श्यामोपनिषत्
ॐ क्रीं अथ हैनां ब्रह्मरन्ध्रे ब्रह्मस्वरूपिणीमाप्नोति सुभगां
शुभधातुकामरेफेन्दिरासमष्टिरूपिणीमेतत्त्रिगुणमादौ तदनु
कूर्चबीजद्वयं व्योमषष्ठस्वरबिन्दुमेलनरूपं तदनु भुवनेशीद्वयं
भवतु व्योमज्वलनेन्दिराशून्यमेलनरूपं ततो दक्षिणे कालिके
चेत्यपि ततो मुखबीजसप्तकमुच्चार्य बृहद्भानुजायामुच्चरेत् ।
अयं स मन्त्रोत्तमः । य इमां सकृज्जपन् स तु देवेश्वरः ।
स तु विश्वेश्वरः । स तु नारीश्वरः । स तु सर्वगुरुः ।
स तु सर्वनमस्यः । स तु सर्ववेदैरधीतो भवति । स सर्वेषु
तीर्थेषु स्नातो भवति । स स्वयं सदाशिवः । त्रिकोणं त्रिकोणं
त्रिकोणं त्रिकोणं पुनश्चैव त्रिकोणं साष्टपत्रं सकेसरं
भूपुरैकेण संयुतं तस्मिन्देवीं हृल्लेखामङ्गे विन्यस्य ध्यायेत् ।
अभिनवजलदनीला कुटिदंष्ट्रावराभयखड्गमुण्डसहितहस्ता कालिका
ध्येया । काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी विप्रचित्तेति बहिः
षट्कोणगाः । उग्रा उग्रप्रभा दीप्ता नीला घना वलाका मात्रा मुद्रा
अमितेति नवकोणगाः । ब्राह्मी नारायणी माहेश्वरी चामुण्डा वाराही
नारसिंही कौमारी चापराजितेत्यष्टपत्रगाः । चतुष्कोणेषु चत्वारो
माधवरुद्रविनायकसौराः । दिक्षु दिक्पालाः । देवीं सर्वाङ्गेणादौ
सम्पूज्य भगोदकेन तर्पणं पञ्चमकारेण पूजनमेतस्याः । एवं
द्वित्रिक्रमेण कुर्वाणा मुनयो भवन्ति । नारिमित्रादिलक्षणमस्यवर्तते ।
अमुष्या मन्त्रपाठकस्य गतिरस्ति । नान्यस्येह गतिरस्ति ।
एतस्यास्तारामनोर्दुर्गामनोस्सुन्दरीमनोर्वा सिद्धिरिदानीम् । सर्वाः सुप्ता
भूताः । असिताङ्गी जागर्ति । इमामसिताङ्ग्युपनिषदं योऽधीते
अपुत्री पुत्री भवति । योऽन्यस्य वरदो दृष्ट्या जगन्मोहयेत् ।
गङ्गादितीर्थक्षेत्राणामग्निष्टोमादियज्ञानां फलभागीयते ॥
(शाक्त-उपनिषदः)
इत्याथर्वणे सौभाग्यकाण्डे श्यामोपनिषत् समाप्ता ।
Proofread by Kasturi navya sahiti