सामरहस्योपनिषत्

सामरहस्योपनिषत्

एकदा ब्रह्मणः पुत्राः सनकादयस्तत्त्वविवित्सया पितामहं पप्रच्छुः प्रणिपातपुरस्सरम् । अहो पितः निरन्तरं वैकुण्ठे या लीलास्ता ध्यायमाना निरन्तरं चिदानन्देन सह सम्प्रेक्षामहे । वद यदि रुचिरापद्यते । चिदानन्दरसं ब्रह्म किं वदन्ति? व्यापकतया जगद्व्याप्य तिष्ठति यत्तद्ब्रह्म वदन्तितराम् । आपद्यमानोऽस्ति प्रकृतिं पुरुषः । कस्मात्प्रकृतियोगिता भवति? जीवाः कीदृग्विधाः? कस्मात्समुत्पन्ना भवन्ति? तेषां लोका अलोकाः कियत्प्रमाणाः? यान् वदन्ति पुराविदः । पितामह उवाच । नारायणमुखाच्छ्रुतोऽयं धर्मः । श‍ृणुत सर्वा यैषा सृष्टिस्समुत्पद्यते । क्षराक्षराभ्यामधिकः पुरुषोत्तमसंज्ञितो भक्तिगम्य आनन्दमयो लोकः संविराजते । तस्य पुरुषोत्तमस्य उत्तरकटाक्षात्समुत्पन्ना जीवाः । तेषां स्नेहमार्गोऽयमापद्यते । दक्षिणकटाक्षादुप्पन्नाः कर्मजडा आसुरा अल्पोपासका भवन्ति । तस्मिन् रसिकानन्दस्वरूपात्पार्श्वात् द्वे एव मूर्ती प्रकटिते । प्रथमा भक्तिसुन्दरी प्रकटिता । पश्चान्मायादासी प्रकटिता । तयोः प्रथमा अत्यन्तवल्लभा आस्त । भक्तेस्सकाशादुत्पन्ना जीवाः स्नेहमार्गीया भवन्ति । मायायाः समुत्पन्ना आसुरा कर्मजडा अन्यधर्मरता एव भवन्ति । यदा कर्ममार्गे रतिरसतां ते आसुरा भवन्ति । सा भक्तिस्त्रिविधैव भवति । एका कर्ममिश्रिता देवानामृषीणामुपासकानां भवतितराम् । श्रवणकीर्तनस्मरणवन्दनसेवनोपकरणदास्यभावेनात्मसमर्पणम् । ते जीवा भक्तिमार्गीयाः एवैते । स एवायं पुरुषः स्वरमणार्थं स्वस्वरूपं प्रकटितवान् । तद्रूपं रससंवलितमानन्दरसोऽयं पुराविदो वदन्ति । सर्वे आनन्दरसा यस्मात् प्रकटिता भवन्ति । आनन्दरूपेषु पुरुषोऽयं रमते । स एवायं पुरुषः स्वयमेव समाराधनतत्परोऽभूत् । तस्मात् स्वयमेव समाराधनमकरोत् । अतो लोके वेदे श्रीराधा गीयते । तत्स्यरूपासृष्टिर्या समुत्पन्ना सा रसिकानन्देन सुसेव्यतां प्राप्ता आसीत् । प्रमाणप्रमेयादस्मान्मार्गादतिरिक्तोऽयं मार्गो रसात्मकः । य एतन्मार्गे आसक्तास्ते रसरूपिणीं सृष्टिमन्तरुत्पद्यमानाः भवन्ति । लक्ष्मीनारायणीयोऽयं संवादः । निरन्तरं नारायणो वैकुण्ठे रमया रहस्यलीलां सङ्गायमानोऽभवत् । रमारमणो वैकुण्ठे नारायणः स्वयं ध्यानापन्नोऽभवत् । तदा लक्ष्मीः रहस्युपासमाना तस्य तामवस्थां निरीक्ष्य प्रश्रयावनता पप्रच्छ । किं ध्यायसि? किं जपसि? परं कौतूहलं मे मनसि वर्तते । त्वत्तः परं को देवः? को लोकः? यस्य त्वं ध्यायसे प्रतिक्षणम् । तव मनः कां लीलामापन्नं दृश्यते? स होवाच लक्ष्मीं प्रति । महालीलास्थानं क्षराक्षराभ्यामधिकं पुरुषोत्तमाधिष्ठानम् । यत्र सप्तावरणानि तेजोमयानि । यत्र ब्रह्माण्डान्युत्पद्यन्ते लीयन्ते । कोटिश अण्डकटाहाः उत्पद्यन्ते लीयन्ते । यस्य प्रतापकल्पा उत्पन्ना ब्रह्मविप्णुरुद्रादयो देवाश्च दिकपालाः कोटिश उत्पद्यमाना लीयमानाश्च भवन्ति । सा लक्ष्मीः पुनरुवाचेदम् । अहो क्षराक्षराभ्यामधिकस्य रसिकानन्दस्य स्थानं विस्तरशो ब्रूहि । स होवाच । आदो पुरुषोत्तमस्य रसिकानन्दस्य अनादिसंसिद्धा लीलाः भवन्ति । अनादिरय पुरुष एक एवास्ति । तदेव रूपं द्विधा विधाय समाराधनतत्परोऽभूत् । तस्मात् तां राधां रसिकानन्दां वेदविदो वदन्ति । तस्मादानन्दमयोऽयं लोकः । यत्रायं पुरुषो रमत तत्रायं रसो व्रजति । तस्माल्लोके वेदे व्रजलीला गीयते । तन्मध्ये वनानि द्वादश सन्ति । तेषां पृथक् नामानि सन्ति । तालवनं बृहद्वनं कुमुदवनं लोहवनं बकुलवनं भाण्डीरवनं महावनं गोष्ठं काम्यवनमरिष्टं च सदाशुभं दधिवनं वृन्दावनमिति । सदा आनन्दमयोऽयं लोको वेदविदो यं वदन्ति । यत्र वृन्दावनं सर्वकामसुखावहं भवति । यत्र वृक्षा आधिदैविका देवा एव भवन्ति । यत्र साधनवट-भाण्डीरवटौ । यत्र वंशीवटसङ्केतवटौ । अन्ये वृक्षाः कदम्बाद्या यत्र राजन्ते । यत्रोभयतटबद्धा यमुना रत्नखचिता आस्ते । यस्यां कुमुदवनानि राजन्ते । यस्यां हंससारसयूथानि क्रीडापराणि शोभाढ्यानि भवन्ति । यस्यास्तटे कोटिशः कुञ्जाश्च निकुञ्जाश्च राजन्ते । तस्मिन् मण्डले गोवर्धनोऽयं गिरिः । रत्नमयोऽयं गिरिः राजमानो भवति । अयं गिरिः श्रीराधिकायाः रमणस्थानम् । स एवाय गिरिर्वृन्दावने सदा रसिकानन्दस्य क्रीडास्थानं भवति । तस्मिन् वने पशुपक्षिगणा आधिदैविकीं सृष्टिं प्राप्ताः सदा सानुभवा भवन्ति । आधिदैविकी या सृष्टिः सा सृष्टिस्तस्मिन् लोके लोकतां प्राप्नोति । सा सृष्टिर्द्विभेदा भवति । एका संसिद्धा अन्या साधनसिद्धा भवति । या संसिद्धा सा तस्या निकुञ्जदेव्याः स्वस्वरूपात् समुत्पाद्या भवति । या साधनसिद्धा सा भजनमार्गे प्रपन्ना । भक्तास्तां लीलां तद्भावेन प्राप्नुवन्ति । रसलीलायामुपकरणानि रसलीलायामधिकरणे सख्यश्चातुर्यगुणयुताः ससखीसमूहा यौवनसम्पत्तिपूर्णा अनेककलाकोविदाः रसभावेन पूर्णा भवन्ति । यत्र चन्दनवृक्षाणां श्रेणयो राजमाना भवन्ति । मणिविद्रुमलताग्रथिताः सुवर्णसुगन्धसंवलिता वृक्षास्तेषां पुष्पाणि संराजमानानि भवन्ति । तत्र सखीयूथानि भोज्यं हस्तं गृहीत्वा तिष्ठन्ति । तासु श्रेणिषु लतान्तरैर्ग्रथितानि द्वाराणि मणिलतायुतानि भवन्ति । मणिमण्डलं यत्र तेजोमयं मणिमण्डपेन सह भ्राजमानं भवति । लताग्रथिता मणिस्तम्भाः शतशो राजमाना भवन्ति । तस्मिन् मण्टपे परितः सुवर्णभित्तिपु जटिताः मणयस्तेजोमयाः संराजमाना भवन्ति । तत्राधित्यकासु चन्द्रकान्तमणिना द्योतिता जलमागयो जलधाराश्च भवन्ति । तेन जलेन पूरिता सुगन्धमणिपुष्करिण्यो राजमाना भवन्ति । तत्र कमलानि प्रफुल्लानि श्वेतरक्त-पीतानि मनोहरशोभां ददति । तत्रोपस्थितपरागस्तद्वनं वासयति । तत्र हंसयुग्मानि कोटिशो देववाण्या निकुञ्जदेव्या यशो गायन्ति । यत्र भ्रमराः सानुभवा देववाण्या निकुञ्जदेव्या यशो गायन्ति । तत्र पुष्करिणीं परितो दश दश मन्दिराणि चतुष्कोणेषु सन्ति । रन्नमयकुड्येषु कृत्रिमाः पक्षिण सानुभवा इव दृश्यन्ते । तत्र मध्ये मध्ये वृक्षा निकुञ्जतां प्राप्नुवन्ति । सुकोमलैः पत्रैस्तेजोमयै राजन्ते । तेषां सुगन्धेन उन्मदा भ्रमरास्तस्याः श्रीराधिकाया यशो गायन्ति । तत्र केचित् वृक्षः पुष्पैः शाखाप्रतिशाखाः नम्रा भवन्ति । तेषु वृक्षेषु हरितपीतशुभ्रश्वेता द्योतिताः पुष्पगुच्छा भवन्ति । तेषामधश‍ृङ्गारवत्यादयः सख्यः पुष्पाणां शय्या रचयन्ति । तत्र लतान्तरैः आच्छादिता वृक्षा निकुञ्जतां प्राप्नुवन्ति । तत्र मणिजटितानि रमणस्थानानि कोटिशो राजन्ते । यत्र ललिता विशाखा सुभगा कलावती मनोरमा चन्द्रकलामोहिनी गतिरतिविलासिनी मोहिनी शास्त्रगीतज्ञा गुणज्ञा भोगज्ञा भोगप्रदा कामप्रदा कामदा केलिदा सुरतकलाकोविदा सम्भोगसुखदा गतत्रपा निःशङ्करतिदा सुतरां सुरतान्तनिद्रिता अन्याः कोटिशः सख्यः संविराजमाना भवन्ति । दश मन्दिराणि भक्ष्यभोज्यैः सम्पूरितानि भवन्ति । यत्र घृतपक्वानि पक्वान्नान्यनेकशो विविधरसयुक्तानि सन्ति । तेषु मन्दिरेषु कटुतिक्तकषायमाधुर्यरसा भोगवत्या सख्या कृताः सम्पूर्णाः प्रतिक्षणं नूतनाः भवन्ति । अन्ने सिद्धान्नभोगापूपपायसपक्वान्नभागाः शाकविविध-षडससंवलिता अन्नपूर्णया सख्या सम्पादितास्तया निकुञ्जदेव्या सेव्यमाना भवन्ति । वस्त्रवत्या सख्या सम्पादितान्यनेकशो वस्त्राणि समयो-चितानि मनोरमाणि सन्ति । भूषणभूप्या सख्या रचितानि भूषणानि तस्या निकुञ्जदेव्याः प्रीणनाय तेषु मन्दिरेषु शय्याभोजनश्पृङ्गाराः कोटिशः सन्ति । तत्रान्ये श‍ृङ्गारादिभोगा भोगवत्या कृतास्तेषु मन्दिरेषु तस्याः सुखार्थं भवन्ति । तत्र चतुःश्रेणीनि दशदशमन्दिराणि सन्ति । तेषु मन्दिरेषु शय्याभोजनश‍ृङ्गारा अनेकधा रचिता भवन्ति । तेषु मन्दिरेषु सखीनां समूहाः पृथक् पृथक् कार्येषु संलग्ना भवन्ति । तेषां मध्ये रासमण्डलं तेजोमयमानन्दमयं तस्याः श्रीराधिकायाः सुखार्थं वृन्दानाम्ना सख्या तया सम्पादितं भवति । तेषु मन्दिरेषु सखीनां एका योगमाया सखी सर्वासां सखीनां सर्वत्र एकभावं करोति । तस्मिन् स्थाने सुनादाः सख्यः सुनादेन सप्तस्वराणि श्रावयन्ति । तत्र ब्रह्माण्डे याः सिद्धयोऽणिमा-दयस्तत्र सखीरूपं विधाय तां श्रीराधिकां सेवमाना भवन्ति । सुमेरुहेमा-द्रिमल्माद्याः पर्वता अन्ये ये निधयो देवानां सन्ति ते निधयस्तस्या निकुञ्जदेव्याः प्रीणनाय सखीनां रूपाणि विधाय तन्मण्डलं सेवन्ते । तस्मिन्मण्डले श्रीरपि सखीरूपं विधाय आकारं गोपयन्ती सेवमाना भवति । नित्यलीलायां षडृतवोऽपि सखीनां रूपाणि विधाय सेवमाना भवन्ति । काले काले तासु निकुञ्जश्रेणिषु सञ्चारिणीनां नानाभोगान् ददति । मेधा नाना-सखीनां रूपाणि कृत्वा जलसेचनं कुर्वन्ति । कामदेवोऽपि सखीरूपं विधाय तत्स्थानं सेवमानो भवति । अहोरात्रमपि स्वस्वरूपेण अहनि निशि च सेवते तन्माण्डलम् । तदिच्छया क्वचिद्दिवा क्वचिन्निशा क्वचित्प्रातः क्वचित्सायं क्वचिन्मध्याह्नः क्वचिन्निशीथं नानाभावेन कालेकाले तन्मण्डलं सेवते । नानामणय ओषधयो वनस्पतयो वृक्षा ये पृथिव्यां सन्ति ते आधिदैविकीं सृष्टिं प्राप्ताः सेवमाना भवाति । सिन्धवः स्वरूपेण निधीन् गृहीत्वा तन्मण्डलं सेवमाना भवन्ति । सुमेरुहेमाद्रिमलयाद्याः पर्वताः तत्स्थानं सेवमाना भवन्ति । सखीरूपेणात्यन्तमणिज्योत्स्नाभिर्यत्र तत्र अन्ये च ब्रह्माण्डवर्तिनस्तत्स्थानं दीपयन्तो भवन्ति । पृथिव्यां यत्किञ्चिद्वस्तुमात्रं तस्याधिदैविकं रूपं तत्रैवास्ति । तस्मात्सर्वं समुत्पन्नं भवति । ब्रह्माण्डे ये देवास्ते आधिदैविकेन रूपण तत्स्थानं सेवमाना भवन्ति । तस्मात्ते सर्वे समुत्पन्ना ब्रह्माण्डे भवन्ति । वेदाः स्वऋचाभिस्तस्मिंस्थाने तस्या निकुञ्ज-देव्या यशो गायन्ति । कामदुघाः स्वयूथेनाधिदैविकं रूपं विधाय संसेवन्ते । दधिदुग्धतक्रनवनीतघृताद्यान् रसान् गृहीत्वा सेवमाना भवन्ति । तत्र रासमण्डलमेतैर्गुणैरन्यैर्विविधैः सम्पूरितं रसिकानन्देन सह श्रीराधिकां सेवमानं भवति । यस्य रासमण्डलस्य परितः स्थानानि द्वादश संशोभमानानि भवन्ति । एकं मज्जनस्थानम् । यत्रोष्णोदकपुष्करिण्यो जलैः सम्पूर्णा भवन्ति तत्र मज्जनवत्यादयः सख्यो मज्जनार्थं सेवमाना भवन्ति । तत्रान्या पुष्करिण्यः शीतोदकपूर्णा भवन्ति । तत्र निकुञ्जानां श्रेणयो रत्नालवालैश्चन्द्रोद्भवैर्जलैः सेव्यमाना भवन्ति । तत्रान्याः पुष्करिण्यः शीतोदकपूर्णा भवन्ति । चन्द्रकान्तमणेरुत्पन्नैर्जलैः सेव्यमाना मुक्तालता मुक्तागुच्छैः सम्पूरिता भवन्ति । मणिलतासु ज्योत्स्नायां प्रतिबिम्बिताः पक्षिणः परस्परं दृष्टिबन्धेन नृत्यं कुर्वन्ति । द्वितीयं श‍ृङ्गारस्थानम् । यत्र श‍ृङ्गारवत्यासख्या अधिश्रितम् । तस्मिन् स्थाने अधिश्रिता रङ्गवत्यादयः सख्यो मोदन्ते । तृतीयं मानस्थानम् । यत्र मानवत्यादय सख्यो मानं रचयन्ति । यस्मिन् मन्दारवृक्षाः सुवर्णलताः सुगन्धा ग्रथिता भवन्ति । तेषु वृक्षेषु पुष्पाणि सुगन्धसंवलितानि भवन्ति । लतान्तरैराच्छादितं स्थानं सुगन्धसंवलितं मनोरमं तेजसा दीप्यमानं भवति । हरितपीतच्छायाभिः संयुतं तेजसा दीप्यमानं भवति । मन्दारनिकुञ्जाः श्रीराधिकाया अधिष्ठानम् । यमुनायास्तीरे धीरसमीरे एकवटश्चकास्ति । तस्य वटस्य परितो निकुञ्जानां श्रेणयो राजमाना भवन्ति । द्वादश निकुञ्जाः सन्ति । सखीनां सञ्चाराः सूक्ष्मतरा लतान्तरैर्ग्रथिता भवन्ति । तत्र ललि-तादयः सख्यो रसिकानन्देन सह वचनप्रतिवचनोत्तरं ददति । कुञ्जान्तर-श्रेणिषु सखीनां मध्यसञ्चारोऽस्ति । रसिकानन्दः पुरुषोत्तमः स्वयमेव प्रणिपातं करोति । स्वामिनी मनोरमा निकुञ्जे स्वयमेवातिमानातुरतया मनोभावापन्ना भवति । स्वभावसंसिद्धाः सख्यो भावापन्ना भवन्ति । अतिरसलम्पटो रसिकानन्दः सर्वासां सखीनां प्रणिपातं करोति । अत्यन्तमग्नाः सख्यस्तत्सुखं निरीक्ष्य सुरतानन्दे मग्ना भवन्ति । चतुर्थं भोगस्थानम् । यत्र सुभोज्या सख्या सेवितम् । यत्र खाद्यपेयलेह्यचोप्यरसा अनेकस्वादुयुतां भवन्ति । अन्नपूर्णया सख्या पाचितानन्नरसानत्युष्णान् सद्यःपाचिता-निव श्रीराधिकया सह रसिकानन्तः सेवते । अगुरुरसांस्तैलरसान् पुष्परसान् नानासुगन्धरसान् श्रीराधिकया सह रसिकानन्दः संसेवमानो भवति । अन्ये ताम्बूलादयो लवङ्गकर्पूरादय एलाजातीफलपूगफलनालिके-रपनससहकारभद्राक्षेक्षुरसैः शर्करादयः पिष्टरसपूर्णतया निकुञ्जदेव्या सं-सेव्यन्ते । ललिता रङ्गवती भोगवती प्रेमोत्कण्ठा सुरतानन्दा सुरतरसकोविदा चैति सख्यः श्रीराधिकया दत्तं प्रसादं भुञ्जते । तत्रैकं रसिकानन्द-श‍ृङ्गारस्थानम् । यत्र पारिजातकवृक्षाः सदा पुष्पैः प्रफुल्लिता नम्रा भवन्ति । तत्र सुगन्धसुवर्णलताभिः संवलितं भवति । सुगन्धमुक्तालताभिः पारि-जातकवृक्षा ग्रथितनिकुञ्जतां प्राप्नुवन्ति । तत्र एको भ्रमरो देववाण्या चातुर्येण मानस्थाने राधिकां प्रति दूतत्वं करोति । स भ्रमरो रसिकानन्दं प्रति प्रियो भवति । स भ्रमरः स्वचातुर्येण श्रीराधिकाया मानापकरणं करोति । स भ्रमरोऽत्यन्तमनोहरचातुर्यासीमगुणज्ञः स्वभावसंसिद्ध साधनसिद्धो भवति । स भ्रमरो रसिकानन्दस्य दूतो भवति । निरन्तरं श्रीराधिकायाः मानलीलायां सहकारी भवति । तस्माद्रसिकानन्दस्यातितरां वल्लभो भवति । तेऽत्र भ्रमरा मनोहरशब्देन सङ्गीतरसं गमयन्ति । तत्रैकः शुकः साधनसिद्धः श्रीराधिकाया मानस्थाने मन्दारनिकुञ्जे निवसति । तेन शुकेन भ्रमरचातुर्यं निरीक्ष्य तस्या निकुञ्जदेव्याः कृपां निरीक्ष्य अत्याश्चर्यं प्रपेदे । स भ्रमरस्तेन शुकेन पृष्टः अहो अले त्वं कः? केन साधनेन त्वयेदं रूपं प्राप्तम्? कथं श्रीरसिकानन्दस्य श्रीराधिकाया दूतत्वं प्राप्तः? अलिरुवाच । अहो शुक त्वं पूर्वं कोऽसि? केन साधनेनेदं लीलास्थानं प्राप्तम्? शुक उवाच । अहं पूर्वं ब्राह्मणोऽस्मि । विष्णोरुपासककुलोत्पन्न एकात्मभावेन मम मनो हरिं भजमानं भवति । एकस्मिन् वासरेऽस्मि ब्रह्मलोकं गतः । तत्रानन्यमार्गीया भक्ताः मया दृष्टाः । रसमार्गीया भक्ता मया दृष्टाः । तेषां सङ्गमेन मया निकुञ्जलीला अनुभूताः । तत्रारिष्टे श्रीराधाकृष्णपुष्करिण्युद्भवा मृत्तिकां भक्षयता तत्र निरन्तरक्रीडास्थलं मया श्रुतं पूर्वम् । अस्या मृत्तिकायाः माहात्म्यं महालीलायाः प्राप्तेः कारणम् । भ्रमरो वदति । त्वया किं श्रुतमस्या माहात्म्यं ? शुक उवाच । श्रीरसिकानन्देन वन्दितम् । श्रीराधिकायाः प्रेमवत्यादयः सख्यस्तस्मात्स्यानात्समुत्पन्नाः । स्वयमपि तस्मिंस्थले रासलीलायाः प्रारम्भः कृतः । तस्मिन् काले श्रीरसिकानन्देन स्वयमेव वन्दितं तपसा ध्यानेनाधिकृतम् । तस्माल्लोके वेदे वन्दितमिदं स्थानम् । अस्य स्थानस्य मृत्तिका मया अनुभूता । तेनेदं स्थानं प्राप्तम् । इदं शरीरं तया मृत्तिकया पुष्टं साधनसिद्धं जातम् । अहो भ्रमर त्वं कथय यदि रुचिः स्यात् । अलिरुवाच । अहमपि पूर्वं गौडदेशोद्भवकायस्थः । वैष्णवोऽहं निरन्तरं प्रेमाधिक्येन रसिकानन्दं सेवमानोऽभवम् । गुर्वनुग्रहेण साधूनां रसमार्गीयाणां सङ्गेन मया रसमार्गरूपा कथा श्रुता । तेषां साधूनां सङ्गो मयानुभूतः । तत्कथाद्वोरण मम हृदि प्रविष्टो रसः । अहं रसलीलायां प्रपन्नोऽभवम् । रसलीलायां प्रवृत्तिन्यधर्मविस्मारणपूर्विका जाता । तस्या सेवाकथायां प्रत्ययो बभूव । ये रसमार्गीया भक्तास्तेषां सम्बन्धालापकीर्तनगोष्ठीमार्गानुभवान्मनो भावमापन्नं प्रेमाधिक्यं सुखसपत्तिः इष्टतमवस्तुपात्रदेहादि यत्किञ्चित् समर्पयेदिति । इत्यानुभविकेन मार्गेण भक्तैस्सह व्रजलोके प्राप्तोऽहं सर्वसङ्गरिक्तोऽभवम् । तस्मिन् व्रजमण्डले निवसन्नहं प्रतिकक्षं प्रतिकुञ्जं तां लीलां चिन्तयमानस्तद्भावापन्नो भवामि । तद्भक्तैः सह देहादिसुखं ततो ग्राह्यं ततो देयमिति मनसा वाचा तैः सह कालोऽज्ञातकालविषयोऽयते । एवं मम धर्मः सिद्द्धो भवति । सिद्धधर्मेण शरीरं साधनसिद्धं बभूव । तदा ममाभिलाषो मनस एवं भूतो भवति । येनाभिलाषेणाहं भ्रमररूपेण तस्या निकुञ्जदेव्या यशः सङ्गायामि । पश्चात्प्रसन्नेन रसिकानन्देन तया देव्या मनसेप्सित रूपं दत्तम् । इदं मान्यस्थानं दत्तम् । अहो शुक अहमस्मिन् स्थाने श्रीराधिकाया वने क्रीडापरो भवेयमिति । तद्वृन्दावनं सर्वकालसुखसमृद्धिसंपूर्णं श्रीराधिकया सदा सेवितं रसिकानन्देन सह । तस्मिन् वायवः शीतमन्दसुरभिभावेन सेवमानाः सन्ति । तत्र स्थाने अमृतोदा पुष्करिणी आस्ते । तासु पुष्करिणीषु कन्दुकलीलया श्रान्ताः सख्यो मञ्जनं कुर्वन्ति । अतितरां सितजलकल्लोलैर्मञ्जनक्रियायां तस्मिन्नत्यन्तरसमग्नानि हंसयूथानि राजन्ते । उपरि पक्षिणां पङ्क्तिः कलकण्ठैः सेव्यमाना अभ्येति । अतितरामानन्दमग्नाः सखीनां गणा गुणगणान् सङ्गायमाना भवन्ति । तत्रोपर्येकं श‍ृङ्गारस्थलं मन्दिरमस्ति । एकं भक्ष्यभोज्यस्थलमस्ति । एकं सखीसङ्गमोपवेशताम्बूलसुगन्धरसमेवनायैवेति । एकं शय्यागृहं सुगन्धमणिमयभोगान्वितम् । आधिदैविकेन रूपेण कामः सखीरूपं विधाय स्वयमेव सेवमान आस्ते । रतिसम्भोगातिकलाकौतुकानि नेत्रहावभावकटाक्षसंवलितकामरसभावभेदानि संयोक्ष्यमाणकामरससुखसम्पत्तियोग्यतां मनोभवः संयोक्ष्यमाणसुखं च पिबति । नित्यं नित्यनूत्नभावभेदश‍ृङ्गारं नूत्नम् । रूपं नूत्नम् । क्रीडा नूत्ना । वचनं नूत्नम् । प्रतिक्षणं प्रतिक्षणं नूत्नमेव सुखं सखीनाम् । नूत्नः सर्वो भाव आस्ते । एकादशश्रेणयः सदा वसन्तस्थानम् । किंशुकवकुलाम्रवृक्षा । शोभायमानलवङ्गलतापरिशीलिता अत्यन्तं निगूढगुच्छपुष्पपरागा भवन्ति । उन्मदकोकिलभ्रमरसूक्ष्मस्वरसङ्गीयमानानि सखीनां यूथानि केशबन्धनवस्त्राण्यतिरञ्जितानि शोभामातन्वन्ति । कलगीतानि वसन्तोद्भवानिसङ्गीयन्ते । तस्मिन् स्थाने सदा कौतुकाविष्टा गोप्यः केसरकर्पूरमृगमदागुरुरसान् सेचयन्त्यो भवन्ति । परस्परं हस्तैः कनकखचितजटिताः सर्वाः कन्या मृगमदकर्पूररसं सिञ्चन्त्य आपद्यन्ते । अभिलिम्पन्त्यः परिमृजन्त्यः अञ्जन्त्यो लोचने काश्चित् काश्चित् गानं गायन्त्यो गोप्यः । तां व्रजेश्वरीं व्रजनायिकां ताः सख्यो वेषश‍ृङ्गारशोभासंराजितामशोभयन्त । तस्मिन् वसन्तऋतुः सखीरूपं विधाय तां व्रजेश्वरीमुपसेवमान आस्ते । यत्र वसन्तस्तत्रैव कामावेशो जन्यते । स कामः सखीरूपं विधायोपसेवमानः आस्ते । रतिभावे सा व्रजेश्वरी तां देवीमुपसेवमानातिगुणगणनया क्वचित्पुष्पावेशेन वसन्तं सुखमुपसेवते । क्वचित्फलावेशेन वसन्त उपसेवते । क्वचित्कोमलाड्कुरावेशेन वसन्त उपसेवमान आस्ते । क्वचित्पक्षिणां रवेण उपसेव्यमान आसेवामातनोत् । क्वचिल्लतान्तरैराविर्भावेनोन्मदभ्रमरपिकशुका गीतगानं कुर्वाणा आपद्यन्ते । रसिकानन्दस्तया निकुञ्जदेव्या सह वसन्तोद्भवैः पत्राङकुरेः शय्यां विधाय वसन्तसुखान्यनुभवन्नास्ते । विविधलतान्तरेषु पुष्पगुच्छसंवलिताः सख्यः शय्यां विविधप्रकारां प्रतिकुञ्जं रचयन्ति । उपकरणकामकलया सुरतकेलिज्ञ उपतापसुखमन्वभूत् । आसेदिवान् रतिरससुरतानन्दो विविधकलारूपेण प्रतिपद्यमानो भवति । हावभावकेलिकौतुकानि भवन्ति । वसन्तः कामेन सह रसलीलारतिं विस्तारयति । तत्रानेकलता वसन्तोद्भवैः कुसुमैर्वनलीलायां प्रफुल्लिता नम्राः भवन्ति । नानाकौतुकाविष्टाः प्रेमवत्यादयः सख्य अतिभावापन्ना बभूवुः । तस्यां लीलायां चतस्रः सख्यः श्रीराधिकां संसेवमाना भवन्ति । तस्य वसन्तस्य सुखं केनोपवर्ण्यते । चतस्रः सख्यः कथिताः । तासां नामानि श‍ृणुत । रङ्गवती गुणवती गानवती मनोरमा । एताः सख्यस्तस्मिन् वसन्तस्थाने सेवमाना भवन्ति । तद्वसन्तस्थानं श्रीराधिकाया अतितरां वल्लभं भवति । तत्स्थानं श्रीराधिकया रसिकानन्देन सह सेव्यमानं भवति । ताः सख्यस्तस्मिन् स्थाने प्रेम्णो भावं विस्तारयन्ति । रङ्गवतीं रसरङ्गलीलां विस्तारयति । नानाभावेन वसन्तरङ्गभोगान् विस्तारयति । एवं नानाभावभेदं सुरतानन्दं विस्तारयति । गुणवती रागरङ्गसुगन्धरसवीणावेणुप्रणालिकया सर्वासां सखीनां कामलीलायाः प्रबोधं जनयति । गानवती गीतगानगुणेन श्रीरसिकानन्दस्य श्रीराधिकां प्रीणयति । मनोरमा मनोरमं भावमापन्ना भवति । ताः सख्यो भावापन्नाः साधनसिद्धा भवन्ति । ता ऊचुः । तास साधनं किं येन साधनेन वसन्तलीलायाः स्थानं प्राप्तम् । अहो भक्तानां रसमार्गीयाणां पुण्या रसमार्गिणी कथा निःश्रेयसाय भवति । येषां स्नेहमार्गधर्मकर्मरहितकेवलमनसा वृत्तिः श्रीराधिकायां गतिरतिभावो भवेत् ते एव तां लीलां प्राप्नुवन्ति । तस्मात्ताभिर्यत्साधनं कृतं तत्सर्वं कथय । अहो ताः सख्य वैवस्वतमनोः पुत्र्य आसन् । ताः कन्याः पितुर्गृहे निरन्तरं क्रीडमाना बभूवुः । एकरूपा एकस्थिता एकप्राणा एकभावापन्ना बभूवुः । अतिगुणगणनारताः पितृवत्सला भवन्ति । तस्य राज्ञो गृहे एकदा नारदः समागतः । ताः कन्या नारदं दृष्ट्वा प्रणिपातपुरस्सराः । तद्रूपमद्भुतं दृष्टं जटामकुटमण्डितम् ॥ वस्त्रालङ्करणैर्युक्तं वीणावादनतत्परम् । कृताञ्जलिपुटाः सर्वाः स्थितास्तं चोपतस्थिरे ॥ पप्रच्छुस्तं तथाभूतं विनयान्नयकोविदाः । भगवन् सर्वभूतानां हिताय भुवनेऽटसि ॥ भवादृशा महाभागा लोकानां च हिते रताः शरणागतदीनानां कृपां कुर्वन्ति साधवः ॥ इति सम्प्रार्थितो नारदः प्रसन्नो बभूव । भोः पुत्र्यः को भवतीनां मनोऽभिलाषः तत्सर्व विस्तरशो ब्रूत । नारदेनैव चोदिताः कन्याः पुनः प्रोचुः । पितुर्गृहे भावापन्नैर्भक्तैः सङ्गीयमानोऽयं व्रजलोकः । त्वं विस्तरशो ब्रूहि तम् । श्रुतमात्रोऽयं रसलीलां ददाति । तस्मात्तत्स्थानं रसिकानन्देन श्रीराधिकया सह सेवितं वर्णय । नो मनोऽभिलाषो भवति । यदि कृपा स्यात्तर्हि तल्लोकविस्तारं वद । पुनर्नारद उवाचेदं तासां मनोऽभिलाषं ज्ञात्वा । श‍ृणुत सख्यो रहस्यम् । न कदाचिद्वचनीयम् । तत्स्थानं कोटिसूर्यप्रतीकाशं तेजोमयं यत् निर्गुणं ब्रह्म पुराविदो वदन्ति । यस्मात्प्रजाः समुत्पन्नाः । ब्रह्मविष्णुरुद्रादयो यस्मादुत्पद्यन्ते लीयन्ते । आत्मविदो ज्ञानिन उत्पद्यन्ते लीयन्ते रसमार्गिणो भक्ता यं स्थानं प्राप्नुवन्ति । कन्या ऊचुः । ये ग्समार्गीयाः भक्तास्तेषां लक्षणानि वद । नारद उवाचेदम् । ये रसिकादन्दोपासकास्ते सर्वात्मभावेन भजनं कुर्वते । भजनानन्दोपासकानां न वर्णो नाश्रमो न देशो न कालोऽस्ति । यो धर्माधर्मौ परित्यज्य श्रीरसिकानन्दं सेवमानो भवति सः तां लीलां प्राप्नोति । येषां मनसि निश्चयस्तेषां प्रीतिरुत्पद्यते । य एवं रसमार्गे प्रपन्ना न तेषां धर्माधर्मौ बाधमानौ भवतः । विषयैर्बाध्यमानोऽपि न बाध्यते । येषामहोरात्रं सेवाकथायां नित्यमासक्तिस्तेषां भजनानन्दो भवति । ये तस्मिन् मार्गे प्रपन्ना भक्तास्तेषां देयं ततो ग्राह्यं यत्किञ्चिद्वस्तुमात्रम् । भक्तानां भक्तैस्सह कार्य नान्यैः । भक्तानां भक्त एव ज्ञातिः । कुलवर्णधर्मादि सर्वे दैवतं यत्किञ्चिन्मात्रम् । रसगाः सेवकाः तेषां सम्बन्धौ नान्यैः । अहो वेदैः पुराणैः सिद्धान्तैः शास्त्रैर्नानावादैः नानाकर्मव्रतोपवासादिभिर्यमैर्नियमैश्च नानाऋषिकृतस्मृतिसिद्धान्तैरेकादश्युपवासादिव्रतनियमैस्तुलापुरुषदानादिभिर्नानादर्शनसिद्धान्तविचारैर्वर्णाश्रमोचितधर्मैः पितृश्राद्धादिभिः सूर्यचन्द्रोपरागकालोचितैर्ग्रहनक्षत्रताराज्योतिश्शास्त्रनिश्चयेन भ्रान्तचित्तैर्विधिनिषेधस्मृत्योक्तैर्धर्मैर्भ्रान्ताः सन्ध्योपासनकालसंस्कारैर्बलिवैश्वदेवबलिदानोपसर्पणैर्वेदमार्गादिभिर्नियमैरेतैश्चान्यैर्धर्मैर्विभ्रान्तास्तेषां रसिकानन्दः पुरुषोत्तमो न रमते । अहो सख्यः कर्मविभ्रान्तास्तां लीलां कदाचिन्न जानन्ति । साग्निका अग्निव्रतधारकाः कर्मजडास्तैः सह कदाचित्तद्धर्मालापनं न कुर्यात् । अतः किं बहुनोक्तेन । ब्राह्मणा ये भक्तिमार्गं न विदन्ति तेषां सम्भाषणं स्पर्शं न कुर्यात् । कदाचिन्नालपेत् । ता ऊचुः- भगवन् सर्वभूतानां हिताय भुवनेऽटसि । शरणागतदीनानां कृपां कुर्वन्ति साधवः ॥ अतः प्रार्थयामो महालीलाया दर्शनं यत्र रसिकानन्दपुरुषोत्तमो रमते । एवं प्रार्थितो भगवान् नारदस्तासामत्यानन्दमयलोकं दर्शयामास । महामन्त्रविद्यया कृतसंस्कारास्ताः सख्यस्तस्यां लीलायां भावापन्ना बभूवुः । ता ऊचुः । नारदेनोपदिष्टां विद्यां कथय यया विद्यया श्रीरसिकानन्दस्य श्रीराधिकया सह क्रीडास्थानं द्रक्ष्यामः । स होवाच । श‍ृणुत सख्यः । यस्यां विद्यायां सद्यः समभ्यसनेन महावनविहारस्पर्शनं भवति । कृपासमभ्यसनात् रमणानन्दलोकस्पर्शनं भवेत् । क्लीं सकलकामदात्रीं भ्रूं भोगदात्रीं ह्रीं रसिकानन्दविलासदात्रीं ह्रीं रतिकेलिकलाकोविदां बां वृन्दावनशशिनीं स्रुं सुरतानन्दरूपां श्रीं मनोहारिणीं नृं निकुञ्जकेलिकौतुकाविष्टदेहां भ्रूं भोगात्मिकां स्त्रां सखीनां सुखदायिनीं ह्रीं रासकेलिकलात्मिकां ध्यायेत् । क्लीं नमः । इमां विद्यां भोगात्मिकां नारदेन दत्तां ताः कन्या जगृहुः । रसिकानन्दप्राप्त्यर्थे गृहीत्वा तां विद्यामभ्यसेत् । तासां पितुर्गृहे एकं वनं नानापुष्पवृक्षैः सुशोभाढ्यम् । तत्र पुष्पलतानां निकुञ्जाः सुशोभाढद्याः संराजमाना मनोहराः सन्ति । तत्र ताः कन्या इमां विद्यामभ्यस्तवत्यः वृन्दावनबुद्ध्या । अहोरात्रं तद्बुद्धयस्तदालापास्तद्विचेष्टास्तदात्मिकाः तस्यां लीलायां मग्ना नान्यं देहविषयं विदुः । क्वचिद्रुदन्त्यस्तच्चिन्तया क्वचिन्नृत्यन्त्यः क्वचिदलौकिकाः कथा वदन्त्यः क्वचिद्भक्तैस्सह अनुशीलयन्त्यः क्वचित्तस्मिन् वने वृन्दावनशोभां विधाय तद्भक्तैः सह राधारसिकलीलयोरनुभवं कुर्वन्ति । एकदा तासामाश्विन्यां पौर्णमास्यां महालीलाया महोत्सवकाले निकुञ्जदेव्या दर्शनं प्रदत्तम् । अशरीरया वाण्या वरो दत्तः । भवतीनां मनोऽभिलाषो मया ज्ञातः । यदि मम लोकदर्शनाकाङ्क्षा स्यात् । वृन्दावने गोवर्धनाद्रिशिरसि पुष्करिणीं विधाय तत्र मम ध्यानापन्नैर्भूयताम् । ममानुग्रहेण मम लीलावलोको भविष्यतीति ता वरेण छन्दयित्वा अन्तर्दधे । ताः कन्यास्तत्र गत्वा तथाकुर्वन् । तस्मिन् गोवर्धने अप्सरःपुष्करिण्यां ताः सर्वाः पूर्वोक्तया विधया श्रीराधिकाया भजनं चक्रुः । इत्थं भजनमापन्नाः कन्या मासेनैकेन तं लोकमपश्यन् । वृन्दावनं श्रीमत् सर्वकालसुखावहम् । यत्र षडृतवः आधिदैविकेन रूपेण सेवमाना भवन्ति । यत्र रत्नजटिला भूमयो मणिज्योत्स्नाभिर्दीप्यमाना भवन्ति । यत्र फलैः पुष्पैः पत्रैर्मणीनां स्तम्भाः शतशो राजमाना भवन्ति । यत्र मणीनां लता भ्राजमाना विद्रुमलताभिः ग्रथिता भवन्ति । सुवर्णलताग्रथिता मुक्तालता मुक्तागुच्छैः पूर्यमाणाः भवन्ति । यत्र सखीनां यूथानि परस्परं श‍ृङ्गाररसेन क्रीडमानानि भवन्ति । यत्र फलैः पुष्पैः सुकोमलैः पत्रैर्विराजमाना वृक्षा लताभिः सङ्कीर्णा भवन्ति । यत्र मध्यश्रेणीषु सखीनां चारा अतिसुशोभमाना भवन्ति । यत्र बकुलवृक्षाणां वनानि कुत्रचित्संराजमानानि भवन्ति । कुत्रचिन्मन्दारवृक्षाः संराजन्ते । अम्लानपुष्पैर्नारङ्गैः सुशोभाढ्या भवन्ति । कुत्रचित्पारिजातकवनानि सुगन्धसंवलितानि सन्ति । तत्र वनेषून्मदाः कोकिला गायमाना भवन्ति । कुत्रचिन्मन्दारवृक्षाः पुष्पपरागैश्चिता वस्त्रैश्छादिता इवासन् । तासु वृक्षाणां श्रेणीषु ताः कन्या एकं महास्थानं ददृशुः । पञ्चविंशद्योजनायतं परितो वाप्यो दशदशचतुष्कोणेषु नानारसेः सम्पूर्यमाणा भवन्ति । दश वायवः केसरकर्पूरमृगमदरसैः सम्पूर्यमाणा भवन्ति । दश वायवोऽगुरुरससम्पूर्यमाणा भवन्ति । दश वायवः सुगन्धपयसा सम्पूर्णा भवन्ति । दश वायव उष्णोदकेनातिनिर्मलेन सुगन्धेन सम्पूर्यमाणा भवन्ति । तत्र दश वायवो मृज्जलेन सुशीतलेन सम्पूर्यमाणा भवन्ति । तत्र मध्यमण्डले पञ्चविंशद्योजनायते सुशोभाढ्ये मणिज्योत्स्नाभिः संवेष्टिते सखीनां यूथानि यत्र क्रीडां कुर्वन्ति तत्र परितो निकुञ्जानां श्रेणयः सूक्ष्मलतान्तरैः संवेष्टिता भवन्ति । तत्र मध्ये एकं रत्नासनं सुखसम्पूरितं सुरतानन्दस्थानं भवति । यत्र प्रेमवती स्नेहवती गुणवती उत्कण्ठावती उत्साहवती कलावती गानवती मनोरमा सुरतानन्दा सुखसंवलिता निद्रासंवलिता निःशङ्का लज्जागतत्रपा सुभगा श‍ृङ्गारवती सम्भोगवती भावशुद्धा एता अन्याश्च सख्यस्तत्स्थानं सेवमाना भवन्ति । निरन्तरं रासकेलिकौतुकेन नृत्यपरा सुगन्धकलावती सङ्गीतज्ञा अङ्गसंवलिता रागज्ञा गुणज्ञा एताः अन्याश्च सिद्धान्तस्थानं सेवमाना भवन्ति । तत्र विहङ्गमानां पङ्क्तयो नानारूपैः कलशब्दैः सङ्गायन्त्यो भवन्ति । क्वचित् सखीमण्डले ताः रासक्रीडां कुर्वन्ति । क्वचित् कुञ्जान्तरे पुष्पपल्लवैः रचितशय्यायां क्रीडां कुर्वन्ति । क्वचिन्नानापुष्पैरङ्गप्रत्यङ्गेषु परस्परं श‍ृङ्गारं कुर्वन्ति । क्वचित् पुष्पमालाभिरङ्गप्रत्यङ्गैः श‍ृङ्गाररसं कुर्वन्ति । क्वचित्कुञ्जान्तरे श‍ृङ्गाररसं कृत्वा सुखं संसेवमाना भवन्ति । ताः कन्याः श्रीराधिकारसिकं दृष्टा अत्यन्तमेव मुमुहुः स्तुतिं चक्रुः । अतितरां नम्राः कन्याः प्रश्रयावनताः नमश्चक्रुः विनयभावापन्ना बभूवुः । तया श्रीराधिकया स्वरूपं प्रदत्तम् । तासां महालीलायां योग्यता प्रदत्ता । अहो सत्सङ्गमाहात्म्यं केन वर्ण्यते । दर्शनात्स्पर्शनादालापाद्भोजनाच्छयनादासनाद्भोजनोच्छिष्टकृपाप्रसादात् रसिकानन्देन सहितायाः श्रीराधिकायाः कृपा भवति । अहो रसिकानन्दोपासकानां लक्षणानि वद येनाहं सतां सङ्गे विचरामि । अहो श्रुतमहालीलाः! ये निरन्तरं सेवमाना भक्ता वेदमार्गकर्मातिरिक्ता भवन्ति ते रसिकानन्दमार्गमाचार्योक्तमधीत्य यो वृन्दावनोक्तमार्गः सखीभिरुपासितः तासां मार्गे प्रपन्ना भवन्ति । अहो नानास्मृत्युक्तान् धर्मान् ये कुर्वन्ति त इह संसारे विचरन्ति । ये पितॄन् यजन्ति ते पितृलोकं प्राप्नुवन्ति । देवान् ये यज्ञकर्मणा यजन्ति ते देवलोकं स्वकर्मोपार्जितं यान्ति । ये ब्राह्मणाः ब्रह्मवर्चसमुपासमानास्ते ब्रह्मलोकं प्राप्नुवन्ति । गायत्रीं य उपासते ते सूर्यमण्डले लयं यान्ति । येषां मध्ये शैवाः शिवोपासकास्तेषां प्रमादेनापि सम्भाषणं न कुर्यात् । ये कैवल्यधर्मरतास्तेषां सम्भाषणं स्पर्शनं च कृतं चेत्तर्हि सवासाः जलमाविशेत् । अहो रुद्रोपासका ये तमोधर्मरतास्तेषां सम्भाषणं स्पर्शनं च कृतं चेत्तर्हि सवासा जलमाविशेत् । यक्षोपासकाः सदा त्याज्याः । गणपतिदुर्गायाः भजनभेदा अनेकशः सन्ति । तान् ये भजन्ति तेषां सम्भाषणं स्पर्शनं च कृतं चेत्तर्हि सवासा जलमाविशेद्रसिकानन्दोपासकः । कर्मकाण्डोपासका रसिकानन्दमार्ग न जानन्ति । जैनबौद्धचार्वाकमीमासकवेदान्तन्यायपातञ्जलमतान्तराणि तेषां सिद्धान्तं कुर्वन्ति । ये भ्रान्ता भजनमार्गमविदुषः पण्डितमानिनस्तेषां सम्भाषणं स्पर्शनं च न कुर्यात् । विष्णुभजनरता नारायणोपासकाः श्रवणकीर्तनस्मरणवन्दनरता मत्स्यकच्छपवराहनृसिंहवामनपरशुरामरामोपासका कैणवास्तेऽपि तं लोकं न जानन्ति । तस्मात्तेषां सङ्गस्त्याज्यः । विष्णुभक्ताः ज्ञानवैराग्ययुक्ता अनन्याश्रययुक्तास्तेऽपि तं मार्ग न जानन्ति । सूक्ष्मतरमार्गो ब्रह्मादिभिर्नारदादिभिः रुद्रादिभिः सृष्टिकर्तृभिः प्रजापतिभिरप्यगम्यः । तस्मात्तया श्रीराधिकयानुगृहीतास्तं रसं जानन्ति नान्ये । यदा यस्य देवतान्तरभजनं भवति वैणवेषु विद्वेषो भवति तान् रसिकानन्दपुरुषोत्तमो न स्पृशेत् । अहो रसिकानन्दोपासकानां क्रियाः श‍ृणुत । ये मनसि भजने सुनिश्चयास्तल्लीलोपासकाः सत्कथाक्षिप्तमानसाः तल्लीलोपासकानां सङ्गेन कथाकीर्तनासक्तांस्ते तत्सेवातद्भावेन शोकमोहभयोद्वेगरहिता अमत्सरा अहम्भावरहिता ज्ञानवैराग्यसहिता वृन्दावनलीलोपासका भवन्ति । रसलीलायां निमग्नानां तेषां तद्भजनमेव साधनं तद्भजनमेव ज्ञानं तद्भक्ता एव ज्ञातिः तद्भक्ता एव कुलं एवं रसलीलाप्रपन्नो भवति । गृहादिधर्मान् त्यक्त्वा वर्णाश्रमधर्मान् त्यक्त्वा जातिकुलधर्मान् त्यक्त्वा मोक्षधर्मान् त्यक्त्वा संन्यासाधर्मान् त्यक्त्वा देशकालकर्मस्वभावसंसिद्धान् धर्मान् त्यक्त्वा रसलीलामभ्यसेत् । रसलीलायाः सेवावधिं कथय येन विधिना महालीलायाः प्राप्तिर्भवति । तद्भक्तानां दर्शनं भवेत् । स होवाच । रसलीलाया भजनं त्रिविधात्मकम् । एकं ध्यानमयम् । प्रतिकुञ्जं प्रतिवृक्षं ध्यानापन्नो भवेत् । रात्रौ दिवा रसिकानन्दं श्रीराधिकया सह हृदि चिन्तयमानः सखीभावेन भावापन्नो भवेत् । तदनुभावेन पुल्लिङ्गं विधूय महालीलायां लयलीयमानो भवेत् । द्वितीयं भजनप्रकारं श‍ृणुत । येन भजनेन रसिकानन्दः श्रीराधिकया सह दृष्टिपथमापद्येत योऽश्ममयं वा धातुमयं वा रसिकानन्दस्वरूपं श्रीराधिकया युतं विधाय शय्याभोजनश‍ृङ्गारै राजोपचारे स्नेहभावेन भजनं करोति अहोरात्रं तद्भावेनापन्नो भजनं करोति स तां लीलां प्राप्नोति । ये रसिकानन्दोपासका भक्तास्तेषां सेवाया व्रतधारणम् । अहो भक्तानां सेवास्तु दुर्लभतराः । येषां हृदि निश्चय आपन्नस्तेषां श्रीरसिकानन्दः श्रीराधिकया सह प्रसन्नो भवति । भक्तानां सेवास्तु अत्यन्तदुर्लभा भवन्ति । ये निष्कर्ममार्गिणो भक्तिमार्ग केवलमापन्नास्ते सेव्याः पूज्या एव भवन्ति । ये अन्यधर्म त्यक्त्वा रसिकानन्दसेवकास्ते भक्ता नान्ये । भक्ताः सुसेवमाना भवन्ति । तस्मात्सुसेवमाना भक्ताः कृपां कुर्वन्ति । साधूनां समचित्तानां कृपया महालीलाया दर्शनं भवति । तस्मात् रसिकानन्दं हृदि स्थाप्य साधूनां सङ्गेन वृन्दावनरहस्यमार्गानुसारेण सुसेवमानो भवति । अतिरसमग्ना भक्ता नान्यं विदन्ति । अहो पुनर्महालीलाया वर्णनं श्रुत्वा वयं न तृप्यामः । श‍ृणुत पुत्राः । वनविहारलीला पूर्वं नारायणेन लक्ष्म्यग्रेन कथिता तदा श्रुतं तदहं वर्णयामि । अहो महालीलायाः स्थानं नारायणेनापि न दृष्टम् । यत्राष्टौ मणयः संराजमाना भवन्ति । चन्द्रकान्तमणिनामृतेन पुष्पपल्लविता वृक्षाः सेव्यमाना भवन्ति । लतानामालवालानि सौवर्णानि दीप्यमानानि जलैः पूर्यमाणानि भवन्ति । तत्र सूर्यकान्तमणिना प्रदीप्यमाना वृक्षलताः शोभायमाना भवन्ति । मणिलताभिर्ग्रथितानि मन्दिराणि तेजोमयानि संराजन्ते । प्रसारितलता वृक्षैर्ग्रथिता निकुञ्जतां प्राप्नुवन्ति । तेषु निकुञ्जेषु लतानां नानार ङ्गाः सन्दीप्यन्ते । तत्र श‍ृङ्गारवत्यादयः सख्यः शय्योपकरणानि रचयन्ति । सुशोभायमानाः पक्षिणः कलशव्देन श्रीराधिकायाः श‍ृङ्गाररसं सङ्गायन्तो भवन्ति । पिकयूथानि मनोहरेण शब्देन देववाण्या तस्याः श्रीराधिकाया रमणलीलां गायन्ति । तत्र मध्येमण्डलं तेजोमयमस्ति । हाटकमयास्तेजोभूमयस्तेजोमयाः संविराजन्ते । यत्र भूमौ परित अष्टौ मणयः सन्ति तेषां प्रसारिता लता सुवर्णलताभिर्मुक्तालताभिर्ग्रथिताः पुष्पैः पल्लवैः संवलिता भवन्ति । प्रतिमण्येकैकं मन्दिरं सकलसिद्धवस्तुसमन्वितं भवति । रतिमन्दिरे शरव्याः पयःफेननिभाः संराजन्ते । तत्रान्नानि विविधानि अन्यपूर्णया सख्या पाचितानि । प्रतिक्षणं नूत्नानि श्रीराधिकायै भोज्यार्थे भवन्ति । तत्र सुगन्धरसिकया सख्या रचिताः सुगन्धरसा अगुरुचन्दनकेसरीमृगमदकर्पूराद्या अनेकसुगन्धरसाः श्रीराधिकया सम्भोज्या भवन्ति । तत्र श‍ृङ्गारवत्या सख्या रचिताः श‍ृङ्गारा वस्त्रालङ्कारसंयुक्ताः सुभगा नानावस्तुमयाः श्रीराधिकार्थे कल्पिताः सुभोज्या भवन्ति । रङ्गवत्या रचिता रतिरङ्गा वचनप्रतिवचनमया इन्द्रियादिभावमयाः श्रीराधिकाया भोगार्थे भवन्ति । गानवत्या रचिता नानारागरङ्गभोगाः समयोचिताः प्रतिक्षणं नूत्नाः श्रीराधिकार्थे सुभोज्या भवन्ति । नृत्यकवत्या रचिताः सुगन्धकलाः श्रीराधिकार्थे कल्पिता भवन्ति । तत्र स्थाने भोगवती नाम्ना सखी नानाभोगान् कल्पयति । कटुतिक्तमधुरकषायाः सुस्वादा भोगाः श्रीराधिकाया भोज्यापन्ना भवन्ति । रतिवती नाम्ना सखी नानारतिसुखमुत्पादयति । रतिकलाकौतुकानि मनोज्ञानि भवन्ति । सुरतानन्दा सखी नानासुरतकलां श्रीराधिकायै कल्पयति । मनोज्ञा सखी नानामनोभावं ददाति । सुखदा सखी नानासुखं रसिकानन्दं प्रति राधिकार्थे कल्पयति । ताः सर्वाः सख्यः सुखकेलिकलानुभावेन रासलीलां कुर्वन्ति । तस्मिन् मध्यमण्डले सुरचिता सखी कस्मिंश्चित्समये रासलीलां रचयति । तत्र मध्ये कामेन सेवितं तेजोमयमासनं कल्पयित्वा श्रीराधिकया सह रसिकानन्दं समावेशयति । तत्र परित एताः सख्यः क्रीडाकलां दर्शयन्ति । कलावती गुणवती पुष्पवती अङ्गचपला सुरतकलाकोविदा रसकलाभिज्ञा रसभावज्ञा विपरीतसुरतनृत्यकलाकोविदा एताश्चान्याः सख्यः तस्मिन् मण्डले स्वान् स्वान् गुणान् प्रकटीकृत्य रसिकानन्दं सेवमानाः भवन्ति । साधनसिद्धाः संसिद्धाः सख्य अनेकरूपैस्ताभ्यां सुसेव्यमानाः भवन्ति । यादृशा भक्तास्तादृशं सुखं तादृशो लोलाभावश्च भवेत् । पुनस्ते ऊचुः । महास्थानं कियत्प्रमाणं ? संसिद्धोऽयं रसः । संसिद्धः कीदृग्विधः? ते संसिद्धा भक्ताः कीदृग्विधाः? तेषां रूपं कीदृग्विधं? रसिकशिरोमणिरानन्दात्मकपुरुषोत्तमः श्रीराधामानन्दरमणारन्दरूपां तेन रूपेण सह बुभुजे । नित्यानन्दरूपेण सह पुरुषोत्तमो नित्यानन्दरूपः सङ्क्रीडमानो भवति । सः एवं रूपं गोपिकास्वाविर्भावेन क्रीडयिप्यति । पृथग्रूपेण क्रीडमाना अभ्येति । तद्भावे क्रीडिष्यमाणा गोप्यः पृथक् सङ्क्रीडमाना इव एकमेव स्थानमध्यासते । तेषां स्थानं कियत्प्रमाणं? कीदृग्विधा भक्ताः? क्रीडमानं रूपं ताभिः सम्पीयमानसौष्ठवं किम्? पुनरुवाचेदम् । रहस्यमतितरां सौष्ठवम् । षडिधोऽयं रासः । तेषामेव रासलीलायामापद्यमानं रूपम् । रहस्यस्थानं महालीलायां शतयोजनायतं पद्मरागजाम्बूनदसुवर्णखचितम् । नीलमणिना परिधयः शोभाढ्या एवासन् । मध्यमध्ये पुष्यरागमणीनां स्थानं सम्भ्राजते । तेषामतितरां मणिज्योत्स्नां राजमानामभ्येत्य तस्मात् परितः शतकुञ्जविद्रुमलताः सुवर्णसुगन्धलताग्रथिताः सुसुगन्धाढ्यमातन्वन् । तेषामेव मणीनां शक्तयो विराजन्ते । पुप्पितवृक्षलता सुगन्धरसाम्येति । तत्सुगन्धावेशिताः सख्यो भावापन्ना रमणरसरमणे रसरमणानन्दे रसे मग्ना भक्ताः प्रेमवत्यादयो लीलायां योग्यतामभियन्ति । रतिक्रीडायामानन्दरसः सम्भवति । ते सख्यस्तस्मादुत्पन्ना भवन्ति । श‍ृङ्गाररसं दृष्टिगोचरमुपसम्पद्यन्ते । तस्मात् रमणानन्दादुत्पन्ना आत्मानन्दरूपिणः । यत्र यत्र तया देव्या स्वावेशेन सुखं सुसंसिद्धोऽयं रसः । तासां गोपीनां गृहङ्गृहमापद्यमानः प्रतिरूपं सुखं संयोजयति । तासामेव रसावेशेन रासस्थानं शतयोजनायतं पद्मरागमणिजटिलनीलमणिना विराजितं जाम्बूनदमणिना सुवर्णेन जटितं शतशो मणिखचितम् । तस्मिंस्थाने मणिस्तभाः शतशो विराजमानास्तस्या निकुञ्जदेव्याः स्वावेशेन अनेकशो रूपाणि कृत्वा आत्मानं विभज्य स्वरसभोगसुखं सम्भुञ्जते । यथायथा रूपाणि तथातथा रसिकारन्दस्य रूपाणि सुखं सम्भोक्ष्यन्ते । तेषु तेषु रूपेषु क्रीडन्त्यस्ताः निकुञ्जदेव्याः स्वामिभावेन व्रजलीलायाः सुखमापद्यन्ते । स एव रासः । आनन्दाद्रमणानन्दोऽयं योज्यते । चन्द्रावलीचन्द्रभागासुश्रोणीसुभगाद्याः शतशो गोपभार्या वेदऋचः । वेदपुरुषा इमे गोपास्तासां गोपीनां स्वामिन्या आत्मस्वरूपेण स्वयमेव रमणारन्देनायोज्यन्त । अग्निना प्रज्वलिता रज्जुर्दृश्यमाना अग्निरेवाभाति । गोकुलोऽयमग्नेः संयोगादेवाभाति । ता गोप्यस्तद्भावेन रसं अनुभवन्त्यस्तस्या निकुञ्जदेव्या भावमापन्ना आसन् । द्वयो रासयोरिदं भवति । तृतीये रासे तु गहं गहं प्रति स्वयंस्वयमेव रसिकानन्दस्वरूपे क्रीडिता आसन् । स्वानन्दाविर्भावाय तासां योग्यतां निरूपयति । सुखमनुभवन्त्य आत्मभाव एवासन् । चतुर्थे तु गोरसविक्रीडा गोप्यश्चन्द्रावलीप्रभृतयोऽनेकशो दानलीलया निकुञ्जदेव्या स्वावेशेन सुखमनुभूय तद्वचनादभीष्टानि प्रतिपद्य योग्यानीन्द्रियाणि परस्परसुखं भुञ्जानास्तस्या निकुञ्जदेव्या रसिकशिरोमणिना सह सुखं स्वयमेव रूपेण अनुभवन्ति । पञ्चमी महालीला स्वयमेव वृषभानुगृहे प्रकटिता । तां तया सह पुरुषोत्तमरसिकानन्दोऽयं स्वयमेव व्रजलीलायां प्रकटितवान् । सः एव सुखं रमणानन्दरूपेण सम्भोक्ष्यमाणोऽभवत् । परस्परबाललीलासुखयुग्मरूपे एकमेव रूपं भवति । एवं तस्मिन् वृषभानुगृहे स्थानानि शतशः पद्मरागकुड्यानि गृहाणि तप्तसुवर्णपरिधीनि विराजमानानि भवन्ति । ललिताविशाखाश‍ृङ्गारवत्यादयः स्वयमेव प्रकटिता सख्यः स्वयमेव स्वरसं प्राप्ताः रसमानन्दात्मकमनुभवन्ति । अन्याश्च शतशो गोपीभावं प्राप्तास्तां लीलां प्राप्ता भवन्ति । यं यं भावं संयोक्ष्यमाणा गोपी भवेत्तं भावं द्वारि प्राप्य रासलीलाकृते उज्जहार । अत्यन्तभावलीलायां संयोक्ष्यमाणा गोपी पुष्करिण्यां तासामङ्गरागेण गीपीचन्दनं तासामेवोच्छिष्टं बुभुजे । भक्तानां तदेव हितकारि भवेत् । तदङ्गरागोद्भूततदाविर्भावेन महालीलायोग्यतां प्रतिपेदिरे । पुनः संशयं पप्रच्छुः । अहो द्वारिकायां रासः कस्मिन् समये कृतः? तत्र महालीलायाः स्थानं कुत्रास्ति? यत्र रसिकानन्दः पुरुषोत्तमः क्रीडति । केऽत्र भक्ताः? केषां सहायेन महालीलास्थानं प्रकटितं ? श‍ृणुत सख्यः । महानयं गोप्यो रसः । ये प्रत्ययापन्ना भक्तास्ते तं रसमनुभवन्ति व्रजलीलायाम् । त्रिविधा गोप्यः सन्ति । एका वेदऋचः सन्ति । एके अग्निकुमाराः सन्ति । एके संसिद्धाः श्रीराधिकया सह प्रकटिता भवन्ति । अष्टौ यूथानि संसिद्धानां भवन्ति । तेषां द्वादश यूथानि ब्रह्मणः पुत्राः अग्निकुमाराः सन्ति । द्वादश यूथानि वेदस्त्रीणां सन्ति । ते साधनसिद्धाः ये भक्ताः श्रीराधिकया सह रसिकानन्दोपासका भवन्ति । याः संसिद्धास्तासां नित्यलीलायामनुभवः । ये अग्निकुमारास्ते व्रजलीलायां श्रीराधिकया सह रसिकानन्दमुपासमानास्तां लीलां प्राप्ता भवन्ति । या वेदरूपिण्यस्तासां विरहभावेन महाननुग्रहः कृत । प्रथमं महालीलायाः प्राप्तिः पश्चाद्विरहः । ता विरहोत्कण्ठिता गोप्यो नान्यसुखं विदुः । तासामर्थे पञ्चयोजनपर्यन्तं महालीलायाः स्थानं प्रकटीकृतम् । तासां मनोभावबुभुत्सया एकं स्वगणं रहस्यलीलायोग्यं प्रेषयामास । द्वारिकालीलायां महालीला प्रकटिता । स एव गणस्तास्तत्रैव नयति । रसिकानन्दस्तासां स्वलीलामाविष्करोति । रुक्मिण्याद्याः पट्टराज्ञ्यस्तां लीलां श्रुत्वा उत्कण्ठिताः बभूबुः । ताभिः प्रार्थितो रसिकानन्दो महालीलां दर्शयामास । तदा रसिकानन्देनोक्तास्ताः पट्टराज्ञ्यो भवन्त्यस्तल्लीलायोग्या न भवन्ति । इमाः लीला लोके वेदमर्यादातिरिक्ताः । रसमार्गोपासका भक्ताः स्त्रियस्तां लीलां जानन्ति । वयं राजपुत्यः कथं तस्यां लीलायां योग्या न भवेम । बहुशः प्रार्थितो रसिकानन्दस्तथेत्युक्त्वा पुनराह । अहो राजपुत्र्यो भवतीनां यदि महालीलादर्शनाकाङ्क्षा भवति तर्हि अहं निशीथे आधिदैविकीं रात्रिं प्रकटयिष्यामि । तत्राधिदैविकोऽयं चन्द्रस्तत्राधिदैविका भक्ताः लीलोपयोग्या भवति । भवत्यस्तत्रैवायान्तु । इति कथितास्ताः सर्वाः विस्मयापन्ना बभूमुः । अहो अत्यन्तमाश्चर्योऽयं विलासः । तत्रागता सुयोगा सखी रासलीलायां योगं चकार । सखी तत्र रासलीलां रचयति । तत्र रसिकानन्दः पुरुषोत्तमोऽतिमनोहररूपेण तासां मनांसि जह्रे । ताः सर्वा गोप्यः भ्रीराधिकायाः कृपावशेन रमयाञ्चक्रुः । तत्र रसिकानन्देन ब्रह्मरात्रिः प्रकटिता । तस्यां रात्रौ ताः सर्वा मनोरथशतै रमयाञ्चक्रः । क्रीडान्ते ब्रह्मरात्रिरपावृत्ता बभूव । द्वारिकायां स्थिता राजपुत्र्यः द्वारे स्थितान् गुरूनुग्रसेनवसुदेवाद्यान् ददृशुः । रसिकानन्देन मोहितास्तत्र स्थिता गुरवो ददृशुः । तासां ता रात्रयो रासलीलाया ध्यानेन व्यतीताः । ब्रह्मरात्रिरपापावृत्तेति प्रातस्ताः सर्वास्तत्रैव समागताः । तत्र तत्स्थानं ददृशुः । यत्र मणिलता मुक्तालता सुवर्णलताः पुष्पैः पत्रैः फलैः सम्पूर्णा मणिस्तम्भैर्ग्रथिता निकुञ्जतां प्राप्नुवन्ति । सिद्धयो मूर्तिमत्यः तत्रैव स्थिता ददृशिरे । कामदेवो रत्या सह तत्रैव ददृशे । तत्र स्थिताः गोप्यो रसिकानन्देन संयुक्तास्तासां राजपुत्रीणां लीलां दृष्ट्वा निर्गलितमाना बभूवुः । ताः प्रश्रयावनता रसिकानन्दं पप्रच्छुः । अहो रासलीलामस्माकं दर्शय । ताथिः प्रार्थितो रसिकानन्दः प्रोवाच । समयोऽयं व्यतीतः । ब्रह्मरात्रिस्तु गता । मया भवतीनां पूर्व कथितमस्ति । भवत्यो रासलीलायां योग्या न भवन्ति । ये वेदोक्तकर्ममार्गरतास्ते कदाचिदिमां लीलां न जानन्ति । तस्मात् भवत्य इमा लीलायोग्या न भवन्ति । ब्रह्मलोके स्थिता रुद्रलोके स्थिता इन्द्रलोके स्थिता नागलोके स्थिताः स्त्रियस्ता अपीमां लीलां न जानन्ति । अन्ये मम भक्ताः बहवः सन्ति । तेऽपीमां लीलां न जानन्ति । तस्मात् भवत्यो निर्गलितमाना जाताः । तेन भावेनैतासां दर्शनं न प्राप्ताः । ताः राजपुत्र्यो रुक्मिण्याद्या रसिकानन्देनोक्ता दृष्ट्वा प्रसन्ना बभूवुः । तासां नामानि पप्रच्छुः । सुयोगजा सखी तासां गोपीनां नामानि कथयामास । इयं चन्द्रावली नाम्ना तथा चन्द्रकला विख्याता । चन्द्रानना रोहिणी मनोरमा माधवी पुण्यगन्धा सुरतकलावती भोगवती हंसगमना गुणवती गानवती सुरतकलाकोविदा सुविहारवती नृत्यकलाभिज्ञा एता सख्यः स्वयुथैस्तन्मण्डलं सेवमाना भवन्ति । ताः पट्टराज्ञस्ताः सम्पूजयामासुः । नानासुगन्धाङ्गरागेण वस्त्रालङ्कारभूषणैस्तासां श‍ृङ्गारमकुर्वन् । तासामुच्छिष्टजलेन पङ्काङ्गरागेण गोपीपुष्करिणीति विख्याता बभूव । यस्यामुत्पन्ना मृत्तिका अतिपवित्रा भवति । ता गोप्यस्तद्भावेन महालीलायां लयं प्राप्ता बभूवुः । सा लक्ष्मीः प्रश्रयावनता नारायणं पप्रच्छ । तेऽग्निकुमाराः ऋषयः कुतः समुत्पन्नाः? तैरिदं स्थानं कथं प्राप्तम्? केन साधनेन ते सिद्धा भवन्ति? स होवाच । पूर्वे ब्रह्मा लोकपितामहः सनकादिना पृष्टः । महालीलायाः स्थानं कथय । यत्र रसिकानन्दः श्रीराधिकया सह नित्यं क्रीडति । तत्प्रश्नेनातुरो ब्रह्मा ध्यानापन्नो बभूव । स समाधौ महालीलां ददर्श । तद्दर्शनेन विकलेन्द्रियो बभूव । तत इन्द्रियेभ्यो रेतः आपद्यत । ततो रेतः अग्नौ न्यपतत् । गार्हपत्यकुण्डे निपतितं रेतः पुरुषायितं बभूव । ततः समुत्पन्नाः पुरुषा अग्निकुमरा भवन्ति । ततस्ते ऋषयो गोवर्धनाद्रौ शिरसि तप आतन्वन् । तद्दिनमारभ्यैते तु ऋषयो व्रजं सेवमाना बभूबुः । एकदा ते ऋषयो गोवर्धनाद्रौ शिरस्यैकां कन्यां ददृशुः । श्रीराधिकयानुगृहीतां सर्वाङ्गमनोहरां तत्राप्सरःपुष्करिण्यां मज्जमाना तां दृष्ट्वा ते प्रश्रयेण नम्रा बभूवुः । सा कन्या तान् प्रत्युवाच । भो ऋषयः कुतः समायाताः? किं कुरुत? ऋषयः ऊचुः । वयं ब्रह्मणः पुत्रा अस्मिन् वने निवसन्तो महावनविहारलीलादर्शनकाङ्क्षिणो भवामः । पुनस्तेऽग्निकुमारा ऋषयः ऊचुः । भो भवती कुतः समायाता किं कार्य कुरुते? इदं रहस्यम् । यदि मनसि कृपाविष्टा तर्हि रहस्यं कथय । साधवो दीनवत्सला एवासते । तया देव्या अनुगृहीतानां तेषामतिकृपाशाली स्वभावोऽयमापद्यते । सा पुनरुवाचेदं स्वयमेव करुणया । अहो अहमपि पूर्व महारुद्रराज्ञः पुत्री आसम् । तस्य गृहे निरन्तरमत इतः क्रीडमाना गीतगानैऽर्हरेर्लीला मनस्यासादितास्मि । तस्य गुरुविभाण्डकमुनिपुत्री रूपशालिनी नाम्ना सा निरन्तरं तस्यां लीलायां सदा ध्यानानुभावना तया देव्यानुगृहीता लीलोपयोग्येति । तदा श्रावितानामधुनातनीं लीलां सोपरिष्टामभ्येति । ते ऊचुः । को मन्त्रः? क उपदेशः? किं ध्यानं तस्याः? उपविश । यदि करुणावती वद । श‍ृणुतेदं रहस्यम् । न कदाचिद्वचनीयोऽयं रसः सर्व एव । धर्माधर्मविरक्ता ये भक्तास्तेषामप्यवचनीयः । रसरहस्यविद्यामुपासमानः सद्योदर्शनमापद्यते । अं क्लीं क्लीं राधे संमोहिनि कामदात्रि कामकेलिकलारूपिणि नमो नमस्ते । इदं रहस्यं सर्वेषामपि दुर्लभतरम् । आनन्दरसिकशिरोमणिमोहनेन रूपेण सद्योलक्षं जपित्वा ध्यानापन्नो भवेत् । संश‍ृणुयात्तां सा नवकिशोरी तप्तहाटकाभरणा केशच्छटाचिक्कणसुगन्धरसप्लावितसीमन्तसिन्दूरसेचितमणिधटितसुवर्णभूषणैर्भूषिता रत्नकर्णभूषणज्वलितकुण्डलाभ्यामन्यैः शुट्याद्यैर्भूषणैः संयोजिता केसरमृगमदकर्पूरचन्दननानारेखासंयोजितललाटा मणिहीरकजात्यतिलकयोजिता संशोभते । कामकार्मुकभ्रूलतासंमोहितरसिकानन्दा तद्बाणमूर्च्छितेयं सदा तदावेशयोग्यतां प्रपद्य ध्यायमाना भवति । तां प्रपद्य स विश्वजयी भवेत् । नेत्रकृपाकटाक्षैर्भक्तानामभयदायिनी भवति । खञ्जनमीनचाञ्चल्यवशीकृतो रसिकानन्दो भवेत् । नासाचञ्चुरतितरां तेजसा राजते । कपोलौ सुवर्णसम्पुटौ तेजोमयौ भातः । शोभते नासा आभरणरचिता । मणिमयमुक्ताफलैर्गुम्भितो भवति बिम्बाधरो विद्रुमकान्तिः । द्विजाली ताराकारा भवति । सा तेजसा भातितराम् । ज्योत्स्नाराजमानाननोत्कण्ठग्रीवा राजन्तेऽतितरां कपोलकण्डादयः । तिरस्कुर्वन्ति तस्या बाहुशोभां केयूरकटकानि मरकतगुम्भितानि वलयानि शतशः तेजोमयानि । अतितरां लघु ताराकान्ति तिलकं शोभामत्येति । राजमानौ हस्तौ करतलाभ्यां यावकरसविभाविताङूगुलीभ्यां सूक्ष्मतरमणिधटिकाभ्यां भवेताम् । सुवर्णभूषणानि संराजमानानि सुरोचन्ते । तस्या वक्षोजावतिमृगमदागुरुरचितावेव पुरुषोत्तमरसिकानन्दरमणाधिष्ठानं संराजमानावेव भवतः । मुक्तागुम्भितहारवल्लीद्वयौ च गिरी इव संराजमानौ भवतः । गम्भीरनाभिह्रदसन्निधाने नवरोमराजीया शोभा हाटकोपघटितनीलमणिराजिरिव राजते । कटिमेखला क्षुद्रघण्टिकाराजमाना मणिघटितहाटकखचितताराजालशोभामभ्येति । संराजमानजघनस्थलवासिमोहनगृहं सौभाग्याढ्यं शबरवैरिणोऽधिष्ठानं रसिकानन्दैककलसुरतममलाम्बरेः परिवेष्टितं सुवर्णतारगुम्भितं शोभायमानं राजते । कदलीकाण्डरुचिरावूरू शोभामभीतः ॅहरणकमलमञ्जरीशोभा राजमाना यावकरङ्गरञ्जितेव शोभामभ्येति । नखचन्द्रतेजसा राजमानोऽयं लोको विराजमभ्येति । अतः परं श‍ृणुत सखायः ।रसिकानन्दस्य रूपं सदा निकुञ्जदेव्या ध्येयम् । आनन्दमात्रोऽयं करपादे तेजोमयोऽमृतमयः । श्यामहिरण्यपरिमध्यवनमालया युतो बर्हापीडो नटनाट्ययुक्तो मञ्चो रोचमानो राजमानः शोभायमानः शोभया संराजते अतितराम् । एक एव पुरुषोऽयं स्त्रीषु रमणानन्दीयति । रसः संराजमानत्वमभ्येति । संशोभायमानो भवेत् । एक एव रसो द्विधा भिन्नोऽयं श्रीराधाकृष्णरूपाभ्याम् । नित्यानन्दाय नमो नमः । तस्मात् रससंयोगे भक्तास्तस्मिन् रसे सम्प्रीयमाणमनसः सखिस्थाने शोभायमानमभ्येत्य सङ्गच्छन्ते । कोटिसूर्यप्रतीकाशं कोटिचन्द्रप्रभं संराजमानं तेजोमयं ब्रह्मेति पुराविदो वदन्ति । यस्मात् सृष्टिरुत्पद्यमानाभ्येति । संरोचमानाद्यस्मात् समुत्पन्नसृष्टयो ब्रह्मविष्णुरुद्रादयो यस्य प्रतापशक्त्योत्पन्ना नानासृष्टिं कुर्वन्ति । यस्य प्रतापशक्त्योत्पत्तिस्थितिलयानातन्वन्ति । यस्मात् प्रेमानन्दामित्यानन्दोऽयं लोकः प्रकटितो भवति । प्रेमानन्द एव सृष्टिस्त्वाधिदैविकी । तस्मात् प्रेमानन्दरक्तपुरुषोत्तमाधिष्ठानसौष्ठवं यत्र कोटिशो निकुञ्जनानालताग्रन्थिस्तासु गन्धवृक्षादिः राजमानत्वमभ्येति । यत्र निकुञ्जश्रेणिपु सखीनां यूथान्यतितरां क्रीडाश‍ृङ्गारयोग्यान्युपकरणानि राजमानान्यभ्येत्य शोभायमानानि राजन्ते । स्थाने स्थाने पृथक् प्रक्रियमाणानि श‍ृङ्गारस्थानानि । हाटकमणिमय्यो भूमयः । नानारङ्गमयफलपुष्पवृक्षादिराजमानामभियन्ति षडृतवः । यत्राधिदैविकरूपेण विराजमाना नानातन्वन् । तेषामेव यादृशा भक्तास्तादृशलीलादृष्टिमामद्यमानं श‍ृणुत । सखिप्रेम्णाऽयं लोकः सृष्टोऽस्माभिः पितृगृहं त्यक्त्वा अस्मिन् वने पर्वते नानारमणस्थानमस्माकमनुभवं प्रतिपद्य रचितं आधिदैविकं स्थानं वृन्दावनं अतिपुष्टपुष्करिणि यत्र निकुञ्जदेव्या सह पुरुषोत्तमो रमणानन्दो नित्यक्रीडामातनोत् । सङ्केतस्थानं रमणानन्दयुतो रसिकानन्दः क्रीडते । रमणानन्दः स्वरूपस्वामिन्यावेशः । रसिकानन्दस्तु पुरुषावेशः । इमां लीलाविद्यामधीयते ये तेऽनेन व्रजसङ्गिनः सङ्गेन सङ्गच्छ न्ते । तस्मात् तस्या लीलायाः कथा मद्भक्तैः सह भक्त्या लीलाकथायां मग्नाः रात्रौ यत्र यत्र पुरुषासक्ता आत्मानन्दं तदरूपिणं कुर्वाणा भवेयुः । रुचिरां लीलां योज्यमानां तां प्रतिपद्यमाना हि तया स्तुत्या ध्यानेन तल्लीलानुभवेन तन्नन्त्रोपासनेन तां लीलां पश्यन्तस्त ऋषयस्तद्भावेन गोवर्धनाद्रिशिरसि अटन्तः आत्मानं तद्भावेन भावयन्तोऽभवन् । रतिरसभावेनानन्दयोग्यतां वृक्षलतौषधयोऽनेकशोऽतितरामापद्यन्त । श्रीराधापुष्करिण्यां तं मन्त्रं जेपुः । तद्ध्यानं चक्रुः । तद्रूपे गुणात्मके एकरसे प्रत्यपद्यन्त । अतितरां गाढप्रेमरूपमापद्यन्त । अतीन्द्रियज्ञानेन संयोक्ष्यमाणा आपद्यन्त । रतिप्रसङ्गेन तया निकुञ्जदेव्या स्वलोकदर्शनमनुभाविता अभूवन् । सा अत्यन्तगाढप्रेम्णा तल्लोकसेवनात् स्वोच्छिष्टं भुञ्जानान् तान् प्रति तद्भावाभवत् । वृन्दावनेरहस्यक्रीडायां महारासस्थलं दर्शयामास । तद्दर्शनेन योग्यतां प्राप्ता अत्यन्तस्तवनं चक्रुः । ते अग्निनमः । नम आनन्दरसदायिने । प्रेमानन्दाय रतिदायकसुरतानन्दाय कुमारा ऊचुः । श्रीरसिकानन्दाय नमः । नमस्तुभ्यम् । रसिकानन्दाय नमो नमः । अव्याकृतविहारिण्यै सर्वव्याकृतिहेतवे । नमः कल्याणनिधये नमस्तुभ्यं नमो नमः ॥ नमोऽनन्तभोगवर्धिन्यै भोगात्मिकायै भोगसाक्षिण्यै । नमः श‍ृङ्गाररूपाय । नमो भोगरूपाभ्याम् । शरदि क्रीडते तुभ्यं नम आनन्दशालिने । नमोऽनन्तविहाराय नमस्ते रसरूपिणे ॥ नमो रससाक्षिणे । नमो गूढकेलिकलाय । नमो दानशीलाय । नमो वृन्दारण्यविहारिणे । तदनुरूपेण तदा साक्षिणे नमोऽणुरूपाय । नमो धर्माय । नमः सर्वधर्मातिरिक्ताय । नमः कामदेवकुञ्जराय नमो नमः । सङ्केतविहारिणे नमः । दानलीलासुखदायिने नमः । भोगसुखरूपाय नमः । अत्यन्तसुखदेहिने नमः । सर्वधर्मातिरिक्ताय नमः । अनन्तसुखसम्भवाय नमः । श्रीराधिकावल्लभाय नमः । श्रीराधाधरसुधाशालिने नमः । क्लीं कामवने कुञ्जकेलिरसिकाभ्यां नमः । व्रां व्रीं वृन्दावने रहसि संवलितनित्यानन्दरूपाभ्यां नमः । नमः ह्रीं सृष्टिसमुत्पन्नाभ्याम् । नमः ह्रां सर्वचैतन्यभोगश्रावकाभ्याम् । युवाभ्यां नमो रमणसुखवल्लभाभ्याम् । ॐ श्रीवृन्दावनसदामोददायिभ्यां नमः । ॐ नमो वृन्दावने सखीसमूहे परस्परक्रीडासंवलितदेहाभ्याम् । ॐ नमः परस्परश‍ृङ्गारसुखभोगवद्भ्याम् । ॐ नम आद्यनादिसम्भोगसुखभोक्तृभोगाभ्याम् । ॐ नमो वृषभानुनन्दगृहे क्रीडार्थं सम्प्रकटितदेहसङ्ग्याभ्याम् । ॐ नमो ललितादिसंस्तुत्यदेहाभ्याम् । ॐ नमो यमुनाकेलिरसिकाभ्याम् । ॐ नमो जलकेलिरसिकाभ्याम् । ॐ नमो नौकारसकल्लोलाभ्याम् । एव परा काष्ठा । तल्लीलाकथा परा काष्ठा । तस्यां लीलायां प्रत्ययः परा काष्ठा । अन्यकथाधर्मदानव्रततीर्थसाधनानि विमुक्तानि । यमनियमप्राणायामप्रत्याहारकलासुखभाविता सामान्यभक्तिरपि त्यक्ता । तल्लीलोपासकानां एकैव व्रजलीलातायत । रतौ रमणानन्दे रतिरासां भवति । अवस्थितोऽयं रसः । शुष्कवादिनामन्यां लीलां न श‍ृणुयात् । कर्मवेदजनितानि कर्मोपासनानि ये कुर्वन्ति ते कर्मजडा आसुरास्तोगं हठात्सङ्गस्त्यज्यते । चित्तवृत्तिं दुष्यति । येषां सङ्गं नालपेन्न श‍ृणुयात् ते धर्मविरोधिनस्तां लीलां न जानन्ति । तस्मात्तद्धर्मदृढकारिणो ये ते सेव्याः पूज्याः । ते तां लीलां ददति । अनन्यधर्मान् श‍ृणुयादिति रसमार्गिणां धर्मः । अरसिका जीवाः कर्मजडा ये तेषां स्वेष्टं न दर्शयेत् । स्वेष्टस्य वार्तामपि न श्रावयेत् । सखायो येषां विद्याविर्भावस्तेषाम् । अन्यविद्यारुचिर्न भवत्येव । यदनन्यधर्मे रुचिरास्तेऽरुचिरन्यत्र भवेत् । तस्य स्वेष्टे आविर्भवति रतिः । सोऽन्यदिष्टं विस्मरति । गुरुकृपया जीवत्वं प्रपन्नानामनुग्रहत अनुग्राह्यानुग्राहकभावेन रतिराविर्भवति । अतिरतेः स्नेहं विना न प्राप्तिः स्यात् । नारायणं प्रति लक्ष्म्या आविर्भूतया तया निकुञ्जदेव्या यानि सुखान्यनुभूयन्ते तेषां प्रश्नं पुनरभिवदति । ये साधनसिद्धास्तेषां कुतः स्थितिः । कया सरण्या तल्लोकप्राप्तिः स्वरतिरास्ते । कया रसिकानन्देन तस्या निकुञ्जदेव्याः प्राप्तिर्भवेत् । ये गवां गणास्तेऽतितरां तस्या देव्याः दृष्टिगोचरा एवासताम् । पुरुषो रसिकानन्दः स्वहस्तेन तेषां यथासुखं परिमार्जयन् दधिदुग्धनवनीताद्यान् रसान् स्वयमेव भुङ्क्ते । ये वत्सतरास्तेषां स्वहस्तेन पृष्ठभागान् परिमार्जयति । तेषां स्थानं कियत्प्रमाणम् । नन्दादयो गोपा वृषभान्वादयश्च ते गोपाः साधनसिद्धा वा संसिद्धा वा । यशोदाद्याः स्त्रियो मातृभावं प्राप्तास्ता अनादिसंसिद्धा वा साधनसंसिद्धा वा । यासां गृहे रसिकानन्दोऽयं पूर्वं तया श्रीराधया स्वयमेव संसिद्धासु भावप्रकटितः एव भवति । अत्यन्तस्नेहावभवताम् । अत्यन्त उत्सवो रमण एव भवति भजनप्रेमानन्दसुखप्राप्तौ । अतितरां रूपासक्तिर्न कथं भवेत् । सुखरूपरतिर्येषामन्यत्किं स्मर्यते । स होवाच पूर्व सृष्ट्युत्पन्ना अष्टौ वसवः । तेषां वसुनाम्ना अष्टो कोटयो वसवो देवप्रवरा मम लीलालोकं श्रुत्वा तल्लोके श्रुते उत्कण्ठमाना लीलयापेदुरिति श्रुतम् । इमं महिमानमभ्येत्य वनलीलासक्ताः अतितरामासताम् । अतिलोलुपे चित्ते तस्यां व्रजलीलायां राधा आस्त । संसिद्धनिकुञ्जलीलायां मयोपविष्टा मौनेनापन्नभावा अभवन् । ओङ्काराविर्भावलीलारूपश्रीराधारसिकारन्दरूपं प्रतिपद्य मनो भावापन्नं कृत्वा तां लीलां गायमाना अभवन् । ते वसव ऊचुः । ॐ श्रीराधारसिकानन्दविनोदाभ्यां संयुक्ताभ्यां नमो नमः । नित्यक्रीडात्मने नमो नमः । कामकेलिकौतुकात्मने नमो नमः । केलिकौतुकात्मने नमो नमः । श‍ृङ्गाररसविनोदिने नमो नमः । धात्रे क्रीडासम्पादिने नमो नमः । अनन्तरससम्पादकारिणे नमो नमः । सीमन्तिने नमो नमः । रतो सम्भोगिने नमो नमः । नानासुरतानन्दनिधये नमो नमः । रसिकानन्दशिरोमणये नमो नमः । रासमानजलक्रीडात्मने नमो नमः । क्रीडाविनोदिने नमो नमः । रतिसम्भावितसुखसंवलितात्मने नमो नमः । सुरतोत्कण्ठिने नमो नमः । यौवनात्मने नमो नमः । रससम्भोगात्मने नमो नमः । अत्यन्तक्रीडाश्रान्तिसंवलितवदनाय नमो नमः । प्रथमसङ्गरञ्जितात्मने नमो नमः । सम्भोगचटुचाटुवचनाय नमो नमः । मृदुकपोलवाण्यात्मने नमो नमः । निकुञ्जे पुष्पशय्याश‍ृङ्गारवत्सखीसुखदात्रे नमो नमः । आलिङ्गनचुम्बनसुरतसुखसंवलितवदनाय नमो नमः । सुरतानन्दसमग्रवशीकृतरसिकारन्दाय नमो नमः । आसनभेदसंयोगसुखदात्रे नमो नमः । विपरीतसुखदाय उदारचेतसे सम्भावितजितरसिकशिरोमणये नमो नमः । सुरतानन्दवशीकृतस्वाधीनपतिकाश‍ृङ्गारात्मसुखदायिने नमो नमः । ललितायां विशाखायां कलावत्या श‍ृङ्गारवत्यां योजितात्मने नमो नमः । भोगद्रष्टे भोगसम्भवाय नमो नमः । निद्रासम्भावितविप्रलम्भसुखसमनुभवतिरत्कृतरसिकानन्दात्मने नमो नमः । अत्यन्तप्रवीणरससुखरसिकशिरोमणिभोगभावुकात्मने नमो नमः । सर्वक्रीडारसपूरिणे नमो नमः । पृथिव्यां यत्र सुरतानन्दभोगास्तद्भोगाविर्भावान्तर्यामिणे नमो नमः । पृथिव्या यदानन्दरूपं तत्तदानन्ददायिने नमो नमः । पृथिव्यामतिकाममनोरथं सिद्धं वासिद्धं सुन्दरं सुभगं तेषामेव नमो नमः । एवं स्तुतस्तदा वसुभिः स्वानन्दाविर्भावं ददावतिप्रीतो रुद्रोऽयम् । वसूनां प्रवरोऽयं नन्दोऽभवत् । धरानाम्नी स्त्री यशोदास्त । बृहद्वसुश्रेष्ठः कीर्तिदेव्या सह वृषभानुरभवत् । निकुञ्जदेव्या रसिकानन्देन सह यत्रानन्दोऽभवत् । नन्दोपनन्दभद्राश्वकृतवदुग्रभङ्गोदधिसामन्तातिरोचिष्मत्कात्येयमत्यनघरोचिष्मदुष्णीषरश्मिवसुसुजया अन्ये च शतशो वसव साधनसिद्धाः एवासत । तेषां स्त्रीषु श्रीयशोदा सा च सत्या आस्त । रसिकानन्दशिरोमणिर्वृन्दावनेश्वर्या सह सङ्क्रीडमानोऽभवत् । अतिरूपलावण्यलवक सूक्ष्मस्वरूपेणैनं भजमानाय नन्दरूपं दत्तवान् । ते गोपा गोप्यः । ते परस्परमेकप्राणा एवासत । ते गोपा एकप्राणा एकरूपिण एकभावा अभवन् । येषां पुरुषोत्तम आनन्दः । अन्याश्च गोप्यो नानाभजनभावमाविष्कृत्य भजनानन्दे भजनं कुर्वन्ति । अतितरां स्नेहोऽभवत् । सा लक्ष्मीर्नारायणमुवाचेदम् । अत्यानन्दोऽयं लोकः । यस्मिन् लोके केवलरसनिधिर्मोहनेन रूपेण क्रीडामकरोत् । सा वृन्दावनेश्वरी कोट्यानन्दरूपा यत्र बालकेलिक्रीडां व्यदधात् । तेषां स्थानानि कीदृग्विधानि । गृहाणि कीदृग्विधानि । वद सर्वमानन्दाविर्भावेन । भजनानन्दः सुखं श्रीराधारसिकमोहनमेवं क्रीडामातनोत् । स होवाच लक्ष्मीम् । नन्दस्य गृहं सर्वसमृद्ध्यानन्दावधि मणिमयमाधिदैविकेन रूपेण स्वप्रकाशमकरोत् । पद्मरागमयः कुड्यः । सुवर्णजाम्बूनदप्राकारा वीथयो विराजमाना भवन्ति । यत्र वृषभानुगृहं नन्दगृहाद्योजनायितम् । तस्मात् स्थानात् द्वादश श्रेणयोऽतितरां लघुकोमलमणय एवासन् । तासु श्रेणिष्वनेकशो लताप्रतानिन्य एवासन् । सुवर्णयूथिकाप्रवालैर्मणीनारङ्गप्ररोहैरानन्दक्रीडास्थानमनुरचितं भवति । तत्रेदं सङ्केतस्थानम् । अहो लक्ष्मि किं वर्ण्यते चतुर्योजनायितम् । नन्दवृषभानोर्गृहात् द्वादश श्रेणयो विराजमाना सङ्केतस्थलादुपरितः । तेषु स्थानेषु मध्यस्थिता अनेकशो विविधलताप्रावारा अभियन्ति । मुक्तालताग्रथिता मणीनां तेजसा प्रद्योतिता अभ्येत्यतितराम् । सहस्रनिकुञ्जा कदम्बलता सुगन्धसंवलितातितरां विस्तीर्णाभ्येति सुभगा कदम्बमञ्जरी । हरितपीतनीलश्वेतशुभ्राः कदम्बाश्च परागोद्धृतपरिधयः सुवासिता आसन् । तद्गन्धलोलुपभ्रमराः संसिद्धाः साधनसिद्धा अनेकशः कोमलकलं यशो गायमाना सन्ति । कोकिलपिकशुकाः संसिद्धाः साधनसिद्धा अनेककोमलकलं गायमाना सन्ति । रूपलावण्ययुताः हंसमयूरादयोऽनेकशो रुचिरा भवन्ति । ते तस्मिन् स्थाने रसिकानन्देऽतिमोहनरूपे नित्यं सङ्क्रीडमाना भवन्ति । वृन्दावनेश्वरीनित्यक्रीडाप्रधानं भवति राससखीनां समूहेन दशसहस्राणां समेतानां वृषभानोर्गृहम् । वृषभानुपुरं पूर्णानन्दयुतं प्रेमानन्दयुतं सुखसन्ततियुतम् । सर्वाः समृद्धयो द्वारे तिष्ठन्ति । अष्टमहासिद्धयो द्वारे द्वारे तिष्ठन्ति । अतितरां सुखसम्पत्तिः स्वरूपेण सुसेवते । ये ये विद्यासधर्माणः सुभगाः सुरतकलाकामनिद्रालज्जाप्रेमसुरतोत्कण्ठादयस्ते विराजमाना भवन्ति । अधितत्स्थानं निकुञ्जे मध्ये सुगन्धशीतला मणयो ग्रीष्मादिषु ऋतुषु सेव्यरूपाः क्वचित् सुगन्धपारिजाताः केचिद्वृक्षाश्चम्पकाः सदापुष्पिताः सदा सुकोमलैः पत्रैर्विराजन्ते सुगन्धाः । केचिद्वृक्षाः पक्वफलसुगन्धरसयुक्ता विराजमाना आसते । केचिल्लताप्रकीर्णाः अतितरां सुगन्धयुताः । आमोदगन्धलुब्धा भ्रमरा मुदा गायन्ति । काश्चिद्गोप्यस्तत्र मज्जन्त्य आसते । काश्चिद्गोप्यस्तस्यां वस्त्रालङ्करणैर्भूष्याचक्रुः । काश्चिद्गोप्यः प्रेमासक्ता राधारसिकानन्दाभ्यां भोजनं चक्रुः । काशिद्गोप्यो दोलां ताभ्यां सह दोलयित्वा गायमाना आसन् । मुदा काश्चिद्गोप्यस्तच्चित्रशालायां स्वानि स्वानि रूपाणि पश्यन्ति हृष्यन्ति रात्रौ दिवानवरतम् । गोप्यो भावाश्रितास्तद्बाललीलां गायमाना भजनं चक्रुः । अप्यासक्ताः प्रेमभजनरूपा आनन्दं विन्दन्ते । ततो गोपास्तथा रसिकानन्दे मग्ना अत्यन्तप्रेमभजनं कुर्वते । ये प्रेमभजने निमग्नास्ते तां लीलामापद्यन्त । नित्यलीलाभजनानन्दोऽयं रसोऽनिर्वचनीयः । नन्दयशोदावृषभानुसत्यादयो ये भक्तास्ते भजनानन्दं नित्यमनुभवन्त्यतितराम् । भूयो भूयः सुखसौष्ठवमभवत् । एवं गोपा गोप्यस्तन्मयतां प्राप्नुवन्ति । तासां मातृभावं प्रपन्ना गोप्यो भजनानन्दे भजनमेव कुर्वाणा आसन् । तासां गृहा दिष्टद्यानादिसुखसमृद्धिसम्पत्तयो भवन्त्यानन्दसुखसमृद्धिसिद्धयः । नानाभजनयोग्यान्युपकरणानि तदर्थे सम्पादितानि भवन्ति । गोपगोपिकादीनां समृद्धिसुखं तस्य भजनार्थमेव भवति । अतितरां सुखार्थमेव योग्यतापद्यते । अनन्तसुखसम्पत्तितया निकुञ्जदेव्याः स्वावेशेन सुखकोट्यानन्दं प्राप्नुवन्ति । अभियन्ति च सुखसंयोग्यताम् । पृथिव्यां भारते क्षेत्रे आनन्दमयो लोकः स्वसृष्टिलीलार्थे स्वयमेव प्रकटितः । तस्मिन् व्रजलोके सर्वा एव लीलाः सन्ति । ये गोपा गोप्यस्ते आधिदैविकीं लीलामतितरां संसिद्धा अनुभवन्ति । सा लक्ष्मीरुवाचेदम् । रहस्य इह व्रजमण्डले यानि पृथक्स्थानानि तानि ब्रूहि । एकविंशतियोजना भूमिरानन्दमय्येवास्ति । यमुनाया दक्षिणकूलतो महास्थानं पञ्चयोजनायतं विहारस्थानमतितरां सूक्ष्मं नित्यविहाररहस्यकेलिकलाविर्भावभावितम् । तस्मिन् स्थाने ये वृक्षाः गृहाणि निकुञ्जा अन्यानि विहारस्थानानि तान्याधिदैविकान्यासन् । यो वंशीवटोऽयं साक्षाच्छिवोऽयम् । यो भण्डीरवटः स एव देवेन्द्र आसीत् । तत्र स्थिता ये पक्षिणस्ते साधनसिद्धा आसन् । ते निरन्तरं ताभ्यामासन् । ये तत्र मनुष्या आधिदैविकरूपा एवासन् ते वृन्दावनेश्वरीसमनुगृहीतास्मदा तां लीलां दर्शयन्ति तदनुग्रहतः । यासामज्ञात्वा ज्ञात्वा वा यस्मिन् कस्मिन् भावे भावो भवेत्ता भावेन तां लीलां प्राप्नुवन्ति । यत्र कुत्रापि स्थितोऽपि तद्वृन्दावनोद्भवा मृत्तिकां भक्षयेत् । स तव तां लीलां प्राप्नोति । तत्स्थानोद्भवानां वृक्षाणां पुष्पमालां ये कण्ठे धारयन्ति ते सर्वकृत्यं विधूय तां लीलां प्राप्नुवन्ति । सदा तां लीलां गायमानास्तां लीलां प्राप्ता एव सन्ति । यैः प्रतिक्षणं वृन्दावनं स्मर्यते न कृतार्थतां प्राप्नुवन्त्यतितराम् । अस्यामाधिदैविकी लीलां प्राप्तास्तां लीलां गायन्ति ध्यायन्ति । स्नेहासक्ता ये तस्मिन् स्थले निवसन्ति तै पूर्वं तत्सृष्ट्युत्पन्ना एव सन्ति नान्यत्र । तस्मिन् वृन्दावने गोवर्धनोऽयं पर्वतः पञ्चयोजनायतः । त्रीणि योजनान्यच्छिद्रितसप्तश‍ृङ्गाणि निरस्तधातुमयानि । यत्र निरन्तरं श्रीराधारसिकः पुरुषोत्तमः सङ्क्रीडते । यस्य गह्वराणि सुकोमलानि सुगन्धजुष्टानि विराजमानानि भवन्ति । यस्मिन् गोवर्धने स्वयमेव श्रीराधारसिकशिरोमणिः क्रीडां करोति । अतितरामानन्दमयोऽयं पर्वतो यस्मिन् पर्वते रुद्रो रुद्राण्या सह पूर्व सृष्ट्यादौ तप आतनोत् । येन तपसा शिवः शिवोऽभूत् तत्र रुद्रशिवपुष्करिण्यां ये मज्जनं कुर्वन्ति ते तां लीलां प्राप्नुवन्ति । ये तं पर्वतमुपसेवमाना भवेयुस्तेषामनेनैव शरीरेण लीलायोग्यतास्ति । अनेनैव गोवर्धनाद्रौ कामदुघा या तप आतनोत् सेयं गोविन्दपुष्करिणी । ये प्रेममग्नास्तस्यां पुष्करिण्यां मज्जन्ति सेवन्ते ते तां काले काले तस्याः दर्शनयोग्यतामतिप्रेमानन्दप्राप्तिमनुभवन्ति । यत्र मानससरोवरं विधाय मयापि तप आतन्यत । तत्तल्लोकेछया अप्सरसा उर्वश्या तस्मिन् गोवर्धनाद्रौ तप आतन्यत । सानुभवोऽयं लोको यत्र यत्र परितः शिलाः श्रीराधाकृप्णनामाञ्चितास्तत्र ताः शिलाः श्रीवृन्दावनेश्वर्यधिवसति । आनन्दमयेन सह ये भक्तास्तस्य परिक्रमं कुर्वन्ति ते तल्लीलादर्शनयोग्यतां प्राप्नुवन्ति । इन्द्रपराजयमहोत्सवे अहमपि ब्रह्मादिना सह तस्मिन् स्थाने दर्शनार्थं गमिष्यामि । अतितरां श्रीराधारसिकस्य क्रीडास्थानं भवति । सा लक्ष्मीः पुनरुवाचेदम् । रहस्यस्थानेऽस्मिन् पर्वते रुद्रेण कस्मिन् काले तपः आतन्यत । तल्लीलां विस्तरशो ब्रूहि । मम मनोऽतिलोलं तस्यां कथायाम् । सुखे कस्तृप्तिं याति । येन तपसा ध्यानेन तद्भावो भवेदतितराम् । अहो अहं तं लोकं श्रोतुकामा । विस्तरेण ब्रूहि । एवं प्रपन्नां हृद्याधाय स्वयमेव नारायण अभिवदत्यतितरामानन्दमयेन चेतसा । स होवाच । श‍ृणु लक्ष्मि अस्य लोकस्य हन्त माहात्म्यम् । अहं वक्तुमशक्तश्च । यस्य श्रीराधिका रसिकानन्दस्य विहारस्थस्य दर्शनालापकथानुभव अतितरां सद्यः सरूपे रमणानन्दे स्नेहाधिक्यं प्रापयन्ति । तथैव ते धन्यास्ते कृतार्थाः । ते अन्धधर्मरहितत्वेन प्रेमानन्दे प्रीतिमापद्यन्ते । अतितरामासक्तिर्भवेत् । ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा अन्ये जात्यन्तरजाः शतशो जात्यन्तरभेदास्ते प्राप्नुवन्ति । न वर्णेन न धर्मेण येषां लीलारतिरास्ते ते तां लीलां प्राप्नुवन्ति । अन्यभावेनेश्वराविष्टचित्ता अन्यदेव प्राप्नुवन्ति । तद्भावे न कदाचित्तमेव प्राप्नुवन्ति । येषां तल्लीलानुभवो न स्यात् तेषामनेकशः साधनानि वृथा स्युः । ब्रह्मविद्यासेविनो ज्ञानिन आत्मवेदनेन तां लीलां न प्राप्नुवन्ति । तस्मात्तल्लीलादर्शनयोग्या भक्ताः स्वभावेन तस्या श्रीराधिकाया अनुग्रहात्स्वात्मभावा भवन्ति । शिष्टानुशिष्टस्वेष्टध्यानकथासेवानुभावेन तेषामनुभवकथायामासक्तिः स्यात् । सा संयोक्ष्यमाणा रतिरिन्द्रियार्थे । रतिसङ्गो भावापन्नो भवति । ये रतिकलनयानुगृह्यन्ते तै तां लीलां प्राप्तवन्तो भवन्ति । सर्व त्यक्त्वा तल्लीलाया अनुभविनो भवन्ति । अनुभवसम्भवस्तदा भवेत् यदा साधवः कृपां कुर्वन्ति रतिर्भवति च । सा लक्ष्मीः पुनरुवाचेदम् । त्वयोक्तं यैषा व्रजवासिनी सृष्टिरद्भुतं स्थान प्राप्तैवेति यस्मिन् स्थाने गोवर्धनोऽयं राजमान आस्ते । तस्मिन गोवर्धने रुद्रेण तपो रुद्राण्या सहाक्रियत । पुष्करिणीं विधाय तप आतनोत । यथायं लोको रुद्रेण तपता दृष्टः स्तुतः कथितो हृदि ध्यात तवायं लोकः सर्वेषां भक्तानां सन्दृश्यते । सुशोभनोऽयं लोकः सर्वेषां लोकमहालीलया आवेशेन तेषां भक्तानामनुग्रहं प्रपद्यमानो भवेत् । कथं रुद्रेण दर्शनं प्राप्तं केन साधनेन शिवः सिद्धोऽभवत् ? स एवं गौवर्धनाद्रो कियत्कालं किंरूपं तपोऽतप्यत? दृष्टविभवोऽयम् । विस्तरशो ब्रूहि यदि कृपाभावो भवेत् । स होवाच । पूर्वे सृष्ट्यादोवकस्मिन् समये शिवः शिवया वैकुण्ठे तल्लीलादर्शनार्थ गतवान् । तत्र नानासत्त्वमयानि सङ्क्रीडमानान्यनेकशो रुद्रेण दृष्टानि । सर्वा मया क्रीडिता क्रीडा दृष्ट्वा अनुभूय अतृप्तेन्द्रियोऽभवत् । ममाग्रे स्थिता रुद्रो मम ध्यानावस्थां दृष्ट्वा अत्याश्चर्यवान् अहो साक्षान्नारायणोऽयं परं ब्रह्म । रुद्रादयो यं ध्यायन्ति । रुद्रादयो यां वेकुण्ठाश्रितां लीलामभिलषन्ति । आदित्यादयो यं द्योतयन्ति । यस्य कलावतारान् पृथिव्यां देवा ऋषय स्तुवन्ति । यं नारायणं ध्यायन्ती तेन रमा सदा क्रीडते । यं गत्वा चतुर्धा मुक्तयो द्वारे तिष्ठन्ति । तद्धाम सर्वेषां देवादीनामपि दुर्लभतरम् । स एव नारायणः कस्य भजनं कुरुते । अत्याश्चर्यं गतो रुद्रो बद्धाञ्जलिः सन् नारायणं स्तौति । स होवाच रुद्रः । नमोऽनन्ताय महते वैकुण्ठाय श्रीमते तेजोमयाय तुभ्यं नित्यं नमो नमः । तवांशकला या नृसिंहाद्याः रामाद्या अनेकशो लीलामयास्ता ध्यायमानोऽहं शिवतां प्राप्तः । अहमधुनात्याश्चर्ये गतवानस्मि । अहं निरन्तरं तव ध्यानेन विचरामि पृथिव्याम् । त्वं कं ध्यायसि? सर्वे वर्णय तव कृपा यदि स्यात् । इति शिवेन सम्प्रार्थितोऽहं तल्लोकस्थिति कथयिष्यन्- श‍ृणु तात अहं नित्यं तल्लोकं ध्यायामि । यत्र निकुञ्जेश्वर्या क्रीडते, रसिकानन्दो वनविहारे । यद्रहसि क्रीडास्थानम् । यत्र नन्दमयकामकेलिकौतुकरतिरासविनोदकुञ्जाश्च शतशो विराजन्ते । यत्र गोवर्धनोऽयं गिरिः राजमानो भवति । यत्र कदम्बकुञ्जश्रेणयो गह्वराणि रत्नानि धातुमयानि । यत्र पुष्करिण्योऽमृतोदैः पूर्णा विराजन्ते । यत्र मणिगणाकरा ज्योत्स्नातितेजोरूपसंवलितपरस्परवस्तुप्रतिबिम्बिता आसते । तस्य लोकस्य दैवतं श्रीराधिकया सहानन्दरसिकं पुरुषं ध्यायेम । यस्य कटाक्षात् समुत्पन्ना लोकानां ब्रह्माण्डानामुत्पत्तिस्थितिलयान् कुर्वन्ति । अनेकशो विद्या अविद्या देवाश्चासुराश्चानेकशः सृष्टिस्थितिलयान् लभन्ते । यत्र ब्रह्माण्डानि कोटिशो विराजमानानि राजन्ते । तदतितरां सुशोभायमानं ब्रह्मेति पुराविदो वदन्ति । यत्र गत्वा धाम्नि लयं यान्ति योगीन्द्राः । श‍ृणु यदि ते तस्य लोकस्य द्रष्टुमिच्छा वर्तते तर्हि त्वं व्रज । व्रजमण्डले गोवर्धनो गिरिरास्ते । रत्नधातुमयोऽयं पर्वतः । यत्र रसिकानन्दोवृन्दावनेश्वर्या सह क्रीडमानोऽभवत् । परितः क्रीडोपयुक्तानि वनानि द्वादश शोभायमानह्णि सुगन्धलतौषधिभिः संलग्नानि राजन्ते । यमुनामृतोदकैः क्रीडाविहारस्थलानि सम्भजन्ते । यत्र यमुना बद्धोभयतटीविराजमाना भवति । अतितरां पद्मरागपुष्परागचन्द्रकान्तसूर्यकान्तमणीनां तेजोभिर्विराजमानानि जलानि शोभन्ते । यत्र यमुनाया उपरि शतशो वानीरकुञ्जा विराजन्ते । जातियूथिकामल्लिकासुवर्णयूथिकाप्रकरसुगन्धसंवलितेऽस्मिन् परागधृतोन्मदाः भ्रमरपिकशुकसारसहंसश्रेणयः शोभायमानाः कलकण्ठैर्निकुञ्जदेव्या यशोऽतितरां गायमाना भवन्ति ।यत्र वृन्दावनलीलाया निकुञ्जदेव्याः रमणलीलास्थानम् । यस्य स्मरणादेव रसाविष्टचित्तो भवेत् । वृन्दावनं वृन्दावनं इति प्रतिक्षणं ये वदन्ति ते देहोपाधिं त्यक्त्वा तस्य लीलारतिमनुभवन्ति । तन्ममापि निरन्तरं ब्रह्मादीनामप्यदृष्टगोचरम् । सहस्रयोजनात् ये वृन्दावनं संस्मरन्ति वृन्दावनमिति प्रतिक्षणं वदन्ति ते तल्लीलोपयोग्या एव भवन्ति । यत्र कुत्रापि मृतो वृन्दावनोपासकस्तत्स्थलं तीर्थरूपं भवेत् । ये वृन्दावनोद्भवास्तुलसीकाष्ठाङ्कितमालाः कण्ठे धारयन्ति ते कृतार्थतां प्राप्नुवन्ति । तस्यां लताः सरसा आसते । अतितरां प्रीतिः भवति । ये वृन्दावने वृक्षास्ते आधिभौतिकाः सिद्धाः । साधनसिद्धा इतस्ततो भ्रमन्तीर्लता ओषधिक्रीडास्थलानि कुर्वन्ति । तया देव्या वृन्दावनेश्वर्या त्रयः कोटयः पुलिन्दगणा उत्पादिताः । तेषां वृन्दावनवासिनां देहोच्छिष्टानि मलमूत्रादीनि देहोद्भवानि कफलालामूत्राणि ते पुलिन्दगणा ऊषरे उत्क्षिपन्ति । तेषां भक्तानां दिव्यदेह आधिदैविक त्वास्ते । अतितरां सौभाग्याङगे भवति । अहो शिव वृन्दावनमाहात्म्यं केन वर्ण्यते ? सेवका यत्र कुत्रापि यत्किञ्चित् भोगार्थे कुर्वन्ति तद्भोगो रसिकानन्देन सह निकुञ्जदेव्या सर्वः सम्भोक्ष्यते । अतितरां सुखसम्भोगस्थानं तत् स्थानं ममापि ध्येयं भवति । अहं निरन्तरं ध्यानापन्नो भवामि । तस्मिन् वृन्दावने मध्यस्थानं निरन्तरं मम ध्येयम् । तस्य स्थानस्य ध्यानेनाहमानन्दस्थानमानन्दावेशेन भवामि । आनन्दध्यानादहं तत् प्रतिपद्ये । अहो शिव त्वमप्यानन्दस्थानमतितरां प्रतियोज्य तदभ्येहि । ध्यानापन्नो भव । रतिरसभावभेदध्यानापन्नो भव । तद्वृन्दावनेश्वरीरूपमङ्गप्रत्यङ्गं रसिकानन्देन सह यो ध्यायति स एव क्रीडायां मनोभावापन्नो भवति । पुनः शिव उवाच । त्वयोक्तानि द्वादशवनानि । तेषु वनेषु पृथक् पृथक् वद सर्वम् । स होवाच । श‍ृणु शिव वर्णनं वनानां यानि कृत्वा व्रजलीलायामत्यन्तसुखिनः सम्भवन्ति । महावने नन्दस्याधिष्ठानम् । गोकुले गवामधिष्ठानम् । यमुनायां क्रीडाधिष्ठानम् । वृन्दावने स्वामिन्या लीलाधिष्ठानम् । कामवने महालीलासङ्केतस्याधिष्ठानम् । बृहद्वने वृषभानुपुरनन्दपुराधिष्ठानम् । लोहवने पुलिन्दस्याधिष्ठानम् । तालवने उपनन्दाद्यधिष्ठानम् । दधिग्रामे दध्यधिष्ठानम् । गोवर्धनाद्रिपृष्ठे दधिविक्रयाधिष्ठानम् । गोवर्धनाद्र्यधो दानश्रेणिदानलीलाधिष्ठानम् । अयं गोवर्धनाद्रिः रमणलीलाधिष्ठानं भवति । अरिष्टे गोगणे कुब्जवटे वृन्दावने तथा । गोवर्धनगिरौ रम्ये सृष्टिः सर्वात्मना भवेत् ॥ भोः शिव अस्मिन् स्थाने श्रीराधारसिकानन्दावेव रूपेण सदा रमणं कुरुतो लीलासमेतौ । अत्यद्भुता संसिद्धा लीला सदा गोवर्धनाद्रौ । आनन्दमये स्थाने तप आचर । स रुद्रो रुद्राण्या सह तत्र पुष्करिणीं विधाय तन्नारायणमुखात् श्रुतं लोकस्य ध्यानमकरोत् । किञ्चिद्ध्यानेन ध्यानापन्नोऽभवत् । दशसहस्रवर्र्षं तल्लोकदर्शनार्थं तप आचरत । तद्धद्यानेन निकुञ्जदेव्या दृष्टिपथमतिमोहनेन रूपेणानन्ददर्शनमापेदे । धनविद्युदुपमरूपनवीनया जायया सह केलिसम्पत्तिसमवेतं रमणानन्दं क्रीडासमेतमरूपयत् । तद्रूपदर्शनेन समाकुलोऽयं शिवस्त्रिभिर्नेत्रैर्निरूपयन् पुनःपुनः पञ्चभिर्वक्त्रैः स्तुतिमापेदे । उवाचायं शिवः । अं अं अनन्ताय नमो नमः । श्रीं श्रीं श्रीकृष्णाय तुभ्यं नमो नमः । सं सं सम्भोगप्रियाय नमो नमः । बृं बृं वृन्दावनविहारिणे नमो नमः । कुं कुं कुञ्जविहारिणे नमो नमः । लं लं ललिताविहारिणे नमो नमः । क्रीं क्रीं क्रीडावनविहारिणे नमो नमः । रां रां राधामनोहारिणे नमो नमः । किञ्च निरन्तररासक्रीडासक्ताय नमो नमः । सदामनोहारिणे नमो नमः । सदा रतिप्रियाय नमो नमः । सदा गानप्रियाय नमो नमः । सुरतानन्दाय नमो नमः । आलिङ्गनप्रियाय नमो नमः । कूटस्थाय नमो नमः । रमणानन्दसुखदात्रे नमो नमः । अतिभोगप्रियाय नमो नमः । अन्तरात्मने नमो नमः । अतिरतिविहारिणे नमो नमः । अत्यद्भुतचारित्राय नमो नमः । भारद्वाजरूपिणे नमो नमः । रामाय नमो नमः । मोक्षदाय नमो नमः । भक्तारदप्रदाय नमो नमः । सकलकलाकोविदाय नमो नमः । लीलाविहारिणे नमो नमः । नमः । भक्तप्रियाय नमो नमः । अत्यानन्ददायकाय नमो नमः । महाक्रीडासुरवदाय नमो नमः । महाकस्तूरीतिलकाङ्किताय नमो नमः । श‍ृङ्गारवत्यादीना सखीनां सुखदायकाय नमो नमः । मोक्षदाय नमो नमः । स्वच्छन्दोपात्तदेहाय नमो नमः । शोकमोहभयवैराग्यदुरवनाशहेतवे नमोनमः । अन्तर्यामिणं नमो नमः । रसिकानन्दाय नमो नमः । परस्पररासकेलिकलाकौतुकाय नमो नमः । विप्रलम्भसुखप्रदाय नमो नमः । अतिरतिकौतुकाय नमो नमः । अगणितानन्ददायिने नमो नमः । एवं स्तुत्वा तदा रुद्रस्तूष्णीं केवलेन्द्रियस्तद्भावभावितोऽप्यासीत् । सरतिरासीत् । गतव्यथः आसीत् । समचेता आसीत् । स्तुत्वा रसिकानन्देऽभवत् । तया वृन्दावनेश्वर्या स्तुत्या प्रसन्नया वरेण छन्दितः साभिप्रायेण स्तवेन स्तविता त्वं वरं प्रार्थयेति । अकामो वा सकामो वा मद्भक्तो यजमानोऽयम् । वरेण तां प्रति छन्दयित्वा शिश्राय । अहो मयि यदि तुष्यसि तर्हि व्रजलोके क्रीडास्थानं दर्शय । अयं देयो वरो ममाभिलषितः । वरोऽसौ तव भवेत् । तया निकुञ्जदेव्या दत्तो वरोऽयं ते दिव्यं चक्षुर्दत्तवत्यस्मि । त्वं चक्षुषाऽनेन मम विहारस्थलं दर्शयिष्यसि । तस्मिन् गोवर्धनाद्रौ रुद्रस्य सर्वा व्रजलीला दृष्टिपथे आविर(र्?)भूवन् । प्रथमं नन्दस्य भवनं कोटिवैकुण्ठव्यापिरत्नकुड्यैर्वरमणिस्तम्भेः शोभितमप्यासीत् । अतितरां नन्दगृहं पञ्चविंशतियोजनायतं पञ्चयोजनभूमौ मणिस्तम्भाकुलं बालक्रीडायां रमणयोग्यं यत्र पुरुषोत्तमो रसिकानन्दः संसिद्धलीलां करोति । सा व्रजेश्वरी स्वयमेव देवरूपं विधाय तस्मिन् रसिकानन्दे क्रीडां करोति । यथा पुरुषोत्तमस्य रसिकानन्दस्य संसिद्धप्रकटानुभावस्तथा संसिद्धोऽयं नन्दवसुभिः स्वावेशप्रकटानुभावो वितन्यते । नन्दगृहाद्वृषभानोर्गृहं योजनायितम् । रङ्गवत्यादयः सख्यः प्रेमवप्यादयश्च यशोदायाः समीपे क्रीडोपकरणान्यकुर्वन् । उपनन्दस्य पुत्री विशाखा नाम्ना रसिकानन्दस्य भावाभिज्ञैवास्ते । नन्दस्य वृषभानोर्गृहात् श्रीरसिकशिरोमणिद्वादशश्रेणयः एवासते । रमणस्थानं पञ्चयोजनविस्तीर्णमेवास्ते । अतिरतिरमणकोटिकामपूर्ण जाम्बूनदसुवर्णखचितसुकोमलमास्ते । रमणसरसाः शतशः सुगन्धपारिजातका इव मणयो ललामभूतपरस्परगन्धाढ्या भवन्ति । कल्पद्रमवृक्षाः वाञ्छितफलदातारो भवन्ति । अतितरां फलपुष्पमणिलताहरितपीतश्वेतशुभ्रभ्रमरसंवलितयोजितानि रतिकलाभावस्थानानि संराजन्ते यमलैर्यमलैः कुञ्जविद्रुमलताग्रथितानि । अतिरसरमणानन्दयोग्यानि शय्योपकरणानि संयोक्ष्यमाणानि भवन्ति । शाखासक्ताः पक्षिणो विराजमाना नानारङ्गैश्चञ्चुपक्षैर्भवन्ति । ते पक्षिणः कलशब्दं समवेता यशो गायमाना भवन्ति । तेषु पक्षिषु केचित् साधनसिद्धाः संसिद्धाश्च भवन्ति । अतिप्रव्रजिताः परस्परगोष्ठीयुक्ता आसतेऽतितराम् । मणिज्योत्स्नापाकृतान्धकारैरतितरां रात्रौ दिवा तेजसा व्यक्तान्यासत । तस्मिन् स्थाने रङ्गवती प्रेमवती रसिकानन्देन सह क्रीडतः । वृषभानुकुमारी ललिता विशाखा अनुराधा चन्द्रकला सुमुखी सुभगा भोगवती सुगन्धाङ्गी रतिमती कामपूरा कामदा कामाक्षी कलावती हरिणाक्षी हंसगमना श‍ृङ्गारवती दृष्टिमोहना जितकामा वशकामा कामवर्धिनी सर्वाङ्गकामा कामदृष्टिः कामकलाकोविदा रतिदात्री रतिसुखसम्पत्प्रदा सलज्जा निःशङ्का निर्लज्जा अतिरतिभोक्त्री श्रान्ता सोत्साहा सुरतागमज्ञा वनस्थानज्ञा सङ्केतज्ञा लतावृक्षज्ञा निकुञ्जश्रेणिपु मार्गज्ञा लतापरीक्षाकोविदा मणिपरीक्षाकोविदा अतिसन्धिज्ञा सङ्केतरसज्ञा केकाभिज्ञा पक्षिणां भाषाभिज्ञा पक्षिसम्बन्धाभिज्ञा सङ्केतस्थानज्ञा सम्भावितरसज्ञा शय्योपाता खाद्यपेयचोष्यलेह्यरसास्वादज्ञा नानासुगन्धरसभेदज्ञा वस्त्रसुगन्धभेदज्ञा भूषणज्ञा अङ्गयोग्यभेदाभिज्ञा श‍ृङ्गारयथायोग्यकालाभिज्ञा तालाभिज्ञा गीतज्ञा गतिरसभेदज्ञा तन्तुत्पाद्यरागभेदज्ञा सुगन्धज्ञा अङ्गरसभेदगुणज्ञा सुगन्धनृत्यभेदज्ञा सम्पत्तिसुखज्ञा सदारासकीडाप्रकटगुणगानकोविदा रासागमसोत्साहा रासलीला वचनसुखदायिनी गताः सख्यो विहारस्थाने आसते । कुञ्जप्रतिकुञ्जसुखदायिनीषु सखीनां कुञ्जश्रेणिषु सुखसम्पत्तिसुखार्थं विद्रुमश्रेणीया नानाकुञ्जा अतितरां संशोभन्ते । तासु श्रेणिषु पुष्पपरागोद्धूता यवनिका सम्भवन्ति । तत्सृष्टिवेष्टितेऽङ्गभूषणैर्भूषितानि स्थानानि भूषयन्ति । शोभायमानानि रचितयोग्यान्यप्युन्नतश्रेणिपु वियूथानि विराजमानानि भवन्ति । सखीनां समूहाः श्रेणिषु सम्भोक्ष्यमाणाः क्रियामारभन्ते । द्वादशश्रेणिपु श्रीनन्दस्य श्रीवृषभानोर्गृहात् पृथग्द्वाराणि राजन्ते । तत्र जाम्बनदसुवर्णभूमिमणिगणचित्रितमध्यस्थलं क्रीडाविहारसंयुक्तं मण्डलाकारं पञ्चयोजनायतम् । यत्र काम आधिदैविकेन रूपेण उपसेवमानो भवति । श्रेणीनां द्वाराणि तस्मिन्मण्डले पृथकृशोभायमानानि सन्ति । एका श्रेणी मणिलतासुगन्धाड्या सुकोमलातितरां न कोमला न कठिना । अत्यद्भुतसुरचितायां वृन्द सखी आस्त । तयातितरां तस्य सेवार्थे श्रीराधिकायाश्च रचिता शय्यैवास्ते । तत्र तस्मिन् मणिलतान्तरे चतस्रः श्रेणयः शोभायमाना भवन्ति । तासु श्रेणिषु चतस्रः पुष्करिण्य आसते । एका पुष्करिण्युष्णोदकेन पूर्णैवास्ते । एका पुष्करिणी सुगन्धशीतजलैवास्ते । एका पुष्करिण्यमृतोदकेन पूर्णैवस्ति । तत्र मज्जनस्थानमत्यन्तशोभायमानं चतुःसरं यत्र मणीनां द्वादश श‍ृङ्गाणि शोभायमानानि भवन्ति । एकस्माद्गृहादन्तः सुगन्धतैलागुरुरसकर्पूरमृगमदकेसररसाः शतशः पुप्पलतापत्रत्वक्पयोभिः सुगन्धितेषु रसेषु सम्पूरिता भवन्ति । मज्जनक्रियोपयोग्याः सखीनां समूहाः मज्जनं कारयन्ति । नानाजलकेलिसुखसम्पत्तिर्मज्जनावता तन्मज्जनैऽतितरा सरतिरास्ते । जलसम्पत्त्यै अतितरां सुजलकल्लोला सखी उपमेवते । तत्र हंसीहंसाः सारसाः पक्षिणोऽग्रेऽग्रे क्रीडन्ति । अतितरां जलकेलिकल्लोलकर्मकरणादनन्तरं तत्राधिदैविकेन रूपेणाग्निरत्यन्तसुखदायकरूपेण सेवते । अतितरां सूक्ष्मस्वरूपकिरणेः सूर्यरूप मेवमान आस्ते । अङ्गरागसम्पूर्णमङ्गरागस्थानम् । मन्दिरमत्यमृतमङ्गसुखदायि शोभायमानमभ्येति । यत्र चन्द्रकिरणा शोभायमाना आसते । सूक्ष्मतरतजसा सेवमानाः आसते । तत्र रङ्गवत्यो नानाङ्गरागं प्रकुर्वन्ति । अतिसुखदायिनोऽतितरामङ्गरागाः शोभायमानाः सुखभोगा आसते । शोभनं तृतीय श‍ृङ्गारगृहम् । यत्र गृहात् गृहन्तरात् द्वाराणि शोभायमानानि भवन्ति । तत्र सखीनां सञ्चार आस्ते । अतिरतिसञ्चरिताः सख्यः सुखदायिन्यः श‍ृङ्गारमधिकुर्वन्ति । प्रथममगुरुवासितकबरीसुगोप्यमानानि मन्दारपारिजातपुष्पाणि शोभायमानान्यातन्वन् । तत्कालं मण्डलेन गुम्भितकेशपाशः शोभते । क्षुद्रघण्टिकाशब्दसूक्ष्मतरसम्भाविता वृन्दावनेश्वरी प्रीयमाणा भवति । सीमन्तो नानामणिमुक्ताग्रथितजाम्बूनदसुवर्णखचित एवैति । मेघोपरि ज्योत्स्ना इव नक्षत्रगणा विराजन्ते । स्यूतपूष्पसुवर्णजटितमणिमुक्ताखचितान्तरज्योत्स्नाभाविताः शोभायमाना आसते । कुटिलजटितज्योस्नाभिः अभ्रच्छायाकर्बुरितचन्द्र इवास्ते । कर्णकुण्डलज्योस्नारुचिमण्डलं कुण्डलयुगलम् । ललाटं तिलकहाटकहीरकमणिज्योस्नाभिरतितरां जटितं संराजते । मणिभ्रुवौ विजयकामकार्मुकखण्डलते इव सविराजेते । नेत्रे चितखञ्जनमीनचातुर्यं जितवती । नासा कनकमुक्तायोजिता संराजते नितराम् । नासाभरणनीलपीतरक्तमणिज्योस्ना राजमाना नासामभ्येति । अतिरतिबिम्बाधरोष्ठौ विद्रुमरङ्गरञ्जितावास्ताम् । हीरकावलीघटितमुक्ताफलज्योत्स्नाभिः रञ्जितमथ्यचिबुकं मुखमण्डलं सलाञ्छनं चन्द्रमण्डलमिवास्ते । घटितकोमलमुक्तावलीकौ कुचकुम्भौ हाटकमणिज्योस्नाभिः पुष्पपरागपरीताविवास्ताम् । भुजलताकरकङ्कणमरकतज्योत्स्नाभिर्हस्ताङ्गुलिमुद्रिकाजटितमणितेजांसि राजमानानि सन्ति । नाभिह्रदकुहरे लोक इव आशङ्क्यते । कटिमेखलाक्षुद्रघण्टिकाः कामदेवदुन्दुभिभूषणानि भवन्ति । नागेन्द्रहस्ता अतितिरस्कृता एव त्वचि कर्कशत्वेन । कदलीस्तम्भाः एकान्तशैत्येन तदुर्वारुपमानबाह्या एवासन् । चरणकमलौ नूपुराभ्यां शोभायमानावास्ताम् । आपद्यमाना आसेदुष्यो विशदचरणाङ्गुल्यः शोभायमानाः भवन्ति । गतिरतिविलासवत्यास्ते । रङ्गवती सखी वानीरश्रेणिनिकुञ्जे रसिकानन्दस्य श‍ृङ्गारं दर्शयन्त्यास्ते । श्यामहिरण्यपरिधिवनमाल्यबर्हाद्योतितमुक्तावली शोभते । धातुप्रवालनटवेषविचित्रिताङ्गशोभाढ्या सन्निकृष्यन्त्यासीत् । मकराकृतिकुण्डलौ शोभायमानमाननमतनुताम् । कनककपिशं वनमालया विराजते वेणुवादनकलरवकलापकलितं पीताम्बरम् । तस्मिन् मध्यस्थाने चतुर्धा श्रेणय विद्रुमलतालवङ्गलताग्रथिताः । वृक्षाग्रग्रथिताभिः श्रेणिसञ्चार आस्ते । तस्यां श्रेण्यां मध्ये एक शय्यामन्दिरं मणिकुञ्जघटितं विराजते । पुष्परागमणिना खचितज्योत्स्नाभिः संवलिता प्रतिबिम्बिताः मणयोऽतितरां राजमाना भवन्ति । रङ्गवती प्रेमवती नन्दगृहं सकलश‍ृङ्गारभूषणैर्भूषितं रसिकानन्दमतिप्रेम्णा आनयति । अत्यन्तानन्दमग्नान्यानन्दरसेन वनान्त्युत्फुल्लितानि संसिद्धानि कोटिशः । सखीनां समूहाः कोटिशो गीतानि गायन्ति । तासु श्रेणिषु परस्परसञ्चाराय सखीनां मार्गा आसते । मार्गे मणिद्योतिताः परिधयो राजमानाः शोभन्ते । एका पञ्चमी श्रेणी पुष्पिता नानारङ्गरचिता आस्ते । पुष्पाणि फलानि लतायां सन्ति । अनेकमणिलताप्रवरज्योत्स्नापुष्पलता आरक्ता एवासते । पुष्पितवृक्षाणां सुगन्धमणिलतानां परस्परज्योत्स्नासंवलितवीथयो विराजन्ते । अमृतफलफलिता वृक्षा अतितरां पीतरक्ततरङ्गितनानाज्योत्स्नाः परस्परमतितरां शोभायमाना भवन्ति । अतिस्वादूनि मधुराणि फलानि नम्राणि सन्ति तेषाम् । तेषामधः सूक्ष्माः पुष्पलता नानारागरञ्जिता एवासते । तासां लतानामधः शय्यारचिता रमणानन्दसुखसम्भोगायैवातितरा सुगन्धपुष्पसिकतारचिताः योग्या नानास्तरणैः संवलिता कामरसपोषका एवासते । तासु श्रेणिषु विचित्रशाला अनेकशः संराजमाना भवन्ति । तासु शालासु सूक्ष्माणि सुगन्धमणीनां गृहाणि संराजन्ते । तेष्वन्तनानाभक्ष्यभोज्यानि वस्तून्यतितरां सौष्ठवेन राजमानानि प्रकाशन्ते । अन्यतो रचिता शय्या विविक्ता आस्ते । यत्र सा वृषभानुसुता सुरतानन्दश्च सम्भाषते । तस्मिन् क्रीडामण्डले षष्ठी श्रेणी मणिप्रेष्ठैर्विराजमाना भवतितराम् । द्वारं त्वारक्तमणिखचितयन्त्रकवाटस्थलहाटकजटितमणिराजिराजमानं भवति । तत्र षडृतवः संलग्नाः सेवन्तेऽतितराम् । यत्र ग्रीष्मोऽयं ऋतुः तत्र शीतलजलाः पुष्करिण्यस्तटभूमिरलकुटीचन्द्रकान्तमणिजलयन्त्राणीवासीदन्ति । यत्र हंसीनां यूथानि क्रीडां कुर्वन्ति । अन्ये पक्षिणः देववाण्या परस्परसुखमनुभवन्त आसते । भोगताम्बूलाद्या अतितरां तस्मिन् स्थाने आसते । श्रेणिसप्तमद्वारमतितेजो मयमुत्तरा शतं मन्दिराणि एकावल्या सन्ति । दक्षिणतः शतं मन्दिराण्येकावल्या राजन्ते । यत्र सखीनां यूथानि तेषां स्थानानि क्रीडाविहारस्थलानि योज्यमानानि सम्भवन्ति । यत्र ललिता विशाखा अन्याश्च शतशः सख्यो रतिप्रेमानन्दस्थाने रमणानन्दयोग्या भक्तास्तिष्ठन्ति । यस्यां श्रेण्यां गृहं गृहं प्रति अष्ट सिद्धयो मूर्तिमत्यः संराजमाना आसते । अनेकशो भूषणैर्भूषिता अलं गोप्यस्तेषु गृहेषु क्रीडां कुर्वन्ति । नानारसा नवनीतरसाः राधास्वादितमिष्टरसा अनेकरसास्वादसुखदाः सन्ति । दुग्धफेनानेकभोगाः सुखसम्भोग्या भवन्ति । तेषु आस्तरणयुक्ताः शय्या शतशो राजमानाः भवन्ति । तेषु स्थानेषु सुरतानन्दप्रेमानन्दमग्ना सख्यस्तदुपकरणरसं सङ्कलयन्ते । अष्टमी श्रेणिः आम्रकदम्बकदलीचम्पकाशोकपुन्नागरोघ्रमन्दारपारिजातकल्पकनीपनीरवटन्यग्रोधोदुम्बरजम्बूवृक्षसरलशिंशुपाखदिरवकुलपि प्पलश्लेष्मातकबदरीतालतालीवनमधुरशाखालवङ्गैलाजातीत्ववक्पूगनालिकेरमातुलङ्गक्रमुककण्टकिनोऽनेकशः वृक्षाः पुष्पलताग्रथिताः केतक्यः अमृतवल्ल्यमृतफलैर्ग्रथिता अनेकपुष्पगुच्छलताग्रथिता वल्लयो वसन्ते वासन्तीपल्लवैः योग्यास्तस्मिन् कदम्बवने निर्भरसेचनरससङ्कुलिता अनेकलताग्रथिताः सुवर्णालवालश्रेणयो ग्रथिताः जलपुष्करिण्य इवागाधजलपूरिता एवासते । पट्टडोरिग्रथितसुवर्णघटिको जलप्रवाहो जलयन्त्रमुखाविर्भूतो भवति । तत्र मध्ये पुष्करिण्यां रत्नखचिता मुक्ताखचिता द्वार्जलयन्त्रशीकरैराविष्टा भवति । नवमी श्रेणिर्जलेन सिच्यमाना अनेकजलक्रीडोपकरणा संयोक्ष्यमाणा भवति । क्वचित्सूर्यवंशीकमलानि क्वचित्सोमवंशीकमलानि विराजमानानि । तस्य मध्यस्थले वानीरकुञ्जे यमुना जलकल्लोलवती रत्नबद्धोभयतटी राजमाना भवति । यत्र वृक्षशाखा जलस्पर्शाद्दोलाविद्रुमलता भवन्ति तत्र वृन्दावनेश्वरी रसिकानन्देन सह दोलायामेति । ललिताद्याः सख्यः सङ्गायन्त्यो भवन्ति । तत्र मयूरकोकिलहंससारसविहगाद्याः सङ्गायमाना गुणगणनायुताः भवन्तितराम् । दशमी श्रेणिः रसिकानन्दस्य कन्दुकलीलाधिष्ठानस्थानं प्रति योजनायतं सुवर्णभूमिजटितखचितं पद्मरागमणिगणावलितं भूमिरचितं रङ्गश्रेणिविराजितमतितरां शोभते । अतिविविक्ते तस्मिंस्थाने कन्दुकलीलया सुशोभमानं स्थानम् । ताः सर्वाः सख्यः कन्दुकलीलायां कन्दुकलीलापरस्परस्वमर्यादा नातिक्रामन्ति । श्यामा रसवती ललिता श‍ृङ्गारवती रङ्गवती कलावती गुणवती गानवती कुञ्जवती सुश्रोणी चन्द्रमुखी चन्द्रलेखा ताः सर्वाः सख्यः कन्दुककेलियष्टिं गृहीत्वा स्वमर्यादाः नातिक्रामनयः क्रीडन्ति । रसिकानन्दशिरौमणिः स्वयमेव कन्दुकयष्टिं गृहीत्वा क्रीडति । विशाखा चन्द्रलेखानूराधा अतिरतिज्ञा रमणानन्दज्ञा सुरतोपदेशा सुरतकलाकोविदा गानवतीत्येताः सर्वाः सख्यः कन्दुकयष्टिं गृहीत्वा श्रीराधिकायाः कन्दुकमर्यादामनतिक्रम्य कन्दुकं नयन्ति । एवं परस्परं स्वं स्वं मर्यादया कन्दुकं नयन्ति । यदा श्रीराधिकया सह रसिकानन्दः कन्दुकव्याजेन क्रीडामनुभवति तदा ताः सर्वाः सख्यो जयशब्दमुदीरयन्ति । अन्याः पुष्पवत्यादयः सख्यः पुष्पवृष्टिं कुर्वन्ति । तस्मिन् क्रीडास्थाने एकं मन्दिरं प्रेमवत्या सुरचितं सर्वभोगाढ्यं मनोरममस्ति । प्रेमवती प्रणिपातपुरस्सरं श्रीराधिकया सह रसिकानन्दं श्रमापनोदार्थे नयति । तत्र भोगवती सर्वभोगान् गृहीत्वाऽग्रतस्तिष्ठति । तत्रान्तः सुरचिता सखी सुभगां सर्वभोगान्वितां शय्यां रचयित्वा प्रश्रयावनता श्रीराधिकया सह रसिकानन्दं नयति । तत्र मनसि सोत्साहं करोति । तत्र रहसि चतस्रः सख्यः सुसेवमाना भवन्ति । सुकामा अलज्जा सुरतोद्गमा सुरतानन्दा सेवमाना भवन्ति । अन्या ललितादयः सख्यस्तत्सुखं निरीक्ष्यातिरसमग्नास्तां लीलां गायमाना भवन्ति । तदा लीलान्ते चतस्रः सख्यः सेवमाना भवन्ति । निद्रालसा संमीलिता सुसुखा गतत्रपा सुसेवमाना भवन्ति । तत्र जाताः सुलज्जा भोगवती गानवती सूसेवमाना भवन्ति । एव कन्दुकलीलायाः सुखं प्रत्यवसरं श्रीराधिकया सह रसिकानन्दः सुमेवते । तत्र सहस्रनिकुञैर्ग्रीष्मर्तुः सेव्यमानो भवति । रत्नजटिताः पुष्करिण्यः सुवासितैः सुजलैः सम्पूर्णाः भवन्ति । तत्र नम्रा वृक्षाः परितः पुष्पैः फलैः सम्पूर्णा भवन्ति । तत्र रसिकानन्दः श्रीराधिकया सह जलक्रीडां करोति । तत्र मज्जनवती तरङ्गिणी जलकल्लोला प्रेङ्खितवती गेव्यमाना अगाधजला नाकावती सुप्लवनवती जलाभिज्ञा सुलहरी हस्तपल्लवा एताश्चान्याः सख्यः श्रीराधिकया सह जलक्रीडां कुर्वन्ति । तत्र जलकीडाव्याजेन रसिकानन्दो नानासुखं करोति । तत्र जलकीडान्ते श्पृङ्गारवती सखी श‍ृङ्गारम्थानं नयति । तत्र पुष्पवती पुष्पमण्डनं रचयति । तव ग्रीष्मलीलां नानासखीभिः सार्धं रसिकान न्दः श्रीराधिकया सह संसेवमानो भवति । ततः प्रावृल्लीलाया अनुभवः कथ्यते । सहस्रनिकुञ्जैः प्रसारिता प्रावृरडानन्दमयी भवति । मेघा नानारूपाणि विधाय मणिमयभूमिं जलैः सिञ्चमाना हरितशाडलैः शोभायमानां कुर्वन्ति । मयूरपिकहंससारसयुताः पक्षिणः नानाकलशब्दैः कुञ्जान्तरं सेवमाना भवन्ति । कौसुम्भासुरङ्गाक्षणिकाप्रद्योतिताः सोत्साहाः सख्यः रसिकानन्दं श्रीराधिकया सह सेवन्ते । नानावृक्षालताभिर्ग्रथिताः पुष्पैर्नम्रा भवन्ति । तत्र रसिकानन्दः श्रीराधिकया सह नानोवेषैः श‍ृङ्गारानुभवेः सुरतानन्दसुखं भुञ्जमानो भवति । प्रावृल्लीलां निरीक्ष्य ललितादयस्तां लीलां सङ्गायमाना भवन्ति । ततः शारदलीलायाः सुखं संवर्ण्यते । सहस्रैर्निकुञ्जैः प्रसृता शरत् प्रद्योतमाना भवति । यत्र सर्वाः लताः प्रफुल्लिताः सर्वे वृक्षाः प्रफुल्लिताः सर्वासां सखीनां मनांसि प्रफुल्लितानि भवन्ति । यत्र शारदनिकुञ्जाः प्रफुल्लिताः तत्र मध्ये नित्यं रासमण्डलं सदा रसिकानन्देन सेवितम् । यत्र श्रीराधिका स्वसखीभिः सार्धं नित्यानन्दलीलां करोति । तन्मण्डलं पञ्चयोजनायतं नानारङ्गमणिस्तम्भशतशोभितं नानालताभिः पुष्पिताभिराच्छादितं परितः द्वादशश्रेणिसंवलितम् । तासु श्रेणिपु अनेकशः सख्यः संशोभमाना भवन्ति । प्रथमश्रेण्यां ललिताविशाखादयः सख्यः नानाविधान्युपकरणानि कुर्वन्ति । द्वितीयश्रेण्यां प्रेमवत्यादयः सख्यः राजमाना भवन्ति । तृतीयश्रेण्यां श‍ृङ्गारवत्यादयः सख्यो नानालङ्कारसुखरूपा अनेकशः श‍ृङ्गारं कुर्वन्ति । चतुर्थश्रेण्यां भोगवत्यादयः सुगन्धवत्यादयः सख्यो नानाभोगरसान् रचयन्ति । पञ्चमश्रेण्यां पुष्पवत्यादयः सख्यो नानाविचित्राणि माल्यानि कुर्वन्ति । षष्ठश्रेण्यां भूषावत्यादयः सख्यो रत्नजटितानि हाटकमयानि मनईप्सितानि रचयन्ति । सप्तमश्रेण्यामन्नपूर्णाद्याः सख्यो नानान्नमयरसान् पाचयन्ति । नानाविधानि पक्वान्नानि प्रतिक्षणं नूतनानि पाचयन्ति । अन्या रसभेदान् रचयन्ति । अष्टमश्रेण्यां सुगन्धवत्यादयः सख्यो नानासुगन्धान् रचयन्ति । गानवत्यादयः सख्यो गानं कुर्वन्ति । तन्तुवादिन्यादयः सख्यस्ता लैः सुगानं कुर्वन्ति । नवमश्रेण्यां विलाससुरतरङ्गवत्यादयः सुरतानन्दादय अभिनवकला आसनभेदान् सङ्गीतसाहित्यकलाकुशलाः सख्य ऋग्यजुस्सामाथर्वणवेदरूपाः सख्यो नानास्तुतिभेदैर्गुणगणनां कुर्वन्ति । एकादशश्रेण्यां रङ्गवत्यादयो रङ्गरसभावान् नानाविचित्राणि वचनानि नम्राणि प्रेमोत्पादकयुतानि श्रावयन्ति । द्वादशश्रेण्यां सखीनां विविधसञ्चार आस्ते । तस्यां श्रेण्यामन्तर्भागे चतस्रः श्रेण्यो विराजन्ते । तत्र गृहाणि शतशो हाटकमणिखचितानि संरोचमानानि भवन्ति । रत्नविथिषु योज्यमानाः श्रेणयः सुवर्णयूथिका अतिसुगन्धा मुक्तायूथिका अतितरां राजमानाः भवन्ति । तत्र तरुपुष्पाणि नानारङ्गमयानि सुगन्धाढ्यान्यनेकशो राजमानानि भवन्ति । तस्यां हरितपीतारक्तरक्तलता अनेकशः शोभाभेदैरत्यन्तं राजमानाः आसते । मणिलता आन्तरैर्मणिपुष्पैः संराजमाना भवन्ति । तासां लतान्तः सूक्ष्मलताः पुष्पिता राजमाना आसते । तासु श्रेणिषु सखीनां रमणस्थानानि सुरच्यमानानि गुणगन्धाढ्यानि रूपप्रतिकृतियुतान्यतितरां भवन्ति । सा श्रेणी श्रीराधाया अतितरां वल्लभा आस्ते । यदा गृहवनविहारेच्छाविर्भवति तदा तस्यां श्रीराधा स्वयमेव विचिन्वती स्वयमेव पुष्पहारावलीं ग्रथयति । रसिकानन्दः पुष्पाणि चिनोति । हरितपीतश्वेतारक्तपुष्पगुच्छैर्ग्रथिता हारावलिं श्रीराधायाः कण्ठे स्वहस्तेन परिधापयति । सा अतितरां विराजते । तस्यां श्रेण्यामेकं मन्दिरं गुप्तक्रीडास्थलं महातेजोमयं मणिमयसप्तभूमिकं संराजमानं भवति । एका भूमिः कनकमयी । तदुपरि रत्नसोपानसंवलिता भूरारक्तमणियुता भवति । अनेकरङ्गरञ्जितान्तरा सोपानपरम्परा संराजमाना भवति । तदुपरि भूः पुष्परागरचितातितरां सुशोभाढ्या भवति । तत्र सोपानपरम्परा शोभायमाना भवति । तदुपरि सोपानपरम्परा रत्नावलीखचिता नानारङ्गैः सुरचिता जाम्बूनदसुवर्णभूषिता परस्परसुगन्धसंवलितैवास्ते । सुरचितमणिवल्ली पुष्पपरागपरिधिमतितरां करोति । तदुपरि चन्द्रकान्तरचिता तत्सकाशात् चतुर्थी भूमिर्जलशीकरसंयोगिनी भवति । जलयन्त्रशीकरकणिकामयैः सुगन्धजलैः पूरितायां पुष्करिण्यां ग्रीष्मादौ श्रीराधिकया श्रीरसिकानन्देन च सुरतानन्दसुखमनुभूयते । यत्र सुखमनुभवन्तावासाते तत्र मणिलताग्रथिता विद्रुमदोलास्ते । रत्नजटितदोलायां मणिज्योत्स्नाः प्रतिबिम्बभावापन्ना एव भवन्तितराम् । तदुपरि सोपानपरम्परा मणिग्रथिता भवति । तदुपरि सुगन्धमणिरसवलिता भूः संराजमाना आस्ते । तत्र भूम्यां सूर्यचन्द्राग्निदेवता आधिदैविकेन रूपेण सखीरूपं विधायोपसेवमाना भवन्ति । तस्यां भूम्या सुरतानन्दसुखमनुभवन्तो भवन्ति । श्रीराधिकायाः रसिकानन्देन सह देहात्समुत्पन्नाः सख्यो दृष्टवती कलावती सोत्साहा प्रेमसंवलिता लज्जावती गुणवती गुणाढ्या भवन्ति । अन्या अनेकसख्यो रतिसुखमनुभवन्त्यो भावापन्ना भवन्ति । तदुपरि सोपानपरम्परा चत्वरे आस्ते । अत्यन्तसुखश्रेणिसञ्चारा सोपानपरम्परा रत्नावलीभूषिता भवति । रतिसुखसम्पत्तिप्रतिकूजा अनेकभूमयो योजिताः । एवंविधं मण्डलं द्वादशद्वारयुतम् । द्वादशद्वारे द्वादश श्रेणिसञ्चारा भवन्ति । अतः परम्पराश्रेणिसञ्चारो भवति । तन्मण्डलं यदेतत् षड्गुणप्रसिद्धं भवति । षड्गुणाः षडृतवः उपसेवमाना भवन्ति । एतस्मिन् मण्डले पूर्वतः सखीरूपं विधाय सूर्य सुकोमलैः किरणैरुपसेवमान आस्ते । तस्य मण्डलस्योत्तरतश्चन्द्रः उपसैवमानो भवति । एतस्मिन् मण्डले पश्चिमतोऽग्निराधिदैविकेन रूपेण उपसेवमानो भवति । ग्रहास्तास्तारका अन्यानि नक्षत्राण्याधिदैविकं रूपं विधाय सदा उपसेवमाना भवन्ति । इन्द्रोऽपि सखीरूपं विधाय देवाङ्गनाभिः सह विमानावलीषूपविश्य सदोपसेवमानो भवति । पितामहोऽपि सूक्ष्मरूपं विधायान्तरिक्षे तल्लोकदर्शनाकाडक्षो भवति निरन्तरम् । अन्ये दिक्पालाः संसिद्धा निरन्तरमाधिदैविकेन रूपेण तन्मण्डलमुपसेवमानास्तन्मण्डललोकानन्दमग्ना भवन्ति । तन्मण्डलोपासका भक्ता अन्यं न भजेरन् । अन्यधर्मासक्ता इदं मण्डलं न जानन्ति । सा लक्ष्मीः पुनरुवाचेदम् । ये मण्डलमुपासते न किं कर्म कुर्वन्तो भवन्ति? स होवाच । तेऽनन्योपासकाः भवन्ति । अनन्यभजनसिद्धा आत्मभावा भवन्ति । आत्मभावा मण्डलमुपासते । आत्मानात्मभावो भवेत् । अतितरामात्मानन्दे मग्ना अन्यरसं न भावयन्ति । आत्मानन्दे मग्ना अभक्तान्न स्पृशन्ति । आत्मानन्दे मग्ना आत्मभावा भवन्ति । नान्यं श‍ृण्वन्ति न नमन्ति न गायन्ति । ते भक्ता आत्मरसभाविता आत्मनो रतिरसभावनयानन्दं श‍ृण्वन्त्यानन्दं गायन्ति । आनन्दयुता भक्ता अतिरसमग्ना गुणान् गृणन्ति । अतिरसमग्नास्तदुच्छिष्टमुपभुञ्जते । अनुच्छिष्टं कदाचिन्न भुञ्जते । तन्मण्डलोपासकाः भक्ता अभक्तान् न स्पृशन्ति । ये अन्योपासका भक्ता आनन्देऽनाश्रिताः कर्मजडाः कर्मकाण्डोपासका एव ते । अग्न्युपासका ये ब्राह्मणा ब्रह्मवर्चसोपासका एव ते । तेषां सम्भाषणं तन्मण्डलोपासकः प्रमादेनापि न कुर्यात् । ये अन्यधर्मरहिता अन्यासक्तिरहितास्ते तन्मण्डलं प्राप्नुवन्ति । अन्यधर्मरहिता एव प्राप्नुवन्ति । अन्ये आत्मानं न विदुरात्मना । किं बहुनोक्तेन धर्मेण । ये ब्राह्मणा अन्यविद्योपासकाः कर्मजडाः कर्मकाण्डोपासकाः कालोपासकाः कर्मधर्मदेवपित्रुपासका एव भवन्ति ते । ये शैवाः शाक्ताः सुरामांसरताः कौला जैनाः पातञ्जला मीमांसकाः जडतां प्राप्ताश्चार्वाका अन्यधर्मदृढासक्ता भवन्ति । ये तां व्रजेश्वरीं रसिकानन्देन सहोपासते सदानन्दरसमनुभवन्तो भवन्ति । रतिकलाकोमला गुणगणनां कुर्वन्ति । तमेव रसं गायन्तो भवन्ति । अतिरतिमापद्यमाना भवन्ति । ये दर्भं हस्ते गृह्णन्ति ते तं रसं न प्राप्नुवन्ति । तिलाञ्जलिं पितृणां ये ददति ते तन्मण्डलं न प्राप्नुवन्ति । देवाश्चासुराश्च कर्मकाण्डोपासका एवेति, देवाः सद्विद्योपासका वैष्णवा एवेति, गुणातीतास्ते वृन्दावनेश्वरीमुपासते । रसिकानन्देन सह उपसेव्यमानमभियन्ति । अतिगुणमग्ना रात्रौ दिवा सदा सुरतानन्दसुखमनुभवन्तो युज्यन्ते । रतिकलाकौतुकानि सम्भोक्ष्यमाणा भवन्ति । भक्तानामनुग्रहात् भगवान् रसिकानन्दोऽनुग्रहं करोति । ते मण्डलं विदुः । ये व्रजमण्डलं सेवन्ते ते मण्डलं जानन्तोऽन्यासक्तिं विना मण्डलासक्तिं कुर्वन्तः सदा सर्वलोकरसलीलायामासक्ता भवन्ति । ये मनोरथशतैः रात्रौ दिवा तल्लीलाः ग्रथ्नन्ति ते तन्मण्डले भावापन्ना भूत्वा प्रतिष्ठितचित्ता भवन्ति । तन्मण्डलं श्रुत्वानन्दमासीदन्ति । सा लक्ष्मीः पुनरुवाचेदं नारायणं तदा । रमारमण वैकुण्ठे यो वै क्रीडयित्वात्मभावो भवतितरामतिप्रीत्या नारायणोऽयं वदत्यभीष्टमनन्तरम् । अनये व्रजमण्डले पञ्चयोजनायतं मण्डलमस्ति । अधितन्मण्डलमासेदिवान् रुचिररतिमातनोति । यत्र शतशो गृहाणि हाटकमणिमयानि सहस्रपङ्क्तयोऽतितरां श्रेणयो विराजमाना भवन्ति । येषु मन्दिरेषु सप्तभूमिष्वतितरामभ्येत्य मनुष्या रतिरसमग्नाः भावापन्ना भवन्ति । मणिभूमिष्वतितरामास्ते पुरुषः । तत्र गोपानां गृहाणि पङ्क्तिशो विराजमानानि भवन्ति । गोपानां गृहे गृहे अष्टमहासिद्धयो राजमानाः सन्ति । तेषां गृहे गृहे कल्पद्रुमा राजमाना एव भवन्ति । तेषां गृहाश्रमः केवलं क्रीडार्थमेव भवति । तेषामात्मसुखार्थमेव न भवति । कदाचन तेषामतिरसक्रीडा । अतिरसमग्ना हि संसिद्धा एवेति ते गोपाः गायन्ति रसिकानन्दस्य यशः । व्रजेश्वर्या सह सङ्क्रीडमानो मानेन रसिकानन्दो गवां यूथान्यनेकशो हरितपीतश्वेतशुभ्रधूम्राताम्राणि विराजमानान्यनुयाति । कपिलाकज्जलिकाशुभ्राशुभ्राभ्राजमानानि यूथान्यनेकशो राजन्ते । यूथेषु प्रतिपङ्क्ति घटोध्नीः शतशो राजमानाः सा व्रजेश्वरी प्रतिक्षणमभ्येति । गाः कृपादृष्टयाद्यासेदिवान् सम्पोष्यमाणो भवति । सिद्धाभं पञ्चयोजनायतं गवाममृतमयं मण्डलम् । गवां गणा गोपैः सह सङ्क्रीडिताः भवन्ति । तत्र दुग्धसिन्धुरास्ते । वत्सवत्सतरीसहिता महोक्षाः सङ्क्रीडमानाः भवन्ति । तत्र मलमूत्ररहिता गावोऽमृतरसं सम्भुञ्जाना भवन्ति । तत्र तत्र ता गावः कुञ्जे निकुञ्जे क्रीडमाना भवन्ति । अतिरतिमग्ना गावः क्रीडापरा भवन्ति । नन्दगृहात्परितो गवां गणाः कोटिशः शोभमानां भवन्ति । ताः सर्वा गोप्यो दधिमथनक्रियापरा रसिकानन्दस्य व्रजेश्वर्या सह क्रीडां तां तां लीलां गायमाना भवन्ति । सा लक्ष्मीः पुनरुवाचेदम् । कामदुघया किं तप आचरितम्? अतिरतिप्रीतिः कथमभूत्? यासामेव दुग्धदधिनवनीतरसा घृतरसास्तया निकुञ्जदेव्योपसेव्यमाना वृषभानुगृहे प्रकटिता भवन्ति । निकुञ्जदेव्या सह तस्मिन् गृहे पुरुषो ह वै सङ्क्रीडामातनोत् । तस्मिन् गृहे गवां गणाः शतशो राजमाना भवन्ति । ताः किमाचरितवत्यः किं कृतवत्यः कामापेदिरे रतिप्रीतिं कथमासत ? किं श‍ृण्वन्त्य आपेदिरे? स होवाच नारायणोऽयम् । गवां भेदौ द्वावेव भवतः । संसिद्धाः साधनसिद्धाश्च । या गावो व्रजमण्डले तिष्ठन्ति ताः संसिद्धाः भवन्ति । एकस्मिन्नवसरेऽहं तां व्रजेश्वरी रसिकानन्देन सह संवलिता तस्मिन् व्रजमण्डले मनसासेदिवान् । कामदुघा या तप आतनोत् तस्मिन्नवसरे वैकुण्ठे आगता । कामदुघा मां निरन्तरं ध्यानावस्थायां रममाणं वीक्ष्य विचारितवती । अहो नारायणोऽयं सदा लक्ष्मीकान्तोऽपि प्रतिकलं कस्य यानापन्नौ भवतितराम् । पश्चात् यं नारायणो देव्या सह ध्यायति स्म । यस्यावतारकलाः कोविदाः सर्वे ध्यात्वा उपजीवन्ति । यद्येवंविधो नारायणः सर्वसुखसम्पत्तिपूर्णानन्दः कस्य ध्यानमापन्न आसेदिवानिति । तथैवेत्यस्या मनोभिलाषं ज्ञात्वाहमुवाचेदम् । अहो कामदुघे तव मनसि किमागतमिति । सोवाचेदम् । नमोऽनन्ताय महते कृष्णायाकुण्ठमेधसे । योगेशाय च योगाय ब्रह्मणेऽनन्तशक्तये ॥ त्वयानुगृहीता भक्ता आत्मानं तन्मयं मत्वा आत्मभावा भवन्ति । गवां यूथानि शतशो विराजमानान्यमृतरससंज्ञिता गावौ भवन्ति । तस्मिन्नवसरे वनेषु तृणसंवलिता निकुञ्जा अतिरसपूर्णा जलाशयाः शतशः शोभमाना आसते । तस्मिन् स्थाने सभाषमाणान् तृणजलौषधयः सम्भाषमाणा भवन्ति । अतिपुष्टा गावो गोष्ठ्या आसेदुष्यः सुखसम्भोज्यदुग्धरसघृतरसदधिरसनवनीतरसाद्यान् भावापन्ना दाशुष्यो भवन्ति । शुभ्रश्वेतकर्बुरिताः गावो रससंवलिता गोष्ठान्यनेकशो राजमानान्यभियन्ति । ता गोप्यो दधिमन्थनघोषेण सह सङ्गायमाना भवन्ति । तासां श‍ृङ्गारसुखमापद्यमानोऽभवत् । गोलोकादागता कामदुघा नारायणमुखाच्छ्रतमात्रे गोवर्धनाद्रौ शिरसि मन्त्रं जप्त्वा तद्भावेनाभवत् । सा व्रजेश्वरी रसिकानन्देन प्रत्यक्षभावमातेने । सा प्रसन्ना सती तां लीलां दत्तवतीति । नारायणः प्रत्युत्तरमुवाच । अहो प्रिये अस्य लोकस्य कथा श्रूयमाणा सर्वेषां निविशमाना हृदि गतं कामक्रोधादिकं नाशयति । अतिरतिभक्तिरापद्यते रसिकानन्दरतिरापद्यते । वर्णाश्रमस्वधर्मा बाधका न भवन्ति । कामदुघा गोवर्धनाद्रिशिरसि गोविन्दपुष्करिण्या तपश्चकार । महामन्त्रममुं जजाप । श‍ृणु तन्मन्त्रध्यानम् । ॐ नमः श्रीराधारसिकानन्दाभ्याम् । मूलमन्त्रोऽयम् । द्वादशाक्षरसंवलितमोङ्कारबीजसंवलितं यौ ध्यायेत् स एव तां लीलां प्राप्नोति । अत एव कृतं पुष्करिण्यां गोविन्दकुण्डमिति नाम्ना प्रसिद्धं कुञ्जम् । पृथिव्यां तस्मिन्नद्रौ सा वनफलतृणौषधर्भिक्षयामास । सा कामदुघा तपः आचरन्ती तस्मिन्नद्रौ परिचक्राम । एव शतं समास्तप आचरितवती । यत्र गोवर्धनाद्रौ रत्नधातुमयलतौषधयः सदा प्रफुल्लिताः फलिता रससंवलिताः अतिशोभायमाना भवन्ति । यत्र गह्वराणि रत्नहाटकमयान्यनेकशः शोभाय मानानि क्रीडास्थानानि भवन्ति । अनेकरङ्गविचित्रा ओषधयो नानारङ्गैः रचिता एव यत्र फलपुष्पैर्भासिता भवन्ति । यत्र सा व्रजेश्वरी रसिकानन्देन सह सङूक्रीडामतितरामातनोति । यत्र सखीनां वृन्दानि विहारपराणि । तत्र तस्यां पुष्करिण्यां सा व्रजेश्वरी स्वस्वरूपं दर्शयामास । रसिकानन्दरूपं रसरूपमेव साक्षादेवंविधमतिगुणसंवलितमेवास्ते । नूतनो नवजायया सह क्रीडनं दर्शयामास । सा कामदुघा स्तोत्रं चकार । नमो रसात्मने । नमो ज्ञानात्मने । नमः सदावनविहारिणे । नमः स्वभक्तकर्मस्वभावदुःखनाशहेतवे । नमः प्राकट्यदेहरूपिणे । नमो यमुनाजलकल्लोलविहारात्मने । नमः कामकेलिकौतुकात्मने । नमः कामप्रियाय । नमः कामात्मने । नमः कामसंवलितदेहदात्रे । नम आदिकर्त्रे । नम आदिहेतुरतिदात्रे । नमः श्रीराधाध्यानापन्नदेहात्मने । नमो रसात्मने । नमो रसलम्पटपरिपूर्णदेहदातृरूपिणे । नमोऽनिर्वचनविहारिणे । नमो रतिदात्रे । नमो रतिकेलिकलाकौतुकात्मने । नमो भक्तिरतिदात्रे । नमो ज्ञाननिर्वाणदात्रे । नम आनन्दस्वरूपिणे । नमस्तद्द्रष्ट्रे । नमस्तस्य हेतवे । नमः कलरासज्ञानविहारात्मने । नमोऽगुणाय । नमः सृष्टिरूपगुणदायिने । नमो गुणकेलिसुरतानन्दसुखभोक्त्रे । नमो भोगदायिने । नमो भोगात्मने । नम आत्मरूपिणे । नमः सुरतान्तन्दरूपरसदात्रे । नमोऽनन्तचरित्रदायिने । नम क्रमलीलात्मने । नमः श्रीराधाकृष्णरूपिणे । नमः श्रीकृष्णराधारूपिणे । नमोऽनेकविहारदेहधारिणे । नमः शतसहस्रकोटिशो लक्षकोटिविहाररूपिणे । नमो ललिताप्रतिक्षणसुखदात्रे । नमः कुञ्जान्तरविशाखाद्यनेकसखीविहारात्मने । नम आद्यनादिरूपसंसिद्धभक्तिरूपिणे । नमो दानधर्मदात्रे । नमः सुखरूपिणे । नमो व्रजाविर्भावभाविताय । नमोऽप्यन्तदानरूपिणे । नमः सदा वृन्दावनश्रेणिविहारिणे । नम आदिद्वादशवनविहारात्मने । नमः पृथिव्यां यानि रूपाणि सुन्दराण्यनेकशस्तत्तव विजानीयात् । इति लक्ष्मीलज्जाधृतिकान्त्यनेकाकाराय गुणरतिदायिने नमो नमः इति स्तुत्वा स्थितां कामदुघां तद्दर्शनमहोत्सवाकुलां रसिकानन्दस्तया निकुञ्जदेव्या सहोवाचेदम् । अहो का त्वं स्तुतिं ब्रुवाणासि । मम भक्तिरिह लोके दुर्लभा । दुर्लभतरं वरं वरय । तव मनसि मम दर्शनादधिकं न किञ्चिदवशिष्यते । तव स्तवेन यो नित्यं स्तौति समाहितः सदाभीष्टं प्राप्नोति । पुनरुवाचेदं कामदुघा यदि देयो वरो नाथ तव लोके वसाम्यहम् । रसदधिरसदुग्धरसनवनीतरसघृतरसफाण्टरसैरहं सेवे । रसिकानन्द उवाच । अनेकशः स्वाविर्भावेन लोके मम वल्लभा त्वं सदा वस । अहं त्वां रक्षिष्यामि । वनविहारे यथेच्छं विहर । ये अनन्याश्रया मम भक्तास्तेषां न वर्णाश्रमधर्मा आन्तरालिका जायन्ते । तेषां न कर्माणि आन्तरालिकानि जायन्ते । तेषां साधनमान्तरालिकं न जायते । व्रतानि यज्ञाश्छन्दांसि योगक्षेमफलानि चानन्यानि धर्मसाधनानि यत्किञ्चिदपि कृत्यं सर्वमान्तरालिकं न जायते । ये ब्राह्मणाः कर्मज्ञानसाधकास्तेषां ज्योतिषागमकर्मसाधकास्तेषां च सङ्गो हठात् त्याज्य एवेति वचनमस्ति । दशयोजनं व्रजपरिणाहः । तत्र पशुपक्षिणो मृगा गावोऽन्ये ये वृक्षाः अनन्यपरा आसते । अतिरसमग्ना गायन्ति । तस्मिन्मण्डले देवाः दर्शनकाङ्क्षा एव भवन्ति । भक्तक्रियामापद्यमाना भक्तास्तन्मण्डलं वनविहारस्थानं ये व्रजवासमिच्छन्ति ते एव सर्वधर्मातिरिक्ता भवन्ति । कर्मातिरिक्ता भवन्ति । सङ्गातिरिक्ता भवन्ति । व्रजमण्डलोपासकाः भवन्ति । अहो लक्ष्मि सा सृष्टिस्तु सृष्ट्यतिरिक्तैवास्ते । तत्सृष्टेरुत्पद्यमानो रसमार्गमाश्रितो भवति । मनः सोत्साहं यद्येतस्मिन्मण्डले तदङ्गीकारं प्राप्तोऽमनोमोहोऽतितरां प्रतिसंयोक्ष्यमाणस्तं रसमनुभवन् भावापन्न आस्ते । यदा यदा देवाश्च पितरश्च कालश्च व्रजातिसाधने यतन्ते तावत्सहस्रशाखाध्यायी भवति । सर्वयज्ञकर्मकरोऽपि तन्मण्डलं स्वप्नेऽपि न जानन्ति । ज्ञानिनो ये ब्रह्मबोधका योगिनस्तपस्विनस्ते स्वप्नेऽपि तन्मण्डलं न जानन्ति । सा लक्ष्मीः पुनरुवाचेदम् । कैश्चिह्नैस्तान् भक्तान् जानीमहे । स होवाच । ते सदा प्रेममार्गिणो भवन्त्येव । न निर्विण्णा नातिसक्ता गृहादौ विषयादौ नातिसक्ता यदृच्छया प्राप्तवस्तुमात्रमुपसेवमाना एव भवन्ति । न निर्वेदो नाश्रमो न कर्म यदृच्छाकथासेवा भक्तानां प्रीतिरनन्या भक्तिर्भवति । एवंविधसंसारातिरिक्तः स्वभावसंसिद्धो भवति । ततस्तां लीलां प्राप्तवन्तो भवन्ति । एवमुपासकास्तस्मिन्मण्डले गत्वातितरां संयोक्ष्यमाणाः आपद्यन्ते । सा लक्ष्मीः पुनरुवाचेदम् । रसमार्गीया भक्तास्तन्मण्डलं प्राप्तवन्तः । तेषामेका दशा । तेषां का गतिः? स होवाच । तन्मण्डलोद्भवाः भक्ता आत्मरतिगुणा रतिगुणाढ्या अनन्यमार्गाढ्यास्तां लीलां प्राप्तवन्तस्तन्नामाङ्कितवर्ष्माणस्तुलसीकाष्ठाङ्कितदेहा आत्मनाम्ना सुखालङ्कृतशरीरा रासादिलीलाध्यानावस्थायामापद्यमाना युज्यन्ते । कुञ्जे निकुञ्जे श्रेण्यां श्रेण्यां रतियोग्यताभावमापद्यमाना भवन्ति । तामेव कथां प्रतिक्षणं नूतनामासेवमाना आसते । श्वपचो वा ब्राह्मणो वा वर्णान्तरो वा यो भक्तानां सह सङ्गमापद्यते स एव तां लीलां प्राप्तो भवति रतिमासेदिवान् यदि तदुच्छिष्टे कदाचिदन्नबुद्धिस्तेषामस्ति । तदुच्छिष्टे जले सदा तीर्थबुद्धिः भवति । तत्र तत्कथायां साक्षाद्बुद्धिर्भवति । ये मण्डलमुपासमानास्तेषां को धर्मः? किं कर्म? को रसो भवतितरां? ये तन्मण्डलमुपासमानाः भवन्ति तेषां किं तीर्थव्रतयज्ञधर्माः सन्ति? किं बाध्यमानं भवेत् । तेषां मुख्यं मनो भवति । ये गुणाढ्या रसरूपिण आनन्दरसनिमग्नास्ते गुणतद्भागिनो भवन्ति । तन्मात्रप्राप्तमार्गोऽयं लोकः सदाण्डजो भवेत् । आत्मानन्दे मग्नासु ये रात्रौ दिवा व्रजध्यानापन्ना भवन्ति सदा तेषां नित्यं निकुञ्जदेव्या अनुग्रहो भवति । ये महालीलायामत्यासक्तास्तेषां कदाचित्कालधर्मभयं न भवत्येवेति सद्यः कृतार्थतोत्पद्यमाना भवति । अवर्णोऽपि सवर्णतां प्राप्नोति । ये न भवन्ति ते दुष्टगतयो भवन्ति । ये ब्रजमण्डलोपासकास्ते व्रजे निवसन्ति । ये रासमण्डलोपासकास्ते रासलीलां प्राप्नुवन्ति । अनन्तसुखं सम्भुञ्जते । या यशोदाद्या लीलामुपासमाना भजने प्रपद्यमाना भजनानन्दे संयोक्ष्यमाणा भवन्ति । ये नन्दादयोऽत्यन्तसखीभावमुपासमाना अत्यन्तसङ्गं प्राप्तास्ते रमणानन्दसखीसमूहं प्राप्ताः । ते तां लीलां प्राप्नुवन्ति ये निकुञ्जदेवीं ध्यायन्ति रमणानन्दमुपासते । अत्यन्तं सुरतानन्दं प्राप्ता ये संयोक्ष्यमाणा व्रजमण्डलं मध्यस्थानं भजन्ति ते महालीलां प्राप्य सम्भोगसुखं सम्प्राप्नुवन्ति । स आह लक्ष्मीम् । श्रुतपरकाष्ठा ये सखीभाव प्राप्तवन्तस्ते गोपास्तां लीलां सम्प्राप्नुवन्ति । यः सर्वधर्मान्परित्यज्य तन्मण्डलोपासको भवति स एव तां लीलां प्रा प्य सर्वव्रतातिरिक्तो ज्ञानातिरिक्तो विधूतविधिनिषेधकृत्याकृत्यगुणागुणभावाभावः सदा सङ्कृष्यमाणो लीलायां प्रतिपद्यमानः संयुज्यतेऽतितरां रसे । अहो लक्ष्मि षड्विधेयं रासमाया कथिता । सर्वे लीलां परित्यज्य तत्स्थानं प्राप्तवन्तो भवन्ति । सा लक्ष्मीः पुनरुवाचेदम् । कीदृग्विधं रासस्थानं ? निरन्तरं तत्स्थानस्योपासका यदुपासनामात्रात्तां लीलां प्राप्नुवन्ति तद्वर्णय । स होवाच नारायणोऽयम् । एकं सहस्रादित्यसङ्काशमतिह्लादमयम् । अहं ब्रह्मा रुद्रो देवा दिक्पाला यस्मात्समुत्पद्यमानाः यस्य प्रतापात्तस्मिन् स्थाने संसिद्धाः साधनसिद्धा अनेकशो भक्ताः । यत्र मणय आधिदैविकेन रूपेण तेजांसि ददति । यत्र संसिद्धः सूर्यः सखीरूपं विधायोपसेवते । सूक्ष्मसूक्ष्मरूपं विधाय यत्रात्मना चन्द्रः सेवमानो भवतितराम् । यत्राग्निः सखीरूपं विधायोपसेवमान आस्ते । देवास्तस्मिन् स्थाने सदा संसिद्धा एवोपसेवमाना आसते । पृथिव्यां सूर्यचन्द्रनक्षत्राणि अन्ये ये साधनोपकारकास्ते सर्वे उपसेवमाना एवासते । अन्यास्तु यस्मात्स्थानादिमाः प्रजाः समुत्पद्यमाना भवन्ति तल्लोकं वर्णयामि । अनेकशः कोटिब्रह्माण्डकान्यतिशयाविर्भावमापद्यमानानि सन्तितराम् । तस्मिन् स्थाने मध्ये मध्ये आवरणज्योतिरास्ते । आवरणस्य मध्ये सहस्रयोजनपरिणाहवति गुणगणनाय श्रीराधाकृष्णस्य गुणगणाः सङ्गीयन्ते । प्रथमपरिणाहे गवां गणाः क्रीडापरा एव भवन्ति गोपगोपीभिः । एतानि क्रीडास्थानानि तृणजलौषधीलताफलपुष्पपत्रकोमलान्यासते । मधुघृतदुग्धदधिनवनीताद्या रसाः संसिद्धा भवन्तितराम् । यत्रान्नानि खाद्यपेयचोष्यलेह्यविविधपक्वरसानेकसंवलितानि भवन्ति । यत्र वृक्षा अमृतमधुधाराः अतितरामासेदुषां वर्षन्ति । यत्र पुष्करिण्योऽमृतपूर्णा भवन्ति । तत्रामृतं पीत्वा जरामरणगर्भोत्पत्तिविनाशा न भवन्तितराम् । अमृतोदं नाम सरो देवैरुपपीयमानं भवति । तया निकुञ्जदेव्या स्वदृष्ट्यमृतेन सम्पूर्यमाणं भवतितराम् । तस्मिन् स्थाने गोपगोपीगणाः पुलिननिलीनाः सदा क्रीडापराः भवन्ति । द्वितीयपरिणाहे वाटिका क्रीडास्थानानि वृक्षाः पक्वफलपुष्पनम्राः पत्रैर्नम्रा धारा आसीदन्ति । क्रीडापराणां गोपीनां गणा निकुञ्जदेव्याः श्रीराधायाः स्वावेशेन क्रीडापराः सुरतानन्देन सम्भोक्ष्यमाणा भवन्ति । यत्र भक्तास्तत्क्रीडापरास्तद्ध्यानपरास्तद्रूपा आसते । तस्मिंस्थाने ये भक्ताः सदा रसमार्गिणस्तेषां सङ्ग आस्ते । अहो भक्तिमार्गरससंवलितोऽनुभवन् तस्य सङ्गं रसिकानन्दस्वरूपो भवति । धर्मः स एव कर्माणि स एव विद्या स एव भवति । ये धर्मास्ते अधर्माः । ये कर्माणि तान्येवाकर्माणि । तृतीयमावरणं महाक्रीडास्थानम् । तस्मिन् स्थाने एकसप्तत्यधिककोटयो निकुञ्जाः शोभायमाना आसते । यस्मिन्नावरणमध्ये रमणस्थलानि कोटिशो राजमानानि । यस्मिन् स्थाने मणीनां वलया सुगन्धयुताः राजमाना भवन्ति । पद्मरागमणिलताग्रथिता नीलमणिपुष्पसंवलिता भवन्तितरां मध्ये मध्ये । विद्रुमकृता हाटककोटयो लताग्रथिता हाटकभूमिषु रमणस्थानं शोभाढ्यं कुर्वन्तितराम् । रमणानन्दोऽयं सदा भक्तानां सुखकरो भवति । यस्य लोकस्य कथाश्रवणमात्रात् सर्वे वर्णाः सर्वे धर्माः विधर्माणः प्रतिभान्तितराम् । यस्मिन्नावरणे स्वामिन्याः श्रीराधायाः श्रीरसिकानन्दस्य च सदा क्रीडास्थलं भवति । मणिलतानां सञ्चारे हंसीनां यूथाञ्जन्तसोल्लासानि पीतग्रीवाणि रक्तचञ्चुपुटानि राजमानानि भवन्ति । ते सुस्वरेण संज्ञिता इव सामगानं कलकण्ठैः कुर्वन्तौ भवन्ति । तस्मिन् आवरणे लतायां शुकयूथान्यत्यन्तहरितानि रक्तचञ्चुपुटानिपीतपुच्छपक्षाणि । यैः प्रतिशाखं गान्धर्ववेदो गीयमानो भवति । यस्मिन्नावरणे श्रीराथिकायाः स्वाङ्गात् सम्भाविताः सख्यः क्रीडापरा भवन्ति । सोत्साहा सोत्कण्ठा प्रेमप्रेक्षणा । हास्यवती कटाक्षगुणवती सुस्नेहा मलिना शय्योपकरणा पुष्पवती निःशङ्का निर्लज्जा सुरतोत्कण्ठा सुरतानन्दा मालावती सुखश्रमा कलावती कलाकोविदा गुणज्ञा श‍ृङ्गाररसा कामभाविता भावोत्साहा निद्राजागरिता सरससुखेत्यादिनानासख्यो रतिश‍ृङ्गारमनुभवन्त्यो भवन्ति । निरन्तरं ता सख्यः क्रीडापरा कुञ्जान्तरे रसिकानन्दं सेवमाना भवन्ति । लतान्तरे भक्ष्यभोज्यानि ताम्बूलाद्या भोगाः कामकेलिरसान्तरे सुखभोगरसकीडाः कृतवत्यो भवन्ति । एतां लीलां संसिद्धाः सखीनां गणाः षक्षिणां गणाः प्राप्तवन्तो भवन्ति । साधनसिद्धास्तस्मिन्नावरणे क्रीडापराः भवन्ति ॥ सा लक्ष्मीरुवाचेदम् । केन साधनेनेदं स्थानं दृष्टिगोचरं भवति । स होवाच । सृष्टौ त्रयो योगा भवन्ति । ज्ञानयोगः कर्मयोगो भक्तियोगश्चेति । तेषां त्रयाणां योगानां मध्ये प्रेम्रयोगोऽतिरिक्तो भवतित्साम् । येषामेव प्रेमसम्पत्तिस्तेषामेव सुरतानन्दसुसखं भवति । न धर्मेण नेष्टापूर्तेन न वर्णेन नाश्रमेण न तीर्थेन न व्रतेन न देहशोषणयोगेन न वेदोदितेन कर्मणा । न धर्माधमविचारसाधनेन तत्स्थानं भवति । यो मनसि न्तिन्तरं तद्ध्यानान्नो भवति तस्य भवति । यत्र यत्र स्थितं तत्र तत्र तमेव धर्मं जानीमहे । तमेव सुखं जानीमहे । तद्धानिः तदन्तरायः । तदेव सुखं यत् तद्भक्तैः सह सम्भाषणात्तस्यावरणलीलावार्तायां कालनिर्यापणम् । गृहोत्सवे येषामुपार्जितवस्तुमात्रं तदर्थे विनिहितं भवति ते तल्लोकं प्राप्नुवन्ति । अहो लक्ष्मि इयं सृष्टिस्तु रसरूपिणी भवति । तेषां रसमार्गव्यतिरिक्ता धर्मा बाधका एव भवन्तितराम् । मनःसङ्ग्रहमानीय मनसा भावेनेन्द्रियाणि मनसि धृत्वा मनसा भावेन अहोरात्रं लयमापद्यन्ते । यस्मिन्नावरणे मनो निमग्रतां प्राप्नोति । तया निकुञ्जदेव्यानुगृहीतो रात्रौ दिवा कालेऽकाले तन्मार्गीयस्तल्लोकं सेवमानो वति । अहो मनसो वृत्तिरतितरां चञ्चलापि ते भक्ताः संसारासक्तिरहिता लोकेऽनेषणात्मानस्तन्मया अनपेक्षाश्चित्ते सम्पूर्णाः प्रशान्ताः सम्रदर्शिनो निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहा भवन्ति ॥ तेषु नित्यं महाभागाः अन्यमार्गरहिता हि ये आत्मानं तन्मयं पश्यन्तस्त एवात्मानं सेवन्ते । ये तन्मार्गीयाः सन्तः सदोपासकास्तेषां प्रेमलक्षणकाष्ठाप्रतीक्षा भवति । अहो चतुर्थावणं महास्थानम् । यस्मिन्नावरणे स्वामिन्याः स्वयं विहारस्थलमस्ति । शतसहस्रकुञ्जा निकुञ्जा लतावती सुवर्णवर्णा विद्रुमलता अमला निर्मला व्यक्तमुक्तालता भ्राजमाना आसां सखीनां सञ्चारोऽत्र स्थान आस्ते । सूक्ष्मलतान्तरे शय्योपकरणानि । अनेकलतान्तरे रासक्रीडा मवतितराम् । अयं रासः सहजसंवलितो भवति । तस्मिन्नावरणे अतिक्रीडापराणि रूपाणि कृत्वा रासलीलासुखमनुभवन्ती सा व्रजेश्वरी रसिकानन्देन सह सङ्क्रीडमा आपद्यते । पञ्चममावरणं तेजोमयम् । अमृतमय्य ओषधयो राजमानाः फलपुष्पयुताः पक्वफलरसयुक्ता भवन्ति । अन्नरसाः सुपच्यमानाः सरसाः कटुतिक्तमाधुर्यमिष्टरससंयुक्ता अनेकशः स्थानेषु तया श्रीराधिकया सेव्यमाना रसिकानन्देन सम्भोक्ष्यमाणाः विराजमाना भवन्ति । आत्माविर्भावेन नानासुखं भवति । भोगस्थानं भवतितराम् । स्थाने स्थाने तस्मिन्नावरणे रतिसुखं भवतितराम् । षष्ठमावरणं तेजोमयम् । यस्मिन् हाटकमयानि मन्दिराणि विराजमानानि भवन्ति । शतं मन्दिराणि तेजोमयानि यत्र राजन्ते । सुवर्णजटितमणिभिराक्रान्ताश्चामीकरखचिता मञ्जूषाः शोभायमाना भवन्ति । यत्र राजमानानि हाटकमणिजटितानि भूषणानि यथायोग्यानि वस्त्राणि भवन्तितराम् । यत्रावरणे सम्भोगस्थाने सखीनां समूहाः श‍ृङ्गारवत्यादयो राजमाना भवन्ति । आत्मानं शतधा कृत्वा अनेकभोगरसरतिसुखं सम्भोक्ष्यमाणाः भवन्ति । सप्तमावरणं क्रीडास्थानं सहस्रयोजनायतम् । परितः परितो मणिस्तम्भा अतिरसाढ्याः सुगन्धाढ्या भवन्ति । अतिरसगुणाढ्या भूः हाटकसुगन्धकोमला आविष्टसुखाठ्या भवतितरां सम्भोक्ष्यमाणैव । यत्र वल्लीनां सञ्चाराः परापरसञ्चारा एवासते । हाटकजटितमणिज्योत्स्नाभिः सर्वे प्रतिबिम्बितं वस्तुमात्रम् । तत्र कलावती गानवती सुगन्धा नृत्यपरा विशदा भोगपरा भोगवती भोगाभिज्ञा रतिकलाभिज्ञा कामसुखा कामातुरा निःशङ्का सदानन्दा सुरतसुखा सुरतानन्दा सुरतमग्ना आसनभेदाभिज्ञा अतिरसदानाभिज्ञा रसदा रसदातृभोगाभिज्ञा एताः सख्यः संसिद्धा अन्याः साधनसिद्धा अनेककलाकोविदा भवन्ति । तत्र मण्डलावरणे महास्थानं सशय्योपकरणम् । कलावती शय्योकरणानि करोति । सुरतोत्साहा सुरतोत्कण्ठां ददाति । निर्लज्जा निश्शङ्कं सुखं ददाति । सुरतोद्गमा आलिङ्गनचुम्बननमितप्रेमभररससुखं ददाति । रतिवती रतिसुखं ददाति । रतिकल्लोला रतिभररसालस्यमुकुलितनयना केलिसुखं ददाति । निभृतनिकुञ्जगृहं गतया तया देव्या सह रसिकानन्दः सुखमनुभवन्नास्ते । तस्मिन्निकुञ्जे सुरचिता सखी प्रतिकुञ्जं शय्यासुखं करोति । एका कलहंसी निरन्तरं तस्मिन्नावरणे सखीनां मण्डले मध्यस्था सदा क्रीडापरा कलशब्देन तां श्रीराधां रसिकानन्दं च क्रीडमानाऽभ्येति । तस्मिन्समये सुस्वरकण्ठेन सूक्ष्मस्वरं यथा भवति तथा तं गायमाना भवति । मानलीलायां रसिकानन्दवचनात्तां व्रजेश्वरी प्रसादयति निरन्तरमतिमनोत्साहं च ददाति । सा व्रजेश्वरी कलहंसी प्रत्यापद्यमानैव भवतितराम् । सा कलहंसी रसिकानन्दस्यातितरां वल्लभतया सुखमनुभवन्ती संरोचते । सा सदा जागरिता सा सदा गुणज्ञा सा सदा रससुरतभोगज्ञा भवतितराम् । सा कलहंसी सर्वासां सखीनां मनांसि प्रतिहरति स्वक्रीडया । सा कलहंसी रसिकानन्दस्यातिवल्लभा भवतितराम् । सा कलहंसी साधनसिद्धैवेति । सा लक्ष्मीः पुनरुवाचेदम् । अहो! कलहंसी पूर्वं केन साधनेनेदं स्थानं प्राप्तवती । महास्थानं प्राप्तवती । अत्याश्चर्यम्! निरन्तरं केन साधनेन श्रीराधायाः क्रीडासखी भवतितराम् । स होवाच नारायणोऽयम् । सा कलहंसी सृष्ट्यादौ ब्रह्मणः पुत्री सरस्वती । सर्वविधाः प्रभवा यस्याः सकाशादुत्पद्यन्ते । चत्वारो वेदा उपवेदाः पुराणानि धर्मशास्त्राणि पृथिव्यां यानि वर्तिष्यमाणानि तानि तस्या उत्पद्यमानानि भवन्ति । सा ब्रह्मणः पुत्री आप्तयौवनैवास्त । सा एकस्मिन् समये मम लोकं प्राप्ता ममोपासनां चक्रे । स्वसुखार्थं मम ध्यानापन्नाऽभवत् । बहुकालं मामुपसेवमानाऽभवत् । तस्या भजनेन प्रसन्नोऽहं मम लीलास्थानं वैकुण्ठं दर्शितवान् । तस्मिन् त्वया मया क्रीडितानि स्थानानि संराजन्ते । यत्र वैकुण्ठे अनेकशो भक्ता जयन्तकुमुदजयविजयगरुडाद्याः शतशः पार्षदा राजमाना भवन्ति । यत्र चतुर्धा मुक्तयः सेव्यमाना आसते । यत्र वनानि कोटिशोऽतितरां सन्ति । सा वाग्देव्यतितरामुत्कण्ठमना अत्यन्तं सुखसमाविष्टमना मम कृपादृष्ट्या सुखं प्राप्ता महालीलां प्रार्थयामास । तदा मयोक्ता सा वाग्देवी त्वं व्रजवासे व्रज । पृथिव्यामच्छोदं नाम सरः कामवने सुगन्धशिलायामस्ति । तत्राच्छोदे मज्जयित्वा सुगन्धशिलायां व्रजेश्वरीं ध्यायमाना रसिकानन्देन सह आपद्यस्वैति । तत्र तत्स्थाने सर्वात्मभावेन प्रीतिरूत्पद्यमाना भवति । प्रेमानन्दमनुभवन्तो भक्तास्तल्लीलोपयोम्या भवन्ति । सा निरन्तरं वृन्दावनं कामवनं श्रीगोवर्धनभुपसैवमानासेदुषी । अच्छोदेऽप्सरः पुष्करिण्यां निरन्तरं मज्जमानाऽभवत् । शतं समा ब्रजलीलां सेवमानाऽभघ्न । एकस्यां कार्तिक्यां पौर्णमास्यां तस्मिन् तद्वासिनो रासलीलां कुर्वन्ति । बहवो भागवतानां समाजे कलहंसीरूपं विधाय ता लीलामदर्शयन् । निशि दिने सा व्रजेश्वरी रसिकानन्देन सह दर्शनदृष्टिगोचगे भवतितराम् । अत्यानन्दरूपे सखीनां समूहमध्यस्थे महाक्रीडापरेऽतिमहामोहनरूपं दृष्ट्वा इन्द्रियशुद्धिप्रेम्णा भावापन्नाऽभवत् । प्रसेदुष्यतिसुकोमललावण्या सा वरं वरयेत्याह । सोवाचेदम् । यदि देयो वरस्तर्हि महालीलायां सदाहं सहचारिणी भवामि । किमन्येन वरेण । अयं तावन्मनोभिलाषो यल्लीला दृश्यते । तथेत्युक्ता सा ताभ्यां स्वस्थानं ययौ । या सा तद्दिनमारभ्य क्रीडापरा भवतितराम् । कुञ्जे निकुञ्जे तेनैव कलहंसीरूपेण प्रतिशाखं लीयमाना सामगानेन मनोभावेन स्तौति नानाकौतुकक्रीडामकरोत् । सा महारमणस्थानं प्राप्ता । महालीलायां मग्ना रतिसुखमनुभवन्त्यास्त । सा कलहंसी स्वयूथं विधाय कदाचित्समये रात्रिपरभागे सुरतोत्थितां लीलामगायत् । कदाचिन्मज्जनलीलामागायमाना भवति । श‍ृङ्गारलीलायां श‍ृङ्गारं प्रति प्रतिक्षणं स्तनस्वाविर्भावरतोद्भवा भवतितराम् । लीलामागायमाना सम्भोक्ष्यमाणा भवति । भोगावस्थायां स्रक्चन्दनताम्बूलागुरुरसमृगमदकर्पूरकेसरसंवलितान्यास्तरणानि प्रतिक्षणं नूतनानि । अनेकशय्यायाः सुगन्धश‍ृङ्गारादुपरिप्रफुल्लितग्रथितपरस्परशुभाङ्गशोभनचन्दनवृक्षालम्बिताः सुवर्णगन्धेन युता लतान्तराः सन्तितराम् । तत्र श‍ृङ्गारे रतिश‍ृङ्गाररसस्थानं सङ्गायमाना भवतितराम् । भूषणस्थानं सुगन्धं सुवर्णम् । सुवर्णजटिता मणयः सुष्ठु गन्धेन पूर्यमाणा भवन्तितराम् । वस्त्राण्यतिसुगन्धेनातिपद्यमानानि परिधापयति । एवं कलहंसी वाग्भिः स्तुतिं चकार । अत्यर्थं सा निकुञ्जदेव्या गानवल्लभा भवति । महाश‍ृङ्गाररसोऽयम् । विधिनिषेधमार्गाननुसारिणी श‍ृङ्गाररसादनन्तरमात्मभावे भवति । रसमग्ना भवति सम्भाष्यमाणा मनोभवभावे भवति । आत्मभावेनेयं प्रत्यनुकरणं क्रियमाणमातनोति । वनलीलां मनस्यातनोति । अतिरतिं संयोक्ष्यमाणा कलहंसी रात्रौ दिवा लतान्तरेषु फलमिष्टं मधु राधाया दत्वान्यदासेवते । तत्रैका पुष्करिणी मिष्टामृतरसपूरिता भवति चतुर्योजनायता । तत्र पद्मषण्डानि सुवर्णसुगन्धसुकोमलानि मनोहराणि भवन्ति । तस्मिन् पद्मवने विहारक्रीडापरा कलहंसी सुरोचमाना भवति । अहो लक्ष्मि तस्मिन् केन भाग्योदयेन तस्य निकुञ्जदेव्या अनुग्रहेण अनन्याश्रयधर्मोत्पत्तिर्यदा भवतितरां तदा रतिराविर्भवति । तावद्देहोपाधिकर्मक्षुत्तृट्पिपासामोहभयदुःखं तथा सुखानि तथा न भवन्ति यथा देवादीनाम् । व्रतोपवासधर्माधर्माः पितृकार्याकार्याणि यत्किञ्चिद्धर्माः शोभमाना धर्माः अन्यान्युपवासमयानि पापपुण्यानि ज्ञात्वा यः सर्वधर्मातिरिक्तो भवेत् स एव तन्मण्डलं प्राप्नोतीत्याह । अहो रम्यं पुण्यमाचरेत् । अतिततरां भावो भवेत् । सम्भोगलीलायां सुरतानन्दोऽयं लोकः सोऽवशिष्यते । सुरतानन्दसुखमनुभवन्तो भक्ता आत्मानं तन्मयतां नयन्ति । धर्माधर्मौ त्यक्त्वा समाः सहजभावा भवन्ति । अतिरसमग्ना विद्यातपोध्यानमैत्रीकलागुणसंयुक्ताश्च भवन्ति । अन्यप्रतिपत्सिहितो नास्तिको न लभते तल्लोकप्राप्तिम् । अहो लक्ष्मि कदाचिन्महाभाग्योदयेनं अस्मिन्नावरणे प्रीतिरास्ते । यत्र वृक्षाः फलैर्नम्राः पुष्पमिष्टामृतमयरसमग्ना भवन्ति । यत्र शाखाः पुष्पनम्रा भवन्ति । पञ्चमे आवरणे संसिद्धानि शुकपिकयूथानि संराजमानान्यासते । केचिदाम्रवृक्षाः पक्वफलाः सदा सम्भोक्ष्यमाणा आसते । अतिरसमग्नः साधनसिद्ध एकः शुकोऽयन्तवल्लभोऽस्ति । यस्य पक्षचञ्चुकाः सा व्रजेश्वरी स्वहस्तेन मार्जयति । रसिकानन्दोऽपि स्वहस्तेन भक्षं ददाति । तस्य सहचारिण्येका शारिका आस्ते । सा साधनसिद्धा भवतितराम् । तच्छुकशारिकामिथुनं रसिकानन्दक्रीडायां सहचार्येव भवतितराम् । तत्र रसिका सा शारिका निरन्तरक्रीडापरा भवति । सुवर्णवर्णासु भूमिषु रत्नपरिधिषु सशय्योपकरणं विहारस्थलम् । तत्र वृक्षसञ्चाराः सुशोभाढ्या भवन्तितराम् । तत्र शुकशारिकाः साधनसिद्धाः क्रीडापरा भवन्ति । अत्यासक्ता महाक्रीडायां सम्भवन्ति । अहो रसमार्गोऽयं दुर्लभतरोऽप्यासीत् । अहो महाभाग्यवशात्तस्याः निकुञ्जदेव्या अनुग्रहादत्यन्तप्रियतमो भवति । प्रीतिः प्रीत्या भवति भक्तिर्भक्त्या भवति स्नेहः स्नेहेन भवति तस्माद्भाग्योदयादतितरामासेदुषः । अहो भाग्यवन्तः कृतकृत्यवन्तः सर्वे तीर्थवन्तो भवन्ति । अतिरसमग्नाः अतिभुञ्जाना अत्यन्तसुखमनुभवन्ति । य इमां लीलां सम्भुञ्जमानाः भवन्ति य इमां लीलामुपासमाना एव भवन्ति ते भक्ता भवन्ति । यदा महाभाग्योदयो भवतितरां तदास्या लीलायां प्रत्ययो भवेत् । ते धर्मकारिणः, ते व्रतकारिणः । येषां लीलायामुपासनारुचिरास्ते ते व्रतकारिणो भवन्ति । यस्य महालीलायां मनोऽभ्येति । यो विधौ च प्रतिषेधे च निर्विद्य अस्यां लीलायां मनोभावापन्नो भवेत् स एव लीलोपयोग्यो भवेत् । ये प्रत्ययकारिणः तेषामनुग्रहः । सा लक्ष्मीः पुनरुवाचेदम् । रहस्यलीलायां मनो भावापन्नं भवति । अत्यन्तरत्याविष्टचित्ता भावापन्ना भवामि । कः शुकः? का शारिका भावापन्ना यस्यां रसिकानन्दोऽत्यन्तस्नेहाविष्टमना भवति सा व्रजेश्वरी अत्यन्तं स्नेहं चकार । अतिदुर्लभतरं स्थानं प्राप्तम् । अविच्छिन्ना रतिगतियोग्यता संयोक्ष्यमाणा भवतितराम् । स होवाच नारायणोऽयम् । श‍ृणु लक्ष्मि आदौ सृष्टेः सुमन्तो नाम ब्राह्मणः कौशिकगोत्रात्ससमुद्भूतो भवति । स कान्यकुब्जदेशे समुद्भूत आसीत् । अतितरां भावापन्नोऽभवत् । तस्य मनोरमा भवत्यतिशयभक्तिमार्गरता । तौ दम्पती अतिसुभगावतितरस्नेहसम्पन्नौ निरन्तरसेवायां संयोक्ष्यमाणरती आसाताम् । तौ दम्पती अतिस्नेहेनाविष्टचित्तौ काले काले तां व्रजेश्वरी रसिकानन्देन सह उपसेवमानावासाताम् । तावतिवनलीलायामत्यासक्तौ भवतः । कस्मिन् कियद्भाग्योदयेन भक्तानां सङ्गेन वनं वृन्दावनं प्राप्तौ? तत्र वृन्दावने कामवने कदम्बषण्डे वृषभानुपुरे नन्दग्रामे पावनसरसि प्रतिपद्यमानावभवताम् । एवंविधे रहसि क्रीडाविहारे कियत्कालं वासमालम्ब्य तिष्ठन्तावभवतां? दम्पती साभिलाषौ वने अत्यासक्तावभवताम् । मनोरथेन सह व्रजेश्वरी रसिकानन्देन सह दृष्टिपथमापेदे । महालीलायां क्रीडापरौ सम्भाषमाणौ संयुञ्जाताम् । तद्दिनमारभ्य तौ दम्पती महालीलायां क्रीडापरावभवताम् । सा लक्ष्मीरुवाचेदं रहस्यम् । व्रजवासिनीसृष्टिः कीदृग्विधा? ये संसिद्धास्ते कीदृग्विधाः? अन्ये के जीवाः सृष्ट्यादौ प्रकटिताः? जीवस्य कीदृग्विधं रूपम्? बन्धमोक्षौ कीदृग्विधौ भवतः? पुनः स होवाच नारायणोऽयम् । अहो! प्रपञ्चोऽयमनादिसंसिद्धो भवति । यथा ब्रह्म त्रिविधात्मकम् । सच्चिदानन्दात्मकम् । सत्तु व्यापकतयास्ति । तेजोमयं चिदस्ति । आनन्दमयस्तु पुरुषोत्तमोऽतिरिच्यते । यथा ब्रह्मानन्दोऽयं लोकः सच्चिदानन्दो भवति तथा जीवसङ्घस्त्रिविधो भवति । सोवाचेदम् । किमयं जीवसङ्घो भवेत्? तेषां का दृष्टिः? कावस्था भवति? स होवाचेदम् । श‍ृणु । अनादिसंसिद्धोऽयं जीवश्चिदंशो भवति । सोवाचेदम् । यदि चिदशो जीवः कथमज्ञानेन जडतां प्रपद्यते । स होवाच । यथा अनादिसंसिद्धोल्यं जीवसङ्घस्तथा मायाप्यनादिसिद्धा भवति । सा त्रिविधा व्याप्य तिष्ठतिः । स एवं जीवस्त्रिविधो भवति । सोवाचेदम् । जीवसङ्घस्त्रिविधस्तिष्ठति । वर्णः ॥ स होवाच । सद्रुपः संसारात्मको भवति । नानाकर्माणि करोति । वर्णाश्चाश्रमाश्च धर्माश्च साधनानि संयुज्यन्ते । तेषामुत्पत्तिः स्थितिः । चिद्रूपो जीवो ज्ञानी भवति । स निष्कर्ममार्गोयो भवति । ये जीवाः आनन्दरूपास्तेषां सर्वधर्मत्यागात् रसानन्दस्वरूपा महालीलोपसेव्यमानाः आसते । तान् धर्माधर्मौ न बाधेते तस्यां महालीलायाम् । सोवाचेदम् । कया मायया संयुज्यमानो जीवः कर्ममार्गरतो भवति? स होवाच । मायारूपं त्रिविधम् । यद्रूपं सद्रूपं तन्मायासंवलितोऽयं जीवसङ्घः कर्मकाण्डरतो भवति । चिद्रूपया मायया संवलितो जीवसङ्घः संन्यासी भवति । आनन्दसंवलितया माययानन्दात्मक एव भवति । आनन्दरसस्तु महालीलायाः कारणं भवतितराम् । तेषां कर्माणि याथातथ्येन वदामि । तेषां ये कर्ममार्गीयाः कर्मप्रतिपादका महावनलीलायामप्रत्ययकारिणोऽसुराः कर्मजडा अन्योपासकास्तदुपाधितयान्यमार्गं न विन्दन्ते । अग्नेरुपासकास्ते यज्ञकर्मवासनात्मकलिङ्गशररिषूत्पत्ति भजन्ते । तेन वासनात्मकेन लिङ्गे नोत्पत्तिस्थितिलयानापद्यन्ते । तस्माल्लिङ्गशरीरात्मकोऽयं जीवस्य स्वभावः । यदा सर्वा वासना विधूय महालीलायाम्प्रविष्टचित्तो जायते अहो लक्ष्मि लीलां ज्ञात्वाज्ञात्वा ध्यायमानो देहजनितकामक्रोधलोभमोहभयसुखदुखलज्जालज्जा ज्ञानमोहमत्सरादीनागममन्त्रतन्त्रौषधिरसज्योतिषवाग्विलास प्रपन्नान् नाना संसारजनिताननेकशः सात्त्विकराजसतामसान् संराजमानधर्माधर्मानतितरामभिमानगुणान्निरस्यन् महालीलां प्रविष्टो भवेत् । आत्मानं तन्मयमातनोति । अन्यत्र क्वापि विषयान्तरे प्रविष्टचित्तस्तदा तं लिङ्गं प्राप्नोति । सा लक्ष्मीरुवाचेदम् । त्वयोक्तं जीवस्य मायाधीनत्वं जीवो येन वासनालिङ्गशरीरे उत्पद्यमानो भवति । किं बलं येन प्रयत्नवान् भवति स होवाच । तस्मान्महाभाग्योदयेन यदृच्छया गुरुसहायेन सङ्गेन साधूनामन्यधर्मरहितानां विधूतपापं मनस्तन्मयतया तेन मार्गेण लिङ्गशरीरं विधूय महालीलायां व्रजेश्वरी रसिकानन्देन सहोपसेवमान आसीदति । सा लक्ष्मीरुवाचेदम् । जीवस्य रूपं कीदृग्विधं केन रूपेणोत्पत्तिस्थितिलयानापद्यते स होवाच । अनिर्वचनीयोऽयं जीवः । नैनं छिन्दन्ति शस्त्राणि नैनं दहत्यग्निर्मारुतो नैनं शोषयत्यापो नैनं क्लेदयन्ति । यां यां वासनां प्राप्नोति तं तं लिङ्गशरीरं प्राप्नुवन्नास्ते । अत्यन्तं वासनाबद्धो जीवः । वासनामुक्तो महालीलायामासक्तः संसारे ननिर्विण्णो नातिसक्तो भवति । संसिद्धोऽयं जीवसङ्घो मायोपाधिभेदेन नानाशरीरभावमाप्नोति । असंसिद्धस्तु रक्तशरीरसंयुक्तो भवति । सोवाचेदम् । शरीरं कीदृग्विधं तस्मिन् शरीरे के गुणा के अवगुणाः ? केन बन्धः शरीरे? केनैव मुक्तिः तस्मिन् शरीरे? को निरुपाधिः? तस्मिन् किं ज्ञानं भवति? कीदृशेन शरीरेण बन्धः? कीदृशेन मोक्षो भवति? स होवाच । शरीरभेदाः द्विविधाः । शरीरमेव कर्मोपजनितं यदृच्छया चोत्पन्नं तस्या निकुञ्जदेव्याः अनुग्रहाद्भवति । कर्मजडानां कर्मसम्भूतवासनाजडात्मकं भवति । येषामनुग्रहात्सम्भवो भवति तेषां स्नेहमार्गे रुचिरास्ते । येषां निर्वाणमार्गे रुचिर्भवति ते संन्यासिनो भवन्ति । शरीरं तु एकादशेन्दियात्मकम् । पञ्च ज्ञानेन्द्रियाणि ।पञ्चकर्मेध्यिद्रयाणि । उभयात्मकं मनो जायते । पञ्च महाभूतानि पञ्च तन्मात्राणि । त्रयो गुणाः । पञ्चविंशत्तमो जीवः । षड्विंशको महाविष्णुः सदा द्रष्टा भवति । इमे जीवाः शरीरोपाधिं भुञ्जानाः सुखं दुखं प्राप्नुवन्तो भवन्ति । सर्वेषां शरीराणां समानगुणा भवन्ति । रागादयः कामक्रोधलोभमोहजरामरणसुखदुःस्वान्यनुभवन्त आपद्यन्ते । इदं शरीरं जरया ग्रस्तं गन्धर्वनगरोपमं मनोरथमयं भवति । ते सर्वे गुणा लिङ्गशरीरोदयादपेता लिङ्गं विधूयाप्मानं तन्मयतां नयन्ति । ते रागादयो दोषाः शरीरसंवलिताः । ते कामक्रोधादयस्तदर्थे प्रयुज्यमानाः साधनरूपा भवन्ति । सोवाचेदम् । कथं रागादयः साधनरूपा भवन्ति? येषां संसर्गात् विकलतां प्रपेदिरे । भगवदर्थे प्रयुज्यमानाः रागादयः कथं निष्कर्मतां प्राप्नुवन्ति? एष काम एष क्रोध एष लोभ एषः मोह गरयात्मलीलार्थे जीवं प्रयोजयति । स होवाच । माया त्रिविधा भवति । सद्रूपया माययोत्पादिताः कामक्रोधादयो गुणाः संसारोत्पत्तिप्रयोजकाः भवन्ति । चिद्रूपे आश्रिता जीवास्ते तान् गुणान् प्रपद्य जडतां प्रपेदिरे । आनन्दरूपे आश्रिता जीवास्तन्मयतां प्रपेदिरे । संसारितोऽयमानन्दमयो रस आत्मानमानन्दमयतया प्रपद्यते । रागादयः कामक्रोधादयो गुणाः साधनरूपा भवन्ति । अहो! रसमार्ग प्रपद्यमानोऽयं जीवसङ्घ आत्मानं तन्मयतया ध्यात्वा वासनात्मकं लिङ्गं विधूयात्मभावमभ्यस्य तन्मयतां प्राप्नोति । यां यां वासनामात्मा विलापयमानो भवति तत्तद्भावेन तत्तल्लिङ्गं विलीयमानं भवति । अत्यन्तासक्तस्तस्मिन् मार्गे लिङ्गं विधूयापपाष्मा भावापन्नो भवेत् । यो मार्गस्ते कथितोऽयं मार्गो देवादिना न ज्ञातः । रुद्रादिना न ज्ञातः । तन्मण्डलमुपासमानस्तन्मयतां प्रपद्यते । इदं रहस्यं कथितम् । न वचनीयं कस्य चित्त्वया । स्वेष्टं हृदि ध्यात्वा तद्भावेन प्रलीयते । अहो लक्ष्मि इमं मार्ग समाश्रिता भक्ताः शरीरोपाधिधर्मान् मुक्त्वा तद्गुणतां प्राप्नुवन्तीति सामगा निरन्तरं रहसि सङ्गायन्तो भवन्ति ॥ यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् । तत्सर्वं क्षम्यतां राधे प्रसीद हरिवल्लभे ॥ इति सामरहस्योपनिषत् समाप्ता । अस्याः ``रसिकानन्योपनिषत्'' इत्येव नाम सुवचम् । Proofread by Mohan Chettoor
% Text title            : sAmarahasyopaniShat
% File name             : sAmarahasyopaniShat.itx
% itxtitle              : sAmarahasyopaniShat athavA rasikAnanyopaniShat (vaiShNava)
% engtitle              : sAmarahasyopaniShat
% Category              : upanishhat
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Description-comments  : aprakAshitA upaniShadaH Print page 219
% Indexextra            : (Scan)
% Latest update         : July 17, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org