्मधुसूदनः । सात्त्विकः स तु विज्ञे यः स वै मोक्षार्थचिन्तकः ॥ पश्यत्येनं जायमानं ब्रह्मा रुद्रोऽथवा पुनः रजसा तमसा चास्य मानसं समभिप्लुतम् ॥ इति ॥ अनेन निर्हेतुत्वं प्रतिपादितम् । अधिकारिविशेषेण निर्हेतुकं सहेतुकं च ॥ ८॥

यो दोषश्चतुरश्चतुर्थश्चतुरः पदार्थान् सर्वं लोकस्य सन्दधानस्ते सन्ते सत्त्वमादधानाय स्वाहा ॥ ३.९॥

यो दोषः यस्य परमात्मनो बाहुषु चतुर्थः । वरप्रदानहस्तः चतुरः वरप्रदानेन चतुरः समर्थः चतुरः पदार्थान् धर्मार्थकाममोक्षाख्यान् सर्वं लोकस्य सर्वजनानां सन्दधानः प्रयच्छमानः सन्ते सत्सु सत्त्वमादधानाय ``एको बहूनां यो विधाति कामान्'' इति श्रुतिः । [नित्योऽनित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्। तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ (कठोपनिषदि अध्यायः २ वल्ली २ श्लोक १३) ते इदम् ॥ ९॥

यस्यैता ब्रह्ममूर्तयो बृहद्ब्रह्माणं ब्रह्म आदधानः यं ब्रह्म ब्रह्मगुप्तये परम्पराय स्वाहा ॥ ३.१०॥

यस्य परब्रह्मणः एताः अव्यया ब्रह्ममूर्तयः दत्तोऽयं चतुर्मुखब्रह्मगुप्तये वेदगुप्तये परम्पराय सृजति तस्मै । (श्वेताश्वतरे- श्लोकः १८) यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै ॥ यः ब्रह्माणं पूर्वं विदधाति यः च तस्मै वेदान् प्रहिणोति वै आत्मबुद्धिप्रकाशं निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनं अमृतस्य परं सेतुं दग्धेन्धनं अनलं इव स्थितं तं ह मुमुक्षुः अहं शरणं प्रपद्ये ॥ (षष्ठोऽध्यायः श्लोकः १८) इति तृर्तायोऽनुवाकः सम्पूर्णः ।

चतुर्थाऽनुवाकः सव्याख्या

वाको वा अनुवाको वाकं वाकं सञ्जुपमाणः देवस्य स्वं स्वगुप्तये स्वयं जेनातिषे ज्योतिषे स्वाहा ॥ ४.१॥

वाकः अनुवाक एव यद्वा वाकं वाकं प्रत्यनुवाकं प्रतिवाक्यं वा सञ्जुपमाणः अस्य मन्त्रस्याध्येतरि प्रियमाणः ॥ वेदाक्षराणि यावन्ति पठितानि द्विजोत्तमैः । यावन्ति हरिनामानि कीर्तितानि न संशयः । वेदाक्षराणि यावन्ति पठितानि द्विजातिभिः । तावन्ति हरिनामानि कीर्तितानि न संशयः ॥ (संस्काररत्नमालान्तर्गता श्लोकानि भागः १) तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम् ॥ (श्रीमद्भागवतपुराणे स्कन्धः ७ अध्यायः १४ ॥ ४१॥) इति स्वनामत्वाच्च ``स ह वा एतस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदः'' (तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदः'' शारीरिक् मिमांसा भाष्ये भाग १ ६ पृष्ठ १९३) इत्यादिश्रुतेर्निश्वासरूपत्वाच्च वाकं सञ्जुषमाण इत्युक्तम् । देवः ``दिवु क्रीडाविजिगीषाव्यवहारद्य्रुतिस्तुतिमोदमदस्वप्नकान्ति-गतिषु इति । स देवः स्वं स्वतेजोरूपं स्वगुप्तये स्वकृतलोकमर्यादरक्षणार्थे त्रयोमयं सूर्यं जेनातिषे कल्पयति । ``सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् इति श्रुतिः । सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो स्वः ॥ (ऋग्वेद मण्डलम् १० सूक्तम् १९० मण्डलम् ३) ``आदित्यो वा एष एतन्मण्डलं तपति तत्र ता ऋचस्तदृचा मण्डलꣳ स ऋचां लोकोऽथ य एष एतस्मिन् मण्डलेऽर्चिर्दीप्यते तानि सामानि स साम्नां लोकोऽथ य एष एतस्मिन्मण्डलेऽर्चिषि पुरुषस्तानि यजूꣳषि स यजुषा मण्डलꣳ स यजुषां लोकः सैषा त्रय्येव विद्या तपति'' इत्यादिस्वयज्योतिषे अनश्वरज्योतिषे तुभ्यम् ॥ १॥

द्वावेतौ पक्षी अचरं चरन्तौ नाधुरं व्यधुनीते यश्चैकं भुनक्ति भोक्ये स्वाहा ॥ ४.२॥

शरीरस्य तौ एतौ द्वौ जीवात्मपरमात्मानौ पक्षी पक्षिप्रायौ अचरं प्रकृतिं चरन्तौ शरीरे स्थितौ । यद्वा ``चर गतिभक्षणयोः'' इति प्रयोज्यप्रयोजकभावेन प्रकृतिं भक्षयन्तौ । यद्वा कर्मफलमुपनिषदन्तरे- ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥ इति ॥ (कठोपनिषत् १.३.१) नाधुरं व्यधुनीते तत्र परमां धुरं भारं धुनित इति न धुनित एव । श्रुत्यन्तरे- द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥ (मुण्डकोपनिषद् तृतीयो मुण्डकः प्रथमः खण्डः श्लोकः १) यश्चैकं भुनक्ति यः परमात्मा एकजीवात्मानं चकारात्प्रकृतिं च भुनक्ति संहरति । श्रतिः- यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ इति ॥ (कठोपनिषत् १.२.२५) हरेरेव सर्वसंहारकरत्वं श्रूयते ``हरिꣳ हरन्तमनुयन्ति देवाः । विश्वस्येशानं वृषभं मतीनाम्'' इति । (महानारायणोपनिषत् अनुवाकः ४१-५०) ईशानशब्दश्रवणाद्रुद्र एवेति चेत् सत्यम् । ``विश्वस्येशानम्'', ``पतिं विश्वस्यात्मेश्वरम्'', ``अस्येशाना जगतो विष्णुपत्नी'' (अलङ्कारमणिहारे पृष्ठ ४४४) इत्यादिश्रुतिषु लक्ष्मीनारयणयोर्जगदीश्वरत्वश्रवणात्केवलेशानशब्दश्रवणाभावात् । ``ईशानः सर्वविद्यानाम्'' (शिवनमस्कारः २) इति विद्यामात्रेशानत्वस्य श्रवणात् । ब्रह्मा शम्भुस्तथैवार्कश्चन्द्रमाश्च शतक्रतुः । एवमाद्यास्तथा चान्ये युक्ता वैष्णवतेजसा ॥ जगत्कार्यावसाने तु वियुज्यन्ते च तेजसा । वितेजसश्च ते सर्वे पञ्चत्वमुपयान्ति च ॥ इति ॥ अत एव सर्वसंहारकत्वं श्रीमन्नारायणस्य सर्वसंहारकस्य ॥ २॥

यो वा आयुः परमात्मा न मीढुषः पारस्थगत्परं परायणः पराय लोकानां परमादधानः परम्पराय स्वाहा ॥ ४.३॥

यः परमात्मा नारायणः मीहुषो रुद्रस्य ``नमो रुद्राय मीडुषे''[ नमो रुद्राय महते देवायोग्राय मीढुषे । शिवाय न्यस्तदण्डाय धृतदण्डाय मन्यवे ॥ (श्रीमद् भागवतम् ३.१४.३५) इति परमायुः आपन्निवारकत्वात् परममृत्युत्वाच्च । आरण्यके- किं तद्विष्णोर्बलमाहुः'' (तैत्तिरीयारण्यकम्(विस्वर) प्रपाठकः १ १.८ अनुवाक ८ (३)-(४)) इत्यारभ्य बलादिकमुत्पाद्य ॥ ``पृच्छामि त्वा परं मृत्युम्'' इति प्रश्नस्य प्रतिवचनम् । ``अमुमाहुः परं मृत्युम् । पवमानं तु मध्यमम् । अग्निरेवावमोमृत्युः । चन्द्रमाश्चतुरुच्यते ॥ ``इति भगवत्येव परं मृत्युत्वं प्रतिपादितम् । परमात्मानमन्तर्यामिणम् । विभक्तिव्यत्ययः । परमात्मा पारम्पर्यात्परम्पराय लोकानां परमुत्कृष्टपरः भिन्नपरः शत्रुश्च परमादधानः उत्कृष्टत्वं प्रथमानः अत एव परायणः परमगतिभूतः मोक्षोपायभूत इत्यर्थः । यद्वा चतुर्विधपुरुषार्थानां गतिभूतः । पराय उतकृष्टगतिभूताय । ननु, यो ब्रह्मा ब्रह्मण उज्जहार प्राणेश्वरः कृत्तिवासाः पिनाकी । ईशानो देवः स न आयुर्दधातु तस्मै जुहोमि हविषा घृतेन ॥ (आयुष्यसूक्तम्) इत्यायुषो निमित्ते कथं रुद्रप्रार्थना प्रतिपाद्यत इति चेत्सत्यम् । भारते- ततस्ते च सुरास्सर्वे ब्रह्मा ते च महर्षयः । वेददृष्टेन विधिना वैष्णवं क्रतुमारभन् ॥ तस्मिन् सत्रे तदा ब्रह्मा स्वयं भागमकल्पयत् । देवा महर्षयश्चैव सर्वे भागानकल्पयन् ॥ ते कार्तयुगधर्माणो भागाः परमसत्कृताः । प्रापुरादित्यवर्णान्तं पुरुष तमसः परम् ॥ श्रीभगवान-- येन यः कल्पितो भागः स तथा समुपागतः । यतोऽहं प्रविशाम्यद्य फलमावृत्तिलक्षणम् ॥ यज्ञैर्ये वापि यक्ष्यन्ति सर्वलोकेषु वै सुराः । कल्पयिष्यन्ति वै भागांस्ते नरा वेदकल्पितान् ॥ यो मे यथा कल्पितवान् भागमस्मिन् महाक्रतौ । स तथा यज्ञभागार्हो वेदसूत्रे मया कृते ॥ इति ॥ अतो ब्रह्मरुद्रादीनां तत्तत्कर्मसु पूजार्हत्वं भगवतो नारायणस्य वरप्रदानलब्धम् । यद्वा संहारकत्वेन भगवता सृष्टत्वात् तत्पूजेतीदम्प्रपन्नविषयं न भवति । भगवन्मन्त्रस्य मृत्युञ्जयत्वम् । ``एते सहस्रमयुतं पाशा मृत्यो मर्त्याय हन्तवे । तान् यज्ञस्य मायया सर्वानवयजामहे ।'' (श्री रुद्रम् एकादशोऽनुवाकः मन्त्र १६) अस्यार्थः-हे मृत्यो मर्त्याय हन्तवे वर्तसे व्रतसहस्रमयुतमेते पाशाः तान्पाशान् यज्ञस्य मायया ``यज्ञो वै विष्णुः'' इति श्रुतः । उपनिषदन्तरे यज्ञाख्यः परमात्मा य उच्यते तस्य होतृभिः । उपनीतं ततोऽस्यैतत्तस्माद्यज्ञोपवीतकम् ॥ इति ॥ विष्णोर्मायया आश्चर्यकारिण्या वैष्णव्या विद्यया मन्त्रेण सर्वान् तान् पाशानवयजामहे अधस्तात्कुर्मः । यदन्तस्तमशेषेण वाङ्मयं देववैदिकम् । तस्मै व्यापकमुख्याय मन्त्राय महते नमः ॥ ननु ``हरिꣳ हरन्तमनुयन्ति देवाः । विश्वस्येशानं वृषभं मतीनाम् । ब्रह्म सरूपमनु मेदमागात् ।'' इत्यादिषु हरिं नृसिहं हरन्तं शरभरूपेण ईशानं रुद्रं देवा अनुयान्ति गतिं कुर्वन्ति । अतः सर्वसंहारकारको रुद्र एवेति चेत् तदसत् । पूर्वापरपरामृष्टशब्दानां कुरुते मतिम् । इति । पूर्वानुवाके- भर्ता सन्भ्रियमाणो बिभर्ति । एको देवो बहुधा निविष्टः ।'' इत्यारभ्य ``तमेव मृत्युममृतं तमाहु । तं भर्तारं तमु गोप्तारमाहुः'' इत्यादिषु भर्तृशब्देन ``व्यष्टभ्राद्रोदसी विष्णवेते । दाधर्थ पृथिवीमभितो मयूखैः'' इति स्वकान्त्यैवावतीर्य तेन रूपेण जगद्धरणं ``किं तद्विष्णोर्बलमाहुः । का दीप्तिः किं परायणम् । एको यद्धारयद्देवः । रेजती रोदसी उभे । वाताद्विष्णोर्बलमाहुः ।'' इत्यारभ्य । ``पृच्छामि त्वा परं मृत्युम् । अवमं मध्यमं चतुम् । लोकं च पुण्यपापानाम् । एतत्पृच्छामि सम्प्रति । अभुमाहुः परं मृत्युम् । पवमानं तु मध्यमम् । अग्निरेवावमो मृत्युः । चन्द्रमाश्चतुरुच्यते ॥'' इति परमात्मनो विष्णोरेव परं मृत्युत्वं प्रतिपादितम् । देवशब्दः सामान्यवाचीति एको देव इत्युक्तम् । ``एको देवो नारायणः'', ``अपहतपाष्मा दिव्यो देव एको नारायणः, ``रुद्रास्तु वहवः'', ``सहस्राणि सहस्रशो ये रुद्राः'', ``तमेव मृत्युम्, ``परं मृत्यो अणु परेहि पन्थाम् ॥ इति ॥ नृसिंहतापनीयोपनिषदि- उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ इति ॥ तत्रैव-``अथ कस्मादुच्यत उग्रमिति । स होवाच प्रजापतिः-यस्मात्स्वमहिम्ना सर्वान् लोकान् सर्वान् देवान् सर्वानात्मनः सर्वाणि भूतानि उद्गृह्णाति अजस्रं सृजति विसृजति वासयति उदग्राह्यत उद्गृह्यते । स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीमभुपहत्नुमुग्रम् । मृडा जरित्रे सिंह स्तवानो अन्यं ते अस्मन्निवपन्तु सेनाः ॥ (श्री रुद्रं दशमोऽनुवाकः मन्त्र ८) तस्मादुच्यत उग्रमिति ॥'' ``अथ कस्मादुच्यते वीरमिति । यस्मात्स्वमहिम्ना सर्वान् लोकान् सर्वान् देवान् सर्वानात्मनः सर्वाणि भूतानि विरमति विरामयत्यजस्रं सृजति विसृजति वासयति । यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः । तस्मादुच्यते वीरमिति ॥'' ``अथ कस्मादुच्यते महाविष्णुमिति । यस्मात्स्वमहिम्ना सर्वान् लोकान् सर्वान् दवान् सर्वानात्मनः सर्वाणि भूतानि व्याप्नोति व्यापयति स्नेहो यथा पललपिण्डं शान्तमूलमोतं प्रोतमनुव्याप्तं ष्यतिषिक्तो व्याप्यते व्योपयते । यस्मान्न जातः परो अन्यो अस्ति य आविवेश भुवनानि विश्वा । प्रजापतिः प्रजया संविदानः त्रीणि ज्योतीꣳ षि सचते स षोडशी ॥ (यजुर्वेद ८.३६) तस्मादुच्यते महाविष्णुमिति ॥ ``अथ कस्मादुच्यते ज्वलन्तमिति । यस्मात् स्वमहिम्ना सर्वान् लोकान् सर्वान् देवान् सर्वानात्मनः सर्वाणि भूतानि स्वतेजसा ज्वलति ज्वालयति ज्वाल्यते ज्वालयते । सविता प्रसविता दीप्तो दीपयन् दीप्यमानः ज्वलन् ज्वलिता तपन् वितपन् सन्तपन् रोचनो रोचमानः शोभनः शोभमानः कल्याणः । तस्मादुच्यते ज्वयन्तमिति ॥ ``अथ कस्मादुच्यते सवर्तोमुखमिति । यस्माक्त्यमहिम्ना सर्वान् लोकान् सर्वान् देवान् सर्वानात्मनः सर्वाणि भूतानि स्वयमनिन्द्रियोऽपि सर्वतः पश्यति सर्वतः श‍ृणोति सर्वतो गच्छति सर्वत आदत्ते सर्वगः सर्वगतस्तिष्ठति । एकः पुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः । यमप्येति भुवनꣳसाम्पराये नमामि तमहं सर्वतोमुखमिति । तस्मादुच्यते सर्वतोमुखमिति ॥ ``अथ कस्मादुच्यते नृसिंहमिति । यस्मात्सर्वेषां भूतानां ना वीर्यतमः श्रेष्ठतमश्च सिंहो वीर्यतमः श्रेष्ठतमश्च तस्मान्नृसिंह आसीत् परमेश्वरो वा जगद्धितमेतद्रूपं यदक्षरं भवति । प्रतद्विष्णुः स्तवते वीर्याय मृगो न भीमः कुचरो गरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥ तस्मादुच्यते नृसिंहोमति ॥ ``अथ कस्मादुच्यते भीषणमिति । यस्माद्भीषणं यस्य रूपं दृष्ट्वा सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि भीत्या पलायन्ते स्वयं यतः कुतश्च न बिभेति । भीषास्माद्वातः पवते भीषोदेति सूर्यः । भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चम इति ॥ तस्मादुच्यते भीषणमिति ॥ ``अथ कस्मादुच्यते भद्रमिति । यस्मात् स्वयं भद्रो भूत्वा सर्वदा भद्रं ददाति । रोचनो रोचमानः शोभनः शोभमानः कल्याणः । भद्रं कर्णेभिः श‍ृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳ सस्तनूभिः व्यशेम देवहितं यदायुः ॥ तस्मादुच्यते भद्रमिति ॥'' ``अथ कस्मादुच्यते मृत्युमृत्युभिति । यस्मात् स्वमहिम्ना स्वभक्तानां स्मृत एव मृत्युमपमृत्युं च मारयति । य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥ (यजुर्वेद २५.१३) तस्मादुच्यते मृत्युमृत्युमिति ॥'' ``अथ कस्मादुच्यते नमामीति । यस्माद्यं सर्वे देवा नमन्ति मुमुक्षवो ब्रह्मवादिनश्च । प्रनूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् । यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे ॥ (ऋग्वेदः मण्डल १ सूक्तं १.४० ५.२५.१३) तस्मादुच्यते नमामीति ॥'' ``अथ कस्मादुच्यते अहमिति । अहमस्मि प्रथमजा ऋतस्य पूर्वं देवेभ्यो अमृतस्य नाभिः । यो मा ददाति स इ देवमावाः अहमन्नमन्नमदन्तमद्मि । अहं विश्वं भुवनमभ्यभवां सुवर्णज्योतीः ॥ य एवं वेद । इत्युपनिषत् ॥'' (तैत्तिरीयोपनिषद्भृगुवल्लीदशमोऽनुवाकः श्लोक ५) उपनिषत्सु नृसिंहस्य प्रभावा एवं श्रूयन्ते । पुराणेषु च- ब्रह्मरुद्रेन्द्रवह्नीन्दुदिवाकरमनुग्रहाः । तच्छक्त्याऽधिष्ठितास्सन्तो मोदन्ते दिवि देवताः ॥ जगत्कार्यावसाने तु वियुज्यन्ते च तेजसा । वितेजसश्च ते सर्वे पञ्चतामुपयान्ति च ॥ इति ॥ भारते- सत्त्वमादाय सर्वेषां तेजसोऽथ दिवौकसाम् । तेजसाऽप्यधिको भूत्वा भूयोऽप्यतिबलोऽभवत् ॥ ततः प्रभृति देवानां देवदेवो भवोद्भवः । पतिश्च सर्वभूतानां पशूनां चाभवत्तदा ॥ भासयामास तान् सत्त्वान् देवदेवो महाद्युतिः । अर्थमादाय सर्वेषां तेजसा प्रज्वलन्निति ॥ ततोऽभिषिषिचुः सर्वे सुरा रुद्रा मुरारिहम् । महादेव इति ह्यासीद्देवदेवो महेश्वरः ॥ अत एव महादेवादिशब्दवाच्यत्वं रुद्रस्य वरप्रदानलब्धं अत एव तमेव मृत्युमित्युक्तम् । अत्र परम्ब्रह्मण एवामृतशब्दवाच्यत्वं न तु रुद्रस्य । आरण्यके-``नैव देवो न मर्त्यः । न राजा वरुणो विभुः । नाग्निर्नेन्द्रो न पवमानः । मातृक्कच्च्न विद्यते । दिव्यस्यैका धनुरार्त्निः पृथिव्यामपरा श्रिता । तस्येन्द्रो वम्रिरूपेण । धनुर्ज्यामच्छिनत्स्वयम् । तदिन्द्रधनुरित्यज्यम् । अभ्रवर्णेषु चक्षते । एतदेव शंयोर्बार्हस्पत्यस्य । एतद्रुद्रस्य धनुः । रुद्रस्य त्वेव धनुरार्त्निः । शिर उत्पिपेष । स प्रवर्ग्योऽभवत् । तस्माद्यस्स प्रवर्ग्येण यज्ञेन यजते । रुद्रस्य स शिरः प्रतिदधाति । नैनꣳ रुद्र आरुको भवति'' ॥ इति ॥ त्रिपुरसंहारकस्य रुद्रस्य पशुपतित्वादिप्रार्थना श्रूयते यजुषि।-- ``तेषामसुराणां तिस्रः पुर आसन्नयस्मय्यवमाथ रजताथ हरिणी ता देवा जेतुं नाशक्नुवन् ता उपसदैवाजिगीषन् तस्मादाहुर्यश्चैवं वेद यश्च नोपसदा वै महापुरं जयन्तीति त इषुꣳ समस्कुर्वताग्निमनीकꣳ सोमꣳ शल्यं विष्णुं तेजनं तेऽब्रुवन् क इमामसिष्यतीति रुद्र इत्यब्रुवन् रुद्रो वै क्रूरः सोऽस्यत्विति सोऽब्रवीद्वरं वृणा अहमेव पशूनामधिपतिरसानीति तस्माद्रुद्रः पशूनामधिपतिः'' इत्यादि ॥ श्वेताश्वतरे- तं विश्वरूपं भवभूतमीड्यं देवं स्वचित्तस्थमुपास्य पूर्वम् । स वृक्षकालाकृतिभिः परोऽन्यो यस्मात्प्रपञ्चः परिवर्ततेऽयम् ॥ धर्मावहं पापनुदं भगेशं ज्ञात्वात्मस्थममृतं विश्वधाम । तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् ॥ पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेशमीड्यम् । न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते ॥ परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च । न तस्य कश्चित्पतिरस्ति लोके नचेशिता नैव च तस्य लिङ्गम् । स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः ॥ इत्यादि । तं विश्वरूपमित्यारभ्य प्रतिपादितानि विशेषणानि रुद्रपराणीति चेत् तदसत् । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् ॥ विश्वं नारायणं देवमक्षरं परमं पदम् । विश्वतः परमं नित्यं विश्वं नारायणꣳ हरिम् ॥ विश्वमेवेदꣳ सर्वं तद्विश्वमुपजीवति । पतिं विश्वस्यात्मेश्वरꣳ शाश्वतꣳ शिवमच्युतम् ॥ इत्यादि ॥ मुण्डकोपनिषदि-- अग्निर्मूर्धा चक्षुषि चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ इत्यादि ॥ दिवोकसामर्धतेजसाप्याये तस्य अखिलदेवतावरप्रदानेन पशुपतित्वादिकं प्राप्तस्य पशुपतेः सर्वसंहारकत्वं नोपपद्यते । किञ्च-- नमाम्यहं पापनुदं भगेशं ज्ञात्वात्मस्थममृतं विश्वधाम । तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् । पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेशमीड्यम् ॥ इत्याद्युपनिषद्वाक्येषु भगवन्महिमा प्रतिपाद्यते । व्यक्तं हिं भगवान् देवः साक्षान्नारायणः स्वयम् । अष्टाक्षरस्वरूपेण मुखेषु परिवर्तते ॥ (गोपालभट्टस्य हरिभक्तिविलासः) इति भगवन्मन्त्राः केवलमृत्युञ्जया न भवन्ति । किन्तु चतुर्वर्गफलप्रदा वा ॥ ३॥

तेजसां तेजस्तेज आदधानः सत्त्वस्तेजस्तेजसां तेजस्तेजसे स्वाहा ॥ ४.४॥

यः परमात्मा तेजसां तेजस्तेज आदधानः नक्षत्राग्निश्मद्रसूर्याणामुत्तरोत्तरं तेजः प्रयच्छमानः सत्त्वस्तेजस्तेजसां सूर्यादीनां तेजोयुक्तानां यदा कदाचित् तेजोदर्शनाभावात् । कठवल्लीषु-- न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनु भाति सर्व तस्य भासा सर्वमिदं विभाति ॥ इति ॥ सूर्याद्यपेक्षयाऽधिकतेजोरूपत्वश्रवणात् नाशरहितत्वाच्च सत्त्वस्तेजसामित्युक्तम् । तेजस्विषु स्थितानां तेजसां तेषा तेजसामपि तेजसे पराभिभवनसामर्थ्य तेज इति तस्मै ॥ ४॥

सह सम्पायास्त्वमाशिषमाशिभूताभूतमाशिषमाशिराशीराशिरनुभूमिः स्वाहा ॥ ४.५॥

चेतनाचेतनेषु सर्वत्रान्तर्यामित्वेन वसन् वैषम्यनैर्धृण्याभावात् शत्रुमित्रोदासीनानां सहासमत्वे समत्वायाः पासि त्वं आशिषमाशिभूताभूतं आशिभूतं अभूतं च आशिषमाशिः आशीराशिः आशिषां राशिः अनुभूमिः उत्पत्तिस्थानम् । तुभ्यमित्यर्थः ॥ ५॥

यो ह संयोगो ध्यानं जुषमाणः सन्धुः सन्धुक्षणानां संयोगः सन्दधानः पुण्यः पुण्यानां पुण्याय स्वाहा ॥ ४.६॥

जीवात्मपरमात्मनोर्यो वा संयोगः उपायत्वेन च ध्यानं संयोगः । उपायत्वेनोपेयत्वेन च प्रीतिपूर्वकं जुषमाणः सेवमानः सन्धुक्षणानां कृपाकटाक्षेण प्रोक्षणाप्रोक्षणानां विषयभूतः सन्धुः सम्यक् प्रोक्षित इत्यर्थः । संयोगः सन्दधानः एवम्भूतः संयोगः सन्दधानः । पुण्यानां पुण्यशरीराणां एष एव साधु कर्मकरायते । यमेभ्यो लोकेभ्य उन्निषति एष एव साधुकर्म कारयति यमरो निनीषतीति । श्रीगीतायाम्- तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति नम् ॥ यद्वा पुण्यानां पुण्य इतरेषां मध्यस्थः तेन विना तृणाग्रमपि न चलतीति । पुण्याय पुण्यस्वरूपिणे तुभ्यम् ॥ ६॥

सहस्रं वा यस्य वै वितानमादधानः सहस्रं वा आशिषः सहस्रं यस्य वै सासिकाः सहस्रं सहस्राय स्वाहा ॥ ४.७॥

मुक्तानामैश्वर्यं प्रतिपादयति । यस्य मुक्तस्य परमपदं गच्छतः सहस्रं वा यस्त वै वितानं मण्टपादूर्ध्वाच्छादनादि आदधानः । स्वयमेवात्ममप्रयच्छमानः । सहस्रं वा आशिषः स्रक्चन्दनादयः । सासिकाः आसनादिभिः सहिताः । सहस्रं यस्य वै सासिकाः आसने सह रन्तुं योग्याः स्त्रियः । सहस्रं सहस्राय । ``सहस्रशीर्षा पुरुष'' इत्यादिश्रुतिसिद्धाय तुभ्यम् । ``तं पञ्चशतान्यष्स(?)रसा प्रतिधावन्ति शतं मालाहस्ताः इत्यादि ॥ ७॥

स्वातीका गुप्तयो गुप्तिः सत्त्वं सत्त्वानां (सत्यं सत्यानां) सात्वम्पदं तत्सत्त्वं सत्त्वमासीत् सात्त्वं सात्त्वं वै सत्त्वमादधानाय स्वाहा ॥ ४.८॥

स्वातीका गुप्तयः स्वर .... शं परमात्मानं नारायणमतिक्रम्य देवतान्तरमन्त्रान्तरसाधनान्तरप्रयोजनान्तरादीनामकिञ्चित्करत्वात् तेषां गोप्तृत्वशक्त्यभावात गोप्तृत्वेन वरणं गुप्तयः । यद्वा स्वान्तर्यामिणः परमात्मन एव गोप्तृत्वादयः । आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम् । रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा ॥ आत्मनिक्षेपकार्पण्यं षड्विधा शरणागतिः । अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम् । तदेकोपायता याच्ञा प्रपत्तिः शरणागतिः ॥ इति ॥ गुप्तिः रक्षणं सत्त्वं यथार्थ सत्त्वानां सत्त्वभूतहितमिति भूतहितयुक्तानां सात्वम्म्पदं सत्त्वपदप्रदं तत्सत्त्वं तत्सात्त्विकपदं नान्यदिति । यत्पदं सात्वताभिख्यं विष्णुलोके महीयते । ``दवैः सुकृतकर्मभिस्तत्र माममृतं कृधीन्द्रायेन्दो परिस्रव'' इति ऋग्वेदब्राह्मणे । यद्वा परमात्मनो गुप्तयः गोप्तृत्वादिकमेव धर्मोत्तरापेक्षया सत्यं यथार्थमिति ये गृह्णन्ति तेषां सत्यानां सत्यत्वेन पुहीतानां सात्वम्म्पदं परमपदं सत्त्वमासीत् । सात्त्विकमेवासीत् । सात्त्वं वै सत्त्वमेव सात्त्वं सात्वतशब्दवाच्यम् । ``नामैकदेशे नामग्रहणम्'' भीमो भीमसेन इतिवत् । नित्यनैमित्तिकाजस्रा याज्ञीयाः परमाः क्रियाः । सर्वं सात्वतमास्थाय विधिश्चक्रे समाहितः ॥ इति ॥ सत्त्वप्रधानत्वात् सात्वतशव्दप्रयोगः । भारतोक्तसात्वतशब्द-वाच्यं पञ्चरात्रं न भवति सात्त्विकनामत्वेन प्रणीतत्वात् । अथांशोः सात्वतो नाम विष्णुभक्तः प्रतापवान् । महात्मा दाननिरतो धनुर्वेदविदां वरः ॥ स नारदस्य वचनाद्वासुदेवार्चने रतः । शास्त्रं प्रवर्तयामास कुण्डगोलादिभिः श्रुतम् ॥ तस्य नाम्ना तु विख्यातं सात्वतं नाम शोभनम् । प्रवर्तते महाशास्त्रं कुण्डादीनां हितावहम् ॥ इति ॥ साङ्ख्यपुराणे- श्रुतिभ्रष्टः श्रुतिप्रोक्तप्रायश्चित्ते भयं गतः । क्रमेण श्रुतिविध्यर्थं मनुष्यस्तन्त्रमाश्रयेत् ॥ धर्मशास्त्रपुराणे च प्रोक्तं हि मरणान्तिकम् । प्रायश्चित्तं मनुष्याणां पापिष्ठानां सुदारुणम् ॥ भयं प्रबलचित्तानां मरणे जायते भृशम् । तेषामेवाभिरक्षार्थं खल्वहं तन्त्रमुक्तवान् ॥ पाञ्चरात्रं भागवतं तन्त्रं सात्वतनामकम् । वेदाग्रहं समुद्दिश्य कमलापतिरुक्तवान् ॥ इति ॥ भागवते- त्रिवक्त्राया उपश्लोकः पुत्रः कृष्णमनुव्रतः । शिष्यः साक्षान्नारदस्य ददौ चित्तमखण्डितम् ॥ तेनोक्तं सात्वतं तन्त्रं यज्ज्ञात्वा मुक्तिभाग्भवेत् । यत्र स्त्रीशूद्रदासानां संस्कारो वैष्णवः स्मृतः ॥ इति परमात्मपरत्वात् पारमात्मिकं सात्वतशब्दवाच्यं स्वातन्त्र्येण देवतान्तरमन्त्रान्तरादिप्रतिपादनाभावात् वैदिकत्वेन प्रसिद्धं श्रीमद्वैखानसं सात्विकमेव । सत्वमादधानाय सात्त्विकगुणं प्रयच्छमानाय तुभ्यम् ॥ ८॥

सत्त्वं वा उद्रेकमासीद्यत्सत्त्वमुभयौरनुगोप्ता तत्सत्यं सत्यम्पदाय सत्याय स्वाहा ॥ ४.९॥

सत्त्वं वा सात्विकमेव यत्तस्य परमात्मनः उद्रेकमासीत् प्रचुरमासीत् । यत्सत्त्वं सात्त्विकप्रधानं ब्रह्म उभयोरपि ऐहिकामुष्मिकयोः अनुगोप्ता साकल्येन गोप्ता । यद्वा स्थावरजङ्गमात्मकयोः । यद्वा मृते जन्मनो रक्षतः तत्सत्यं सस्यम्पदाय ततः ब्रह्मपदाय परमपदाय सत्यं परमपदप्राप्तये सत्यमित्यर्थः । ``नान्यः पन्था अयनाय विद्यते'' इति श्रुते । (महावाक्योपनिषदि श्लोक ९) सत्याय यथार्थभूताय तुभ्यम् ॥ ९॥

सत्यो जेनाति सत्यान्तरात्मा सत्योद्योगः सत्यः सत्कर्मा सत्यं सत्यं वितानमासीत्सत्यं सत्याय स्वाहा ॥ ४.१०॥

विनाशरहितत्वात् सत्यो जेनातिः । यद्वा भूतहितत्वात् सर्वेषां हितरूपः । जेनातिः दीप्ति । सत्यान्तरात्मा सत्यस्वभावः । सत्योद्योगः सत्यसङ्कल्पः । सत्यः नित्यः । सत्कर्मा शोभनकर्मा । ननु यदि परमात्मा विष्णुः सत्कर्मा तर्हि भृगुपत्न्यादिस्त्रीवधादिकमेव नोपपद्यत इति चेत्सत्यम् । उत्तरश्रीरामायणे श‍ृणु राजन् यथावृत्तं पुरा देवासुरा युधि । दैत्यासुरैर्भज्यमाना भृगुपत्नी समाश्रिता ॥ यदा दत्ताभयास्तत्र न्यवसन्निर्भयास्तदा । तया परिगृहीतांस्तान् दृष्टा क्रु द्धः सुरोत्तमः ॥ चक्रेण शितधारेण भृगुप ल्याः शिरोऽहरत् । ततस्तान्निहतान् दृष्ट्वा पत्नीं भृगुकुलोद्भवः ॥ शशाप सहसा क्रुद्धो विष्णुं परबलार्दनम् । यस्मादवध्यां मे पत्नीमवधीः क्रोधमूर्छितः ॥ तस्मात्त्वं मानुषे लोके जनिष्यसि जनार्दन । तत्र पत्नीवियोगं त्वं प्राप्स्यसे बहुवार्षिकम् । ततः प्रतिहरः शापस्तमृषिं पुनरागमत् ॥ इत्यादिसृष्टिस्थितिसंहारकर्तृत्वात् दुष्टनिग्रहकर्तृत्वाच्च ॥ अप्रमेयोऽनियोज्यश्च यत्र कामागमो वशी । मोदते भगवान् भूतैर्बालः क्रीडनकैरिव ॥ इति ॥ लीलाविभूतिकत्वात् सर्वात्मकत्वात् निरङ्कुश स्वतन्त्रत्वाच्च न दोषः । अत एव सत्कर्मा सत्यं सत्यं वितानमासीत् सत्यं यथार्थभूतहितं सत्याय यथार्थभूताय तुभ्यम् ॥ १०॥ इति चतुर्थोऽनुवाकः सम्पूर्णः ।

पञ्चमोऽनुवाकः सव्याख्या

सत्यः सत्यं पुण्यमासीत्पुण्यो वा दैविकं सत्यं सत्त्वमार्षं सत्यं सत्त्वं सत्पथाय स्वाहा ॥ ५.१॥

सत्यः चिदचिदात्मकः परमात्मा सत्यं पुण्यमासीत् । सत्यशब्देन मोक्षोपायभूतज्ञानरूपः । पुण्यशब्देन इष्टापूट्पर्तादयः स्वयमेवासीत् । पुण्यो वा दैविकं ``तानि त्रेतायां बहुधा सन्ततानि तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके'' इति श्रुतेः । (मुण्डकोपनिषदि प्रथमो मुण्डकः द्वितीयः खण्ड श्लोकः १) भगवत्प्रीत्यर्थं कृतं पुण्यदैविकं कालान्तरेऽपवर्गप्रदम् । सत्यं सत्त्वमार्षं मोक्षोपायभूतज्ञानरूपं शुभाश्रयसंशीलनमननमिति मननविषयत्वादार्षमित्युक्तम् । तत्परं ब्रह्म ``नारायणपरं ब्रह्म'' इति श्रुतेः । श्रीमन्नारायण एव सत्यं सत्त्वं सत्पथाय सन्मार्गभूतः सत्त्वशब्दवाच्यः परमात्मा अर्चिरादिमार्गभूत इत्यर्थः । ``ये चत्वारः पथयो देवयानाः'' इति देवयानमार्गाश्चतुर्विधाः । स्वामिन स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् । स्वदत्तस्वधियं स्वार्थं स्वस्मिन्नयस्यति मां स्वयम् ॥ इति न्यासविद्यानां विविधानामर्चिरादिमार्गाः प्रतिपाद्यन्ते । ``अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्ङेति मासांस्तान्मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयति'' इत्यादि । ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः । तेषा वै क्षेममध्वानं गच्छतां द्विजसत्तमः ॥ सर्वलोकतमोहन्ता आदित्यश्चारमुच्यते । ज्वालामालिमहातेजा येनेदं धार्यते जगत् ॥ आदित्यदग्धसर्वाङ्गा अदृश्याः केचन क्वचित् । परमण्वात्मभूताश्च तं देशं प्रविशन्त्युत ॥ तस्मादपि विनिर्मुक्ता अनिरुद्धं तथा स्थिता । मनोभूतास्ततो भूयः प्रद्युम्नं प्रविशन्त्युत ॥ प्रद्युम्नाच्च विनिर्मुक्ता जिह्वासङ्कर्षणं ततः । प्रविशन्तीति प्रबला सङ्ख्यायोनांश्च तैस्सह ॥ ततस्त्रैगुण्यहीनास्ते परमात्मानमोजसा । सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः ॥ समाहितमनस्कास्तु नियताः संयतेन्द्रियाः । एकान्तभावा हि गताः वासुदेवं व्रजन्ति ते ॥ श्वेतद्वीपमितः प्राप्य विश्वरूपधरं हरिम् । ततोऽनिरुद्धमासाद्य श्रीमन् क्षीरोदधौ हरिम् ॥ ततः प्रद्युम्नमासाद्य देवं सर्वेश्वरेश्वरम् । ततः सङ्कर्षणं दिव्यं भगवन्तं सनातनम् ॥'' अयमप्यपरो मार्गः सदा ब्रह्महितैषिणाम् । परमैकान्तिसिद्धानां पञ्चकालरतात्मनाम् ॥ तेभ्यो विशिष्टाज्जानामि गतिमेकान्तिनां नृणाम् । उत्क्रामन्ति च मार्गस्था शीतभूतो निरामयः ॥ देवयान परं पन्था योगिना क्लेशसङ्क्षये । अनन्ता रश्मयस्तस्य दीपवद्यः स्थितो हृदि ॥ सितासिताः कृष्णनिलाः कपिला(?) पीतलोहिताः । ऊर्ध्वमेते स्थितास्तेषां यो भित्त्वा सूर्यमण्डलम् ॥ ब्रह्मलोकमतिक्रम्य [नूनं] याति परां गतिम् । यदस्यां न द्रव्यमस्ति ह्यूर्ध्वमेतद्व्यवस्थितम् ॥ तेन देवशरीराणि सधामानि प्रपद्यते । एकैकरूपाश्चाधस्ताच्छर्म येऽस्यामृतप्रभाः । इह कर्मप्रभोगाय तैस्सन्नरतिरेव सः ॥ इति ॥ ``अग्नयो वै त्रयी विद्या देवयानः पन्था गार्हपत्य ऋक् पृथिवी रथन्तरमन्वाहार्यपचनं यजुरन्तरिक्षं वामदेव्यमाहवनीयस्साम सुवर्गो लोको बृहत्तस्मादग्नीन् परमं वदन्ति'' इति श्रुतिः । अथाऽयं देहजं जन्म कृत्वा भार्यामयपाशबन्धनो भगवन्मायया कामक्रोधलोभमोहमदमात्सर्यहिंसादीनि कार्याणि कृत्वा तद्वारेण निष्क्रम्य पुनः पापीयसीं योनिं प्राप्य पुनर्जायते । स्वर्गनरकफलेषु प्रवर्तते । तस्माद्भगवन्मायया मोहितप्वात् भगवन्तं समाहि भक्त्या नारायणमुपासीत । उपासनात्सोऽपि भक्तवत्सलत्वात् भक्तानुकम्पया स्वमायया विमोचयति । तत आत्मा सम्यक् ज्ञानं प्रविशति । पश्चादाश्रमधर्मसंयुक्तो भगवत्समाश्रयणं करोति । तत्समाश्रयणेन संसारार्णवनिमग्नो जीवात्मा परमात्मानं नारायणं पश्यति । सोऽप्यपुनरावृत्तिकं दिव्यलोकं प्रापयति । पश्चात्कृतकृत्यो भवति । संसारवनवासनामोक्षो मुक्तिः मोक्षविशेषः । चतुर्विधपदावाप्तिः सालोक्यसामीप्यसारूप्यसायुज्य इति । आमोदप्राप्तिः सालोक्यम् । प्रमोदप्राप्तिः सामीप्यम् । वैकुण्ठप्राप्तिः सायुज्यमिति । तच्च नित्यानन्दामृतरसपानवत्सर्वदा तृप्तिकरं परमात्मनो नित्यनिषेवणं परज्योतिःप्रवेशनम् । ``तद्विष्णोः परमं पदꣳ सदा पश्यन्ति सूरय'' इति श्रुतिः । (ऋग्वेदः १.२२.२०) तस्मात् भगवतो नान्यथाप्राप्तिरिति विज्ञायते इति । मोक्षोपि तारतम्यताश्रवणात् ब्रह्मविदां भगवदाराधकानामग्निहोत्रिणामर्चिरादिना ब्रह्मप्राप्तिः ``अर्चिरादिना तत्प्रथितेः'' इति वेदान्तसूत्रे उक्तत्वात् । (ब्रह्मसूत्र अर्चिराद्यधिकरणम् ४.३.१) भक्त्या भगवन्तं नारायणमर्चयेत् ``तद्विष्णोः परमं पदम्'' सम्यक् भवतीति विज्ञायत इति । अर्चिरादिमार्गाप्रतिपादनाच्च । न्यासविद्यानिष्ठानामर्चिरादिना परमपदप्राप्तिः । साङ्ख्यानां योगनिष्ठानामामोदप्राप्तिः । एकान्तिनां प्रमोदप्राप्तिः । परमैकान्तिसिद्धानां पञ्चकालरतात्मनां श्वेतद्वीपादिना ब्रह्मप्राप्तिः । मोदप्राप्तिः केवलस्यामोद एव । तत्रापि स्वानुभव एव । छान्दोग्ये- ``यथाक्रतुरस्मिन् लोके पुरुषा भवन्ति । तथेतः प्रेत्य ते भवन्ति'' इति श्रुतेः । तं यथायथोपासते तथैव भवन्तीति ॥ १॥

सत्यो ज्योतिः सत्त्वं प्राणाः सत्त्वाधाराः सत्त्वं संयानाः सत्यः सत्त्वं प्रकाशं ज्योतिषे स्वाहा ॥ ५.२॥

हे परमात्मन् सत्यो ज्योतिर्ज्योतिष्मत् षड्भावविकाररहितत्वात् अनेकरूपरहित इत्यर्थः । सत्त्वं प्राणाः ``नव वै पुरुषे प्राणाः'' इति (जैमिनीयं ब्राह्मणम् काण्डं १) भगवदभिमानदेवतान्तर .... वागाद्यभिमानिदेवतान्त-र्यामिसत्त्वाधाराः वागादयः सत्त्वाधाराः आधारभूता इत्यर्थः । सत्त्वं संयानाः सत्यः सत्यभूतहितः सत्त्वं ``सत्त्वात् सञ्जायते ज्ञानम्'' (श्रीमद् भगवद्गीता १४.१७) इति । ज्ञानरूपं ज्योतिःप्रकाशं ज्योतिषे तस्मै ज्योतिषे तुभ्यम् ॥ २॥

कामीमुमामीशिषमीशिषाणां तत्सत्यं सत्यरूपं सत्यं सत्याय सन्दधानाय स्वाहा ॥ ५.३॥

कामीमुमां ब्रह्मणो मा ईशोऽहं सर्वदेहिनाम् । अहं तवाङ्गसम्भूतस्तस्मात्केशवनामवान् ॥ इति ॥ कां सरस्वतीं ईं लक्ष्मीं उमां पार्वतीं ईशिषं सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् । स सञ्ज्ञां याति भगवानेक एव जनार्दन । तत्तद्रुपे पालयन्तमाशिषस्सत्यमीशिषम् ॥ रुद्रस्यापि पालकं ईशिषाणां तत्सत्यं सत्यरूपं ``तमीश्वराणां परमं महेश्वरम्'' इति श्रुतेः । (श्वेताश्वतरोपनिषद्षष्ठोऽध्यायः श्लोक ७) तत्परममहेश्वरत्वं यथार्थसत्यरूपं यथार्थसत्यं सत्याय चिदचिदात्मकप्रपञ्चाय सत्यं हितं सन्दधानाय प्रयच्छमानाय तुभ्यम् ॥ ३॥

अरिणिर्वा आरन्द आवारन्द आरन्दोऽयमानन्दते मारन्दमीशिषे स्वाहा ॥ ५.४॥

अयं परमात्मा अरं वेगः येषामस्तीति अरिणिः वेगवत्सु मुख्यः वेगवानेव । आरन्दः आसमन्तादरं वेगं ददाति आरन्दः आवारन्दः अवगतवेगमान्यं ददातीति आवारन्दः । ``आर पीडायाम्'' इति पीडाप्रदः । यस्यानुग्रहमिच्छामि तस्य वित्तं हराम्यहम् । बन्धून् वा नाशयिष्यामि व्याधीनुत्पादयाम्यहम् ॥ इति ॥ अयं परमात्मा मारं कामं ददातीति मारन्दः कामप्रदः । आनन्दते एवमाकारेण क्रीडते- अप्रमेयोऽनियोज्यश्च यत्र कामगमो वशी । मोदते भगवान् भूतैर्बालः क्रीडनकैरिव ॥ इति तुभ्यम् ॥ ४॥

यत्सत्यं वा विष्णुरुद्योगः सूर्यो गौर्वा विष्णुर्विशत् विश्वं विश्वं सन्दधानः तद्विश्वं विष्णवे विश्वरूपाय स्वाहा ॥ ५.५॥

यत्सत्यं स हरिर्देव इति जीवजातमित्यर्थः । विष्णुः व्याप्तिमान् उद्योग सर्वोपायभूत इत्यर्थः । सूर्यो गौर्वा सूर्य किरणं च विष्णुर्विशत् विश्वं विश्वं सन्दधानः प्रविश्य चिदचिदात्मकं जगत् वसन्ते ग्रीष्ममके रश्मिशतैस्सन्तपतन् त्रिभिः-- तदा शरदि वर्षासु वर्षत्येव चतुःशतैः । हेमन्ते शिशिरे चैव हिममुत्सृजति त्रिभिः ॥ इति ॥ भारते- उदितो वर्धमानाभिरा मध्याह्नं तपन् रविः । ततः परं ह्रसन्तीभिर्गोभिरस्तं निगच्छति ॥ इति ॥ ``तदेवानुप्राविशत्'' इत्यादिश्रुतेः । (तैत्तिरीयोपनिषत् २.६.६) प्रविश्य विश्वं जीवं विश्वं लोकं सन्दधानः धारयन् तद्विश्वं जीवात्मानं विष्णवे सर्वभूतात्मकाय ददामीति आत्मसमर्पणमुच्यते ॥ नीचीभावेन संयोज्य ह्यात्मनो यत्समर्पणम् । विष्ण्वादिषु चतुर्धा तु तत्प्रदानप्रदर्शिनी ॥ नीचीभूतोऽप्यसावात्मा यतत्यंशतयेष्यते । तत्तस्मादित्यपेक्षायां विष्णवे स इतीर्यते ॥ इति ॥ आत्मसमर्पणप्रतिपादनान्न्यासविद्या । हविर्गृहीत्वा स्वात्मानं वसुरण्वेति मन्त्रतः । जुहुयात्प्रणवेनाग्नावच्युताख्ये सनातने ॥ योगरत्ने- पयोभक्षा वायुभक्षाः शीणपर्णाशिनो वा समलोष्टकाञ्चना वाग्यताः प्राणायामाद्यासननिरता सर्वतोऽरता बहिष्कृतसर्वकामाः परमशान्ताः परमात्मनि गोविन्दे सदा निहितमानसाः वसुरण्वमन्त्रमुच्चारयन्त आत्मानं तेजोमये परमात्मा ग्नौ दहन्ति तेऽपि मुक्ता भवन्ति । एष जीवाप्मपरमात्मनोर्ज्ञानगो मोक्षयुक्त इति विजानीयात् । एतज्ज्ञानमात्रादेवाचिरान्मोक्षः सिध्यतीति जानीयादिति । प्रसङ्गाद्वसुरण्वमन्त्रस्यार्थौच्यते । हे प्रत्यगात्मन् वसुर्वसुस्सर्वेषां सवितासि सर्वेषां धनमिवासीति । वसुरण्वशब्दे च सर्वैः कीर्तनीयश्चासि । विभूरसि सङ्कल्पमात्रेण विविधं भावयितासि । प्राणे त्वमसि सन्धाता प्राणे वसन् सर्वस्यानुसन्धाता चासि ब्रह्मन् तृचोत्तरस्त्वमसि विश्वं त्वमेवासि विश्वस्रष्टा चासि । तेजोदास्त्वमस्यग्नेः तेजसि भास्कराग्नेये प्रकाशोष्ण-स्वरूपिणीति पराभवसामर्थ्यम् । तेजसो वा वर्चोदास्त्वमसि सूर्यस्य वर्चोदा अस्त्विति दीप्तिप्रदः द्युम्नोदास्त्वमसि चन्द्रमसः द्युम्नशब्दो दीप्तिविशेषपरः उषयामगृहीतोऽसि हविषोः स्कन्दने हेतुभूत उपभृदादिरूप उपयामः तत्र प्रकृतिपुरुषज्ञानमुपयामः तेन गृहीतोऽसि ब्रह्मणे त्वामहस ओमित्यात्मानं युञ्जीत ॥ अकारेणोच्यते विष्णुः सर्वलोकेश्वरो हरिः । उद्धृता विष्णुना लक्ष्मीरुकारेण तथोच्यते । मकारस्तु तयोर्दास इति प्रणवलक्षणम् ॥ अकारवाच्याय सर्वकारणभूताय सर्वरक्षकाय सर्वशेषिणे श्रियः पतय एवाहमनन्य इत्याह-निरुपाधिकशेषभूतस्तच्चरणारविन्दयोरेकात्मीयभरस्तस्यात्मा नारायणायैव सर्वदेशसर्वकालसर्वावस्थोचितसर्वकैङ्कर्याणि स्युरिति कारणभूताय विष्णवे तुभ्यम् ॥ ५॥

तद्भूर्भूस्थं भूस्थो वा विश्वरूपस्तद्भूः प्राणः सङ्ख्यातः भूरासीद्भूरसि भुवोऽसि सुवरसि भूर्भूतये स्वाहा ॥ ५.६॥

तद्भूः आकाश भूस्थं जलं भूस्थः अग्निः विश्वरूपः नानारूपः पञ्चसङ्ख्यात्वेन विद्यमान प्राणः तद्भूश्रुतिः । ``तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधय'' इत्यादि भूरासीत् । (तैत्तिरीयोपनिषद्ब्रह्मानन्दवल्ली प्रथमोऽनुवाकः श्लोकः १) भूमेरपि भूमिः आधारभूतेत्यर्थः । भूरसि भुवोऽसि सुवरसि भूरादिलोकरूपोऽसि भूः भूतये भूरादिलोकानामैश्वर्यभूतोऽसि तुभ्यम् ॥ ६॥

आपो वा अपोऽन्तरात्मा यो वेदो वेदानामाधारः वेदान्तरात्मा सरसो रससङ्ख्यातो रसं रसमासीद्रसाय स्वाहा ॥ ५.७॥

यः परमात्मा सर्वकारणभूता आपः सृष्ट्यर्थमित्यर्थः । अण्डस्यापि कारणभूता इत्यभिप्रायेण पृथक्त्वेनोपादानम् । ततो ``येन जीवान्व्यचसर्ज भूम्याम्'' इति श्रुतिः । अप एव ससर्जादौ तासु वीर्यमपासृजत् । तदण्डमभवद्दैवं सहस्रांशुसमप्रभम् ॥ इति ॥ (मनुस्मृतिः प्रथमोध्यायः १.८) अपोज्वरात्मा योऽप्सु तिष्ठन्निति । यः परमात्मा वेदः वेदरूपः वेदानामाधारः ``तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदः'' इत्यादि । (शारीरिक् मिमांसा भाष्ये भाग १ पृष्ठ ४११.४) वेदान्तराता तदन्तर्यामी सरसः अन्तर्बहिश्च सारवान् रससङ्ख्यातः समग्रषाड्गुण्यपरिपूर्णः । यद्वा- श‍ृङ्गारवीरकरुणाद्भतहास्यभयानकाः । बीभत्सरौद्रशान्ताश्च रसाश्च नव कीर्तिताः ॥ इति ॥ यद्वा -लवणाम्लकटुतिक्तकषायाः । रसं रसमासीत् रसानां रस आसीत् । रसाय रसरूपाय तुभ्यम् ॥ ७॥

त्रयी वा कामं त्रयीमयं त्रिगुणं त्रेतात्मकं त्रयी वा जेनातिः त्रिगुणं त्रिगुणात्मकं तस्मै त्रेताग्नये त्रिगुणाय स्वाहा ॥ ५.८॥

त्रयी वा कामं इत्यनेनैव दवाक्यव्यतिरिक्तभाषान्तर-व्यावृत्तिः । शान्तिपर्वणि- ओङ्कारमुद्गिरन्नेतां सावित्रीं च तदन्वयात् । शेषेभ्यश्चैव वक्त्रेभ्यश्चतुर्वेदगतं वसु ॥ इति ॥ त्रयीमयं वेदस्वरूपं वेदेषु प्राचुर्येण प्रतिपाद्यं वेदभेदादुच्च- नीचादिस्वरभेदेन त्रिगुणं त्रेतात्मकं गार्हपत्यान्वाहार्य-पचनाहवनीयभेदेन त्रेतात्मकम् । यद्वा गार्हपत्यादीनां प्राणभूतत्वात् त्रेतात्मकमित्युक्तम् । त्रयी वा जेनाति वेदरूपजेनातिः त्रिगुणं नित्यनैमित्तिककाम्यभेदेन त्रिगुणम् । यद्वा---सात्विकराजसतामसभेदेन त्रिगुणम् । त्रिगुणात्मकं आधारभूतमेवम्भूताय तस्मै त्रेताग्नये त्रिगुणाय गुणत्रयसहिताय तुभ्यम् ॥ ८॥

द्वौ वा मुख्यौ मुख्याधारौ ससुखौ सानन्दौ सस्मेरौ स्थेरयितौ सानन्दमानन्दते स्वाहा ॥ ५.९॥

द्वौ ब्रह्मरुद्रौ । यद्वा प्रतिपुरुषौ मुख्यौ मुख्याधारौ अस्वतन्त्रौ परमात्माधारौ । ``अन्तरस्मिन्निमे लोकाः'' इति । ससुखौ सुखसहितौ सानन्दौ हितरूपं सुखं अहितं दुःखं सस्मेरौ स्मेरयुतौ हाससहितौ स्थेरयितौ, एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ । तथा दर्शितपन्थानौ सृष्टिसंहारकारकौ ॥ ब्रह्मरुद्रेन्द्रवह्नीन्दुदिवाकरमनुग्रहाः । तच्छस्त्वाधिष्ठितास्सन्तो मोदन्ते दिवि देवताः ॥ इति ॥ सानन्दं आनन्दसहितं आनन्दते । इष्टे वस्तुनि दृष्टे च प्रियमेवावभासते । तद्वस्तुलाभान्मोदः स्यात्प्रमोदस्तस्य भोगतः । एते स्म जठरानन्दात् स्वदन्ते जलधेरिव ॥ इति ॥ ``सैषाऽऽनन्दस्य मीमाꣳसा भवति । युवा स्यात्साधुयुवाध्यायकः । आशिष्ठो द्रढिष्ठो बलिष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् । स एको मानुष आनन्दः'' इत्यारभ्य ``स एको ब्रह्मण आनन्दः'' इत्यन्तं (तैत्तिरीयोपनिषद्ब्रह्मानन्दवल्लीअष्टमोऽनुवाकःवेर्से १) मानुषमनुष्यगन्धर्वदेवगन्धर्वाणां पितॄणामाजानजानां कर्मदेवानामिन्द्रस्य बृहस्पतेः प्रजापतेर्ब्रह्मण इति मानुषानन्दमुपक्रम्य ब्रह्मानन्दपर्यन्तमुक्त्वा ब्रह्मानन्दस्यापरिमितत्वात् आनन्दो ब्रह्मेति सदतिशयानन्दस्वरूपत्वाच्च ब्रह्मणः ``यतो वाचो विवर्तन्ते अप्राप्य मनसा सह'' इत्युक्तम् । (तैत्तिरीयोपनिषद्ब्रह्मानन्दवल्लीनवमोऽनुवाकः श्लोकः १) एवं भूताय तुभ्यम् ॥ ९॥

स एकैकः साधारः साधिष्ठानो नाधिष्ठानः कं कं कस्मै पदे पदे पातः पादाय पादिते स्वाहा ॥ ५.१०॥

स परमात्मा एकैकः अनेन ``सदेव सोम्येदमग्र आसीत्'' (छान्दोग्योपनिषद्षष्ठोऽध्यायःद्वितीयः खण्डः श्लोकः १), ``एकमेवाद्वितीयम्'' इतिश्रुतेः । सृष्टेः प्राक् निमित्तोपादानकारणान्तररहिते साधारः हृदयकमलाद्याधारः । साधिष्ठानः ``तद्विष्णोः परमं पदम्'' (ऋग्वेदः १.२२.२०) इति श्रुतेः परमपदाद्यदिष्ठानसहितः । नाधिष्ठानः अवान्तरकत्वेनाधिष्ठानभूतो न भवति । यद्वा-धारकान्तररहितः एवम्भूतस्य परमात्मनः पादाय पातः प्रणतिः कं कं पुरुषमपि पदे पदे परमात्मना सम्पादिते । आमोदश्च प्रमोदश्च सम्मोदस्तदनन्तरम् । वैकुण्ठमिति विज्ञेयास्तेऽन्योन्यमुपरि स्थिताः ॥ अतः परं चतुर्थः स्याल्लोकः परमभास्वरः । वासुदेवस्य सुमहत्तद्दीप्तमजरावृतम् ॥ द्वादशावरणोपेतं पूर्णचन्द्रायुतप्रभम् । सर्वतेजोमयं भास्वदनिर्देश्यं सुरैरपि ॥ आनन्दं नाम तं लोकं परमानन्दमद्भुतम् । यस्मिन् कस्मिन् कुले जाता यत्र कुत्र निवासिनः । वासुदेवरता नित्यं यमलोकं न यान्ति ते ॥ इति ॥ पदे पदे आमोदादिपदे पदान्तरे वा तापयतीति शेषः । नित्यमुक्तबन्धैश्च क्रीडते तुभ्यम् ॥ १०॥ इति पञ्चमोऽनुवाकः सम्पूर्णः ।

षष्ठोऽनुवाकः सव्याख्या

स्वयमादिः सर्वान्तरात्मा देवस्य स्वयं क्रीडात्मकमवासृजत् यः स्वयं लोकमवधारमवधारयन् स्वाहा ॥ ६.१॥

अतः परं परब्रह्मणो नारायणस्य परत्वान्तर्यामित्वादि-प्रतिपादनमुखेन अर्चावतारादिकं प्रतिपादयति-स्वयमादिः इत्यादिना । स्वयमित्यनेन ``सदेव सोम्येदमग्र आसीत्'', ``एकमेवाद्वितीयम्'' इति श्रुतेरभिन्ननिमित्तोपादानकारणभूतं ``सत्यं ज्ञानमनन्तं ब्रह्म'' इत्यादिभिः सत्यत्वज्ञानत्वा-नन्तत्वविशिष्टं ``आनन्दो ब्रह्म'' इति निरतिशयानन्द-स्वरूपं ``नारायणपरं ब्रह्म'' इत्यादिभिः परम्ब्रह्मपरन्तत्व-परञ्ज्योतिःपरमात्मादिशब्दवाच्यं नारायणमेवाह-स्वयमिति ॥ नारस्त्विति सर्वपुंसां समूहः परिकीर्तितः । गतिरालम्बनं तस्य तेन नारायणः स्मृतः ॥ इति ॥ अखिलजगत्कारणभूतो नारायण एवादिरित्युच्यते । यद्वा- आदिशब्देन परत्वम् । परत्वं नाम-- वैकुण्ठे तु परे लोके श्रिया सार्धं जगत्पतिः । आस्ते विष्णुरच्यिन्त्यात्मा भक्तैर्भागवतैः सह ॥ परे लोके-- अतःपरं चतुर्थः स्यादित्यादि ॥ श्रिया सार्धं नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनी । यथा सद्मगतो विष्णुस्तथैवेयं द्विजोत्तम ॥ जगत्पतिः - पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतम् । एक एव जगत्स्वामी शक्तिमानच्युतः प्रभुः ॥ तदंशाच्छक्तिमन्तोऽन्ये ब्रह्मेशानादयोऽमराः । ब्रह्मादिदेवसङ्घेषु स एव पुरुषोत्तमः ॥ स्त्रीप्रायमितरत्सर्वं जगद्ब्रह्मपुरस्सरम् । विश्वव्यापकशीलत्वाद्विष्णुरित्यभिधीयते ॥ अचिन्त्यात्मा न यस्य रूपं न बलप्रभावो न च स्वभावः परमस्य पुंसः । विज्ञायते शर्वपितामहाद्यैस्तं वासुदेवं प्रणमाम्यचिन्त्यम् ॥ भक्तैः- भक्तैस्तद्भक्तवात्सल्यं तत्पूजास्वनुरञ्जनम् । तत्कथाश्रवणे भक्तिः स्वरनेत्राङ्गविक्रिया ॥ तदनुस्मरणं नित्यं तदन्यस्य च वर्जनम् । नित्यं तदेकशेषत्वं यद्भुक्तेनोपजीवति ॥ इति ॥ भागवतैः-- उत्पत्तिश्च विनाशश्च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ पञ्चशक्तिमयो विष्णुर्वासुदेवः सनातनः । लोकस्थितिमिमां दीर्घो विशालामतिदुस्तराम् । पश्यन्नास्ते हृषीकेशः परमे व्योम्नि भास्वति ॥ एवं परत्वमुपपादितम् । सर्वान्तरात्मा इत्यनेन ``अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा'', ``यस्यात्मा शरीरं यस्य पृथिवी शरीरम्'' इत्याद्यन्तर्यामित्वं स्वयमादिः इत्युक्तत्वात् । दैविकमानुषभेदेन व्यूहो द्विविधः । कथं त्वमर्चनीयोऽसि मूर्तयः कीदृशास्तु ते । वैखानसाः कथं वा स्युः कथं वा पाञ्चरात्रिकाः ॥ श्रीभगवान्- श‍ृणु पाण्डव तत्सर्वमर्चनाश्रममात्मनः । स्थण्डिले पद्मकं कृत्वा साष्टपत्रं सकर्णिकम् ॥ अष्टाक्षरविधानेन अथवा द्वादशाक्षरैः । वैदिकैरथवा मन्त्रैर्मनुनोक्तेन वा पुनः ॥ स्थितं मामन्तरे तस्मिन्नर्चयित्वा समाहित । पुरुषं च ततत्सत्यमच्युतं च युधिष्ठिर ॥ अनिरुद्धं च मां प्राहुर्वैखानसविदो जनाः । अन्ये त्वेवं विजानन्ति मां राजन् पाञ्चरात्रिकाः ॥ वासुदेवं च राजेन्द्र सङ्कर्षणमथापि च । प्रद्युम्न चानिरुद्धं च चतुर्मूर्ति प्रचक्षते ॥ एताश्चान्याश्च राजेन्द्र सञ्ज्ञाभेदेन मूर्तयः । विद्धि मेऽर्चान्तराण्येव मामेवं चार्चयेद्बुधः ॥ इति ॥ वैभवं त्ववताराणाम्- मत्स्यः कूर्मो वराहश्च नारसिंहश्च वामनः । रामो रामश्च रामश्च बुद्धः कल्कीति ते दश ॥ इति ॥ देवशब्दप्रयोगसामर्थ्यात् व्यूहविभवे अभिप्रेते स्वयं इत्यनेन ``पञ्चधा पञ्चात्मा'' इत्यादिश्रुत्यर्थोऽत्रानुसन्धेयः । पञ्चधेत्यनेन परव्यूहविभवान्तर्याम्यर्चावतार इति पञ्चधा प्रतिपादितासु, व्याप्तिः कान्तिः प्रवेशोऽर्चा तत्क्रियासु निवन्धनाः । परत्वेऽप्यधिकं विष्णोर्देवस्य परमात्मनः ॥ मुक्तोऽपि भोगभोग्यत्वात्परव्यूहात्मनो हरेः । तत्कालसन्निकृष्टे च लक्ष्यत्वाद्विभवात्मनः ॥ विशुद्धैर्यागसंसिद्धैश्चिन्त्यत्त्वादन्तरात्मनः । अर्चात्मन्येव सर्वेषामधिकारो निरङ्कुशः ॥ अर्चावतारविषये ममाप्युद्देशतस्तथा । उक्ता गुणा न शक्यन्ते वक्तुं वर्षशतैरपि ॥ एवं पञ्चप्रकारोऽहमात्मनां पततामधः । पूर्वस्मादपि पूर्वस्माज्जायांश्चैवोत्तरोत्तरः । सौलभ्यतो जगत्स्वामी सुलभो ह्युत्तरोत्तरः ॥ इति ॥ परत्वादौ सौलभ्याभावात् सर्वसुलभत्वादर्चावतार । शिलादारु च ताम्रं च रजतं काञ्चनं मणिः । उक्तानि कौतुकार्थ्ं तु षड् द्रव्याणि मनीषिभिः ॥ इति ॥ शैलजादिरूपेण विग्रहपरिग्रहादिकं भगवत। प्रतिपादयति इयं श्रुतिः-क्रीडात्मस्थवासृजत् इति ॥ नृसिंहतापनीयोपनिषदि- अथ कस्मादुच्यते वीरमिति यस्मात्स्वमहिम्ना सर्वान् लोकान् सर्वान् देवान् सर्वानात्मनः सर्वाणि भूतानि विरमति विरामयत्यजस्रं सृजति विसृजति वासयति यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः तस्मादुच्यते वीरमिति ॥ इत्यादि ॥ यतः भक्तसंरक्षणादिहेतुत्वेन वीरः- यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ उत्सीदेयुरिमे लोका न कुर्यो कर्म चेदहम् । सङ्करस्य च कर्ता स्यामुपहन्याभिमाः प्रजाः ॥ (श्रीमद् भगवद्गीता ३.२३ २४) इत्यादिभगवद्वचनानुरोधेन नित्यविभूतौ पादप्रक्षालनादि-कर्मकरणे योग्यताभावात्, विभूतौ पादप्रक्षालनाचमनस्नानादि-कर्मकरणायोग्यतात्वमिच्छन् सुदक्षां सुतरां स्वापकादीनां यथायोग्यं कामितफलप्रदानसमर्थः ``युक्तग्रावा जायते देवकामः'' (ऋग्वेदः ७.२.९) देवतात्वमिच्छन् श्रीवैखानसादिशास्त्रोक्तशैलादिप्रतिमारूपे जायते । ग्रावाग्रहणं सुवर्णरजतादीनामप्युपलक्षणम् । किञ्च- पिशङ्गरूपस्सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः । पिशङ्गरूपः सुवर्णवर्णः सुभरः सुखेन भर्तुं शक्यः वयोधाः वयसा गरुडेन ध्रियत इति वयोधाः वीरशब्देन पूर्वोक्त-मन्त्रप्रतिपाद्य एवात्रापि प्रतिपाद्यते पिशङ्गरूप इत्यादि गुणशिष्टत्वेनोक्तत्वात् सालग्रामपरत्वेन वा ग्रावापरत्वेन वा वक्तुमयुक्तमित्यवगम्यते । भारते- सुरूपां प्रतिमां विष्णो प्रसन्नवदनेक्षणाम् । कृत्वात्मनः प्रीतिकरीं सुवर्णरजतादिभिः ॥ तामर्चयेत्तां प्रणमेत्तां जपेत्तां विचिन्तयेत् । विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् ॥ ग्रन्थान्तरे- द्वीपवर्षविभागेषु तीर्थेष्वायतनेषु च । मानुषाश्चात्मना चाहं ग्रामेग्रामे गृहेगृहे ॥ पुंसिपुंसि सम्भवानि दारुलोहशिलामयः । अहं पञ्चोपनिषदः परव्यूहादिषु स्थितः ॥ आविर्भावेषु सर्वेषु स्वसङ्कल्पशरीरवान् । आवेशांशावतारेषु पाञ्चभौतिकविग्रहः ॥ दारुलोहशिलामृत्स्नाशरीरोर्चात्मकः स्मृतः । चेतनाचेतनैर्देही परमात्मा भवाम्यहम् ॥ अर्चात्मनावतीणं मां जानन्तो हि विमोहिताः । कृत्वा दारुशिलाबुद्धिं गच्छन्ति नरकायुतम् ॥ स्वशभूनां विमानानामभितो योजनद्वयम् । क्षेत्रे पापहरं प्रोक्तं मृतानामपवर्गदम् ॥ योजनं दिव्यदेशानां सिद्धानामर्थमेव च । मनुष्याणां विमानानामभितः क्रोशमुत्तमम् । गृहमात्रं प्रशस्तं वा गृहार्चा यत्र विद्यते ॥ इति ॥ पुरुषसंहितायां नारदं प्रति सनत्कुमारः-- पुरा नारायणो देवः कृपया परयान्वितः । देवतिर्यङ्मनुष्यादीन् वीक्ष्य संसारमध्यगान् ॥ एवं सञ्चिन्तयामास संस्मरन् वैभवं स्वकम् । स्व तःप्रमाणवाक्यैश्च दुर्विज्ञानं वदन्ति माम् ॥ अणोरणीयान्महतो महीयान्निर्गुणो गुणी । दिग्देशकालावस्थाद्यैरसौ चाभेद्यवैभवः ॥ प्रधीक्षयविहीनश्च सत्यकामो निरञ्जनः । विनेन्द्रियेण सर्वज्ञो विना पादेन सर्वगः ॥ अनासोऽनुभवन् गन्धं स्पृशन् सर्वमपाणिकः । श‍ृण्वन् श्रुतिं विना शब्दमजिह्वोऽपि लिहन् रसम् ॥ साधनेन विना सर्व साध्यं साधयतेऽन्वहम् । तस्मात्सर्वप्रमाणेन सुदुर्ज्ञानतरो ह्यहम् ॥ मज्ज्ञानाभावगे मोक्षो न सिद्ध्यति कदाचन । तस्मात्संसारचक्रेऽस्मिन् भ्राम्यन्ते च सुदुस्तरे ॥ उद्धरेयमिमान् सर्वान् यातनाशतसङ्कुलान् । इति सञ्चिन्त्य भगवान् स्वच्छन्दोपात्तविग्रहः ॥ हित्वौपनिषदं वेषं प्रमाणानामगोचरम् । सर्वेषां हर्षदं भक्त्या दृष्टमात्रेण मुक्तिदम् ॥ सर्वकल्याणसम्पूर्णं गुणराशिसमाश्रयम् । सहस्रमुखदृक्पादमाददे रूपमद्भुतम् ॥ इति ॥ अतः स्वयं च भगवान् क्रीडात्मकमवासृजत् । अवतारस्य सत्यत्वमजिहासन् स्वभावतः ॥ शुद्धसत्त्वमयत्वं च स्वेच्छामात्रेण दासता । धर्मज्ञोऽसौ समूहश्च साधुसंरक्षणार्थता । इति जन्मरहस्यं यो वेत्ति नास्य पुनर्भवः ॥ इति ॥ पाद्मे- उद्धृतायां स मेदिन्यां पूर्णं तद्भूनभोन्तरे । जलं तत्कृतमर्यादं व्यवच्छिन्नमभूत्तव ॥ संस्थाप्य पृथिवीमित्थं तदुर्व्याधारसिद्धये । दिग्गजानहिराजं च कमठं च न्यवेशयत् ॥ तेषामपि च सर्वेषामाधारत्वेन सादरम् । अव्यक्तरूपां स्वां शक्तिं युयुजे च दयापरः ॥ इति ॥ यः परमात्मा स्वयं लोकं भूरादिसर्वलोकान् अवधारं अधस्ताद्धृतं ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ [अमरकोषः दिग्वर्गः ३.३) इति शेषदिग्गजादिभिर्धृतं दिग्गजादीनामाधारत्वेन अधस्तात् धारयन् कूर्मरूपेणेत्यर्थः ॥ १॥

यः स्वयं सृष्टमात्मना गुप्तमनुसन्दितानमचरं चरन्तं स्वयं क्रीडं क्रीडयन् क्रीडान्तरमनुप्राविशत् स्वाहा ॥ ६.२॥

यः परमात्मा स्वयं सृष्टं स्वेन सृष्टं आत्मना स्वेनैव गुप्तं रक्षितं अनुसन्दितानं साकल्येन जीवस्य चात्मनः फलितं अचरं स्वातन्त्र्येण गतिरहितं चरन्तं जीवं यद्वा स्थावरजङ्गमात्मकं तं प्रत्यात्मानं अप्रमेयोऽनियोज्यश्च यत्र कामागमो वशी । मोदते भगवान् भूतैर्बालः क्रीडनकैरिव ॥ इति ॥ स्वतन्त्रत्वात्प्रतिमाप्रायेण क्रीडं क्रीडयन् अन्योन्यं क्रीडयन् स्वयं क्रीडान्तरं वारोहादिरुक्तं अनु साकल्येन प्राविशत् । यद्वा कूर्मविषयत्वेन स्वसृष्टमन्दरपर्वतं समुद्रमथनेन मन्थरस्योपरि चरन्ते गतिं कुर्वन्तं स्वयं क्रीडयन् तथारणेन क्रीडयन् क्रीडान्तरममृतप्रदानार्थं स्त्रीवेषधारणादिकं साकल्येन प्राविशत् । देवतिर्यङ्मनुष्याख्यचेष्टामत्ति स्वलीलया । जगतामुपकाराय मनःकर्मनिमित्तजः ॥ समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशाद्धृत-भूतसर्गः । इच्छागृहीताभिमतोरुदेहः सनाथिताशेषजगद्धितोऽसौ ॥ इति तस्मै ॥ २॥

स्वौजसा सर्वमादधाति यः पापीयांसमनुपदमाहिंसत् सुपुण्यं पुण्यात्मकं पुण्यं वितानं दाधार देवाय स्वाहा ॥ ६.३॥

यः परमात्मा स्वौजसा परबलाहरणशक्त्या सर्वं जगत् आदधाति स्थापयति यः परमात्मा बलभद्ररूपी पापीयांसं प्रलम्बासुरं अनुपदं लीलाकाले गृहीत्वा गच्छन्तं पदमनुसृत्य आहिंसत् हिंसितवान् । -श्रीवैखानसे- योगनिद्रे ममादेशात् पातालतलसंश्रयान् । एकैकशश्च षड्गर्भान् देवकीजठरे नय ॥ हतेषु तेषु कंसेन शेषाख्यांशस्ततो मम । अंशांशेनोदरात्तस्याः सप्तमः स भविष्यति ॥ गोकुले वसुदेवस्य तथान्या रोहिणी तथा । तस्य सम्भूतिसमये स विनेयस्त्वयोदरम् ॥ इति ॥ सुपुण्यं सुतरां पुण्यस्वरूपं पुण्यात्मकं पुण्यशब्द-वाच्यानामन्तर्यामिणं पुण्यं वितानं वितानरूपत्वेन दाधार शेषरुपेण कृष्णं दाधार सङ्कर्षणमूर्तित्वेन क्रीडमानस्तस्मै । यद्वा पापीयांसं सर्वयज्ञविनाशकं हिरण्याक्षपदमनुसृत्य अहिंसत् हिंसितवान् सुपुण्यं पुण्यात्मकं यज्ञं ``यज्ञो वै विष्णुः'' । इति पुण्यं वितानं दाधार त्रयीसंवरणं यत इति वैदमूलत्वात् आच्छादकं दाधार स्थापितवान् । भृगुः हिरण्याक्षोऽपि दैत्येन्द्रो बलवान् बलिनां वरः । परेण गर्वाद्दुर्बुद्धिर्यज्ञविद्वेषकोऽभवत् ॥ तद्यथाकृतवान्विष्णुर्नरसूकरमूर्तिमान् । हत्वा स दैत्यं सबलं पश्चाद्यज्ञोनुवर्तयन् ॥ यज्ञवराहरूपिणौ इत्यर्थः । किञ्च-- आद्ये कलियुगे प्राप्ते सोमकेन हृता त्रयी । इत्यारभ्य । अथ मत्स्याकृतिः श्रीशः प्रविश्याम्बुधिमध्यगम् । निर्मथ्य सोमकं वेदानदात् कञ्जनयोनये ॥ तादृशं पुण्डरीकाक्षं स्तोत्रैः सन्तोष्य पद्मभूः । उवाच वचनं प्रेम्णा दण्डवत्प्रणिपत्य च ॥ तान्त्रिकेण पुरा प्रोक्तं मार्गेण भवदर्चनम् । न प्रसिद्ध्यति चास्माकं मनः कमललोचन ॥ वैदिकेन त्वदर्चो वै यथापूर्वं वदाच्युत । इत्युक्तो भगवान् देवः शास्त्रं श्रुतिपथागतम् ॥ सहस्रकोटिभिः श्लोकैः सङ्ख्यातं बहुविस्तरम् । सूत्रे मूलमनाद्यन्तं कल्पे कल्पे समाश्रितम् ॥ उवाच जगतां प्रीत्यै यज्ञानां पूरणाय च । मूलं सर्वागमानां च पुराणानां तथैव च ॥ स्मृतीनां सर्वसूत्राणां प्रत्यङ्गोपाङ्गशोभनम् । श्रुत्युक्तं तदिदं शास्त्रं वैखानसमहार्णवम् ॥ इत्युक्त्वा भगवानाद्यस्तत्रैवान्तरधीयत । ततः परं चतुर्वक्त्रो जटाकाषायदण्डभृत् ॥ नैमिशारण्यमासाद्य मुनिवृन्दनिषेवितम् । तपस्तप्त्वा चिरं कालं ध्यायंस्तेजस्तु वैष्णवम् ॥ पश्चादपश्यद्विष्णूक्तमागम विस्तरं तथा । सश्रौतं च स्वमात्रं च वेदमन्त्रैरभिष्टुतम् ॥ सङ्क्षिप्य सारमादाय शाणोल्लिखितरत्नवत् । धातुर्विखनसा नाम्ना मरीच्यादीन् सुतान् मुनीन् ॥ अबोधयदिदं शास्त्रं सार्धकोटिप्रमाणतः । मुनिभिस्तस्य सङ्क्षिप्तं चतुर्लक्षप्रमाणतः ॥ कल्पेकल्पे महाविष्णोरुद्भूतं पूर्वतस्सदा । तस्माद्वैदिकमाचारं यः कर्तुं भुवि वाञ्छति । तस्येदं शास्त्रमित्युक्तं नेतरेषामितीरितम् ॥ इति ॥ देवशब्दसामर्थ्यान्मत्स्यादिरूपेण क्रीडते तुभ्यम् ॥ ३॥

क्ष्मामेकां सलिलावसन्नां श्रुत्वा स्वनन्तीमनु स्वयं भूत्वा वराहो जहार तस्मै देवाय सुकृताय पित्रे स्वाहा ॥ ६.४॥

क्ष्मां भूमिं एकां सलिलावसन्नां प्रलयजलाक्रान्तां स्वनन्तीं क्रोशन्तीं श्रुत्वा अनु पश्चात् स्वयं वराहो भूत्वा जहार उद्धृतवान् देवाय द्योतमानाय सुकृताय सुकृतं कृतवते पित्रे रक्षकाय । शान्तिपर्वणि-- आदौ महार्णवे घोरे भाराक्रान्तामिमां पुनः । तदा बलादहं पृथ्वीं सर्वभूतहिताय वै ॥ सत्त्वैराक्रान्तसर्वाङ्गां नष्टां सागरमेखलाम् । आगमिष्यामि संस्थातुं वाराहं रूपमास्थितः ॥ इति तस्मै ॥ ४॥

यः कुं धरमाणः कुं धरतां कुं धरतामित्यवोचत् तां सानुमन्तो विदधत्स्वतेजसा तस्मै देवाय वरिष्ठाय वरदाय पित्रे स्वाहा ॥ ६.५॥

यः परमात्मा कुं भूमिं धरमाणः आधारकूर्मादिरूपेण धारयमाणः कुं धरां धरतां गोवर्धनपर्वतभङ्गभयभीतानां भयनिवारणार्थं वर्षादिभयनिवारणार्थ च गोपान् प्रति कुं धरतां पर्वतानां सानुषु वसन्त्विध्याहारः अवोचत् इत्युक्तवान् औचित्यवशात् समीचीनार्थश्चकारनियमाच्च तां भूमिं सानुमन्तः पर्वताश्च गोपानां रक्षणार्थे स्वतेजसा- सहकार्यनपेक्षं यत्तत्तेजः समुदाहृतम् ॥ इति ॥ विदधत् भृतवान् वरिष्ठाय श्रेष्ठाय वरप्रदाय पित्रे रक्षकाय तस्मै तुभ्यम् ॥ ५॥

पृथां प्रस्खलन्तीं प्रमृज्यामृजाङ्गीं य ऊर्वोरुपादधात् तस्मै मुख्याय वरदाय पित्रे स्वाहा ॥ ६.६॥

पृथां भूमिं प्रस्खलन्तीं जलमज्जनायासेन प्रकर्षेण स्खलन्तीं यथास्थाने स्थातुमसमर्थो अमृजाङ्गीं पङ्कादिभिर्लिप्तशरीरां प्रमृज्य शुद्धिं कृत्वा ऊर्वोरुपादधात् ऊरुमध्ये स्थापितवान् तस्मै मुख्याय वरदाय पित्रे ॥ ६॥ यां गामुशन्तीमुशन्नभिपूर्णामारक्तनीलाममृतां रजन्तीमा-

लालयन् लालितकङ्कणाङ्गीं तस्मै प्रजेशाय वरदाय पित्रे स्वाहा ॥ ६.७॥

यां गां भूमिं उशन्तीं आक्रोशन्तीं भूतभूभारपीडया क्रोशन्तीं वराहरूपेणावतीर्य उशन् शब्दं कुर्वन् अभिपूर्णा स्थावर-जङ्गमादिभिः समृद्धां आरक्तनीलां रक्तनीलवर्णां अमृतां जलेनार्द्रो रजन्तीं रजसाभिप्लुत लालितकङ्कणाङ्गीं जवोद्धरणवेलायां लालितानि जलकणानि यद्वा कङ्कणानि यस्या सा लालितकङ्कणाङ्गी तां भूमिं आलालयन् यः परमात्मा तिष्ठति प्रजानामीशाय प्रजेशाय वरदाय पित्रे तस्मै ॥ ७॥

प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणां स्वाहा ॥ ६.८॥

प्रजानां प्रतिः प्रजापतिः हे प्रजापते शब्दवाच्यपरमात्मन् त्वदन्यः विश्वा जातानि विश्वस्मिन् जातानि परिता पालयिता रक्षकः स्रष्टा वा न बभूव यत्कामास्ते जुहुमस्तन्नौ अस्तु वयं स्याम पतयो रयीणां पतये स्याम तुभ्यम् ॥ ८॥

यो धूर्धूरं धूर्धूरं धूर्वराणां सुधूर्धूरसि धूर्धूराणां धूरसि धूर्वङ्ग मे स्वाहा ॥ ६.९॥

यः परमात्मा धूर्धूरं भारस्यापि भारभूतः धूर्वराणां भारवहने पुष्टानां धूर्धुरं भाररूपं सुधूर्धूरसि धूर्धुराणां धूरसि भार-भूतोऽसि तुभ्यम् ॥ ९॥

यो वाप्यहिंसीज्जरया जरन्तं तं दैत्यमुख्यममृता-त्मरूपं सुखुरं खुराणां किञ्चित्स्वनन्तं तस्मै नृसिंहाय सुरेशपित्रे स्वाहा ॥ ६.१०॥

यः परमात्मा नृसिंहरूपी जरया जरन्तं जीर्णतारहितं दैत्यमुख्यं प्रथमं अमृतात्मरूपं वरप्रदानेन देवमनुष्यादिभिः दिवारात्रौ च मरणरहितं भृगु हिरण्यकशिपुर्नाम दैत्यराट् स प्रभुर्भवेत् । वरेण गर्वो दैत्येन्द्रौ हिरण्यकशिपुस्तथा ॥ देवैर्वा मानुषैर्वापि मृगैर्जीवैरजीवकैः । दिवारात्रौ तथा चैवं वयो नैवं ममेति च ॥ एवं वरेण गर्वन्तं दैत्यं देवविरोधिनम् । वधं कर्तुं कृतोद्योगश्चिन्तयित्वा हरिः प्रभुः ॥ नरसिंहवपुः कृत्वा दिवारात्रौ व्यपोह्य च । सन्ध्यायां तु वधं कुर्यात् स्वीयाङ्के तु नखाङ्कुरैः ॥ बाह्यमभ्यन्तरं भित्त्वा जीवाजीवैर्नखैः शुभैः । एवं दैत्यवधं कृत्वा देवदेवो जगत्पतिः ॥ इति ॥ सुखुरं खुराणां नृसिंहनखापेक्षया सुकुमारनखं किञ्चित्स्वनन्तं वज्राधिकनखाग्रैः हिसितत्वात् सन्धितुमशक्याद्वा प्रभुत्वाद्वा किञ्चित्स्वनन्तमहिंसीत् हिंसितवान् तस्मै नृसिंहाय नरसिंहरूपिणे सुरेशो ब्रह्मा रुद्रः तस्य पित्रे रक्षकाय तस्मै ॥ १०॥ इति षष्ठोऽनुवाहख़् सम्पूर्णः ।

सप्तमाऽनुवाकः सव्याख्या

तपोनिधिं तपसां रयिन्दं रयिमायुरङ्गं व्यसनौघहन्तृ

सासिष्वसन्तं सवने सवित्रे तस्मै सुरेशाय सुरवृन्दकर्त्रे स्वाहा ॥ ७.१॥

तपोनिधिं ``ऋतं तपः सत्यं तपः श्रुतं तपश्शान्तं तपो दमस्तपः शमस्तपो दानं तपो यज्ञं तपो भूर्भुवस्सुव-र्ब्रह्मैतदुपास्वैतत्तपः'' इति (तैत्तिरीय आरण्यकः प्रपाठकः १० अनुवाकः ८) तपः स्वधर्मवर्तित्वम्, ``तप इति तपो नानशनात् परम्'' (तैत्तिरीय आरण्यकः प्रपाठकः १० अनुवाकः ६२-६३) इत्यादिश्रुतिसिद्धानां तपशब्दवाच्यानामावासभूतम् । तपसां रयिदं तपसामप्यैश्वर्यप्रदम् । रयिं ऐश्वर्यभूतम् । व्यसनौघहन्तृ आपन्निवारकं स्वभक्तस्वापन्निवारकत्वं ब्रह्मादेरदृष्टम् । सासिष्वसन्तं असिसहितः सासिः प्रतिघ इत्यर्थः तेष्वसन्तम् । सवने समये सवित्रे फलप्रदाय सुरेशाय ब्रह्मरुद्रादीनामीश्वराय सुरवृन्दकर्त देवसमूह-कर्त्रे तस्म तुभ्यम् ॥ १॥

यो वा नृसिंहो विजयं बिभर्षि साराजिमन्तं रयिदं कवीनां साराजिमन्तं सजयं सहस्रं तस्मै सुयन्त्रे सुशेवधये स्वाहा ॥ ७.२॥

यः परमात्मा हिरण्यवधादिना विजयं विभर्षि । विप्णुसूक्ते ``प्रतद्विष्णुस्तव ते वीर्याय । मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेषु । अधिक्षियन्ति भुवनानि विश्वा'' । (ऋग्वेदः मण्डलम् १ सूक्तम् १५४-२) प्रकर्षेण तस्माद्धिरण्य-वधादिकारणादाविर्भूतो नृरसिंहो न मृगः किन्तु विष्णुः भीमः दैत्यदानवरक्षसां भयङ्करः, उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ इति ॥ कुचरो गिरिष्ठाः रत्नकूटपर्वते स्थितः सन् पादचारी भूत्वा सन्ध्याकाले हिरण्यवधादिकं कृतवान् । यस्य विष्णोरुरुषु महत्सु त्रिषु विक्रमणेषु भुवनानि अधिक्षियन्ति अधिक्षिप्तानि भवन्ति । तस्माद्विष्णुः वीर्यवत्तया स्तवत इति ॥ श्रीमद्वैखानसेऽखिलसहितायामप्येवमवोक्तम्- नरसिंहः सुभविता कस्माच्च भुवनेश्वरः । इत्युपक्रम्य । गत्वा तत्पुरसाह्ये तु पर्वतं श‍ृङ्गिरूपिणम् । रत्नकूटमिति ख्यातं पर्वतं सुमनोहरम् ॥ तस्यैव शिखरे रम्ये दृष्टः स भगवान् किल । नारायणस्तु सिंहत्वे मुखं कृत्वा च दारुणम् ॥ दंष्ट्राणां च तु तीक्ष्णत्वं सटाभिः स्कन्धसङ्कटम् । नररूपं वपुः कृत्वा मानुषत्वे व्यवस्थितः ॥ सुदारुणं महद्रूपं शत्रूणां साधनाय च । नखैस्तीक्ष्णैः सुदंष्ट्रैश्च चतुर्भिर्बाहुभिर्युतम् ॥ नागराश्च किलोद्युक्ता हिरण्यपुरवासिनः । अपराह्णे महासिंहं पर्वताग्रे प्रतिष्ठितम् ॥ सहस्रादित्यसङ्काशं ज्वलन्तं प्रभया युतम् । आगच्छन्तं समुत्प्रेक्ष्य विद्रुता भयमोहिताः ॥ अपराह्णे मन्दभूते रक्तादित्यकरप्रभे । शीघ्रमुच्चार्य वेगेन मन्दिरं प्राविशद्धरिः ॥ इत्यादि । शीघ्रं चापं च गृह्णन्तं तत्प्रमुच्यासिमुत्तमम् । उत्पत्य खङ्गं दृष्ट्वा तं हिरण्यकशिपुं रिपुम् ॥ एकेनैव च हस्तेन खड्गं जग्राह तस्य तम् । अन्येन पाणिना चारु समालम्ब्यादिकङ्कतम् । अस्त्रेण सह संयोज्य बिभिदे तद्विधा हरिः ॥ इति ॥ साराजिमन्तं सर्वैश्वर्यवन्तं कवीनां ज्ञानिनां यद्वा भक्तानां साराजिमन्तं साम्राज्यं सजयं जयसहितं सहस्रं अपरिमितं तस्मै प्रहलादाय सुयन्त्रे भगवद्भक्ताय यद्वा परमात्मज्ञानिने सुशेवधये निधिभूताय ॥ २॥

रयिः ककुद्मान् दधद्विनष्टं रयिमद्विधानं तस्मै ककुत्त्रे विकटाय पित्रे स्वाहा ॥ ७.३॥

रयिः ऐश्वर्यरूपः ककुद्मान् वृषभाववान् यद्वा श्रेष्ठः दधद्विनष्टं येन केन प्रकारेण यस्मै कस्मैचित् विनष्टं पदार्थं वरप्रदानादिमुखेन प्रापयन् रयिमद्विधानं रयिः इत्यनेन ``ऋचः सामानि यजूंषि । सा हि श्रीरमृता सताम्'' (तैत्तिरीयब्राह्मणं काण्डः १ प्रपाठकः ०२-२६) इति श्रुत्युक्तं विधानं विधिः श्रुतिप्रसिद्ध इत्यर्थः । अनेन शास्त्रयोनित्वं दर्शितम् । ककुत्त्रे ककुदि स्थिताय विकटाय वेङ्कटाय । ऋग्वेदे ``अरायि काणे विकटे गिरिं गच्छ सदान्वे शिरिम्बिठस्य सत्त्वभिस्तेभिष्ट्वा चातयामसि'' इति ॥ हे अरायि ऐश्वर्यहीने काणे एकाक्षिन् अन्धस्य गमने सामर्थ्याभावात्काणस्य यथाकथञ्चित् गमनयोग्यता सम्भवतीति काणेत्युक्तम् । विकटे गिरिं गच्छ वेङ्कटगिरिं प्रति गच्छ ``चतुर्हूतो ह वै नामैषः । तं वा एतं चतुर्हूतꣳ सन्तम् । चतुर्होतेत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः ॥'' ``इन्द्रो ह वै नामैष । तं वा एतमिन्द्रꣳ सन्तम् । इन्द्र इत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः ॥'' इति श्रुतेः परोक्षेणोक्तम् ।[ इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन्पुरुषस्तं वा एतमिन्ध सन्तमिन्द्र इत्याचक्षते परोक्षेणैव परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः ॥ (बृहदारण्यकोपनिषदाथ चतुर्थोऽध्यायःद्वितीयं ब्राह्मणम् श्लोकः २) सदान्वे सर्वदा अन्वेषणं कुरु ॥ यद्वा सर्वदा अन्वेषय शिरिम्बिटस्य श्रीपीठस्य, स्वामिपुष्करिणीतीरे कोटिकन्दर्पमूर्तिमान् । आस्ते लक्ष्म्या च धरया रमन् षोडशवार्षिकः ॥ इति ॥ सत्त्वभिः सात्त्विकगुणैः तेभिः तैः त्वा त्वां चातयामसि चातयामः विनाशयामः । पाद्मे-- स्वामिपुष्करिणीतीरे सर्वान्तर्याम्यधोक्षजः । सहस्रशीर्षा पुरुष सहस्राक्षः सहस्रपात् ॥ चिन्तितस्य तु विद्या तु चिन्तामणिमिमं जगुः । केचिद्दानप्रदत्वाच्च ज्ञानाद्रिरिति तं विदुः ॥ सर्वतीर्थमयत्वाच्च तीर्थानिन प्राहुरुत्तमाः । पुष्कराणां च बाहुल्यात् गिरावस्मिन् सरस्सु च ॥ पुष्कराद्रिं प्रशंसन्ति मुनयस्तत्त्वदर्शिनः । गिरावस्मिन् तपस्तेपे सोऽपि च स्वाभिवृद्धये ॥ तस्मादाहुर्वृषाद्रिं तं मुनयो वेदपारगाः । शातकुम्भस्वरूपत्वात् कनकाद्रि च तं विदुः ॥ द्विजो नारायणः कश्चित् तपः कृत्वा महत्पुरा । पश्चादश्वस्य नामा च व्यपदेशं मुरारितः ॥ वैकुण्ठादागतत्वेन वैकुण्ठाद्रिरिति स्मृतः । हिरण्याक्षविनाशाय प्रह्लादानुग्रहाय च ॥ नारसिंहाकृतिं लेभे यस्मात्तस्मात्स्वयं हरिः । सिंहाचल इति प्राहुस्तस्मादेव मुनीश्वराः ॥ अञ्जनाद्रौ तपः कृत्वा हनूमन्तं व्यजायत । तदा देवाः समागत्य देवकार्यार्थकारकम् ॥ यस्मात्पुत्रं मम सुतं जग्मुस्तस्मादमुं गिरम् । अञ्जनाद्रिं वराहाद्रिं वराहक्षेत्रलक्ष्मतः ॥ नीलस्य वासुरेन्द्रस्य यस्मान्नित्यमवस्थितिः । तस्मान्नीलगिरिं नामावदस्ते तं महर्षयः ॥ वेकारोऽमृतबीजं तु कट ऐश्वर्यमुच्यते । अमृतैश्वर्यसङ्गत्वाद्वेङ्कटाद्रिरिति स्मृतः ॥ अयं कदाचिद्देवानां श्रीनिवास इवाबभौ । श्रीनिवासगिरिं प्राहुस्तस्माद्देवा दिवौकसः ॥ आनन्दाद्रिमिमं प्राहुर्वैकुण्ठपुरवासिनः । प्राहुर्भगवतः क्रीडाप्राचुर्यात्तु तवासुराः ॥ श्रीप्रदत्वाच्छ्रियो वासाच्छब्दशक्तद्या च योगतः । रूढ्या श्रीशैल इत्येतन्नाम चास्य गिरेर्भवेत् ॥ बहूनि चान्यनामानि कल्पभेदाद्भवन्ति हि ॥ सर्वपापानि प्राहुः कटस्तद्दाह उच्यते । सर्वपापदहो यस्माद्वेङ्कटाचल इत्यभूत् ॥ कलिदोषपरीतानां नराणां पापचक्षुषाम् । वेङ्कटेशात्परो दैवो नास्त्यन्यः शरणं भुवि ॥ ३॥

राकामहꣳ सुहवाꣳ सुष्टुती हुवे श‍ृणोतु नः सुभगा वोधतु त्मना सीव्यत्वपः सू च्याच्छिद्यमानया ददातु वीरꣳ शतदायमुक्थ्यं स्वाहा ॥ ७.४॥

राका परमपुरुषरञ्जनाद्राका यद्वा रातीति राका परमपुरुषरञ्जनयोग्या अहं तापत्रयाभिभूतोऽहं यद्वा चतुर्विधपुरुषार्थकामोऽहं सुहवां शोभनहवां लक्ष्म्याराधनं अधिकं शोभनार्थमेव नाभिचारनिमित्तम् ॥ श्रीविष्णुपुराणे सत्वेन शौचसत्याभ्यां तथा शीलादिभिर्गुणैः । धनैश्वर्यैश्च युज्यन्ते पुरुषा निर्गुणा अपि ॥ स श्लाध्यः स गुणी धन्यः स कुलीना स बुद्धिमान् । स शूरः स च विक्रान्तो यं त्वं देवि निरीक्षसे ॥ सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः । पराङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ॥ इति ॥ चतुर्विधपुरुषार्थेष्वपि लक्ष्म्या एव प्राधान्यात् सुहवां इत्युक्तम् । सुष्टुती सुषन्ति शोभनरूपया स्तुत्या हुवे आह्वये श‍ृणोतु नः आर्तनादं श‍ृणोतु यद्वा मम विज्ञापनं सुभगा, भगः श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु ॥ इति ॥ श‍ृणोति निखिलं दोषं श‍ृणोतु च गुणैर्जगत् । श्रूयते चाखिलैर्नित्यं श्रूयते च परं पदम् ॥ इति ॥ सा भक्तस्य आर्तनादं श्रुत्वा तन्निवारणे यत्नं कर्तुं समर्था महानुभावा वीर्यवती कीर्तिमतीत्यादिगुण-विशिष्टेत्यभिप्रायेण सुभगा इत्युक्तम् । बोधतुत्मना वेगेन बुध्यताम् । यद्वा सीव्यत्वपः सूच्याच्छिद्यमानया सूच्यग्र-सन्ततधारया कृपाकटाक्षजलेन नः सिञ्चतु ददातु वीरं परमात्मानं यद्वा पुत्रपौत्रादिकं शतदायमुक्थ्यं प्राणभूतं ददातु प्रयच्छतु ॥ ननु ``पूर्वपक्षो राकापश्यक्षः कुह'' इति श्रुतेः देवतान्तरपरत्वेन श्रूयमाणो राकाशब्दः कथं लक्ष्मीपरो भविप्यतीति चेत्-उच्यते; प्रकरणानुक्तादुक्तां योगो रूढिमपहरतीति न्यायात् भगवच्छब्दस्य तत्रै मुख्यवृत्तत्वात् पुरुषाकारभूतत्वात् राज्ञि हं रञ्जनात् सतामिति ``अस्येशाना जगतो विष्णुपत्नी'' इत्यादिभपुंस्त्वाभिधानेश्वरेश्वरीमिति-सर्वशेषित्वाच्च ॥ ४॥

वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीर नामानि कृत्वाऽभिवदन् यदास्ते स्वाहा ॥ ७.५॥

श्रीवेङ्कटेशत्वेन पूर्वं प्रतिपादितस्य परमात्मनः स्वरूपं स्तोतुमारभते-वेदाहं इति ॥ एतं वेङ्कटाचलनिवासिनं पुरुषं पुरुषसूक्तेन प्रतिपाद्यम् । श्रूयते हि-भगवन् कूर्मरूपं प्रस्तुत्य कूर्मरूपो भगवान् ब्रह्माणमाह-``मम त्वङमाꣳसा । समभूत्'' --इति ॥ ब्रमाह-``नेत्यब्रवीत्'' -इति ॥ पुनश्च भगवान् कूर्मः प्राह-``पूर्वमेवाहमिहासमिति । तत्पुरुषस्य पुरुषत्वम्''-इति ॥ तदेव न्यस्तपुरुषत्वात् परं दर्शयति-``स सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपात् । भूत्वोदतिष्ठत्''॥ इत्यादि ॥ महान्तं ``तेनेदं पूर्णं पुरुषेण सर्वम्'' इति ॥ पूर्णत्वात्पुरुषः इति ॥ पाद्मे-- शब्दोऽयं सोपचारेण तथा पुरुष इत्यपि । निरुपाधौ वदन्त्येते वासुदेवे सनातनम् ॥ सर्वलोकप्रतीत्या च पुरुषः प्रोच्यते हरिः । तं विना पुण्डरीकाक्षं कोऽन्यः पुरुषशब्दभाक् ॥ ब्रह्माद्याः सकला देवा यक्षतुम्बुरुनारदाः । ते सर्वे पुरुषांशत्वादुच्यन्ते पुरुषा इति ॥ उत्तररामायणे अगस्त्यः- असौ राम महाबाहुः रतिमानुषचेष्टया । तेजोमहत्तया चासि संस्कार इति पूरुषम् ॥ हरिवंशे-- गोवर्धनादिधरणीनाथ नन्दसुतोऽपि सन् । पुरुषस्यांशभूतं त्वामादधन्निरणे वही ॥ स्कान्दे- यद्वा भास्करशव्दोयमादित्ये प्रतितिष्ठति । यदा चाग्नौ बृहद्भानुर्यदा वायौ सदा गतिः ॥ तथा पुरुषशब्दोऽयं वासुदेवेऽवतिष्ठति । यदा शङ्करशब्दोऽयं यथा देवे व्यवस्थितः ॥ श्रीविष्णुपुराणे- देवतिर्यङ्मनुष्येषु पुन्नामा भगवान् हरिः । श्रीर्नाम लक्ष्मीर्मैत्रेय नानयोर्विद्यते परम् ॥ नारसिंहे- य एव वासुदेवोऽयं पुरुषः प्रोच्यते बुधैः । प्रकृतिस्पर्शराहित्यात् स्वातन्त्र्यै वैभवादपि ॥ स एव वासुदेवोऽयं साक्षात्पुरुष उच्यते । स्त्रीप्रायमितरत्सर्व जगद्ब्रह्मपुरस्सरम् ॥ इत्यादि ॥ सहस्रशीर्षेत्यादिशब्दसिद्धः पुरुषः श्रीवेङ्कटेशः तस्य वैभवं प्रतिपादयति ॥ अत्र प्रथमया विष्णोर्देशतो व्याप्तिरीरिता । द्वितीययास्य विष्णोश्च कालतो व्याप्तिरीरिता ॥ विष्णोर्मोक्षप्रदत्वं च कथितं तु तृतीयया । एतावानिति मन्त्रेण वैभवं कथितं हरेः ॥ तस्माद्विराडित्यनया वदेन्नारायणाद्धरेः । प्रकृतेः पुरुषस्यापि समुत्पत्तिः प्रदर्शिता ॥ यत्पुरुषेणेत्यनया सृष्टियज्ञः समीरितः । अनेनैव तु मन्त्रेण मोक्षश्च समुदीरितः ॥ तस्मादिति च सप्तार्चान् जगत्सृष्टिः समीरिता । वेदाहमिति मन्त्राभ्यां वैभवं कथितं हरेः ॥ यज्ञेनेत्यनया चर्चा सृष्टेर्मोक्षस्य चेरितः । य एवमेतज्जानाति स हि मुक्तो भवेदिति ॥ पुरुषसंहितायां किं स्वरूपं आदित्यवर्णम्- आदित्यवर्णं पुरुषं वासुदेवं विचिन्तय ॥ इति ॥ तमसस्तु पारे तमश्शब्देन प्रकृतिरुच्यते-- तमस परमे दान्ते ह्यस्ति प्रकृतिमण्डलम् । ऊर्ध्वमवस्थितं सर्वाणि विचित्य निर्माय नामानि कृत्वा ॥ नामरूपं च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ॥ भारते- सर्वेषां च सनामानि कर्माणि च पृथक् पृथक् । वेदशब्देभ्य प्रवादौ देवादीनां चकार सः ॥ इति ॥ धीरः-धियो रममाणः अभिवदस्तैराभिमुख्येन वदन् यदास्ते अस्त्येव तमित्यनेन पूर्वं प्रस्तुतमेव नान्यं दद इति । सन्निहितस्य परित्यागे कारणाभावात् ॥ वेङ्कटाचलमाहात्म्ये स्वामिपुष्करिणीतीरे सर्वान्तर्याम्यधोक्षजः । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ इति पुरुषसूक्तप्रतिपाद्यत्वेनोक्तत्वाच्च ॥ ५॥

दिग्दोषो यस्य विदिशश्च कर्णौ द्यौरास वक्त्रमुदरं नभो वा सासि वा स्म या स्वयमाप दन्तं तस्मै वरत्रे वरदाय कस्मै स्वाहा ॥ ७.६॥

यस्य परमात्मनः दिग्दोषः दिशः दोषः बाहवः विदिशश्च अवान्तरकर्णौ द्यौर्वक्त्रमास उदरन्नभः ``नाभ्या आसीदन्तरिक्षम्'' इत्यादिश्रुतयः । या विश्वम्भरा भूमिः सा त्वमेवासि स्म भूतार्थसूचकं अन्तर्यामीत्यर्थः ॥ श्रुत्यन्तरे-- यस्यास्यमग्निर्द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः ॥ इत्यादि ॥ पादभूता या भूमिः सा स्वयं वराहरूपेण तव दन्तमाप दंष्ट्राग्रस्थितेत्यर्थः तस्मै वराहरूपिणे वरत्रे वरप्रदानेन त्राति वरत्रः वरप्रदानसमर्थाय कस्मै परब्रह्मणे कस्मा इत्युक्तत्वात् ब्रह्मकं ब्रह्ममुखमिति परब्रह्मपरत्वेनोक्तत्वात् । ``सदेव सोम्येदमग्र आसीत्'', ``एकमेवाद्वितीयम्'' इत्यादिश्रुत्यनुसारेण पृथग्देवीभूषणायुधादिरहितत्वेन श्रुतिसिद्धम् । वेङ्कटाचले विद्यमानोऽपि मन्त्रो वेङ्कटेशपरः ॥ पाद्मे-- येनैव दंष्ट्राग्रसमुद्धृता धरा बिभर्ति विश्वं ससुरासुरेन्द्रम् । नताः स्म तस्मै वरदाय पुंसे सर्वात्मने शेषविभूतिदायिने ॥ इति ॥

पद्यास्य वक्षाः परमः सुपुण्यः पद्मा जनित्री परमस्य वासः सूक्ष्म सावित्रं स्वयमादधानः सावित्रख्यं परमं सुपुण्यं स्वाहा ॥ ७.७॥

पद्मा लक्ष्मीः अस्य पूर्वं प्रतिपादितस्य वेङ्कटेशस्य वक्षाः वक्षसि विभक्तिव्यत्ययः परमः अर्चावतारे वरप्रदानादिषु समाभ्यधिकरहितः सुपुण्यः, वेङ्कटाद्रिसमं स्थानं ब्रह्माण्डे नास्ति किञ्चन । वेङ्कटेशसमो देवो न भूतो न भविष्यति ॥ याश्च सप्तमहापुर्यः कीर्त्यन्ते मोददायकाः । ता वेङ्कटाद्रिपर्यन्ता ग्रामकोटयंशशक्तय'' ॥ नास्ति पुण्यतमं तीर्थं स्वामिपुष्करिणीसमम् । सममस्तीति यो ब्रूयात्तत्समो नास्ति पातकी ॥ इत्यादि ॥ पद्मा जनित्री सर्वत्र जननी । ऋग्वेदे- अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ । अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आविवेश । अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तस्समुद्रे ।'' श्रीसूक्ते- ``मातरं पद्ममालिनीम्'', श्रीविष्णुपुराणे- त्वं माता सर्वभूतानां देवदेवो हरिः पिता । त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरम् ॥ इति ॥ परमस्य अभ्यधिकरहितस्य अस्य वक्षः पद्मावास इति वा ॥ भगवच्छास्त्रे- महाप्रलयकाले तु सर्वलोकविनाशने । तस्मिन्नपि च काले तु वत्सरूपावसत्स्वयम् ॥ श्रीवत्साङ्को हरिस्तस्मात् हरिवक्षसि सुस्थिता । प्रलयान्ते पुनस्सृष्टा पृथग्भूता च सा भवेत् । स्त्रीवेषेण च सर्वासां भेदमूर्तित्वमेयुषी ॥ इति ॥ सूक्ष्मं सावित्रं स्वयमादधानः ``अन्तस्तद्धर्मोपदेशात्''-इत्यस्यार्थोऽत्राभिप्रेतः । छान्दोग्ये- ``य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात् सर्व एव सुवर्णस्तस्य यथा कप्यासं'' इति ॥ मैत्रायणीश्रुतिः--स्थिरमचलममृतच्युतं ध्रुवं विष्णुसञ्ज्ञितं सर्वापरं धाम'' इति ॥ योगयाज्ञवल्क्य ईश्वरं पुरुषाख्यं च सत्यधर्माणमच्युतम् । भर्गाख्यं विष्णुसञ्ज्ञं च ध्यात्वामृतमुपाश्नुते ॥ इति ॥ दृश्यो हिरण्मयो देव आदित्यो नित्यसंस्थितः । यः सूक्ष्मः सोऽहमित्येव चिन्तयामः सदैव तु ॥ किञ्च-सूक्ष्मं सावित्रं इत्युक्तत्वात् ``घृणिरिति द्वे अक्षरे । सूर्य इति त्रीणि आदित्य इति त्रीणि । एतद्वै सावित्रस्या-ष्टाक्षरं पदꣳश्रियाभिषिक्तम् । य एवं वेद । श्रिया हैवाभिषिच्यते'' ॥ इति ॥ यजुषि-``घृणिः सूर्य आदित्यो न प्रभावात्यक्षरम् । मधु क्षरन्ति तद्रसम् । सत्यं वै तद्रसमापो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोम्'' ॥ इति ॥ एवं श्रुतिस्मृतिषु प्रतिपादितं सावित्रं रूपं पूर्वोक्तः परमात्मा स्वयमादधानः सावित्ररूपं परमं सुपुण्यम् । ``आदित्यो वा एष एतन्मण्डलम्'' (सूर्योपनिषत्) इत्यादिश्रुत्यनुसारेण ``असावादित्यो ब्रह्म'' इति श्रुतेश्च, आदित्यमण्डलान्तर्वर्ती श्रीवेङ्कटेश इत्यभिप्रायेण सावित्ररूपं परमं सुपुण्यं इत्युक्तम् ॥ ७॥

यः पुण्डरीकः परमान्तरात्मा कम्राङ्गरूपं कमलं दधार सासिष्वसन्तं सरसे रसाय स्वाहा ॥ ७.८॥

यः परमात्मा पुण्डरीकः पुण्डरीकः छान्दसत्वात् । परमान्तरात्मा अत्रापि दहरपुण्डरीकमध्यवर्ती चेत्यर्थः । छान्दोग्ये-``अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यम्'' इति ॥ यद्वा--पुरुषव्याघ्रः कम्राङ्गरूपं कमनीयमङ्गरूपं यस्य तत् । कमलं जलमलङ्करोतीति कमलं दधार कमले दधार ब्रह्माणं सरसे रससहिते द्रवेऽपि चेति रागात्मकरससूते पद्मे रसाय लोकसृष्टये ब्रह्माणं दधार तस्मै । भारते- स्वयम्भूस्तस्य देवस्य पद्मं सूर्यसमप्रभम् । नाभ्या विनिस्मृतमरुक् तत्रोत्पन्नः प्रजापतिः ॥ इति ॥ ८॥

रयीणां पतिं यजतं बृहन्तं रारागमुक्तं गुरुं सश्रीकं तं रायिरूपं रयिभूतभूतं रयिमत्सुरत्रः स्वाहा ॥ ७.९॥

रयीणां पतिं ऐश्वर्याणां पतिं बृहन्तं ``बृहद्ब्रह्ममहश्चेति-शब्दाः पर्यायवाचकाः'' इति पूर्वस्मिन्मन्त्रे प्रतिपादितं ब्रह्माणं परब्रह्मभूतं रारागमुक्तं समग्रषाड्गुण्यपरिपूर्णै-श्वर्यत्वात् तुच्छरूपपरत्वादिन्द्राद्यैश्वर्यरागरहितम्, एते वै निरयास्तात स्थानस्य परमात्मनः । इति वचनात् । गुरुं - गुशब्दस्त्वन्धकारः स्यात् रुशब्दस्तन्निरोधकः । अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते ॥ इति ॥ विसृष्ट्यादिसामर्थ्यज्ञानप्रदं सश्रीकं सर्वैश्वर्यवन्तं तं रायिरूपं ऐश्वर्यरूपं रयिभूतभूत ऐश्वर्यस्यापि ऐश्वर्यभूतं रयिमत्सुरत्रः ऐश्वर्यवतां देवानां रक्षिता अस्मै । आरोग्यं भास्करादिच्छेच्छ्रियमिच्छेद्धुताशनात् । शङ्कराज्ज्ञानमन्विच्छेन्मोक्षमिच्छेज्जनार्दनात् ॥ इति ॥ ज्ञानप्रदोऽपि परमात्मैवेत्यभिपायेण गुरुशब्दप्रयोगः यद्वा तत्तदन्तर्यामित्वेन ॥ ९॥

रायां पतत्त्रे रयिमादधात्रे रायो बृहन्तं रयिमत्सुपुण्यं राराजिमन्तं रतये रमन्तं तं बिम्बवन्तं ककुदाय भद्रे स्वाहा ॥ ७.१०॥

रायां पतत्त्रे स्वभक्तस्थतुच्छैश्वर्याणां पतनानन्तरं त्रात्रे रक्षित्रे, यस्यानुग्रहमिच्छामि तस्य वित्तं हराम्यहम् । बन्धून् वा नाशयिष्यामि धीनुत्पादयाम्यहम् ॥ इति ॥ रयिमादधात्रे अनश्वरश्वैर्यप्रदात्रे रायो बृहन्तं लीलाविभूत्यपेक्षया नित्यविभूतेरधिकत्वात् ``पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि'' (पुरुषसूक्तः, ऋग्वेदः १०.९०, यजुर्वेद अध्यायः ३१ श्लोकः ३) इति श्रुतेः । रयिमत्सुपुण्यं, सत्पात्रदानेन भवेद्धनाढ्यो धनप्रकर्षेण करोति पुण्यम् । पुण्यादवश्यं त्रिदिवं प्रयाति पुनर्धनाढ्यः पुनरेव भोगी ॥ सुपुण्यं सुप्रसिद्धानां पुण्यप्रदं राराजिमन्तं देशकालाद्यपेक्षाराहित्येन निरन्तरैश्वर्यवन्तं रतये लीलारसानुभवार्थं रमन्तं परमात्मानं शैलजादिरूपेण । बिम्बवन्तं ककुदाय श्रैष्ट्याय भद्रे शुभाश्रयाय स्वाहा जुहोमीत्यर्थः ॥ १०॥ इति सप्तमोऽनुवाकः सम्पूर्णः ।

अष्टमोऽनुवाकः सव्याख्या

यत्सारभूतं सकलं धरित्रीं मोदप्रायेणानुभूतमनुविधं सूक्ष्मः सुरेशः सकलं बिभर्ति तस्मै सुरेशाय सकलं सुपुण्यं स्वाहा ॥ ८.१॥

यत्सारभूतं प्रकृतिपुरुषयोर्बलभूतं यद्वा जगतः सकलं ``षोडशकलो पुरुष'' इति श्रुतेः ।'' (प्रश्नोपनिषद्षष्ठः प्रश्नः श्लोकः ८) सकलासु हितां धरित्रीं धारणात् त्रायत इति धरित्रीं प्रकृतेः मोदप्रायेणानुभूतं लीलाप्रायेण परमात्मनानुभूतं अनुविधं अनुप्रविद्धं ``तदेवानुप्राविशत्'' इति श्रुतेः ॥ (तैत्तिरीयोपनिषत् २.६.६) सूक्ष्मः, वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ इति श्रुतेः ॥ (श्वेताश्वतरोपनिषद्पञ्चमोध्यायः श्लोकः ९) ``अणोरणीयान्'' इति जीवापेक्षया सूक्ष्मः सुरेशः ब्रह्मादीनामीशः सकलं चिदचिदात्मकं जगत् बिभर्ति । ``व्यष्टभ्राद्रोदसी विष्णुरेते । दाधार पृथिवीमभितो मयूखैः'' इति तस्मै सुरेशाय पूर्वोक्तसुरेशः सकलं ब्रह्मादिस्तम्ब-पर्यन्तं सुपुण्यं सुतरां पुण्यं यत्सुरेशाय तस्मै ॥ १॥

फलो वा एष लोकानामजरो महात्मा विश्वं यः पाति विमलोऽमलाख्यस्तस्मै ककुत्त्रे वरदस्य पुष्ट्यै स्वाहा ॥ ८.२॥

एष परमात्मा लोकानां भूरादीनां तत्तल्लोकानां देवमनुष्यादीनां च फलः फलभूतः फलप्रदश्च । ``फलमत उपपत्तेः'' इति । (ब्रह्मसूत्र ३.२.३८) अजरः जरारहितः । अशनायापिपासे च शोकमोहौ जरामृती । एताः षडूर्मयः प्रोक्ताः षडूर्मिरहितश्च सः ॥ महात्मा महान् विश्वं जगत् यः पाति रक्षति विमलः अपहतपाष्मत्वादिगुणः अमलाख्यः, वसा शुक्रमसृङ्मज्जा मूत्रं विट्कर्णविण्णखाः । श्लेष्माश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥ (मनुस्मृतिः ५.१३५) इति द्वादशमलरहितः ककुत्त्रे श्रेष्ठाय पोषणादिशक्ति-सहिताय तस्मै वरदस्य वरप्रदानसमर्थस्य पुष्ट्यै, भृगु- श्रीः सा सरस्वती चैव रतिः प्रीतिस्तथैव च । कीर्तिः शान्तिस्तथा पुष्टिस्तुष्टिरित्यष्टशक्तयः ॥ इति ॥ पोषणरूपायै शक्त्यै परमात्मने ॥ २॥

धूर्नो वहन्तां रतये रमन्तां प्रभूतिमन्तस्समयं सुषुम्ना अं राजिमन्तं सकलस्य गुप्त्यै स्वाहा ॥ ८.३॥

नः धूः भारं भरन्न्यासं वहन्तां ``वह प्रापणे'' इति । परमात्मास्वयमेव प्रापयताम् । स्वामी स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् । स्वदत्तस्वधिया सार्धं स्वस्मिल्यस्यति मां स्वयम् ॥ इति सर्वदानुसन्धाय संयोज्य धूर्वहन्तां रतये तत्तद्विषयानुभवार्थ तत्तत्स्थाने रमन्तां इन्द्रियाणां प्रभूतिं परमपुरुषानुभवैश्वर्यरूपां अन्तस्ममयं सुषुम्ना अन्तस्समये अं राजिमन्तं अकाराक्षरपूर्वकमन्त्रं प्रतिपादयन्तं सकलस्य कला तु षोडशो भागः सर्वेन्द्रियोपरतस्य सुषुम्नानाड्या गमनं च भरन्यासं श्रतवतः प्रयच्छति तस्मै ॥ ३॥

विश्वं बिभर्ति प्रसुरोऽभूदन्तं संराजवन्तं सकलं प्ररूढं स नो वितत्य प्रहिणोतु पत्त्रे स्वाहा ॥ ८.४॥

विश्वं समस्तं प्रसुरोऽभूदन्तं तापत्रयादिना प्रकर्षेण सुरोऽभूदन्तं संराजवन्तं समूहवन्तं सकलं कलासहितं प्ररूढं देवमनुष्याद्यनुकारेण समस्तं वितत्य विस्तार्य बिभर्ति स देवः नः श्रेयः प्रहिणोतु प्रयच्छतु पत्त्रे पदान् त्रायत इति तस्मै ॥ ४॥

सो वा स्वरूपः समदृक् समग्रो विधुदं तुदन् यो विदधत्पदं वा वियति प्रकाशं बृहते गुहेन तं बिम्बवन्तं समदं समग्रं स्वाहा ॥ ८.५॥

यः परमात्मा देवाशेषुसमुद्रमथनवेलायां समदृक् समग्रः वञ्चितुसावधानः विधुदं विधुश्चन्द्रः तं दमयतीति । दम इतीन्द्रियनिग्रहशक्तिसम्भवात् विधुदो राहुः तं समदं मदसहितं समग्रं सावधानं बिम्बवन्तं राहुममृतपानवेलायां तुदन् हिंसां कुर्वन् तस्य राहोः वियति आकाशे पदं स्थानं गुहेन ग्रहरूपेण बृहते पूर्वचन्द्राय विदधत् कल्पितवान् स एव स्वरूपः तस्मै ॥ ५॥

भूर्भुवं वा भुवो वा सुवो वा किञ्चित्स्वनन्तं सुषुवे समस्तं सर्वस्य दातारमजरं जरित्रे स्वाहा ॥ ८.६॥

भूर्भुवं भूमेरपि भूमिं उत्तरकुरुदेशादिकं भुवो वा सुवो वा अन्तरिक्षं स्वर्गं वा वाशब्दो लोकान्तरपरः । किञ्चित्स्वनन्तं अल्पशब्दवाच्यत्वेन स्वनन्तं शब्दयन्तं सुषुवे सृष्टवान् समस्तमपि सर्वस्य दातारं चतुर्र्म्प्राफल्यद अजरं जरारहितम् । न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ इति ॥ (कठोपनिषदध्याय १ वल्ली २ श्लोकः १८) जरित्रे प्रकृतिद्वारेण जरित्रे । वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णा-- न्यन्यानि संयाति नवानि देही ॥ इति ॥ तस्मै ॥ ६॥

दाक्षायण्यां प्रसृतं समस्तं सङ्कोचयित्वा सकलं वितानं संवासयन् यः सकलं वरिष्ठं तस्मै प्रजेशाय धुरन्धराय स्वाहा ॥ ८.७॥

दाक्षायण्यदितिः तस्यां तं प्रसृतं उद्भूतं समस्तं दैतेयजातं सङ्कोचयित्वा अल्पावशिष्टं कृत्वा सकलं कलासहितं वितानं लोकस्याच्छादनभूतदेवजातं संवासयन् वरिष्ठं श्रेष्ठं मनुष्याणां रक्षणार्थे स्थापितवान् ``त एनं तृप्त आयुषा तेजसा वर्चसा श्रिया यशसा ब्रह्मवर्चसेनान्नाद्येन च तर्पयन्ति'' इत्यादि प्रजेशाय प्रजानामीश्वराय धुरन्धराय सर्वभारवहाय तुभ्यम् ॥ ७॥

आशास्समस्ताः प्रतरन्ननु तमन्तस्तास्ता वसेद्द्यौः कमला समस्ताः सा मे गृहे समधत्त पुष्टिं स्वाहा ॥ ८.८॥

स्वभक्तानां स्वाराधकानां आशाः कामान् प्रतरन् प्रयच्छन् अनु साकल्येन तं अन्तः हृदये परमात्मा तिष्ठति । या कमला लक्ष्मीः सापि तास्ताः प्रविश्य वसेत् । श्रीविष्णुपुराणे- त्वं माता सर्वभूतानां देवदेवो हरिः पिता । त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरम् ॥ इति ॥ सर्वत्र व्याप्तिरुच्यते कथं व्याप्तिरिति चेत् यथा परमात्मना जगद्व्याप्तं तथेति भावः सर्वात्मना सा लक्ष्मीः सैषा लक्ष्मीः मे गृहे पुष्टिं, त्वयावलोकिताः सद्यः शीलाद्यैः सकलैर्गुणैः । धनैश्वर्यैश्च युज्यन्ते पुरुषा निर्गुणा अपि । समधत्त अन्तर्यामिणः परमात्मनो लक्ष्म्याश्चायं मन्त्रः ॥ ८॥

यो जङ्गमानां सकलं विभर्षि सर्वं वियद्विचरते शक्ष्यन् तन्नौकूले वान्तिकेऽजस्रं स्वाहा ॥ ८.९॥

यः परमात्मा जङ्गमानां देवमनुप्यादीनां सकलं योगक्षेमादिकं विभर्षि वियद्विचरते आकाशे यत्किञ्चित् विचरते तत् सर्वं त्वमेव बिभर्षि शक्ष्यन् शक्तः तन्नौकूले वा तत्सर्वं नौरिव जलधौ नौरिव अन्तिके समीपे अजस्रं पुष्टिं बिभर्षि तुभ्यम् ॥ ९॥

यो वा दशानां प्रसृताः समस्तास्तां तां दधानास्समयात्सुबीजाः शब्दादिरीत्यै स्वबलं वलाय स्वाहा ॥ ८.१०॥

बीजाङ्कुरप्ररोहादिकं परमात्मशक्त्येत्याह .... यो वा दशानां इति ॥ यः परमात्मा दशानां देवमनुष्यमृगपक्षिसरीसृपक्रिमिश्वेतवृक्षजगुल्मलतादीनां प्रसृताः प्रसूतयः समस्ताः नामरूपकृत्यविभागादिकं तां तां दधानाः समयात् समये सुबीजाः शब्दादिरीत्यै परमात्मशक्त्या प्ररोहादिसामर्थ्ययुक्ता भवन्ति ये स्वबलं तत्सर्वं परमात्मन एव बलं तस्मै बलाय बलरूपाय ॥ १०॥ इत्यष्टमोऽनुवाकः सम्पूर्णः ।

नवमोऽनुवाकः

चत्वारो दोषः प्रहरन्ति यस्य सर्वस्य गोप्त्रे सुरसाय धान्ने सोमस्य पुण्यं रयिमत्प्रवृद्ध्यै स्वाहा ॥ ९.१॥

यस्य सवितृमण्डलवर्तिनः परमात्मनः चत्वारः सुषुम्नादिका दोषः बाहवः पुण्यमाहुति प्रहरन्ति । अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ॥ इति ॥ सर्वस्य गोप्त्रे पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः । इति सर्वोषधीनां पोषणद्वारा मनुष्यादीनां गोप्तृत्वं सुरसाय सुतरां रसरूपाय धाम्ने अमृतमयतेजःस्वरूपिणे प्रहरन्ति प्रकर्षेण हरन्ति रयिमत्प्रवृद्ध्यै दिनेदिने कलावृद्धिः पौर्णमास्यां तु पूर्णता ॥ इति ॥ श्रीवैखानससूत्रे-- ``यथा हवास्य सुषुम्ना जेनातिष्यति प्राणावति रेतोधा इत्येताहुतिं गृहीत्वा रश्मयश्चतस्रः प्रश्नाः सन्दधीरन् सह वा शुद्धा अमृतवह चिनुहि दिव्यालोकपावनीत्येताभिश्चन्द्रमसमाप्याययति .... मूलगामीव वा यावन्नमृतोद्गारिसुरप्रियेत्येताभिरमृतेन तां तर्पयति ।'' किञ्च सर्वस्य गोप्तृत्वश्रवणात् ॥ ऋषय ऊचुः - कौतूहलसमुत्पन्ना देवता ऋषिभिः सह । संशयं परिपृच्छन्ति व्यासं धर्मार्थकोविदम् ॥ कथं वा क्षीयते सोमः क्षीणो वा वर्धते कथम् । इमं प्रश्नं महाभाग ब्रूहि सर्वमशेषतः ॥ व्यासः - श‍ृण्वन्तु देवताः सर्वं यदर्थमिह आगताः । तदहं सम्प्रवक्ष्यामि सोमस्य गतिमुत्तमाम् ॥ अग्नौ हुतं च दत्तं च सर्वं सोमगतं भवेत् । तत्र सोमः समुत्पन्नः शीतांशुर्हिमलक्षणः ॥ अष्टाशीतिसहस्राणि विस्तीर्णं योजनानि तत् । प्रमाणं तत्र विज्ञेयं कलाः पञ्चदशैव हि ॥ षोडशी तु कलाप्यत्र त्वित्येकोऽपि विधेर्बले । पपुः सोमवपुर्देवाः पर्यायेणानुपूर्वशः ॥ प्रथमां पिबते वह्निर्द्वितीयां पिबते रविः । विश्वेदेवास्तृतीयां तु चतुर्थी सलिलाधिपः ॥ पञ्चमीं तु वषट्कारः षष्ठीं पिबति वासवः । सप्तमीमृषयो दिव्या अष्टमीमज एकपात् ॥ नवमीं कृष्णपक्षस्य यमः प्राश्नाति वै कलाम् । दशमीं पिबते वायुः पिबत्येकादशीमुमा ॥ द्वादशीं पितरः सर्वे समं प्राप्नोति भागशः । त्रयोदशी धनाध्यक्षः कुबेरः पिबते कलाम् ॥ चतुर्दशीं पशुपतिः पिबत्यन्त्यां प्रजापतिः । एवं पीतः कलाशेषश्चन्द्रमा न प्रकाशते ॥ कला षोडशिका या तु ह्यपः प्रविशते सदा । अमायां तु सदा सोम ओषधीः प्रतिपद्यते ॥ तमोषधिगतं गावः पिबन्त्यम्बुगतं च यत् । तत्क्षीरममृतं भूत्वा मन्त्रपूतं द्विजातिभिः ॥ हुतमग्निषु यज्ञेषु पुनराप्यायते शशी । दिनेदिने कलावृद्धिः पौर्णमास्यां तु पूर्णिमा ॥ ``नवो नवो भवति जायमानोह्नां केतुरुषसामेत्यग्रे'' ॥ इत्यादि ॥ (ऱिग्वेदः ंअन्दलम् १० सूक्तं ८५ ऋचा १९) त्रिमुहूर्तं वसेदर्के त्रिमुहूर्तं जले वसेत् । त्रिमुहूर्तं वसेद्गोषु त्रिमुहूर्तं वनस्पतौ ॥ वनस्पतिगते सोमे स्त्रियं वा योऽधिगच्छति । स्वर्गस्थाः पितरस्तस्माच्च्यवन्ते नात्र संशयः ॥ वनस्पतिगते सोमे यस्तु हिंस्याद्वनस्पतिम् । घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥ वनस्पतिगते सोमे यस्तु भुङ्क्ते परौदनम् । तस्य मासगतं पुण्यं दातारमधिगच्छति ॥ वनस्पतिगते सोमे नातिहेयांस्तु वाहयेत् । नाश्नन्ति पितरस्तस्य दशवर्षाणि पञ्च च ॥ वनस्पतिगते सोमे मन्थानं यस्तु कारयेत् । गावस्तस्य प्रणश्यन्ति चिरकालमुपस्थिताः ॥ वनस्पतिगते सोमे स्त्रियं वा योऽधिगच्छति । स्वर्गस्थाः पितरस्तस्माच्च्यवन्ते नात्र संशयः ॥ सोमोत्पत्तिमिमां यस्तु गर्भिणीं श्रावयेत्स्त्रियम् । ऋषभं जनयेत्पुत्रं सर्वज्ञं वेदपारगम् ॥ सोमोत्पत्तिमिमां यस्तु श्राद्धकाले सदा पठेत् । तदन्नममृतं भूत्वा पितृणां दत्तमक्षयम् ॥ सोमोत्पत्तिमिमां यस्तु सर्वकाले सदा पठेत् । सर्वं मानव आप्नोति सोमलोकं स गच्छति ॥ इति ॥ (सोमोत्पत्तिस्तोत्रम्) एवंविधाकारचन्द्ररूपेण गोप्त्रे तुभ्यम् ॥ १॥

वक्षो वसत्यस्य वरां वरिष्ठं वाकं दधाना ववृधे समस्तं तस्मै वरिष्ठाय वरप्रवृद्ध्यई स्वाहा ॥ ९.२॥

अस्य परमात्मनो वक्षसि वाकं दधाना वरिष्ठं श्रेष्ठं वक्षः प्राप्य या वसति वरां वाकं दधाना उत्कृष्टरूपां वाकं वाचं दधाना पुरुषाकाररूपां वाचं दधाना श्रावयन्ती वसति ववृधे समस्तं जङ्गमाजङ्गमादिकं प्रति वृद्धिं गता तस्यै वरिष्ठाय तस्मै ॥ २॥

अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशं स्वाहा ॥ ९.३॥

अणोरणीयान्महतः आकाशादिभूपर्वतादिभ्यो महीयानात्मा अन्तः प्रविश्य नियन्ता ह्यात्मा अस्य जीवस्य गुहायां हृदयगुहायां निहितः एवं भूतं तं अक्रतुं अकर्माणं पश्यति वीतशोकः धातुः प्रसादात् परमात्मनः प्रसादाद्यः पश्यति वीतशोकः महिमानं महिमावन्तं इशं इत्यर्थः ॥ धातुः प्रसादादित्यनेन- नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यः तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ (कठोपनिषद् अध्यायः १ वल्ली २ श्लोकः २३) इति निर्हेतुकत्वं तस्य प्रसादात् ॥ ३॥

विष्णुर्वरिष्ठो वरदानमुख्यो यो विश्वर्षीन् ध्यायन्नकुर्वन् विश्वं हीषद्विष्णवे याः प्रभविष्णवे ता अमितम्भरत्रे स्वाहा ॥ ९.४॥

विष्णुः व्याप्तः परमात्मा वरिष्ठः श्रेष्ठः वरदानमुरव्यः यः परशुरामरूपी विश्वर्षीन् जमदग्नीन् । पूजायां बहुवचनम् । ध्यायन् अकुर्वन् विश्वं यथायोग्यत्वेन क्षत्रियवंशजातं ईषत्कार्यं हि विष्णवे याः शक्तयः- परमेष्ठी पुमान्विश्वो निवृत्तः सर्व एव च । पञ्चैताः शक्तयः प्रोक्ताः परस्य परमात्मनः ॥ आचार्या वैष्णवी सूक्ष्मा लक्ष्मीः पुष्टिर्निरञ्जना । जीवनी मोहिनी माया नवैता विष्णुशक्तयः ॥ इति ॥ ता द्ध्विणुशक्तयः प्रभविष्णवे रामभद्राय अमितम्भरत्रे मितरहितधनुर्भरणादमितभरः तेन जनकप्रतिज्ञाप्रातिभरत्व- धनुः स्वशक्तिभिस्सहस्रशोऽधाद्यः अत्र विश्वर्षिशब्दप्रयोगात् अत्यन्तश्रेष्ठत्वं वा । श्रुतिः-``विश्वामित्रजमदग्नी वसिष्ठेनास्पर्ध-ताꣳ स एतज्जमदग्निर्विहव्यमपश्यत्तेन वै स वसिष्ठस्येन्द्रियं वीर्यमवृड्क्त'' इत्यादि ॥ ४॥

अब्जोऽजुषन्तः प्रपतत्पतन्तः पूम्पूम्पुषन्तः पुनयः प्रवालः कङ्कं जनित्रे समतेजसं ते स्वाहा ॥ ९.५॥

अब्जः ब्रह्मा । भारते-- निशि सुप्त्वाथ भगवान् क्षपान्ते प्रतिबुध्य यः । पश्चाद्बुध्वा ससर्जापस्तासु वीर्यमवासृजत् ॥ तदण्डमभवद्दैवं सहस्रांशुसमप्रभम् । अहं कृत्वा ततस्तस्मिन् ससर्ज प्रभुरीश्वरः ॥ हिरण्यगर्भं विश्वात्मा ब्रह्माणं जलजं मुनिम् । भूतभव्यभविष्यस्य कर्तारमनघं विभुम् ॥ इति ॥ अजुषन्तः सृष्टिकर्तृत्वाभिमानेन त्वत्पादसेवामकुर्वन्तः । अब्ज इति जातावेकवचनम् । यद्वा अण्डबाहुल्यत्वा-भिप्रायेण प्रपतत्पतन्तः पूम्पूम्पुषन्तः शरीरं पोषयन्तः पुनयः प्रवालः प्रकर्षेण बालं वबयोरभेदः कङ्कं जनित्रे समतेजसं ते एवं रजोगुणदोषदुष्टं ब्रह्माणं ते त्वं समतेजसं जनित्रे ``नारायणाद्ब्रह्मा जायते'' इति श्रुतयः तुभ्यम् ॥ ५॥

मामात्मगुप्तां वहते स्वभूत्यै तां राजिमन्तां धूर्धूरयन्तीं धूरसि ध्रुवाय स्वाहा ॥ ९.६॥

मां लक्ष्मीं आत्मगुप्तां आत्मभूतेन स्वेनैव गुप्तां भूत्यै लोकानामैश्वर्याय वहते वक्षसि वहते स्म भूतार्थसूचनत्वात् प्रलयकालेऽपीत्यर्थः । तां राजिमन्ता लावण्यसम्पत्सारभूतां धूर्धूरयन्ती समग्रैश्वर्यगतिभूतां मां वहत इति पूर्वत्रान्वयः धूरसि भारभूतोऽसि ध्रुवाय स्थिराय तुभ्यम् ॥ ६॥

यं चिन्तयन्तो निगमान्तरूपं यं विश्वरूपं परमात्मपुण्यं तं विन्दमानां सकलं व्रजन्तीं तं दैवमुख्यं सुरतं भवाय स्वाहा ॥ ९.७॥

यं निगमान्तरूपं ``सत्यं ज्ञानमनन्तं ब्रह्म'' इत्यादिवेदान्तप्रतिपाद्यरूपम् । (तैत्तिरीयोपनिषद्ब्रह्मानन्दवल्ली प्रथमोऽनुवाकः श्लोकः ९) यद्वा यं विश्वरूपं- यस्यास्यमग्निर्द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः । इत्यादिविश्वरूपं यद्वापरत्वव्यूहविधावन्तर्याम्यर्चावतारादि -रूपं वा चिन्तयन्तः ध्यायन्तः सकलं स्वकलासहितत्वेन । लक्ष्मीतन्त्रे-- महालक्ष्मीः समाख्याता साऽहं सर्वाङ्गसुन्दरी । महाश्रीः सा महालक्ष्मीश्चण्डाचण्डी च चण्डिका ॥ भद्रकाली तथा भेदा काली दुर्गा महेश्वरी । त्रिगुणा भगवत्पत्नी तथा भगवती परा ॥ एताः सञ्ज्ञास्तथान्याश्च तत्र मे बहुधा स्मृताः । विकारयोगादन्याश्च तास्ता वक्ष्याम्यशेषतः ॥ रक्षयामि जगत्सर्वं पुण्यापुण्ये कृताकृते । महनीया च सर्वत्र महालक्ष्मीः प्रकीर्तिता ॥ महाब्धिश्रयणीयत्वान्महाश्रीरिति गद्यते । भण्डस्य दयिता भण्डी भण्डत्वाद्भण्डिका मता ॥ कल्याणरूपा भद्रास्मि काली भद्रा प्रकीर्तिता । कलात्सतां स्वरूपत्वादपि काली प्रकीर्तिता ॥ सुहृदां च द्विषां चैव युगपत्सदसद्विभोः । भद्रकाली समाख्याता मायाश्चर्यगुणात्मिका ॥ माया योग इति ज्ञेया यज्ज्ञानाज्ञानयोर्नृणाम् । पूर्णषाड्गुण्यरूपत्वात्स्मृता चाऽहं परात्परा ॥ शासनाच्छक्तिरूपाहं राज्ञ्यहं रञ्जनात्सताम् । सदा शान्तविकारत्वाच्छान्ताहं परिकीर्तिता ॥ मत्तः प्रक्रमते विश्वं प्रकृतिः सास्मि कीर्तिता । श्रयन्ति ह्ययना चास्मि श‍ृणामि दुरितं सताम् ॥ श‍ृणोमि करुणां वाचं श‍ृणोमि च गुणैर्जगत् । शरणं सर्वभूतानां रमेऽहं सर्वकर्मणाम् ॥ ईडिता च सदा देवैः शरीरं चास्मि वैष्णवम् । एतान्मयि गुणान् दृष्ट्वा वेदवेदाङ्गपारगाः ॥ गुणयोगविधानज्ञाः श्रियं मां सम्प्रचक्षते । साऽहमेवंविधा नित्या सर्वाकारा सनातना ॥ इति ॥ व्रजन्तीं सर्वस्यापि गतिभूतं तं परमात्मानं विन्दमानां प्राप्तवतीं च चिन्तयन्तो ये तिष्ठन्ति तेषां भोग्यरूपाय ``सोऽश्नुते सर्वान कामान् सह ब्रह्मणा विपश्चितेति'' इति श्रुतेः ॥ ७॥

पुण्यां च पुण्यः पुरुषे पुरग्रे तां राजिमन्तां निशि चोदितानां निदधाति पुष्टयै हरन् पराय स्वाहा ॥ ९.८॥

पुण्यः पोषकः परमात्मा यद्वा परमपावनः पुण्यां पोषिकां पुरुषे पुरुषशब्दः साधारणः स्वकृपाकटाक्षविषयभूते पुरुषे पुरग्रे शरीरपूर्वभागे पादगुह्यनाभिहृदयकण्ठमुखेषु पुष्टयै ऐश्वर्यानुभवार्थं लक्ष्मीं निदधाति स्थापयते निशि चोदितानां रात्रौ चकारात् सन्ध्याकाले च उदिताः जाताः सुरदानवादयः ``दिवा देवानसृजत नक्तमसुरान्'' इति श्रुतेः । (मैत्रायणीसंहिता काण्डं १ प्रपाठकः ९ अनुवाकः ३) तां राजिं दीप्तिरूपां लक्ष्मीं हरन् तेषामैश्वर्यं हरन् अन्तां शिरसि स्थितां निदधाति अयमेवार्थो मार्कण्डेयपुराणेऽवगम्यते- सप्तस्थानान्यतिक्रम्य येषां लक्ष्मी शिरःस्थिता । आयुरारोग्यमैश्वर्यं तेषां सम्यक्प्रहीयते ॥ एवंरूपेण मर्यादास्थापकाय तुभ्यम् ॥ ८॥

स नो भूतो यो वाऽमृतात्मा सुपुष्टिमस्मत्पितरं पवित्रं स नोऽस्तु भूत्यै कमलं पराय स्वाहा ॥ ९.९॥

स परमात्मा नो भूतः न जातः ``अमानोनाः प्रतिषेधे'' इति । (सारस्वत व्याकरणम् पृष्ठांकः ८२) श्वेताश्वतरे- न तस्य कश्चित् पतिरस्ति लोके न चेशिता नैव च तस्य लिङ्गम् । स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिप ॥ इत्यादयः ॥ अमृतात्मा- षड्भावषट्कोशषडूर्मिहीनं शुद्धात् परं निर्मलमप्रमेयम् । ब्रह्माद्यमेकं सदनं समग्रं भजन्ति ये तत्र भवन्ति धन्याः ॥ इति ॥ अस्ति जायते परिणमते वर्धते अपक्षीयते विनश्यतीति षड्भावविकाराः अस्थिशुक्लमज्जाः पितृतः, त्वङ्मांस-रुधिराणीति मातृतः, इति षट्कोशाः । अशनायापिपासे च शोकमोहौ जरामृती । एताः षडूर्मय'' प्रोक्ता देहिनां तु विशेषतः ॥ इति ॥ अस्माकं सुपुष्टिं सुतरां पुष्टिं ऐहिकं अस्मत्पितरं पवित्रं पितृशब्देन पितृवंशजानां मातृवंशजानां सर्वेषामुपलक्षणम् । आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामहाः । वैष्णवो नः कुले जातः स पुनस्तारयिष्यति ॥ स नोऽस्तु भूत्यै स परमात्मा नः भूत्यै भगवत्प्राप्तिरूपैश्वर्याय अस्तु कमलम् ॥ ९॥

स एव नित्यं सकलाः समूर्तयः सुरतास्त्वनन्तास्ते जयन्तो वियति क्षयाणां तत्तत्सवित्रे हरते पराय स्वाहा ॥ ९.१०॥

नित्यं वियति आकाशे यद्वा अनन्ता इत्यनेन आकाशास्ता उच्यन्ते सुरताः रतिसहिताः सकलाः नृत्यगीतवाद्यादिकलासहिताः समूर्तयः मूर्तिमन्तः जयन्तः जयशीलास्सन्तः ये तिष्ठन्ति ते सर्वे स एव । तु शब्दो विशेषद्योतकः । सद्वारकत्वेन यद्वा अन्तर्यामित्वेन- ज्योतींषि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्च । नद्यः समुद्राश्च स एव सर्वं यदस्ति यन्नास्ति च विप्रवर्य ॥ वियति क्षयाणां आकाशे स्थानं प्राप्तानां ``देवगृहा वै नक्षत्राणि'' इति श्रुतेः । (तैत्तिरीयब्राह्मणं काण्डः १ प्रपाठकः ५-६) तत्तत्सवित्रे तत्तत्कर्मफलानुभवस्थानजनकाय हरते- ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान् दिवि देवभोगान् । ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति ॥ इति भगवद्वचनात् । पराय- ब्रह्माण्डे-- ब्रह्मा शम्भुस्तथैवार्कश्चन्द्रमाश्च शतक्रतुः । एवमाद्यास्तथा चान्ये युक्ता वैष्णवतेजसा ॥ जगत्कार्यावसाने तु वियुज्यन्ते च तेजसा । वितेजसश्च ते सर्वे पञ्चत्वमुपयान्ति च ॥ इति ॥ श्रीविष्णुपुराणे- सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् । स सञ्ज्ञां याति भगवानेक एव जनार्दनः ॥ इति ॥ जगत्संहारकत्वेन रुद्ररूपक्षयशब्देन स्थानम् । निरुक्ते- क्रमादिह गृहादीनां नामानि विविदुर्बुधाः । प्रासादमास्पदं सद्म गृहं धाम सनातनम् ॥ विमानं निलयं धिष्ण्यं गेहं च वसतिस्तथा । हर्म्य निकेतनं चैव सौधं वासः श्रयः क्षयम् । आलयो मन्दिरं चैव भवनावासवाचकाः ॥ इति ॥ इति श्रीवेङ्कटेशपादाब्जसपर्यासुरतात्मना श्रीमत्कौशिकगोत्रेण गोविन्दाचार्यसूनुना वेदान्तदेशिकश्रीनिवासयज्वना विरचितपारमात्मिकोपनिषद्वयाख्याने नवमानुवाकार्थविरणं समाप्तं

दशमोऽनुवाकः सव्याख्या

या गौर्वरिष्ठा सह सोर्धरित्री वसुं वसुं वै वसुनीह भद्रा रेरीजयन्तो रजतं रजते स्वाहा ॥ १०.१॥

या गौः वरिष्ठा धरित्री विश्वम्भरा वरिष्ठा या गौः भूत्वा वसुं ब्रीहियवादिकं वसुं द्रव्यादिकं वसुनीह भूलोके तत्तज्जात्यानुसारेण दुग्ध्वा जङ्गमाजङ्गमादिकं च परमात्मना सह सोर्भद्रा शोभनानां कारणभूता बिभर्ति रेरीजयन्तो दीप्तिमन्तो लोकस्थान् रजतं रजोयुक्तं यत्किञ्चिद्वस्तुजातं रजते दीप्तिं कुर्वते तुभ्यम् ॥ १॥

वायोरन्तरात्मा वहति समस्तः सपुण्यदेवेति स सूरिमुक्तः सूरिः सुराणां सुरसोऽप्यसुदः समूह्य देवा वरदाय पित्रे स्वाहा ॥ १०.२॥

अयं मन्त्रः सुदर्शनपरः । वायोरन्तस्य सुदर्शनस्य वायोर्गतिः अन्तरात्मा बुद्धिरूपः चलस्वरूपमत्यन्त-मन्तरितानलम् । चक्रस्वरूपं च मनो धत्ते विष्णुः करे स्थितम् ॥ इति ॥ समस्तः- विष्णोरपररूपत्वात्सर्वं विष्णुवदाचरेत् ॥ इति ॥ सर्वस्वरूपी वहति भगवता मनसि यत्किञ्चिच्चिन्तितं तत्सर्वं प्रापयति स सुदर्शनः सूरिमुक्तः भगवता राक्षस-वधादिकं प्रति मुक्तः तद्वधप्रयुक्तदोषाभावात् । सपुण्यदेवेति सर्वत्रापि प्रसिद्धः । सुराणां सूरिः पूज्यः सुरसः हत्यादिदोषदुष्टस्य लोके त्याज्यताप्रतिपादनात् तद्दोषाभावात्सुरसः । यद्वा रुद्रनिवासभूतत्वाद्वा असुन्दः सुन्द दाहे (?) इति प्रतिसंहारकः । यद्वा प्राणदः अनध्यायेष्वधीयानास्ते चक्रेण हताः प्रणष्टा इति चरण व्यूहैश्छन्दोगानां शिखाग्रहणमात्रेण प्राणदः समूह्य देवा य एवंरूपं सुदर्शनं समूह्य सम्यक् धृत्वा देवाय वरदाय रुद्रस्य वरदायेत्यर्थः । पित्रे ``नारायणाद्रुद्रो जायते'' (नारायणोपनिषदि श्लोक १) इत्यादिश्रुतिभ्यः रुद्रस्य पित्रे रक्षकाय ॥ ननु जगत्संहारकस्य कथं सुदर्शने वास उपपद्यत इति चेत् उच्यते । वेङ्कटगिरिमाहात्म्ये- कथं सूर्यं परित्यज्य प्रभाऽन्यस्य भविष्यति । एवं श्रीकौस्तुभं चक्रं शार्ङ्गं शङ्खं तथैव च ॥ एवमादीनि वस्तूनि नित्यसिद्धानि शङ्कर । नैतेषां च परित्यागे नान्यस्तेषां व्यपाश्रयः ॥ अशक्यमिदमत्यर्थमित्याह प्रमथाधिपम् । स चाह चान्वेतु वक्ष्ये तथैवास्तु यथेप्सितम् ॥ तत्रैव- अन्तरात्मा हि सर्वेषां स्तौति नारायणं प्रभुम् । तदशक्यं महच्चक्रं विष्णोरन्यस्य कस्यचित् ॥ शुद्धसत्त्वस्य तद्विष्णोः सर्वेशस्य मया वपुः । साक्षात्स्पृष्टो महान् भीतस्तमोगुणसमाश्रयः ॥ यस्तत्त्वं च मया विष्णो दिव्यमङ्गलविग्रह । त्वामेव तदहं नित्यं विष्णोर्नित्यानपायिनम् ॥ अनुप्रविश्य त्वद्देहे वसिष्यामि सुदर्शन । ननु यद्वैष्णवं तेजः शाणितं विश्वकर्मणा ॥ जाज्वल्यमानमपतत्तद्भूमौ मुनिसत्तम । तेन चक्रं महाविष्णोः शिबिकामप्यकल्पयत् ॥ दैत्यः पञ्चजनो नाम प्रभुर्जलभरस्तथा । तस्यास्थिप्रभवं शङ्खमादाय पुरुषोत्तमः ॥ इति ॥ अनुशासनिके उमा- बहूनामायुधानां तु पिनाकं धर्तुमिच्छसि । किमर्थं देवदेवेश तन्मे शंसितुमर्हसि ॥ महेश्वरः- शस्त्रग्रहं ते वक्ष्यामि श‍ृणु धर्मं शुचिस्मिते । युगान्तरे महादेवि कण्वनामा महामुनिः ॥ सेहे तीव्रां तपश्चर्या कर्तुमेवोभयोः प्रियम् । महाविष्णोश्च या माऽस्ति तां मायां प्रकृतिं विदुः ॥ लोकयात्रा विना तां तु नैति श्रीः सा स्मृता बुधैः । तस्याः श्रियाः स्त्रियोऽभिन्नाः पूर्षाश्च पुरुषोत्तमात् ॥ तस्मात्तया श्रिया सार्धं पूजयेत्पुरुषोत्तमम् । संसारचक्रयत्नाभ्यां निजं ते स्यात्सुदर्शनम् ॥ हंसाख्यं चेतनारूपं सर्वप्राणिहृदि स्थितम् । तच्छङ्खरूपो देवश्च पाञ्चजन्याख्य उच्यते ॥ पञ्चभूतात्मको ह्यस्य सर्ववेदमयोऽक्षरः । छन्दोमयाभ्यां पक्षाभ्यां युक्तः पक्षिगणेश्वरः ॥ गरुडो वाहनं चापि विष्णोर्देवस्य कीर्तितः । पृथिवीवायुसंयोगश्चापः शार्ङ्गं हरेः स्मृतः ॥ तेजो वायुमयो ह्यस्य नाम्ना संशरणाच्छरः । विद्याविद्याशरैर्युक्ते अक्षये ते महेषुधी ॥ लोकालोकाचलः प्रोक्तो विद्योताख्यं तु खेटकम् । कृतान्तो नन्दकः खड्गं सर्वप्राणिहृदि स्थितम् ॥ या दण्डनीतिः सा ख्याता गदा कौमोदकी हरेः । सर्वार्थेषु जयो ह्यस्य स त्वजागरता स्थिता ॥ सर्वबन्धुषु यद्बद्धं प्रेमपाशं परस्परम् । दृढं भ्रातृसमाख्यं तत्त्वाशुसर्वार्थसम्मतम् ॥ सर्वप्राणिषु या शक्तिः शक्तिर्विद्युन्निभा मता । मर्यादा यदधोलोके भेरी सा तु महारवा ॥ संसारभित्तिर्यो देहो लीलाख्यः स हरेर्द्विजाः । यन्मनः शीघ्रगं तस्य स रथः कामगो मतः ॥ यो वायुर्वाति सोऽश्वस्तु पुण्डरीकपदाह्वयः । इत्येवं ब्रह्मणा चोक्तं तस्माद्देवि श्रिया सह ॥ आत्मानमस्य जगतो निर्लेपमगुणोऽमलम् । बिभर्ति कौस्तुभमणिस्वरूपं भगवान् हरिः ॥ श्रीवत्ससंस्थानधरमनन्तेन समाश्रितम् । प्रधानं बुद्धिरप्यास्ते गदारूपेण माधवे ॥ भूतादिमिन्द्रियादींश्च द्विधा वै परमीश्वरः । बिभर्ति शङ्खरूपेण शार्ङ्गरूपेण च स्थितम् ॥ चलस्वरूपमत्यन्तं जपेनान्तरितानिलम् । चक्रस्वरूपं च मनो धत्ते विष्णुःकरे स्थितम् ॥ पञ्चरत्ने तु या माता वैजयन्ती गदाभृतः । सा भूतहेतुसङ्घातभूता माता च वै द्विज ॥ यानीन्द्रियाण्यशेषेण बुद्धिकर्मात्मकानि वै । शराणि यान्यशेषेण तानि धत्ते जनार्दनः ॥ बिभर्ति यच्चासिरत्नमच्युतोऽत्यन्तनिर्मलम् । विद्यामयं नु तज्ज्ञानमविद्याचर्मसंस्थितम् ॥ भूतानि च हृषीकेशो धत्ते सर्वेन्द्रियाणि च । विद्याविद्ये च मैत्रेय सर्वमेतत्समाश्रितम् ॥ अस्त्रभूषणसंस्थानस्वरूपं रूपवर्जितम् । बिभर्ति मायारूपोऽसौ श्रेयसे भगवान् हरिः ॥ सविकारं प्रधानं च पुमान् स्वचाखिलं जगत् । बिभर्ति पुण्डरीकाक्षस्तदेवं परमेश्वरः ॥ इति ॥ एवं स्वतः सिद्धानामकृतकानां शङ्खादीनामन्येन धर्तुमशक्यत्वात् योगेन पाञ्चजन्यत्वादिशब्दवाच्यत्वाभावात् रूढ्या पाञ्चजन्यत्वादिकमुपपन्नं ब्रह्मणा कल्पितं शार्ङ्गमिति नाम । एवमन्येषामप्राकृतानां पाञ्चजन्यादिकं परमात्मन एव । अवतारादिष्वन्यत् अप्राकृतं वाचकवृत्तिप्रभृतिर्वा । कल्पितानि शङ्खादीनि ॥ २॥

यस्योपरिष्टादधितिष्ठदात्मा सर्वोपरिष्टात् परमात्मा मुक्तं तं विरजं नित्यमनु सम्पराय स्वाहा ॥ १०.३॥

यस्य बद्धस्य उपरिष्टात् बद्धापेक्षया मुक्तपरम-सर्वोपरिष्टादधितिष्ठदात्मा बद्धमुक्तनित्यापेक्षया परमात्मा तं विरजं बद्धापेक्षया मुक्तं विरजं अपहतपाष्मत्वादिगुण- विशिष्टं मुक्तापेक्षया नित्यं अनु साकल्येन सम्पराय उत्कृष्टाय यद्वा प्रकृत्यपेक्षया बद्धायेत्यादि ॥ ३॥

तमस्सर्वभूतमधुनाध्वरेण तं सत्त्वरूपमनुप्रविस्य सङ्क्लेशयन् सृष्टिनिमित्ताय तस्मै परब्रह्मणे परज्यौतिषे स्वाहा ॥ १०.४॥

``नासदासीन्नो सदासीत्तदानीम् । नासीद्रजो नो व्योमापरो यत् । किमावरीवः कुह कस्य शर्मन् । अम्भः किमासी-द्गहनं गभीरम् । न मृत्युरमृतं तर्हि न । रात्रिया अह्न आसीत् प्रकेतः । आनीदवातꣳ स्वधया तदेकम् । तस्माद्धान्यं न परः किञ्च नास । तम आसीत् तमसा गूढमग्रे प्रकेतम्'' इति । (नासदीयसूक्तं १.३) जाबालोपनिषदि- ``ओं तदाहुः । किं तदासीत् । तस्मै स होवाच । न सन्नासन्न सदसदिति तस्मात्तमः स जायते तमसो भूतादिराकाशमाकाशाद्वायुः वायोरग्निः अग्नेरापः अद्भ्यः पृथिवी तदण्डं समभवत् तद्वत्संवत्सर- मात्रमुषित्वा द्विधाऽकरोत् । अधस्तात् भूमिरुपरिष्टादाकाशं मध्ये पुरुषो दिव्यः । सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्र-पात् सहस्रबाहुरिति सर्वं तमोभूतं सृष्टेः प्रागा मनोस्तु सत्त्वरूपं सहस्रशीर्षेत्यादिदिरूपं प्रजासृष्टिनिमित्ताय सृष्ट्यर्थम् । श्रीविष्णुपुराणे प्रकृतिं पुरुषं चैव प्रविश्य स्वेच्छया हरिः । क्षोभयामास सम्प्राप्ते सर्गकाले व्ययः स्वयम् ॥ प्रकृतिं पुरुषं चैव विध्यनादी उभावपि । मम योनिर्महद्ब्रह्म तस्मिन् गर्भ दधाम्यहम् । सम्भवः सर्वभूतानां ततो भवति भारत ॥ एवमुक्तप्रकारेण अनुप्रविश्य प्रकृतिपुरुषौ शं(सं)क्लेशयन् सृष्टिमकरोत् । कथमिति चेत् सहस्रबाहुरिति सोऽग्रे भूतानां मृत्युमसृजत् । त्र्यक्षं त्रिपादं खण्डपरशुमजीजनत् । तस्य ब्रह्माभिपेदे स ब्रह्माणमेव विवेश । स मानसात् सप्त पुत्रानसृजत् । ते ह विराजं सप्तमानसानसृजन् प्रजापतयः ``ब्राह्मणोऽस्य मुखमासीत् । बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः । पद्भ्याꣳ शूद्रो अजायत । चन्द्रमा मनसो जातः । चक्षोः सूयो अजायत'', ``श्रोत्राद्वायुश्च प्राणश्च हृदयात् इदं जायते अपानान्निषादा यक्षराक्षस-गन्धर्वा अप्सरोभ्य पर्वतो लोमभ्यः ओषधिवनस्पतयो ललाटात् क्रोधजो रुद्रो जायते । तस्यैतस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदस्सामवेदोऽथर्वणवेदः शिक्षा कल्पो व्याकरणं छन्दो निरुक्तं ज्योतिषं न्यायो मीमांसा धर्मशास्त्राणि व्याख्यानान्युपव्याख्यानानि सर्वाणि च भूतानि हिरण्यज्योतिर्यस्मिन्नयमात्मा धीयन्ते भुवनानि विश्वा आत्मानं द्विधाऽकरोत । अर्धेन स्त्री अर्धेन पुरुषो देवो भूत्वा देवानसृजत् ऋषिर्भूत्वा ऋषीन् यक्षराक्षस-गन्धर्वान् ग्राम्यानारण्यांश्च पशूनसृजत् । इतरा गा इतरोऽनडुह इतरा बडबा इतरोऽश्वतरान् इतरा गर्दभीः इतरो गर्दभान् इतरा विश्वम्भरीरितरो विश्वम्भरान्'' इति एवं सृष्टवान् । अयं परमात्मा क इत्याकाङ्क्षायां तस्मै परब्रह्मणे परञ्ज्योतिष इति पुरुषनारायणपरब्रह्मपरतत्त्व-परञ्ज्योतिःपरमात्मादिशब्दवाच्यो नारायण एवेति ज्ञापयितुम्परब्रह्मणेपरञ्ज्योतिष इत्युक्तम् । परब्रह्म-ग्रहणात् सर्वमपि गृहीतं भवति । किञ्च- तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् । पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेशमीडयम् ॥ न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥ इत्यादि । (श्वेताश्वतरोपनिषद्षष्ठोऽध्यायः श्लोकानि ७-८) किञ्च- यतो वा इमानि भूतानि जायन्ते'' इत्यादि । (तैत्तिरीयोपनिषत् ३.१.३) जगत्कारणं ब्रह्मेत्युक्तं जगत्कारणत्वात् विष्ण्वादिमूर्तीनां मूलभूतानां षट्कोशषडूर्भिलेशाभावात् । न भूतसङ्घसंस्थानं देवस्य परमात्मनः । न तस्य प्राकृता मूर्तिर्मासमेदोऽस्थिसम्मिता । सर्वभूतमयं देहं त्रैलोक्ये सर्वजन्तुषु ॥ इत्यप्राकृतत्वात् ``ऋतꣳ सत्यं परं ब्रह्म'' (नृसिंहपूर्वतापिन्युपनिषद् प्रथमोपनिषद् श्लोकः १२) इत्यादिपरब्रह्मस्वरूपप्रतिपादनात् पादादर्धात् त्रिपादात् देवेषु क्रमेणादिमूर्तिश्च मूर्त्या क्रमेण विष्णुं महाविष्णुं सदाविष्णुं व्यापिनारायण इति चतुर्मूर्तयो भवन्तीति मरीच्यादिभिः प्रतिपादितत्वात् ``तमीश्वराणां परमं महेश्वरम्'' इत्युक्तत्वाच्च । ``ऋतमग्निर्वा ऋतमसावादित्यम्'', ``अग्निस्सर्वा देवताः'', ``असावादित्यो ब्रह्म'' इति समस्तक्त्याणगुणाभिप्रायेण ऋतं सत्यमित्युक्तं ``पूर्णत्वात् पुरुषः'' इति पादनारायणादिषु पूर्णत्वाभावात्पूर्णत्वाद्व्यापिनारायणस्य । परशब्देन च व्यापी नारायण इतीरितः । नारशब्देन जीवानां समूहः प्रोच्यते बुधैः ॥ तेषामयनभूतत्वान्नारायण इहोच्यते । नरसम्बन्धिनो नारा नरश्च पुरुषोत्तमः ॥ नाययत्यखिलविज्ञानं नाशयत्यखिलं तमः । नरिष्यति च सर्वत्र नरस्तस्मात्सनातनः ॥ नरसम्बन्धिनः सर्वे चेतनाचेतनात्मकाः । नृगन्तव्यतया नारा भार्या पोष्यतया नराः ॥ तथा--- नियाम्यत्वेन सृज्यत्वप्रवेशभरणैस्तथा । अयं ते निहितो नारात् व्याप्नोति क्रिययाऽखिलम् ॥ नाराश्चाप्ययनं तस्य तस्मै भावनिरूपणात् । नराणामयनं वासश्चेतनस्यायनं सदा । परमा च गतिस्तेषां नराणामात्मना स्थितिः ॥ व्यापिनारायणपरत्वाभिप्रायेण तस्मै परब्रह्मणे इत्युक्तम् ॥ ४॥

जेनातिर्जेनातिषां जेनातिरोजो वलमाहरत्सत्त्वात्मकं सञ्जेनातिरिप्थं तस्मै सूक्ष्मसूक्ष्माय तेजसे स्वाहा ॥ १०.५॥

परब्रह्मभूतनारायणस्य माहात्म्यं प्रतिपादयति ऊत्सत-दीपवत् सूर्यचन्द्राग्न्यादीनां जेनातिः दीप्तिः ओजः परबला-हरणसामर्थ्यमोजः जगत्सृष्ट्यादिकं कुर्वतस्तस्य श्रीमहा-विष्णोः बलं सत्त्वं सत्त्वात्मकं तदन्तर्यामिणा सञ्जेनातिः सम्यक् ज्योतिः इत्थं उक्तप्रकारेण तस्मै ॥ ५॥

सत्त्वं सत्त्वात्मकं वा रजो रजस आत्मकस्तमस्तमस आधारः साकृतं निरीश्वरमीश्वराय स्वाहा ॥ १०.६॥

अयमपि मन्त्रः पूर्वोक्तपरमात्मपरः सत्त्वं सात्त्विकं सत्त्वात्मकं तदन्तर्यामिणं रजो रजस आत्मकः तदन्तर्यामिणं तमः तमस आधारः साकृतं आकृतसहितं निरीश्वरम्, न तस्य कश्चित् पतिरस्ति लोके न चेशिता नैव च तस्य लिङ्गम् । स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः ॥ इति ॥ ईश्वराय सर्वेश्वरायेत्यर्थः । विग्रहो हविरादानं युगपत्कर्मसन्निधिः । प्रीतिः फलप्रदत्वं च देवतानां न विद्यते ॥ इति ॥ विग्रहादिपञ्चकाभावात् चतुर्थ्यन्तः शब्दो देवता शब्दातिरिक्तदेवताभावात् मन्त्रार्थवादानां तत्र तात्पर्या-भावाच्च ईश्वरायेति कथमुच्यत इति चेत्- उच्यते; ``यद्वै किञ्च मनुरवदत् तद्भेषजम्'' इति श्रुतेः, (छान्दोग्यब्राह्मणे) मन्वर्थविपरीता तु या स्मृतिः सा न शस्यते ॥ इति संवर्तस्मरणाच्च । (बृहस्पतिः) प्रमाणत्वेनाभिहितायां मनुस्मृतौ- प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता ॥ इति प्रत्यक्षादीनां त्रयाणां प्रामाण्यप्रतिपादनात ``महाꣳ इन्द्रो वज्रबाहुः'', ``वज्रहस्तः पुरन्दरः'', ``उत्तिष्ठन्नोजसा सह पीत्वा शिप्रे अवेपयः'' इत्यादिदेवतासद्भावप्रतिपादनात् गारुडादिषु मन्त्रेषु मन्त्रवर्णानां स्वार्थे तात्पर्यदर्शनात् विषहरणादिषु दृष्टत्वाच्च ईश्वरसद्भावोऽस्तीत्यवगन्तव्यः । स्मृतीनामपि वेदमूलत्वे त्रेधा निर्वाहः कार्य इति । नित्यानुमेयश्रुतिमूलत्वं प्राभाकराः । उत्सन्नशाखामूलत्व-मापस्तम्बाद्याः । विप्रकीर्णशाखामूलत्वमितरे । नित्यानुमेयश्रुतिमूलत्वे अक्षरानुपूर्व्यविशेषविशिष्टस्य नित्यानुमैयश्रुतिमूलत्वम् । नाक्षरानुपूर्व्यमूलत्वं यद्युच्यते तर्हि घटपटादीनामपि नित्यानुमेयश्रुतिमूलत्वं स्यात् ॥ आनुपूर्व्यविशेषविशिष्टस्येति चेदुच्चार्यमाणानुपूर्व्यविशेषण-विशिष्टत्वमिति सिद्धान्तेऽनुमेयत्वं भज्येतेति । उत्सन्नशाखा मूलमिति चेत् तेऽपि भिन्नभिन्नपाठाः प्रयोगादनुमीयन्त इति विक्षेपोत्सन्ना वा एकैवेति चेन्न सर्ववेदसाक्षात्कारवतो व्यासस्य एकस्यापि शिप्यस्याध्यापन-सामार्थ्याभावेन तथा वक्तुमयुक्तम् । भवेदेवेति चेत् सः पदक्रमादिरूपेणाधीयमानत्वात् तथा वक्तुमयुक्तम् । किन्तु प्रकीर्णशाखामूलत्वं वक्तुं युक्तम् ॥ तदुक्तम्- दुर्बोधा वैदिकाश्शब्दाः प्रकीर्णत्वाच्च ते खिलाः । तथैत एव स्पष्टार्थाः स्मृतितन्त्रे प्रतिष्ठिताः ॥ इति ॥ प्रसङ्गादेतत्सर्वमुपपादितम् ॥ ६॥

अनिर्भिण्णं यस्येदमासीदुदकात्मकं यस्योदावोऽयनुथमुच्चरुच्चैरुगाय स्वाहा ॥ १०.७॥

यस्य परमात्मनः यदा प्रलयः तदा लोके अनिर्भिण्णं भेदरहितं निरन्तरमुदकात्मकमासीत् । यस्य परमात्मनो दग्धुमिच्छा यदा यदा उदावः उत्कृष्टो दावः प्रलयाग्निः अयनुथं तथा असमृद्धिः उच्चं अत्यन्तं उच्चैरुरुगाय श्रुतिस्मृतिषु सर्वत्र अत्यन्तं गायति इति उरुगः तस्मै ॥ ७॥

यस्येच्छा लोके वा प्रजायतिर्लोके यस्मै वासि तस्मै वासीत् यद्वास्सञ्जातं (?) यत्सर्वमीशमाशिषे स्वाहा ॥ १०.८॥

यस्य परमात्मनः इच्छा लोके प्रजानामायतिः सृष्ट्यादिकं ``सोऽकामयत बहु स्यां प्रजायेयेति'' इत्यादिश्रुतेः । (तैत्तिरीयोपनिषदि २.६.४) मनसैव जगत्सृष्टिंसंहारौ करोति यः तस्यां पक्षक्षपणे कियान् विस्तर इति लोके .... (मातृकायामेतावदेवोपलब्धम्) इति पारमात्मिकोपनिषत् सव्याख्या समाप्ता । Proofread by Mohan Chettoor
% Text title            : Paramatmika UpaniShat with commentary
% File name             : pAramAtmikopaniShat.itx
% itxtitle              : pAramAtmikopaniShat savyAkhyA (aprakAshitA vaiShNava)
% engtitle              : pAramAtmikopaniShat
% Category              : upanishhat
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Texttype              : svara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Description-comments  : aprakAshitA upaniShadaH
% Indexextra            : (Scans 1, 2)
% Latest update         : August 5, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org