सिद्धान्तसारोपनिषत्

सिद्धान्तसारोपनिषत्

भद्रं कर्णेभिः-इति शान्तिः

प्रथमावरणम् ।

अथ भारद्वाजः कुमारं पप्रच्छ । भगवन् मे ब्रूहि परमतत्त्वकैलासरहस्यम् । तद्गुह्यमुवाच स्कन्दः । साधु पृष्टं सर्वं निवेदयामि यथाज्ञातं मया । हे भारद्वाज श‍ृणु वाक्यमेतत् । परमकैवल्यः स एव कैलासः । ईश्वरकृपया परमपरिपक्वचित्ता जानन्ति । नान्ये जानन्ति गुह्यमिदमनिर्वाच्यममितबोधसागरममितानन्दसमुद्रमखण्डानन्द- रूपन्निरवयवं निराधारं निर्विकारं निरञ्जनमनन्तं ब्रह्मानन्दसमष्टिकन्दं तैरानन्दपुरुषैश्चिद्रूपैरधिष्ठितं ब्रह्मानन्दमयानन्तनिरतिशयानन्दसागराकारमात्मसमानानन्द- विभूतिपुरुषानन्तानन्दमण्डितं नित्यमङ्गलमनन्तविभवम् । ब्रह्मानन्दमयानन्तप्राकारप्रासादतोरणविमानोपवनावलीभिर्ज्वल- च्छिखरैरुपलक्षितो निरुपमनित्यनिरवद्यनिरतिशयनिरवधिकब्रह्मानन्दाचलो विराजते । तदुपरि ज्वलति निरतिशयानन्ददिव्यतेजोराशिः । तदभ्यन्तरसंस्थाने शुद्धबोधानन्दलक्षणं विभाति । तदन्तराले चिन्मयवेदिकाऽऽनन्दवेदिकाऽऽनन्दवनविभूषिता । तत्र वेदकल्पतरुवनं यज्ञकल्पतरुवनं योगकल्पतरुवनम् । तदभ्यन्तरे अमिततेजोराशिस्वात्मज्योतिर्ज्वलति । तत्र परममङ्गलासनं विराजते । तस्योपरि समासीनानन्तपरिपालकनन्द्यादिगणपाः सन्ति । अनन्तोत्कटजलदमण्डलं निरतिशयदिव्यतेजोमण्डलवृन्दाकारपरमानन्दशुद्ध- बोधस्वरूपमनन्तानन्दसौदामिनीपरमविलासं निरतिशयानन्तपरमानन्दपारावारजालम् ॥ इति प्रथमावरणम् ।

द्वितीयावरणम् ।

तन्मध्ये कल्याणाचलो विभाति । अनन्तानन्दपर्वतशिखरैरभिव्याप्तमनन्तबोधानन्दव्यूहैरभितस्ततं ब्रह्मविद्याप्रवाहैरानन्दरसनिर्भरैः क्रीडानन्दपर्वतैरनन्तैरभिव्याप्तं ब्रह्मविद्यामयैरनन्तप्राकारैरानन्दामृतमयैर्दिव्यगन्धैः स्वभावरिन्मयैरनन्तब्रह्मवनैरतिशौभितमपरब्रह्मविद्या- साम्राज्याधिदैवतमनन्तमोक्षसाम्राज्याद्वितीयमेकं परमकल्याणमनन्तविभवममितबोधानन्दाचलोपरिस्थितं शुद्धबोधमयानन्तप्रासादैः संवृतमानन्दमयानन्तविमानावलीभिर्विराजितमत्याश्चर्यानन्त- विभूतिसममनन्तशुद्धानन्दपरिघैः समावृतमनन्तदिव्यतेजोज्वालाजालैरभितोऽनिशं प्रज्वल्यन्तमत्याश्चर्यानन्तविभूतिसमष्ट्याकारमानन्द- रसप्रवाहैरलङ्कृतममितविज्ञानतरङ्गिण्याः प्रवाहैरतिमङ्गलं ब्रह्मतेजोविशेषाकारैरनन्तब्रह्मवनैरभितस्ततं ब्रह्मविद्याकल्पतरुवनैः सुशोभितं बोधकल्पतरुवनैः परिवेष्टितमनन्तनित्यमुक्तैरभिव्याप्तं तदभ्यन्तरेऽनन्तदिव्यमङ्गलासनं विराजते । तदुपरि नित्यज्ञानानन्दरूपा अद्वैतशिवपूजकास्तिष्ठन्ति ॥ इति द्वितीयावरणम् ।

तृतीयावरणम् ।

तन्मध्ये चिदानन्दाचलो विभाति । तदुपरि ब्रह्मतेजोमयानन्तशिखराः सन्ति । तत्र ब्रह्मविद्यामयानन्तपरिघाः सन्ति । वाचामगोचरानन्तचिन्मयानन्दवनैः परिवेष्टितं ब्रह्मकल्पतरुवनैः समावृतं अमुतकल्पतरुवनैरुपशोभितं ब्रह्मतेजोमयानान्दरसप्रवाहैरतिशोभितं ब्रह्मविद्यातरङ्गिण्याः प्रवाहैः सुमङ्गलं निरतिशयानन्तदिव्यानन्दतेजोज्वालाराशिमण्डलं ज्वलति । परमानन्दमयानन्तविमानावलिभिः सङ्कुलमनन्तचिन्मयप्रासादजालसङ्कुलमनन्तब्रह्मानन्दानुभव- पताकाध्वजतोरणैरलङ्कृतमनन्तनित्यमुक्तैरभिव्याप्तं तदभ्यन्तरसंस्थानेऽनन्तचिन्मयासनं विराजते । तस्योपरि नित्यशुऽद्धबुद्धमुक्तशिवैक्यभक्तास्तिष्ठन्ति ॥ इति तृतीयावरणम् ।

चतुर्थावरणम् ।

तन्मध्येऽमितबोधानन्दाचलो विभाति । तदुपरि परमकैवल्यानन्दरूपानन्तशिखराः सन्ति । तत्र परमानन्दामुतमयैर्दिव्यानन्तप्राकारो ज्वलति । दिव्यगन्धैः स्वभावचिन्मयैरनन्तब्रह्मवनैरतिशोभितमानन्दकल्पतरुव- नैरावृतं मुक्तिकल्पतरुवनैः सुशोभितं पारावारानन्दरसनिर्भरैरतिशोभितं स्वात्मानन्दानुभवतरङ्गिण्याः प्रवाहैरतिमङ्गलं परमकल्याणमनन्तविभवममिततेजोराश्याकारमनन्तब्रह्मतेजोराशि- समष्ट्याकारमनन्तदिव्यतेजोज्वालाजालैरभितोऽनिशं प्रज्वलितमनन्तदिव्यापारब्रह्मविद्यासाम्राज्याधिदैवतममोघ- निजमन्दकटाक्षचिदानन्दमयानेकप्रासादविशेषैः परिवेष्टितं ब्रह्मविद्यामयैरनन्तप्रकारानन्दामृरतदिव्यमङ्गलविमानैः सुशोभितं चिद्रूपविलासनिभचिन्मयासनं विराजते । अधितिष्ठन्ति तिजोराशिं तदन्तर्गतदिव्यतेजोविशेपमखिलपवित्राणां परमं पवित्रं चिद्रूपपरानन्तनित्यमुक्तैभिव्याप्तं सच्चिदानन्दरूपाः शिवात्मैक्योपासकाः ॥ इति चतुर्थावरणम् ।

पञ्चमावरणम् ।

अनन्तानन्दपर्वतैः परमकौतुकमाभाति । तदुपरि ज्वलति निरतिशयानन्ददिव्यतेजोराशिमण्डलम् । चिदानन्दमयानन्तप्राकारविशेषैः परिवेष्टितम् । तच्च परमकल्याणविलासविशेषम् । तदखण्डदिव्यतेजोमण्डलाकारं परमानन्दसौदामिनीचयोज्ज्वलम् । तच्चामितपरमतेजःपरमविहारसंस्थानविशेषं परमतेजोमण्डलविशेषं परमानन्दामृतब्रह्मविद्यामयानन्तसमुद्रं चिदानन्दतरङ्गाकारम् । तन्मध्ये अनन्तदिव्यतेजःपर्वतसमष्ट्याकारमपरिच्छिन्नानन्तशुद्धबोधानन्दमण्डलं वाचामगोचरानन्दब्रह्मतेजोराश्याकारमनन्तशिखरोज्ज्वलमखण्ड- तेजोमण्डलविशेषं नित्यानन्दमूर्तिमद्भिः परममङ्गलैः परिधीकृतमपरिछिन्नानन्दसागराकारं ब्रह्मानन्दरसक्रीडावनैः सुशोभितमनन्तसहस्रानन्दप्राकारैः समुज्ज्वलितं मुक्तिकल्पतरुवनैः परिवेष्टितं विभूतिकल्पतरुवनैरभितस्तमनन्तानन्द- विमानजालसुंलमनन्तबोधसौधविशे- षैरभितोऽनिशं प्रज्वलितं क्रीडानन्तमण्डपविशेषैर्विशेषितं बोधानन्दमयानन्तपरमछत्रध्वजचामरवितानतोरणैरलङ्कृरतं शुद्धानन्दविशेषसमष्टिमण्डलविशेषानन्तप्रासादोन्नतोज्ज्वलमखण्ड- चिद्धनानन्दविशेषं परमानन्दव्यूहैर्नित्यमुक्तैरभितस्ततमनन्त- दिव्यतेजःपर्वतसमष्ट्याकारपरिच्छिन्नानन्तशुद्धबोधानन्दमण्डलं परमानन्दलहरीवनशोभितमसङ्ख्याकानन्दसमुद्रमनन्तज्वाला- जालैरलङ्कृतं चिदानन्दतरङ्गिण्याः प्रवाहैरतिमङ्गलं स्वात्मानन्दानुभवामृतकल्लोलरसप्रवाहैरलङ्कृतं स्वप्रकाशानन्तानन्दतेजोज्वालाजालैरावृरतम् । तदभ्यन्तरे चिन्मयानन्दासनमुज्ज्वलम् । तदुपरि विभात्यखण्डानन्दतेजोमण्डलम् । तदभ्यन्तरसमासीनाः आनन्दसागरनित्यतृरप्ताः शिवाद्वैतोपासकाः स्वात्मलिङ्गार्चकास्तिष्ठन्ति । निरतिशयदिव्यतेजोमण्डलाकारा आनन्दघनसागराः परमकैवल्यस्वरूपानन्तगणाः परिसेवन्ते ॥ इति पञ्चमावरणम् ।

षष्ठावरणम् ।

परमचिद्विलाससमष्ट्याकारं निर्मलं निरवद्यं निराश्रयमतिनिर्मलानन्तकोटिरविप्रकाशैकोज्ज्वलमनन्तोपनिषदर्थ- स्वरूपमखिलप्रमाणातीतं मनोवाचामगोचरं नित्यमुक्तस्वरूपं कैवल्यानन्दरूपं परमानन्दलक्षणापरिच्छिन्नानन्तज्योतिः शाश्वतं शश्वद्विभाति । तदभ्यन्तरसंस्थानेऽमितानन्दचिद्रूपाचलमखण्डपरमानन्दविशेषं बोधानन्दमहोज्ज्वलमनन्तचित्सागरकल्लोलजालशिखराकारं नित्यमङ्गलमन्दिरमनन्तानन्दबोधसौधविशेषैरभितोऽनिशं प्रज्वलितं चिदानन्दानन्तचित्सगरैः परिधीकृतं ब्रह्मसाक्षात्कारानुभवविशेषबोधसारतरानन्तप्राकारैः समुज्ज्वलितमनन्तसहस्रकैवल्यानन्दवनोपवनैः सुशोभितमनन्तानन्दविभूतिदिव्यतेजःपर्वतसमष्ट्याकरं स्वात्मानन्दानुभवविज्ञानघनरुद्राक्षकल्पतरुवनरैतिमङ्गलमनन्तानन्द- चित्सागरमथनोद्भूतरसप्रवाहैरलङ्कृतमद्वितीयं स्वयम्प्रकाशमनिशं ब्रह्मानन्दामृतरसाम्भोनिधितरङ्गिण्याः प्रवाहैरतिमङ्गलं निरुपमनिरवद्यनित्यशुद्धबुद्धनिरतिशयतेजोराशि- विशेषानन्तानन्दविमानजालावलिभिः ममाकुलं क्रीडानन्तमण्टपविशेषैर्विशेषितं बोधानन्दमयानन्तदिव्यतेजोराशिविशेषचैतन्यप्रासादैः परिवेष्टितमनन्तपरमानन्दामृतरसाब्धिकल्लोलतरङ्गावलिभि- र्दिव्यतेजोमयछत्रचामरध्वजपताकावितानतोरणादिभिरलङ्कृतं परमानन्दव्यूहैर्नित्यमुक्तैरभितस्ततं तच्चानन्तब्रह्मतेजोमयबिल्वकल्पतरुवनैराकुलं वेदान्तसारभूतसिद्धान्तानन्तस्कन्धैर्विराजितं महावाक्यार्थस्वरूपानन्तशाखासमन्वितं सच्चिदानन्दस्वरूपानन्तानन्दपत्रेस्सुमङ्गलमद्वितीयात्मचैतन्यवुन्तैः सुसंलग्नं विज्ञानघनमानन्दामृतकल्लोलानन्तपुष्पैरलङ्कृत- मखण्डानन्दाह्लादानन्तप्रवाहदिव्यसुगन्धैः समाकुलं निरतिशयानन्दामृतसारसागरानन्तमकरन्दाकारं निश्शङ्कानन्दमोक्षसाम्राज्यचिन्तामणिफलानन्तैर्विराजितं वाचामगोचरमनोन्मनानन्दाम्बुधिदिव्यतेजोमयज्वालाजालदीपितात्यन्तोन्नतानन्त- शिखराकारं शिवालयं शिवानन्दमयदि०यनानालीलाविग्रहविलास- विलसितानन्दाविर्भावचरित्रचित्रीकृतचित्रैरलङ्कृतं मूर्तिमद्भिः शिवधर्मानन्तोन्नतगोपुरद्वाराकारैरसङ्ख्यैरावृतं शिवधर्माननमूर्तिवृषभावलिभिः सुमङ्गलं शिवविज्ञानानन्दसागरतीर्थाकारं पुरतःस्थितानन्तदिव्यतीर्थानां निजमन्दिरं विज्ञानानन्दघनस्वरूपानन्तसोपानमण्डलमालयमध्यगतं स्वात्मज्योतिर्मयचिद्रूपवेदिकास्थानविशेषं तदुपरि चैतन्यशक्त्यालङ्कृतस्वात्मचैतन्यकैलासेश्वरलिङ्गाकारं सुपूजितं तत्सन्निधौ शिवविज्ञानानन्दघनशैवधर्ममूर्तिमासाद्य वृषभाकृतिविराजितं शिवानन्दनन्दिसेनबाणरावणाद्यनन्तनानामयानन्तानन्दमूर्तिमासाद्य गणेशकुमारनन्दिभृङ्गिचण्डिरिटिकीर्तिमुखवीरभद्रभैरव- महाकालशोभनन्दिसुनन्दनन्दिसेनबाणरावणाद्यनन्तनानागप- रूपमासाद्यानन्तगणमेवितशिवालयस्य समन्तात् स्वस्वस्थाने सुशोभितं बोधानन्दमयैरनन्तनित्यमुक्तैः परिसेवितं शुद्धबोधपरमानन्दाकारवनं सन्ततामृतपुष्पवृष्टिभिः परिवेष्टितं परमानन्दप्रवाहैरभिव्याप्तं मूर्तिमद्भिः परममङ्गलैः परमकौतुकापरिच्छिन्नानन्दसागराकारं क्रीडानन्दपर्वतैरभिशोभितं वाचामगोचरानन्दब्रह्मतेजोराशिमण्डलमखण्डतेजोमण्डलविशेषं दिव्यनानामङ्गलवाद्यैरलडूकृतं प्रणवात्मकध्वन्याकारं विज्ञानघनस्वरूपमनन्तचिदादित्यसमष्ट्याकारं शिवाद्वैतोपासका भजन्ते ॥ इति षष्ठावरणम् । (शैव-उपनिषदः) इति सिद्धान्तसारोपनिषत् समाप्त । Proofread by Kasturi navya sahiti
% Text title            : siddhAntasAropaniShat
% File name             : siddhAntasAropaniShat.itx
% itxtitle              : siddhAntasAropaniShat (shaiva)
% engtitle              : siddhAntasAropaniShat
% Category              : upanishhat, shiva
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Kasturi navya sahiti kasturinsahiti at gmail.com
% Description-comments  : aprakAshitA upaniShadaH
% Indexextra            : (Scanned Book)
% Latest update         : March 20, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org