वास्तुसूत्रोपनिषत् सव्याख्या
अथ अथर्ववेदीय वास्तुसूत्रोपनिषद् ।
प्रथमः प्रपाठकः
षट्शिल्पविचारः
आथर्वणाङ्गिरस (१) - शिल्पकाश्यपो (२) होवाच पिप्पलादमहामतिम् । षोडशतापिनीमध्ये (३) वास्तुस्थापकविद्येयम् (४) । य एनां वेद । आथर्वणीये होतोद्गातृभिः शिल्पश्रोतृभिः
वास्तोष्पतिर्ज्ञेय इति (५) ॥ १॥
स विश्वकर्मा देवता । तस्य विद्या षट्शिल्पविचारः (६) ।
केषां शिल्पकारा उपपादयन्ति केषां शिल्पकर्मादय उपजायन्ते, कतिविधानीति तान् ह स आङ्गिरसादीन् निरीक्षमाणान् ( निर्यक्ष्यमाणान्) पिप्पलादो वव्रे । स ह कुवित्सोवलभुजोत्तोलकः, (७) शिल्पकाश्यपः प्रणिधाय यथाकामं पृच्छामीति । को वास्तोष्पतिर्विश्वकर्मा (८), तस्मै होवाच, मन्ये वयं वेदसदस्या ज्ञापयिष्यसीति (ज्ञापयिष्यामो) ।
पिप्पलादो होवाच - ये वै के चास्मिंल्लोके प्रयान्ति ज्ञानमेव ते सर्वे कामयन्ते ।
षट्शिल्पाङ्गप्रयोगेण प्रजनयन्ति रूपाणि (९) ॥ २॥
रूपं शैलेन (१०) खादिरेण, एवं रूपज्ञानञ्च लोके । वेदे रूपं रूपं प्रतिरूपं भवतीति विशेषः । तज्ज्ञानं दिव्यज्ञानञ्च ।
यूप (११) इदं ज्योतिः ॥ ३॥
स हि यूपः खादिरेण शैलेन वा वैताने (१२) उक्तम् । वृत्तं हि यूपमूर्धन्यं स विश्वमिति यूपदण्डादौ । कर्माणि समरूपाणि समरेखायां स यूपस्तम्भो यूपदण्डः । तत् संयोगेन यूपो भवति तज्ज्ञानं विज्ञापयति य एवं वेद स हि विश्वकर्मा शिल्पाधिदैवतम् (१३) । य एवं जानाति स पुरश्रेष्ठः ।
वृत्तज्ञानं रेखाज्ञानं च यो जानाति स स्थापकः ॥ ४॥
खादिरदण्डहस्तो दर्भरज्जुकरः, तद् रज्जुवलयवेष्टितमिदं तस्य रूपं तज्ज्ञानञ्च शिल्पज्ञानम् । तद्ज्ञानात् ( तच्छिल्पज्ञानात्) दिव्यज्ञानं भवति ( प्रभवति), तद्ज्ञानात् मोक्षः, स हि मधुः (१४), य एवं वेद ।
शिल्पात् प्रतिमा (१५) जायन्ते ॥ ५॥
प्रतिमायाः श्रद्धा सञ्चरति, श्रद्धातो निष्ठा, ततश्च ज्ञानम्, तस्मान्मोक्षो भवतीति पञ्च वास्तुसोपानानि, य एवं वेद । आथर्वणीये सर्वानुभूतिरित्यनुशासनम् । अथ शिल्पकाश्यपाथर्वणाङ्गिरसकुवित्सा (१६) दयो होद्गीथे (१७) कुशला बभूवुः । वास्तुषडङ्गकथां यथामति ब्रूहीति प्रोचुः पिप्पलादमिति । तथेति समुपदिदिक्षुः ।
स प्रवहणः शिल्पसूत्राध्यायं स्थापकविद्यां चावदत् ॥ ६॥
सा विद्या श्रेष्ठा, प्रजापतेश्चाग्रा । प्रजापतेर्नारदः, नारदान्मयः, मयाद् वैश्रवणः (१८), वैश्रवणात् पिप्पलादः । श्रोष्यामीति । एषामुन्मेषः सत्यम् ।
होवाचाङ्गिरसस्त्वो पृच्छामीति । पृच्छेति होवाच । केन प्रतिमा सम्भवति । कथं रूपं रूपं प्रतिरूपाणि लोके सम्भवन्ति । नाहं प्रभो पश्यामीति । स प्राजापत्यमार्गेण पिप्पलाद उवाच । भव त्वं शान्तहृदयः आङ्गिरस, मर्त्त्ये वा इदं सदासीत् श्रेष्ठयजने ।
अपां यो अग्रे प्रतिमा बभूव प्रभूः सर्वस्मै पृथिवीव देवी ।
पिता वत्सानां पतिरघ्न्यानां साहस्रे पोषे अपि नः कृणोतु ॥
इति मन्त्रेण (१९) तृप्त्यर्थमुपासत इति भावः ।
यजनोपासने च ।
शरीरमूर्तिरहिते मन आवेश्य विशेषेण
विकल्पिदोषयुक्त्तं भवति ॥ ७॥
इति । रूपात् क्रमेण (प्रतिमा), प्रतिमायास्तत्त्वबोधो जायते । तत्त्वबोधाद् धारणेति । धारणाया गाथा, कथा प्रसरति लोके । गाथाया रूपाण्युत्पादयन्ति स्थापकाः । तस्मै होवाच रूपकलनार्थं कारुसाधनार्थं विशेषः ।
वास्तु षडङ्गमिति श्रेष्ठम् ॥ ८॥
शैलं खिलपञ्जरं (२०) कीलेन पञ्जराकृतिकोष्ठका रेखावासः (कीर्त्त्यावासः) तदा रूपाङ्गानि मर्माण्याश्रयन्ते तच्छैलभेदनम् । अङ्गप्रयोगः; न्यासभावनासम्बन्धप्रबोधनं इति । होवाच आङ्गिरसः-
कथं विकाशेन रूपवास्तुषडङ्गं शिल्पं संसिद्धं भवति । भगवतस्तस्यैव मे कामं ब्रूयात् । श्रुत्वाह, येनैवं मे स्थापकविद्या प्रपातिनी समावर्त्तते (समावर्त्तने) । स हि षडङ्गक्रममाह ।
(शैलम्)
षड्धा शैलं ज्ञेयम् ॥ ९॥
शिला तद्देशे लोकज्ञाने षड्धा प्रथिता । हिरण्यरेखिका, समवर्णा, ताम्रा, धातुपुटिता, बज्रलब्धा, सैकतालिकेति । यदा हिरण्यरेखा कुटिला सोऽवलक्षणः । सा प्रतिमार्थं हीना विरूपं प्रददाति । तद्दर्शनेन विकल्पभावो प्रभवति । दर्शनादेता अर्थहीना उच्यन्ते, वदन्ति, भवन्तीति ।
एतदर्थं प्रतिमावैलक्षण्यं भवति । यदा पूर्णशैलमेकवर्णं कृष्णं कृष्णपिङ्गलं हारिद्रं वा मुख्य प्रतिमार्थं ध्येयं सा समवर्णा । कठिनतमगाढपिङ्गलशिला न ध्येया ।
यदा शैलं भित्त्याकृतेरपृथक् प्रतिमाशालार्थं (२१) तद् ध्येयम् । शैलं पृथक्त्वेन हीनं भवति ।
यत्र केवलं लीलाविग्रहा निवसन्ति भित्त्यङ्गे, इति । शिला धातुपुटिता धूमवर्णा व्रणोपेतारूपार्थं घोरेति । शैलान्तरे स्तराभ्यन्तरे कोमलरसबद्धा रेखाः सन्ति याः पीतप्रभाः सदाऽधमा भवन्ति श्रेष्ठैः शिल्पकारैः ।
सैकतालिकशिला यूपयोनिमिथुनस्तम्भ (२२) वृषस्तम्भकुण्डार्थं विशिष्टा, न रूपार्थं ग्राह्या, तज्ज्ञानलब्धस्थापकाः समुपतिष्ठन्ति जनलोके सम्पन्ना महीयन्ते ।
शैलादङ्गरागज्ञानं प्रसरति ॥ १०॥
सर्वेषु लोकेषु कामचारो भवति ।
इति आथर्वणीये वाक्कायमनोमार्गेण पिप्पलादकल्पे वास्तुसूत्रसम्प्रदानमिति चर्चाक्षेण मुनिहोतारोपनिधानेन शैलषडङ्गज्ञाननाम प्रथमप्रपाठकः ।
द्वितीयः प्रपाठकः
खिलपञ्जरज्ञानम्
अथ खिलपञ्जरज्ञानं (२३) घटनमिति ब्रूमः । तेन आचेष्टो भव आङ्गिरस (२४) ग्राभकार इव ।
निर्दिष्टार्थकप्रतिमा (२५) ग्राह्या ॥ १॥
अनुकूल (प्रतिमानुकूल) शिला अभिजिति (२६) सम्प्राप्ते दर्भेण पातयेत् कारुशालायाम् । ततः उदुम्बरकीलेन शिलां रोधयेत् ।
पातनं प्रथमा क्रिया ॥ २॥
पातनान्ते उत्ताडनञ्च, पिच्छिलकरणार्थं होताऽध्वर्युः स्थापकैः सह रूपशिलां मर्दयेत् ।
मर्दनं द्वितीया क्रिया ॥ ३॥
आदौ ॐ-
दधिक्रावणो अकारिषं जिष्णोरश्वस्य वाजिनः ।
सुरभि नो मुखा करत्प्र ण आयूंषि तारिषत् ॥
(इति) मन्त्रेण (२७) ततः महिलुक (२८) पयसा शिलां क्षालयेत् (मर्दयेत्) , एतत् सर्वं कुम्भीका (२९) मोचनार्थम् (वर्जनार्थम्) । तत आपादशीर्षं शतकेशिवृषं (३०) चिन्तयेत् प्रार्थयेच्च ।
ॐ शतकेशाय महर्षभाय मे रक्ष रक्ष स्वाहा इति ब्रूयात् । महर्षभ तस्य नव नभस्ततो वाश्रा आपपृथिवी तर्पयतु ।
एतेन जङ्गिडादयः (३१) पलायन्ते । एवं शुभं भवति, मनः प्रमोदं भवति, सोऽमृतो भवतीति । ततो मण्डलकरणं वलयकीलसंयुतयुजुवदण्डेन (३२) रज्जुसंयोगेन मण्डलैकं रचयन्-
पुनन्तु मा देवजनाः पुनन्तु मनवो धिया ।
पुनन्तु विश्वा भूतानि पवमानः पुनातु मा ॥ (३३)
इत्यनेन मन्त्रेण विलं निर्धारयेत् ।
विलमिति मर्म ज्ञेयम् ॥ ४॥
एषा तृतीया क्रिया (३४)। विलस्योभयपार्श्वगं पृथग्बिन्दुमवलम्ब्य मण्डलद्वयं रचयन्ति स्थापकाः । तद्देशे शिलाक्षेत्रे रेखायां प्रकृतिपुरुषन्यायेन संलग्नेन वृत्तयुग्ममाचरन्ति । तद् यामलमण्डलमिति । एकेन, द्वौ एकरेखायामिति ध्येयम् ।
शिल्पश्रोतारः शृणुत, केनोपायेन वज्रेण (३५) रेखाः कर्त्तव्याः । ततः कीर्त्त्यावासः (३६) प्रजायते ।
न कृत्यरूपार्थं (३७) रेखाकरणं कर्त्तव्यम् ॥ ५॥
आदौ वृत्तं वृत्तम् (३८) इति विश्वम् ॥ ६॥
तद्रूपे प्राणः, यथा पुरुषस्य मनः, तद्वृत्तं कालः, एष वास्तुवेदे । वृत्तस्य गतिरवधारिता , यथा चित्तवृत्तिः । वृत्तस्याधारोऽमृतं बिन्दुस्तस्य स्थितिः , यथाऽऽत्मा । बिन्दुं समारभ्य तद्बिन्दुमिलितेन परिभू परिधिः सञ्जायते । तद् हि वृत्तं परमेष्ठी, तद् द्रष्टा, तद् योगः । तत् ऋतुः, तत् सत्यम् । य एवं वेद ।
एकैकस्य संयोगे एकीभवति इति तस्य
भावः वृत्तं हि पूर्णम् ॥ ७॥
बिन्दुस्तस्याधारः, आहुतिरिव जगन्मयः प्राणः । सा स्थितिः, यथा गायत्री वेदपदम् । तस्यैव शैलस्योपरि मण्डलम्, मण्डलकरणे वास्तुगायत्रीम् (३९) अथवा अष्टाक्षरीमन्त्रं (४०) जपेत् । इति कृत्यं वृत्तमभ्यन्तरे क्षेत्रस्याधारं मन्ये, यथा सर्वाणि भूतानि भ्रमन्ति तथा नानारूपाणि जायन्ते । स वै प्राणः क्षेत्रविभाजनं प्रतिमाङ्गोपलब्धये, तस्मात्-
रेखान्वये सर्वाङ्गानि न्यासय (आचर) ॥ ८॥
इति भेदनक्रिया । एवं वज्रेण शिलायां रेखाङ्कनकरणं ध्येयम्, न भूमौ न वा इष्टके (४१)। अथासौ आङ्गिरसो होवाच - ब्राह्मणं भगवन्तं पिप्पलादं द्वौ प्रश्नौ पृच्छामि, तौ चेन्मे वक्ष्यति । का रेखा, कस्तस्या भावः, कति भेदाः, ब्रूहि पिप्पलादेति ।
तान् ह स ऋषिरुवाच -आङ्गिरस, शिल्पकाश्यप शृणु रेखाव्याख्यानम् । तथा तासां भावञ्च । रेखा न्यासस्याधारः सा धारेव । सा कर्मप्रतीतेरधिभूतमधिदैवतञ्च ।
तेजांसि सरलरेखाः ॥ ९॥
तद्रेखेण मण्डलं भिन्दन्ति, यथा कर्त्तारः कर्मणा विश्वं परिभिन्दन्ति, तेभ्यः तद्रूपेण रूपार्थं चाक्षुषत्वेन (४२) देशकथानुमतं (४३) सर्वाणि रूपाङ्गानि प्रभवन्तीति अङ्गसाम्यं प्रभवतीति ।
नाभौ रूपकर्म प्रारभ्यते ॥ १०॥
समतार्थं सर्वाण्यङ्गानि निर्णयेत् । एवं ब्रह्मविकल्पः । यथा ब्रह्मविद्या तथा रूपप्रज्ञा । तद् विज्ञाय कारुज्ञा वक्रतः रूपकर्मणि ब्रह्म प्रतिपादयन्ति । रमन्ते यथापूर्वपूर्वप्रज्ञायाम् । यथा ब्रह्मविद्या तथा रेखान्वये रूपाङ्गन्यासो महीयते । यज्ज्ञात्वा स्थापकाः प्राज्ञा महीयन्ते । य एवं वेद । तज्ज्ञानेन स्थापका रूपज्ञा भवन्ति (४४)। ते विद्वांसः, ते विज्ञातारः कारुकर्मणि ब्रह्मानुभूतिं लभन्ते । यथा विश्वसृष्टौ पञ्चमहाभूतानि (४५) प्रजायन्ते, तथा वृत्ताधारे शिल्पकाश्यपादयो वास्तुहोतारो भूत महाभूतलक्षणानि कल्पयन्ति प्रज्ञापनेनेति ।
प्राजापत्यरीत्या वृत्तं हि तेजस्तदाऽपाम्भासे चतुरस्रम् ॥ ११॥
चतुरेखाबद्धक्षेत्रमिति । यथा सरित्कुण्डे तथा रूपक्षेत्रे चतुरस्रं (४६) सर्वमापादविश्वं प्राजापत्यमार्गेण श्रुतिर्दर्शयति (४७)। तथा हि रूपक्षेत्रे तद्रूपस्याधारः । भूयस्त्वाद् वास्तुश्रोतार एनं गृह्णन्ति भूयो वृत्तमध्ये ।
कर्णद्वयं मरुद्भावेन आचरन्ति ॥ १२॥
यथा मरुदप्संयोगात् फेनो भवति । पुनः फेनाद् बुद्बुदः सम्भवति, तथा चतुरस्रं कर्णरेखायुग्मसंयोगाद्रूपक्षेत्रं सक्रियं भवतीति । सा मारुतकीलस्य क्रियाप्रतीतिः ।
धरेव कर्णिकक्षेत्रमाकर्षयन्ति स्थापकाः ॥ १३॥
ततः स्थापका मध्यमारुह्य (४८) कर्णिकक्षेत्रमाचरन्ति । मण्डलमध्ये द्वे मध्यरेखे लिखन्ति मध्यरेखा मध्यप्रस्थरेखा भवति । सममानेन तत्रोपलभन्ते चतुष्खण्डक्षेत्राणि चतुर्द्वीपां पृथिवीमिव, एषा भूमिक्षेत्रस्य भावना । तत्र मध्ये-
लब्धबिन्दुः रसायाः प्राणः ॥ १४॥
मर्म वदन्ति शिल्पकाराः । तस्य भावं शृण्वन्तु सर्वेऽमृतस्य पुत्राः शिष्याश्च । अप्पृथिवीसंयोगात् यथा द्यौः (४९) सम्भवति यथा श्रुतौ उक्तं (५०) तदाकाशे सविता द्युरूपेण भ्रमति । स सविता व्योमचरो, यस्य गतिरखण्डा । तथा हि मारुतस्य तिर्यग् गतिः । तत्र खण्डितरेखान् नीत्वा शिल्पसम्बन्धार्थमाकल्प्य लब्धस्थापकाः शिल्पसम्भारेण द्विधा बहुधा बिन्दून् कल्पयन्ति प्रजनयन्ति बिन्दून् । तद्विज्ञातारो वृत्तालये अधोर्ध्वे द्विधाकरणन्यायेन वह्निवत् क्षेत्रमाचरन्ति (५१) कारुकाराः । वृत्तमध्ये कदाचित् सम्प्रतिष्ठति तत् त्रिह्रुतम् (५२)।
त्रिहुताग्निः स्मर्यतेऽपि च लोके ॥ १५॥
निम्नगास्त्रिहुता आप इति ॥ १६॥
तदुभयस्य संयोगान् मिथुनभावो भवति । ये जानन्ति ते सम्पन्ना भवन्ति । स उन्मेषभावः । अग्निरापः संयोगाद् दिव्यं (५३) भवतीति । तन्महच्छन्दो होतारो जानन्ति यज्ञे प्रयोजयन्ति कुण्डे स्थण्डिले लिखन्ति, तेन देवलोकाः पितृलोका आहुत्या तृप्यन्ति (५४)। मनुष्याणां तत् सायुज्यं प्रददाति । एवं बहुधा श्रूयते, सर्वे रूपकारा ब्रह्मज्ञा वृत्ताभ्यन्तरेण क्षेत्रमध्ये समान्तरालषड्बिन्दुमारुह्यरेखाः रेखां रोधयन्ति ।
षट्कोणको हि आकर्षणीविद्या (५५) विशेषः ॥ १७॥
तन्मिथुनच्छन्दोयोगेन यातुधानाः (५६) प्रतिघातयन्ति । माण्डव्यादयो (५७) बहुधा देवान् पूजयन्ति । आकर्षयन्ति रुद्रानादित्यान् वसून् । साऽऽकर्षणी वास्तुवेदीयरेखाङ्कने श्रेयसी भावव्यक्तोपायेति ।
यथा रूपे तथा यूपेऽनुच्छेदान्ता ग्राह्याः ॥ १८॥
याज्ञिका यूपे स्थापका रूपे समानाश्चरन्ति (५८)।
खनित्रप्रकारो ध्येयः ॥ १९॥
एतद् ब्रह्ममण्डले खनित्रकाराणां कलाषोडशीन्यायेन तत्क्षेत्रं षोडशांशेन छेदयन्ति (५९)। सौम्ययूपस्य (६०) दण्डो यदाऽष्टांशः स यजमानाय प्रीतिकामार्थः । कदाचित् तत्कलांशेनांशान् छिन्दन्ति सोऽपराविद्यायां वृषस्तम्भः । अग्निस्तम्भो भवति काम्यानुसारतः शिलायां वा उदुम्बरदारवीयः । शिलायूपो ध्रुवेति शिल्पकाश्यप ज्ञेयम् । यज्ञार्थं सौम्ययूपो, विष्णुयज्ञार्थमष्टांशयूपः, काम्यकर्मार्थं षोडशांश इति ध्येयम् (६१)।
सूत्रायने (६२) रेखाः सुभगा भवन्ति ॥ २०॥
भावं प्रददति । एतज्ज्ञानं गुह्यज्ञानम् । एषा खिलविद्या, रेखाकरण तत् ।
खिलपञ्जरज्ञानं श्रेष्ठम् ॥ २१॥
ये जानन्ति ते रूपज्ञास्तत्त्वरूपाणि घटयन्ति । रूपतत्त्वे विना रेखाकरणं रूपं हीनमिति ध्येयम् ।
उत्थितरेखा (६३) अग्निरूपाः, पार्श्वगा (६४) अब्रूपाः,
तिर्यग्रेखा मरुद्रूपा इति ॥ २२॥
रेखाप्रभेदे भावभेदा उपजायन्ते । रेखाऽनुसृतं रूपं विभाति । रूपं सुरूपं भवतीति (६५)। तत्त्वरेखावलम्बने रूपात्मप्रत्यक्षं भवति प्रतिरूपे च । यथाऽऽहुत्या वृष्टिर्भवति तथा रूपसौभगाद् ध्यानभावः सम्प्रतिष्ठते । यथा पर्जन्यादन्नं सम्भवति तथा ध्यानाल्लय उपजायते । लयान्मनुजा दिव्या भवन्ति । यथाऽन्नात् प्राणः सञ्चरति तथा लयात्तद्भावमनुभवन्ति, मनो निश्चलं भवति । तेषां न पुनरावृत्तिः, एतदर्थं रूपं कल्पयन्ति ऋषयो लोके । रूपे रेखा आहुतय इव ।
रूपसौभगाद् ध्यानभावो जायते ॥ २३॥
सा हि वृष्टिः । सा ऋतस्य धारा यथा पर्जन्याद् बहुधाऽन्नानि सम्भवन्ति (६६) तथा रेखाया रूपाणि ।
अग्निरेखायामुत्तुङ्गरूपाणि जायन्ते ॥ २४॥
तानि सर्वाण्युदारभावप्रदायकानि सौम्योत्थिताकृतीनीति ।
अब्रेखायामुत्सुकरूपाणि जायन्ते ॥ २५॥
तान्युग्रभावप्रदायकानि ।
मारुतरेखायां तैजसरूपाणि ॥ २६॥
तीक्ष्णभावप्रदायकानि योधरूपाण्युपजायन्ते । तानि सर्वाणि भीषणरूपार्थम् । कर्णजा रेखा ग्राह्या इत्थं रूपकर्मार्थम् ।
रेखाज्ञानं सर्वमिति ज्ञेयम् ॥ २७॥
ये जानन्ति सर्वं ते स्थापकोद्गीथरूपेण (६७) ख्याता भवन्ति ।
इति पैप्पलादीयवास्तुसूत्रे वाक्कायमनोमार्गेण सम्प्रदानमिति चर्चाक्षेण मुनिश्रोतॄणामुपनिधानेन खिलपञ्जराकर्षणज्ञानमिति वास्तुसूत्रस्य द्वितीयप्रपाठकः ।
तृतीयः प्रपाठकः
शैलभेदनम्
शिल्पव्याख्यानं आशृणुतेदम् । वास्तुषडङ्गमध्ये एते शैलभेदनोपायाः तथेति समुपविशन्ति ते । आथर्वणाङ्गिरसशिल्पकाश्यप उवाच भगवन्तं पिप्पलादम्, अस्मान् वदन्तु शिल्पाचारे भेदनार्थं यद् यद् श्रेय इति । यत् कतिधा अलभ्यमुवाच त्वां पृच्छामीति, पृच्छेति होवाच । का शैलभेदनस्य गतिः, के प्रयोजयन्ति । प्रस्तावनाक्रमेण प्रस्तरे खिलपञ्जरार्थं रेखाकरणे किं वा प्रयोजनम्,
पिप्पलादो होवाचः-
रेखानुक्रमेण रूपाङ्गान्याचरन्ति ।
रूपस्य भावो मुख्यः ॥ १॥
भावात् प्रेरणा (६८) प्रसरति, प्रेरणया दिव्यबोधः सञ्जायते । तत्क्रिया हि भेदनविद्या । यथा पराविद्याया दिव्यत्वं जायते तथा सुरूपाद् दिव्यत्वमुपलभन्ते मनुष्याः । तेषां मनोवृत्त्यां रूपस्य भावज्ञापनार्थं रूपकर्माणि सावधानेन स्थापका आचरन्ति । रूपमध्ये किञ्चित् सौम्यं किञ्चिदुग्रं च ।
भावानुसारतो रेखाविधानमिति ज्ञेयम् ॥ २॥
एतद् यो जानाति स मर्मज्ञः (६९)। स लोके मान्यो भवति ग्रामे वास्तूद्गीथरूपेण ख्यातो भवति । नृपे चाक्र (७०) रूपेण ।
तेषां बहुधाकृत्यं श्रेयः ॥ ३॥
ते शैलं छिन्दन्ति, रूपाण्युत्खोदयन्ति । रूपाङ्गानि रेखानुपाते पातयन्ति । अङ्गयोर्मध्ये क्षीणकूटाङ्गानि भिन्दन्ति । कूटाद् यत्त्यक्तशिला उद्वृत्तास्तच्छिलाः निक्षिपन्ति समन्त्रेणेति त्यागः । अङ्गान्युत्थितकूटानि नीचानि, एतन्न्यासबोधः ।
न्यासार्थं कालबोधो ध्येय इति ॥ ४॥
न रात्रौ, न दर्शे, न सूर्यसोमयोः सङ्गमे, न सन्ध्यायां व उषायां चरन्ति श्रेष्ठरूपकाराः । तेऽभिधृतार्थमुदुम्बरद्विपक्षान् (७१) निखाय रूपशिलामवरोधयन्ति । तद् रोधनम् । रोधनकाले पर्जन्यपूजने जटावेदं (७२) पठेदिति पठनोपासनेन रसविज्ञातन्यायेन ऋषयः शैलाचार्या भिन्दन्ति शैलम् ।
तद्भेदनेऽभिमन्त्रयन्ति खनित्राणि ॥ ५॥
ॐ उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितम् ।
यदि शक्यमशक्यं हूँ (दुर्गे) भगवति शमय स्वाहा ॥
इति खनित्रप्रयोगमन्त्रः । मन्त्रात् कालो विनश्यति, भयं व्यपोहति । एतज्ज्ञानेन अग्निहोत्रं चरन्ति वैश्वानरे जुह्वति । यथाऽङ्गारेषु भस्मार्थं जुहुयात् पापानां तथा शिल्पकारा रूपार्थमग्निहोत्रमाचरन्ति वैश्वानरे जुह्वतीति ।
वास्तुयज्ञात् खनित्रबाधो व्यपोहति । कुशङ्का विनश्यन्ति । खनित्रप्रयोगे दौर्बल्यबोधे मन्त्रं मनसि ध्यायन्ति ।
मन्त्रः-ॐ चक्षुरसि चक्षुर्मे दाः स्वाहा ।
परिपाणमसि परिपाणं मे दाः स्वाहेति ॥ (अथर्ववेद २.१७.६ -७)
एषा क्रिया ध्येया, य एवं वेद ।
अथाङ्गिरसादय उद्गातारः पप्रच्छुः कश्च स्खनित्रप्रकार इति ।
खनित्रपञ्चकं श्रेष्ठम् ॥ ६॥
शृणुत, केनोपायेन शिल्पोद्गातारो भेदनकर्त्तनाद्याचरन्ति । खनित्रकर्म न वै रूपे सोमशालायां स्थण्डिलकरणे होतारः प्रयोजयन्ति । यथा बृहस्पतेर्गृहशालाप्रकरणे लोकवास्तूपाख्याने पूर्वं वेदे उक्तम् (७३)। खनित्रापप्रयोगे रूपाण्यपरूपाणि भवन्ति । कुक्कुटिका (७४) अपरूपाणि पूजयन्ति न ब्राह्मणाः । तत् खनित्रप्रयोगे श्रेष्ठान् तद्भेदान् वदामि ।
भेदास्तु लाञ्जी, लाङ्गली, गृध्रदन्ती, सूचीमुखा, वज्रा इति । सर्वे आयसा द्विविधा भवन्ति क्षीणाः प्रशस्ताश्च । मुषलधरुभे मुषलदण्डेन खनित्रं घातयन्ति प्रयोजयन्ति शिलाभेदने तत् । सर्वास्त्राणि तीक्ष्णानि, गवाम्बुपुटितानि । ततः इङ्गिडलेपितानि चर्मशाणितानि च ।
रूपप्रकर्षार्थं रूपाङ्गं स्निग्धमिति ॥ ७॥
सौम्येन छेदयन्ति ये ते शस्त्रिणः । शस्त्रं द्विमुखी घूर्णिकेति (७५) , अयोमुखास्त्राणि पालाशशलाकां वहन्ति , इदं तेषां रूपम् । अथ, आङ्गिरसः पप्रच्छ भगवन्तं पिप्पलादं, केन वज्रमिव कठिनशिलां खनित्रेण भिन्दन्ति वास्तुकाराः । तं होवाच वक्ता-
शिल्पकाराः प्रलेपयन्ति द्रावकरसम् ॥ ८॥
शङ्खद्राव-कुष्ठरस-सैन्धवखर्पर-उकत्सवल्कलचूर्णेन (७६) सहितं शिलाद्रवणार्थमेवं रसचतुष्टयम्, अनेन मन्त्रेण दशाहमर्दनान्ते वैताने खनित्रं प्रयोजयन्ति, खननमाचरन्ति भद्रेण (७७) स्थापकाः ।
एषा हेतिविद्या श्रेष्ठा ॥ ९॥
रक्षार्थं पर्णमणिः परिधेयः ॥ १०॥
खनित्रकर्मणि रक्षार्थं पाठामूलिकां धारयन्तीति स कवचः । मन्त्रेण सह धारयन्ति पर्णमणिम् । अनेन मन्त्रेण-
ॐ शं नो देवी पृश्निपर्ण्यशं निःऋत्या अकः ।
उग्रा हि कण्वजम्भनी तामभक्षि सहस्वतीम् । (अथर्ववेद २.२५.१)
भेदनादङ्गसौभगं (७८) प्रभवति ॥ ११॥
यथा देहे तथा दैवाङ्गे गुल्फवलयकुक्ष्यादयः, उष्णीषमेखलादयः खोदयन्ति सौभगेन, उड्डुपयन्ति कुक्षशिलाः, विसृजन्ति तच्छिलामिति ।
रेखानुपातेनाङ्गानि निधेयानीति श्रेष्ठकृत्यम् ॥ १२॥
एतेन वास्तुवेदविधानेन रेखानुपातेऽङ्गन्यासो विधेयः ।
गाथानुप्रासे लक्षणं व्यक्तं भवति ॥ १३॥
यथा गाथायाः कथास्तथा रूपलक्षणान्याचरन्ति रूपकार-रूपज्ञाः, तथा व्यक्तरूपं सम्भवति । यद् रूपस्य हावभावादि प्रत्यक्षं तद् व्यक्तरूपम् । रूपादुपासका भावसिद्धिमुपलब्धयन्ति यज्ञेन ध्यानमिति प्रयोगः (७९) ।
ध्यानप्रयोगे रूपसौष्ठवं स्पष्टं भवति ॥ १४॥
तथा हि ध्यानरूपं कथयन्ति वास्तुकाराः ।
यथा प्रकृतिस्तथा रूपलक्षणम् ॥ १५॥
रूपस्य स्वभावानुक्रमेण रूपाणि भवन्ति । तेषां तत्तद्गुणाः प्रभवन्ति कामचारीणां हृदये इति । कामो (८०) जनानां ध्रुवावृत्तिरिति ।
अङ्गानि अर्धाकले (८१) सुषमं (८२) ध्येयानि ॥ १६॥
अर्चायां श्रेष्ठं पूर्णाकलं वर्त्तुलाङ्गं, न श्रेष्ठमितिभित्ये-
हर्सावधि उभयदिशि चोर्ध्वे न वर्धयेत् ॥ १७॥
उष्णीषमेखलादि अपवृजिनेन रेखाकारे उत्थिते दर्शयन्, भेदनकाले रूपशिलोपरि शङ्खद्रावं सिञ्चयन्, अपवेनात् संरक्षयेदिति क्रमः ।
रक्षाविधानेन विघ्नघातयः ॥ १८॥
रक्षाविधानेन विघ्ना विनश्यन्ति । खोदनारम्भे ``ॐ होजा होजा शतकेशि वृष मे संरक्षय'' इति ब्रूयात् स्थापकः । अविघ्नेन कररेखादि गात्रलक्षणानि दृषदि दैवभावेन कर्तव्यम् । तद्गुणात् सिद्धिं प्राप्नुवन्ति काम्येन वा, अकाम्येन सायुज्यं प्रददाति एतदर्थं भेदनकारुकर्म श्रेष्ठम् ।
रेखान्वितमङ्गपातनं भेदने मुख्यम् ।
रेखाक्रमेण भेदनं चतुर्धा ज्ञेयम् ॥ १९॥
न्यासविधानेन तदेकाश्रयि, युगलाश्रयि, खण्डाश्रयि, स्पर्शीतेति । यदा पूर्णरेखायां रूपाङ्गं निपतति तदेकाश्रयि । यदा रूपस्य प्रभवाङ्गं सम्मुखाङ्गं वा भिन्नरेखामाश्रयति तद् युगलाश्रयि । यदा तत् पृथगङ्गं भिन्नरेखायां वा मूलरेखायां केवलमङ्गाङ्गं निपतति, अध ऊर्ध्वे च तत् खण्डाश्रयि । यदाऽङ्गांशः केवलं किञ्चिद् रेखाचुम्बितस्तत् स्पर्शिता हीनम् (८३)। नेम्यवलम्बिताङ्गं कदा श्रेष्ठं भवति ।
नेम्योत्तरे रूपाङ्गं न वर्धयेत् ॥ २०॥
इति पातनानुशासनम् । भेदनकालेऽवाग् भवेत् । गाथाकथाः सततं स्मरेत् । रूपप्रारम्भे खनित्राणि प्रोक्षयेत् प्रोक्षणमन्त्रेण । तत्प्रभावेन दोषा अरिष्टा विनश्यन्ति ।
खनित्रचालनविधिर्ध्येयविशेषः ॥ २१॥
वामहस्ते जरठेन खनित्रमवरोधयेत् । कनिष्ठिकायां रोधयेत् खनित्रम् । इति कृत्यम् । दक्षिणकरे कुटुम्भकं धारयेत् भेदनार्थं दैवलक्षणानि रूपकर्मणि वेदयन्ते । इति भेदनविधिव्याख्यानम् ।
वाक्कायमनोमार्गेण चर्चाक्षेण मुनिश्रोतॄणामुपनिधानेन शैलभेदनभ्रस्कक्रम इति तृतीयप्रपाठकः ।
चतुर्थः प्रपाठकः
अङ्गप्रयोगः
अथ पिप्पलादः प्रहृष्टो होवाच - शिल्पजिज्ञासुत्रय, वाग्रूपाणि च तस्याङ्गज्ञानमाहुः । पुरा ब्रह्मैकं सत्यमस्ति । तज्ज्ञानेन हृदयाकाशे तद् ब्रह्मैव ज्योतिः तस्य ज्ञानविज्ञानं विज्ञाय एवं यत्किञ्च वाचा तद्रूपेण विज्ञानवाचा प्रपन्नेनाचरन्ति । य एवं वेद । यत्र भावना शून्या तन्निर्गुण गुणत्वभावनया सगुणं भवति । सगुणान् मनः स्थूलं भवति ।
प्रतीतात् प्रतीकः ॥ १॥
प्रतीत-प्रतीक-प्रतिमा-क्रमेण त्रीणि मुख्यानि । यदा ज्योतिर्मण्डलानुभासे ब्रह्म उपलभ्यते तत् प्रतीतम् । यथा विज्ञानमयपुरुषः । यश्चक्षुषा न पश्यति येन चक्षूंषि पश्यन्तीति । यदुपमोपमेयक्रमेण अनुभवभावान् प्रदर्शयति तत् प्रतीकम् । ``अङ्गुष्ठमात्रः पुरुष'' इत्यादि वाक्येन । या सपर्यायामानन्दं प्रददाति सा प्रतिमेति ।
अव्यक्त-व्यक्त-प्रकट-क्रमेण निर्गुण-सूक्ष्म-स्थूल भावेन जनानां दैवभावाहरणं कुर्वन्ती सा देवयजनविद्या । शतपथे छान्दोग्ये चोक्ता -एष क्रमः, एषा देवयजनविद्या । आत्मानन्देन यजनोपायेन त्रयस्त्रिंशद् देवता तार्क्ष्यो ब्राह्मणे उक्तम् ।
यथा अङ्गुष्ठमात्रपुरुषस्य भावः प्रभवति विकल्पेन अङ्गुष्ठमिति ज्योतिर्मात्रम् (८४)। स यूपस्य दण्ड इव ।
रूपादङ्गानि सञ्जायन्ते ॥ २॥
तद्भावाद्रूपं रूपं प्रतिरूपं जायते । यथा पुरुषे । इति ज्ञानं ज्यायम्; यत्रान्यैर्द्विधा भवति तदितरज्ञानं निश्चितं भवति । एतदेव सत्यम् । तदितर इतरं जिघ्रति । तदितर इतरं पश्यति । तदितर इतरं श्रुणोति । तदितर इतरमभिवदति । तदितर इतरं मनुते । तदितर इतरं जानाति । यत्र इतराभावं यः पश्यति तत् केन कं विजानीयादिति याज्ञवल्केन उक्तम् । य एवं वेद ।
अतो द्विधा ब्रह्म रूपवद् भवति ॥ ३॥
स्थापकाः सपर्यार्थं शैले रूपाणि चरन्ति (८५)।
रूपार्थं कोष्ठका मुख्याः ॥ ४॥
यथा शुल्वे तथा च शिल्पे । विना कोष्ठकं रूपस्य भावः सम्यङ् न भवति । सपर्यायां क्षुण्णता जायत इति । ऊर्ध्वग-पार्श्वग क्रमेण चूर्णेन रेखाविभाजनमिति कोष्ठविद्या ग्राभार्थम् ।
वर्गीकरणं मुख्यकृत्यम् ॥ ५॥
यज्ञार्थमिदं शुल्वं कारुकर्मार्थं शिल्पमिति ज्ञेयम् । इति सुलभक्रिया । एवं वेदे । रज्ज्वास्तावत् प्रसारणे वर्गीकरणमिति तस्य भावः । यावत् प्रमाणं क्षेत्रशैलं, तत्र रेखा अविकृतं प्रकुर्वन्ति मानदण्डैः शिल्पकाराः । तेन बृहद्वर्गा बहुधा भवन्ति क्षीणाकृतौ । एकः द्वौ द्वौ चत्वारः । चत्वारो द्विगुणितेन अष्टौ । एव क्रमेण बहुधा कोष्ठका भवन्ति गुणवर्धनेनेति । यथा शुल्वविभाजने युग्मं अयुग्मं यज्ञमेखलादीनर्धप्रमाणेन चिकीर्षाक्रमेण वर्द्धयन्ति तथा स्थापकाः ।
कोष्ठकान्तराले रूपस्यावयवो ध्येयः ॥ ६॥
स्थापकाः परिमिताङ्गावयवादि मानन्ति (मीयन्ते) । अयं तालनिर्यासो चिकीर्षाक्रमेण ।
परिमिताङ्गहाराद् भावलक्षणानि जायन्ते ॥ ७॥
अपरिमिताङ्गानां तेषां भाववैलक्षण्यं भवति, इति दोषः । कुण्डस्य कोष्ठके व्यतिक्रान्ते होतारो मूका भवन्ति, तथा च मूर्त्याम् ।
कोष्ठके व्यतिक्रान्ते रूपमवद्यं भवति ॥ ८॥
स्थापकाः पैशाचत्वं लभन्ते । अथ शुल्वविद्याशिल्पविद्ययोः को भेदः ? किं तस्य सन्धानमुपलभन्ते, किं पार्थक्यमिति वदन्तु धर्मपुरुषाः पिप्पलादाः ।
शुल्वं यज्ञस्य साधनं शिल्पं रूपस्य साधनम् ॥ ९॥
इति भेदः । शुल्वकारा दण्डरज्जुसहितं कुण्डस्थण्डिल-शाला-योनि-मेखला यूपादि निर्णयन्ति ।
शिल्पकाराणां रूपशैले रूपशालादि ध्येयम् ॥ १०॥
इति तेषां पार्थक्यं न मर्मणि भेदो जायते ।
यूपाद् रूपं रूपाद् यूप इति स्वभावः ॥ ११॥
आहुः श्रोतारः केन रूपेण शुल्वकाराः कारुरीत्या यूपं निर्धारयन्ति यथा पूर्ववेदाचारेण ।
यूपस्य मानं ध्येयम् ॥ १२॥
शृणुत वास्तुकाराः । यजमानस्य त्रिमुष्टिकमानेन रेखामानय । तद्दैर्घ्येण सह द्विह्रस्वरेखया वामगं त्रिहुतैकं चर, इति त्रिहुतीकरणम् । तत ऊर्ध्वे वामे च सङ्कीर्णत्रिहुतं सृजयन् लम्बमानेन चतुरस्रैकं आचर, इति वर्गीकरणम् । तद् वर्गद्विखण्डेन विभाजितक्षीणैकभागो यूपस्योत्थानं ज्ञेयम् ।
षड्भागस्य प्रयोगो ध्येयः ॥ १३॥
तत्र पार्श्वक्षेत्रे षडुपक्षेत्रलाभार्थमिदं विभाजनम् (८६) । तद्षड्भागेभ्यो निम्नैकभाग पार्थिवाङ्गं प्रोत्थनार्थं भूमिर्देवता । तदुत्तराद्द्विभागोऽधोऽङ्गं मेखलाबन्धनानन्तरं न्यासार्थं स मैथुनकाण्डः, रुद्रो देवता । तदुत्तरे द्वौ भागावुत्तमाङ्गं प्राणाऽऽवाहनार्थं प्रजापतिर्देवता । तदुत्तरैकभागस्तुङ्गाङ्गन्ध्वजरोपणार्थं सविता देवता । एवं क्रमेण -
पुरुषस्य रूपेऽङ्गचत्वारोऽष्टाङ्गक्रमेणोपजायन्ते ॥ १४॥
पार्थिवाङ्गं, कर्माङ्गं, अधोऽङ्गं, प्रजननाङ्गं, उत्तमाङ्गं, प्राणाङ्गं, तुङ्गाङ्ग, ज्योतिरङ्गं, क्रमेण पुरुषाकलेऽष्टाङ्गपुरुषस्य रूपम् ।
शिल्पकाश्यपधीराः पप्रच्छुः । प्रियधा किं रूपस्य तालम्, कस्तस्य भावो लक्षणञ्च सम्बन्धमिति । तदवगमाय उपज्ञाक्रमेण पिप्पलादो वव्रे ।
पालाशदण्डरज्जुसंयोगे रेखामानय ॥ १५॥
शैले कोष्ठकानामुत्थितक्रमेण रेखामाचरेत् । पयसा शोणशैलचूर्णसंयोगेन धीराः कोष्ठकान् प्रकुर्वन्ति । कोष्ठमध्ये पादाच्छिरोऽवधि रूपमुपलब्धव्यमिति ।
निम्नादूर्ध्वावधि सदा रेखादीनाचर ॥ १६॥
सा हि उत्थितक्रिया । स रुद्रपतिः पुरुष एवं वेदे ।
पुरुषस्तम्भ इव स्तम्भो वै यज्ञस्य रूपम् ॥ १७॥
दशयज्ञस्याधारः (८७) स (८८) वृषस्तम्भः पितृयज्ञार्थम्, रुद्रप्रीतये । प्रजापतिरेव वास्तोष्पतिः स हि प्राणजागृतिरिति ।
यथा स्तम्भस्य दशाङ्गं तथा पुरुषस्य
दशयज्ञप्रज्ञाश्च ॥ १८॥
निम्ने पादः, दर्भमेखला रज्जुन्यायेन निर्मिता । तदुत्तरे दण्डवत् पिप्पले उदुम्बरे वा तत्र मेखला वलयाकृतिः । तदुत्तरे स्तम्भस्य दण्डविलं विष्णुर्देवता, तदुत्तरे स्तम्भस्य कटिरविशदशरावाकृतिः । तत्सम्मुखे मृगपादो यथा पङ्के तथा नाभिः श्रुवस्य गर्भाकृतिः । तदुत्तरे सौम्यस्तम्भाकृतिः, अम्बालिका देवता । तदुत्तरे चतुरस्रकूटशाला, आवास इव स्तम्भस्य हृदयम् । तच्छालायाः रुद्रो देवता । शतकेशी शतशीर्षा वृषः (८९) , स ज्योतिः प्रणवरूपस्तारकः, तदुत्तरे स्तम्भस्य कण्ठः स शरावाकृतिः । स्वाहा देवता । तदुत्तरे स्तम्भस्य मूर्द्धमण्डलम्, सविता देवता, एवं क्रमेण दशयज्ञानुरूपं दशाङ्गस्तम्भं होतारः समुपदिशन्ति ।
स्थापकाचार्या स्तम्भाद्रूपं बोधयन्ति ॥ १९॥
पुरुषसमरीत्या दशाङ्गमेतदुच्चैः समदशकोष्ठके, आचरन्ति पुरुषाकलं यदेतद् वेदे ।
स्तम्भः कामचारिणस्त्रिधामानयन्ति ॥ २०॥
याज्ञिका यज्ञे विड्वङ्गं प्रोथयन्ति ऐशान्ये पितृमेधे ।
दैवयज्ञार्थं यूपः ॥ २१॥
तथा हि अङ्गे शुल्वकारा मूर्द्धानं दण्डं च मानयन्ति । दण्डो भद्रो वा, अष्टांशो विश्वांशो वा यथाकाम्य इति, पार्थिवाः पशुमेधेन अरिमर्दनं कुर्वन्ति कृत्स्नसिद्धिलाभार्थमाहुतयन्ति ।
तदा पितृमेधार्थं वृषस्तम्भं मिथुनस्तम्भं
कामचारा होमे रोपयन्ति ॥ २२॥
प्रशस्तदण्डशिलायामूर्ध्वे शुकरमैथुनरूपम्, एतत्प्रयोगेण अरिः स्थाणुर्भवति स्तम्भ इव । पार्थिवाः पशुमेधिनः भोग्यप्रयोगमाचरन्ति । एवं वेदे प्रयोगे च, यत्किञ्चविजिज्ञास्यो यूपः तद्रूपं केनैतत् पुरुषस्योद्भवं भवति रूपे । पिप्पलाद होवाच आथर्वणाङ्गिरस केन कोष्ठके पुरुषश्चाक्षुषो भवति ।
तद्बोधे मानुषा रूपज्ञा भवन्ति ॥ २३॥
तं ह वक्ष्यामीति भगवान् पिप्पलादः सुप्रसन्नः तस्मै सौम्यपिप्पलाद होवाच ।
आहुः शिल्पाचार्यास्तदेतत्सत्यम् । यथाऽऽदित्य उदयन् प्राच्या दिशः प्राणं सञ्चारयति तथा-
पुरुषस्य रूपाकले कोष्ठकस्याधो भावरूपं प्रसरति ॥ २४॥
सा हि स्तम्भस्य दशाङ्गोदितक्रिया । यथा दशयज्ञे दशकर्मणि कर्मोन्मेषो भवति (९०)। यथा हि पुरुषः कर्ता, बोधा, रसयिता, मन्ता, स्रष्टा, श्रोता, द्रष्टा, ज्ञाता च विज्ञानात्मा ब्रह्म भवति तथा दशाङ्गे मनुष्या दशकर्माचरन्ति । एतद्भावे दशकोष्ठके पुरुषश्चाक्षुषो भवति । पादः, पादपर्वतः, दण्डः, दण्डगुल्फः, एतान्यङ्गान्यधोऽङ्गानीति । जानुकटिपर्वतान्तद्वयं मध्याङ्गमिति । उदरहृदयद्वयमुत्तमाङ्गमिति । कण्ठमूर्धद्वयं तुङ्गाङ्गमिति, एवं कल्पयन्ति रूपकाराः । इति पुरुषस्य दशाङ्गम् । पुरुषो दशाङ्गुलमिति भावः ।
पूर्वं वेदेन उक्तम् । स हि ब्रह्मणो विकल्परूपेण प्रत्यक्षं भवति (९१) ।
दशाङ्गयूपे रूपे इति तस्य भावः समानः ॥ २५॥
एतदर्थं कोष्ठकान् कल्पयन्ति रूपकाराः ।
ब्रह्मकीलाधारः, ब्रह्मकीलेन (९२) सह क्षेत्रं विभाजय ॥ २६॥
ब्रह्मकीलमध्यगरेखया द्वैतांशे ब्रह्मकीलेन सह क्षेत्रं विभाजयन्ति । यथा धरायां मेरुकीलं, पशौ पृष्ठास्थि, वृक्षे सुषीरं, जीवे जीवात्मा, तथा रेखा हि सत्यम् । रेखा रूपस्य कारणम् । ततो रेखायां दशकोष्ठकान् विभाजय उत्तिष्ठक्रमेण, येन समोपक्षेत्राणि लभेरन् ।
कति कति खण्डितानि भवन्ति । न्यूनातिरिक्तार्थं कारुज्ञा आद्यत्रिषण्णवक्षेत्राणि विभाजयन्ति । द्वौ द्वाविति क्रमेण दशकोष्ठकेषु चत्वारः खण्डिताः षडखण्डिताश्च । एवं दशकोष्ठका भुवनसङ्ख्यका भवन्ति । यथा पिण्डे ब्रह्माण्डं कल्पयन्ति ऋषयः । यथाऽथर्ववेदिनां श्राद्धे (९३) पितृयज्ञे पिण्डार्थं वज्रेण मण्डलमाचरन्ति ।
वैश्वदेवे तथा दशकोष्ठकानाचरन्ति (९४)। एवं क्रमेण पादः तदुत्तरे पादपर्वतेऽर्धांशः तदुत्तरे एकांशदण्डाः । तदुत्तरे गुल्फोऽर्धखण्डितांशः । तदुत्तरे जानुद्व्यर्धांशसंयोगः । तदुत्तरे कटिरर्धांशखण्डितांशः । तदुत्तरे द्व्यर्धसंयोगे सम्मुखे मृणालमूलाकृतिर्विलाकारं नाभिः । तदुत्तरे उदरमेकार्धसंयोगे पीनाङ्गमिति । तदुत्तरेऽष्टावधि हृदयम् । तदुत्तरे कण्ठः अर्धखण्डितांशे । तदुत्तर एकार्धसंयोगे मूर्धेत्युत्तमाङ्गम् । इदं दशकोष्ठकेषु रूपं चाक्षुषं भवति ।
अङ्गादङ्गं सञ्जायते ॥ २७॥
इयं हि रचना । स हि न्यासः । अध ऊर्ध्वावधि गच्छन्ति दिव्यतां क्रमेणोत्थितकरपादादयः प्रविधाङ्गानि ।
रेखासंयोगे तत्क्षेत्रेऽङ्गानि सौभगानि भवन्ति (९५) ॥ २८॥
अग्निरेखायामुत्थिताङ्गानि । अप्पार्श्वगरेखायां स्थिराङ्गानि । मारुतरेखायां वेगप्रदर्शनाङ्गानि । एतन्निपातनेन रूपाणि मन आकर्षयन्ति । तदुत्तरम्-
क्षेत्रनेमिं रोधयेदिति ॥ २९॥
रोधनरेखाचतसृणां मध्ये कोष्ठकानाचरन्ति स्थापकाः । एवं क्रमेण शिल्पकाश्यपाः रूपार्थं खिलपञ्जरं ध्येयमिति व्याख्यानं वास्तूद्गीथत्रय प्रबोधनार्थं भगवान् पिप्पलादो वव्रे ।
इति वाक्कायमनोमार्गेण पिप्पलादीयवास्तुसूत्रे सम्प्रदानचर्चाक्षेण मुनिश्रोतारमुपनिधानेन अङ्गोत्तिष्ठादिमानबोधनमिति चतुर्थप्रपाठकः ।
पञ्चमः प्रपाठकः
रूपभावनाबोधः
अथ हैनमाथर्वणाङ्गिरसशिल्पकाश्यपः पप्रच्छ यदि यज्ञार्थं शुल्वं (९६) शिल्पार्थं शिल्पसूत्रञ्च रूपकर्मणि, इत्थं तदिदं ब्रूहीति । पिप्पलादो होवाच । शिल्पमधीयानाः शिल्पोद्गातारः, शृणुत ।
भावस्यारोपणं रूपकर्मणि विधेयम् ॥ १॥
यज्ञशालास्थण्डिलार्थं शुल्वज्ञानं श्रेष्ठम् । तत्र श्रोणि (९७) साधनमंशादिपातनमिष्टकान्यासप्रयोगो भवतीति ध्येयम् । येन रूपेण यथा रूपकर्मणि त्रिकोणिसाधनं कर्णाकर्षणं कर्णिकाकरणं लब्धक्षेत्रे मुख्यम् । एतदर्थं भाववोधनस्य प्रयोजनं भवति । शृणु, तस्य को भावः, कस्तेषां रूपस्य सन्धाः । देहः कर्माधार इति वदन्ति याज्ञिकाः ।
कर्म भावस्य प्रदायकम् ॥ २॥
भावं प्रददातीति ।
भावस्याऽऽधारो रसः ॥ ३॥
स रसः कर्मणश्चोदनेति देहे प्रस्कन्दयति वाङ्मनश्चक्षुः श्रोत्रकरपादादीनां उदयक्रमेण, देहलक्षणं भवति । भावविधानेन देहस्य रसाः प्रसरन्ति ।
रसात्-
मनसि वृत्तिर्बहुधा प्रजायते ।
तदा भिन्नभिन्नरसाद्रूपं नैकं भवति ॥ ४॥
नवधा रसः ॥ ५॥
नवधा रसार्थं रेखापार्थक्यं जायते ।
प्रथमरसः शृङ्गारः ॥ ६॥
यथा मोहात् पुरुषस्य नारीं प्रति मैथुनेच्छा प्रभवति तद् जीवमात्रस्य सत्यम् । यत्र मुदभावो विभाति सा शृङ्गारमूर्तिः भवति । तथा द्वौ तनू देवदेव्योश्च क्रीडाङ्गगठनम् । युगलशरीरे क्रीडोपायेति, अक्षक्रीडादि मुदितविग्रहार्थम् ।
शृङ्गाररूपार्थमब्रेखा ग्राह्याः ॥ ७॥
प्रसन्नाननमिति तेषां लक्षणम् । कामनिवृत्तौ मन उल्लसितं भवति । हास्यं प्रददाति ।
स हासो द्वितीयरसः ॥ ८॥
हास्यभावप्रदायकविग्रहा जनानां हृदये सुखं सञ्चारयन्ति । कारुप्रयोगे तेषामधर उन्मुक्तः, नेत्रं सौम्यमिति तेषां लक्षणम् ।
मुखलक्षणाद् रसं जानन्ति सर्वे ईक्षणेन ॥ ९॥
मनुष्यः मनोसुखार्थमुपासते । जनानां जले च रूपे उभय समानः । यदा दुःखं तदा सुखमिति सत्यं, रात्रिन्दिवमिव । सुखस्य परिणामो विषादः, विषादात् सर्वेन्द्रियाणि शिथिलानि भवन्ति ।
स तृतीयः करुणरस भाव इति ॥ १०॥
नयनमर्धमुक्तं चेति तेषां लक्षणम् । करुणान् मनो निश्चेष्टं भवति । सोऽवसाद इति । अवसादात् पुनः विषादः सञ्जायते । ततः क्रोधो जायते ।
रौद्रः चतुर्थो रसः ॥ ११॥
स रौद्रभावः रूपे उग्र वदन्ति शिल्पकाराः । मुखं प्रशस्तं नेत्राणि स्फारितानि, हस्ते योधायुधमिति तेषां लक्षणम् ।
तिर्यग् रेखायां रूपाङ्गभावः प्रकटो भवति ॥ १२॥
इति विशेषः । रौद्रभावात् तनुषि विकारो जायते ।
स वीरभावः पञ्चमः ॥ १३॥
तेष्वसमानि कायमुखनेत्राणीति लक्षणम् । कौणपलक्षणान्विता द्रुता पादरेखा समसरला देवराक्षसयोर्मध्ये घातकर्मेव । तेषां मुखे वैरभावस्तल्लक्षणं भवति भयङ्करतूर्वयाण इव ।
वैरभावे उत्कटे भयङ्करो (९८) भवति ।
स वैलक्षणः षष्ठरसः ॥ १४॥
उभयपार्श्वे रूपस्याङ्गवैषम्यं ध्येयम् । ये वर्धितास्ते बीभत्सा ग्लानियुक्ताः ।
कुरूपाः क्षिप्ताङ्गाः मारुतरेखायामिति स सप्तमः ॥ १५॥
कामे निवृत्ते दैवभाव उपजायत इति शेषोपायः । अवगत्या विरतो भवतीति ।
शान्तभावः, सोऽष्टमो रसः ॥ १६॥
एवं जीवस्याष्टविकाररूपेणाष्टभावाः सम्पद्यन्ते (९९)।
भावानुगतरूपाणि चतुर्धा मुख्यानि ॥ १७॥
येषां शान्तास्ते सर्वेऽग्निरेखाश्रयिणः । येषां करुणास्ते सर्वेऽब्रेखाश्रयिणः । आलस्यमूर्तिषु सर्वेऽबाश्रयिणः । येषां सर्वाङ्गानि कर्णरेखाश्रयाणि ते रौद्राः । रौद्रा मिश्रा वैरा मारुतरेखाया आधारः । इहानुशासनं ध्येयम् ।
अथ शिल्पकाश्यपो होवाच । किमर्थं भावप्रबोधनार्थं रूपाणि ? कस्तस्य हेतुः ? भेदाद् दैवज्ञानमुपजायतेऽन्यच्च-भगवन्तः सत्यद्रष्टारो भावबोधार्थं ब्रुवन्तु ।
पिप्पलादो होवाच
लोके भावबोधस्य हेतुर्मनः ॥ १८॥
तद्भेदे भेद उपजायते देवयोन्यः, पितरः, सोमः, आशापालाः, विश्वेदेवाः, राक्षसाः, हि (ड़) ङ्गादयः । सर्वस्य वृत्तिरस्ति । सर्वे पृथक् कति मित्राणि कत्यरयः । अरिभावस्तेषां सन्धाः । होतारो देवान् यजन्ति । पिशाचमोक्षणार्थं तर्दादि (१००) विमोचनार्थं यज्ञमाचरन्ति । एषा जैवसन्धा । यज्ञात् पिशाचा विनश्यन्ति । अरिसाधनार्थं ब्राह्मणाः पर्णमणिं धारयन्ति कवचे । ब्राह्मणा यज्ञबलेन, क्षत्रिया आयुधबलेन, वैश्या भूमिरसज्ञानेन, शूद्राः परिचर्यया दीप्ता भवन्तीति वर्णभेदे क्रियाः । मोक्षार्थं यथा ब्राह्मणा यज्ञमाचरन्ति तथा त्रयो वर्णा रूपसपर्यायां मोक्षं लभन्ते । भावान्मुक्ता भवन्ति । एवमारोपणे रूपं ध्येयम् । एतदर्थं रूपध्यानेन बाधः ।
मनुष्याणां वृत्तिर्मुख्येति ॥ १९॥
वृत्तेर्निष्कल-सकल-भावा उपजायन्त इति मार्गः क्रियायाः परिणाम इति । तदर्थं शिल्पज्ञानाद्रूपं ध्यायन्ति, स्थापका ब्राह्मणा भवन्ति ।
सङ्कल्पाद् विकल्पः ॥ २०॥
इति विशेषः । यथा सङ्कल्पाद् विकल्पः तथा भोगेच्छान्ते अरिमर्दनेच्छोपजायते । मर्दनान्तो भोगः । एतदिन्द्रियचक्रम् । विकल्पभावात् श्रद्धा, श्रद्धायाः सत्ताभावः, सत्ताभावाद् भावयजनं प्रसरति । तद्भावेन रूपं रूपं प्रतिरूपाणि जायन्ते ।
एष भुवनकोषो देहानुभूत्याः क्रमः ॥ २१॥
शृणु तत्क्रमं शिल्पश्रोतारः । ततः श्रोतारः पप्रच्छुः- भगवन् को भुवनकोषः? किं तत्स्वरूपम्? कस्तस्य क्रमभेदः? वदतु धर्मपुरुषपिप्पलादमहामतिः शिल्पकाश्यपाः पृछन्तीति । देहभुवनकोषस्य लक्षणं देहानुभूतिमिति ।
अथ भगवान् पिप्पलादः प्रवचनेन वव्रे । शिल्पकाराः सर्वकर्मणि शतकेशिवृषं प्रार्थयन्ते-
ॐ रुद्रशतकेशाय रुद्र एतद् नाशय भयं
रुद्र शतशीर्ष शमय भयं
वृषरूपाय शतकेशाय च धर्मरूपाय ते नमः ।
इति ब्रुवाणान्तरं पिप्पलाद उवाच । शृणुत, भुवनाः(१०१) तरणस्य सन्धाः । होतारो वैश्वानरे प्रजापत्यादिदेवान् यया वाचाऽऽजुह्वति स मन्त्रः (१०२)। स ध्वनिः, ध्वनेर्ब्राह्मणाऽऽत्मज्ञा भवन्ति, ते ध्वनेर्देवलक्षणानि कल्पयन्ति,ऋषीणां तल्लक्षणम् (१०३), तल्लक्षणं हि ऋतम्, तल्लक्षणाद्रूपं वृणुते मनुष्यलोके ।
यज्ञाद् ध्वनिः, ध्वनेर्लक्षणं, लक्षणादूपं, रूपाद् भावः, भावाद् गुणः, गुणात् क्रिया, क्रियाया आचारः, आचारादुपायः, उपायाच्चेष्टा, चेष्टाया मार्गः, मार्गादूपाणि, रूपात् प्रतिरूपाणि (१०४), रूपविद्याबोधाद् रूपक्रिया, एष सपर्याक्रमः वेदस्यायने भुवनकोषः ।
अरूपाद्रूपं तस्य फलम् ॥ २२॥
आदित्यो ह वै ब्रह्म, तदर्थं यज्ञः, दिशः पृथिव्याः सम्बन्ध इति मूलम्, आदित्यो ह वै ब्रह्मेति तस्य ध्वनिः । ध्वनेर्लक्षणं सूर्यस्य रश्मेर्या यत्र देवता पतिरेक आसीत् । तल्लक्षणम् । रश्मिभिर्द्विजा यजन्त्यमृतरथेनेति तस्य रूपम् । सूर्यो ज्योतिष्पतिरिति भावः, भावाद् गुण इति, स सूर्यस्तपति विश्वमिति तस्य गुणः, तद्गुणानुसृतौ ब्राह्मणा गायत्रीं जपन्ति, ये च इमे भूम्यामधियजन्ति दिवं प्रयान्तीति तत्क्रियाः, तारकामुपेत्य त उत्तिष्ठन्ते ब्राह्मणा इत्याचारः, त्रिकालेन कालसन्ध्यां प्रयोजयन्ति मन्त्रैः, प्रजायाः संरक्षणे ब्राह्मणा द्रविणं दधति, स उपायः । मन्त्रसङ्ख्यासहितं प्रयोजयन्ति क्रियाः, सा चेष्टा, सा बहुधा श्रूयत इति मार्गः । एवं बहुमत्या दैवत्वे रूपं, रूपेणानेकत्वं जायते ।
तद्रूपं प्रतिरूपमिति, तज्ज्ञानं रूपविद्या, तच्छिल्पसूत्रमिति । वेदस्यायने रूपभुवनकोष इति, एतदर्थं रूपार्थं दिशः । अरूपाद्रूपं तस्य फलमिति पूर्वं वेदेनोक्तम् (१०५)।
दिशानुसृतेर्दिशापालानुपासन्ते (१०६) ॥ २३॥
प्राच्यामादित्यः, दक्षिणे यमः, प्रतीच्यां वरुणः, उदीच्यां सोमः ध्रुवायामग्निः एवमहल्लिकाः (१०७) वदन्ति, एवं पूर्वं वेदेनोक्तम्, तदा दशप्रचेतसः (१०८) आदित्या आशापालाः (१०९) सन्ति, य एवं वेद ।
एवं दैवभेदान्मार्गभेदा जायन्ते ॥ २४॥
मार्गाद्रूपञ्च, अप्राकृतं नानृतं च । विष्णुदैवताद् वैष्णवाः (११०), रुद्राद् रौद्राः, इडाया ऐड़ाः, अम्बाया अम्बिनः, सवितुः सौरा भवन्तीति ।
एतेन भेदेन ब्राह्मणाः प्रतिरूपाणि यजन्ति, य एतज्जानाति स रूपज्ञः (१११), ये रूपशैले रूपमाचरन्ति ते रूपकाराः, ते रूपबोधे रूपाण्याचरन्ति । तद्रूपार्थं कामचारा यज्ञं कुर्वन्ति (११२) कामनया य एवं वेद ।
इति वाक्कायमनोमार्गेण पिप्पलादकल्पे सम्प्रदानं चर्चाक्षेण मुनिश्रोतॄणामुपनिधानेन रूपभावनाबोधाध्याय इति पञ्चमप्रपाठकः ॥
षष्ठः प्रपाठकः
सम्बन्धप्रबोधनं
अथाथर्वणाङ्गिरसशिल्पकाश्यपादय उपेत्य पिप्पलादमाश्रमे पप्रच्छुः, भगवन्तः कुतो ह वा रूपे भेदः सञ्जायत इति श्रोष्यामः श्रेयः । तान् ह स पिप्पलादो होवाच, इयं-
न्यासधारणा श्रेष्ठा ॥ १॥
सा धारणा सृष्टिः । सौम्यपिप्पलादः सुप्रसन्न इदं वव्रे, यथा प्रजाकामो वै प्रजापतिः स तपोऽतप्यत, स तपस्तप्त्वा मिथुनमुदपादयत्, रयिञ्च प्राणञ्चेति, एतौ मे बहुधा प्रजाः करिष्यत इति पूर्वे प्रश्ने मयोक्तम् । तथा कामचारिणः सुखं कामयन्ते । सुखमसीमं तत् सुखचक्रे -
वृत्त्या दैवचिन्तने भेदः सञ्जायते ॥ २॥
स हि द्विधा, तद्भेदात् प्रतिरूपाणि कल्पयन्तीति वादः । अथ हैनमाथर्वणाङ्गिरसादयस्त्रयः श्रोतारः पप्रच्छ्रः, भगवन्तः रूपाकले केनोपायेन ब्राह्मणा दैवेऽन्यसन्धामारोपयन्ति । कथं न्यसन्ति । ततः षोडशकलपिप्पलादपुरुषो होवाच शृणुतामृतस्य पुत्राः ।
लक्षणप्रकाशार्थं शिल्पविद्या ॥ ३॥
शिल्पोद्गीथाः पुरोहिता क्रमेण बहुधा न्यासमाचरन्ति । स्थापकास्तथा च ।
न्यासोऽलङ्कारमुद्राऽऽयुधबाध्रकक्ष
वाहनोपदेवारिस्तुवक क्रमेण रूपनवाङ्गमिति ध्येयम् ॥ ४॥
स रेखान्यासः, अलङ्करणम्, मुद्रा, बाध्रः, कक्षः, वाहनम्, उपदैवतम्, अरिणः, स्तुवका (इत्येवं) कल्पयन्ति । आशृणुत वत्सास्त्रयः, न्यासनवाङ्गानुशासनमिति पिप्पलादो वव्रे ।
रेखां रूपाङ्गसौष्ठवप्राप्त्यर्थं शैले लिखन्ति प्राज्ञस्थापका । इति नवाङ्गं न मानुषे, दैवक्षेत्रे मुख्यम् ।
उष्णीषमस्तकाः कारुकाराः शैलक्षेत्रे दैवभावे रेखाः वज्रचूर्णेन लिखन्ति ।
तिस्रः रेखाः श्रेष्ठाः ॥ ५॥
ऊर्ध्वरेखा अग्निरेखाः यथा शिखा उत्थिता प्रज्वलति । पार्श्वगा रेखा अपछेदा यथा नदीनां प्रवाहः । कर्णक्षेत्रगा भेनकारेखा मारुतच्छेदा मारुतस्य तिर्यग्गतिरिव, उदाहृतरेखया शैलक्षेत्रे पञ्जराख्यं कोष्ठककर्माऽऽचरेत् । एष कोष्ठकः अग्न्यम्मरुतरेखासमष्ट्या संयोगेन सम्भवति ।
रूपक्षेत्रे कोष्ठकालिर्मुख्या ॥ ६॥
शैलगुहायां भित्तौ सूक्ष्मकोष्ठकरचने आकलान्युपलभ्यन्ते सुखेन । यथा षोडशकलो (११३) वै पुरुषः षोडशांशैः पूर्णो भवति तथा -
षोडशकोष्ठकमध्ये रूपाणि प्रभवन्ति
तद्रूपार्थं श्रेष्ठम् ॥ ७॥
वज्रचूर्णेन सह तत्क्षेत्रे शलघूर्णिकया वृत्तमेकं रचय मर्मलाभार्थम् । स नेमिः ब्रह्माभास इति । रूपे तद् विलं प्राणविलम् ।
विलमिति मर्म, ब्रह्मेव ध्येयम् ॥ ८॥
तन्मर्मणाऽङ्गभावः प्रसरति ।
षोडशकोष्ठकप्रमाणविभागस्तु
ब्राह्मदैवजैवोपदैवयाजकक्रमेण पञ्चधा ध्येयः ॥ ९॥
कोणचतुष्टयावलम्बनेन नेम्या सह कोणवर्गं कर्तय । कर्तितकोष्ठके, ऊर्ध्वदेशस्य क्षेत्रद्वये यक्षगन्धर्वानप्सरसादीन् खोदय । अधःस्थं तदनुपातय । क्षेत्रद्वयं स्तुवकक्षेत्रम् । उभयकोणे मानवोपासकं रचय । अधोमध्यस्थलेकोष्ठकौ द्वौ जीवक्षेत्रं दैववाहनार्थम् । मध्यस्थाश्चत्वारः कोष्ठकाः ब्रह्मक्षेत्रम् । तत्रार्चारूपस्याङ्गनिर्णयः । अधोर्ध्वावधि तुङ्गाङ्गपर्यन्तमापादशीर्षमाचर । ब्रह्मक्षेत्रस्य वामदक्षिणस्थं क्षेत्रचतुष्टयं जायाक्षेत्रम् ।
रूपाङ्गं चतुर्धेति विशेषः ॥ १०॥
पार्थिवाङ्ग, जैवाङ्गं प्राणाङ्गं देवताङ्गमिति । पादान्ताद् गुल्फपर्यन्तं पार्थिवाङ्गं (११४), गुल्फान्नाभिपर्यन्तं जैवाङ्गम् (११५) , नाभेः कण्ठावधि प्राणाङ्गम् (११६) , कण्ठाद् ब्रह्मरन्ध्रपर्यन्तं द्योताङ्गम् (११७)। तन्मूर्तितारकममूर्तितारकमिव (११८)। यथापूर्वं वेदेनोक्तम् ।
ऊर्ध्वयुगभागयोः रूपस्याननालङ्कारैः सह दैवतेजोमण्डलम् । अण्डाकारं पिण्डाकारं वा स्यात् । तत्र शुक्लज्योती रसामृतं (११९) विद्यते । एवं रूपेऽङ्गभेदाश्चत्वारः शिलादेवतार्थम् । वामे दक्षिणे क्षेत्रद्वये दिव्यक्षेत्रे देवशक्तिभिरुपदैवतानि तिष्ठन्तीति, उभयदिशि कोष्ठकाश्चत्वारः । एवं षोडशकोष्ठकानां सन्धा इति । महासूत्रं सर्वरूपक्षेत्रे विधेयम् । इति सौम्यः पिप्पलादो वव्रे ।
अथ शिल्पकाश्यपाङ्गिरसकोशलादयः पप्रच्छुः, भगवन्तो वास्तुकर्माङ्ग-अवतारषोडशकलपुरुषपिप्पलादाः । केनोपदेवता रूपे भावं प्रददाति । काः सन्धाः श्रेष्ठा इति ।
वरदव्याख्यानकरसंयुतः स्वस्तिमुच्चार्य्य, सौम्यः पिप्पलादो होवाच । आशृणुत शिल्पर्षयो बिन्दुसन्धामादौ ।
बिन्दुर्ब्रह्मेव ब्रह्मध्रुवम् ॥ ११॥
रूपकोष्ठकान्तराले बिन्दुर्द्विधा । ब्रह्मबिन्दुर्मध्यबिन्दुर्ब्रह्मेव । ऊर्ध्वमध्यगः सत्याख्यबिन्दुः द्वौ विशिष्टौ ।
ब्रह्म सत्यादौ ॥ १२॥
यथाऽऽदिपुरुषस्य नाभेः प्रजापतिः स्रष्टा सृजति प्रजाः । ब्रह्मजज्ञानं प्रथमं पुरस्तात् यथा जनन्या नाभितन्तोर्नालतन्त्ववधारणे मातृकोषे भ्रूण उपजायते लोकसृष्टौ, तथा रूपे ।
ब्रह्मबिन्द्ववलम्बनेन रूपाङ्गानि सौभगानि भवन्ति ॥ १३॥
तस्योर्ध्वबिन्दुः सत्यबिन्दुः । भ्रुवोर्मध्ये हिरण्मयेन (१२०) पात्रेण ब्रह्मरसो विद्यते । तद्रसाद् ज्ञानं प्रसरति जीवे । तथा रूपाकले तद् बिन्द्ववलम्बनेन रूपाङ्गवैभवं कल्पयन्ति स्थापका इति । पुरुषीरूपार्थं ब्रह्मकीलस्य त्रिभागानां मध्ये मर्मार्थं बिन्दुं चिन्तयेत्, येनोपायेन रूपाणि सुभगानि भवन्ति, सिद्धिं प्रददति । लोकाः प्रहृष्टा भवन्तीति ।
अथ शृणुत श्रोतारः अलङ्करणन्यासम् ।
अलङ्करणं दैवभूषणमिति ॥ १४॥
तद्भूषणात् प्रेक्षाभावः प्रसरति, याजका प्रहसन्ति । बहुधा भूषणं ग्राह्यम् । उष्णीषम्, राज्ञां त्रिवलिकिरीटम्, केशग्रन्थिम्, ऋषीणां जटाम्, कर्णे नागकडारम्, लोलम्, प्रवर्तम्, वलयम्, पैण्डं, कुम्भं च रचय । कण्ठार्थं कुशच्छन्दः, स्वर्णनिस्पम्, रज्जुयुगलमिति, कट्यां मेखलाग्रन्थिम्, वस्त्रमाजानुलुलितम् । ऋषीणां कृष्णसारचर्मसूत्रम्, नारीणामङ्घ्रौ पञ्चवलयम्, करे व्यालच्छदः, करतले रैखादीन, दैवपक्षे शङ्खपद्मादिनिधिलक्षणं निधेहि । इन्द्रार्थं वपूष्णीषम्, पशुपत्यर्थं विष्कचर्म, व्यालोत्तरीयादि दैवभूषणं रचयेति । अलङ्कारदर्शनान्मानुषाः सर्वे प्रमुदिता भवन्ति ।
प्रतिमुचः रतिः प्रसरति ॥ १५॥
रत्यास्तद्दर्शनं भवति । स एष रूपप्रज्ञया (१२१) ब्रह्मसाक्षात्कार (१२२) आनन्दमिति, एवं वेदे ।
करमुद्रा रूपस्य भावं ज्ञापयति ॥ १६॥
शृणु रूपबोधे मुद्राङ्गसन्धाः । यज्ञकर्मणि दैवाङ्गे च यथा यज्ञकृत्ये होद्गीथाः करान् गाथाभिः सह प्रदर्शयन्ति प्रसारयन्ति सा मुद्रा । यज्ञस्य साधनमिति ।
रूपे तां योजयन्ति रूपकाराः रूपेऽत्र न भेदः, यत्क्रिया रूपाङ्गे प्रतिफलिता भवति । मुद्रापञ्चकं श्रेष्ठम् । तर्जनीवराभययोगव्याख्यानमिति । यथोद्गीथाः सदस्या उत्तरारण्यामवरारणिचालने उदूखलप्रोक्षणे करौ प्रसारयन्ति । स्थण्डिलशोधने, कुशाण्डिके, पुरोडाशप्रोक्षणे च तन्मुद्रापञ्चकम् । तस्य प्रयोगं शृणु सौम्येति । अरणिमन्थने, -
ॐ अग्नये मथ्यमानायानुब्रूहीत्युच्चार्य अध्वर्युर्मन्त्रेणाङ्गुलिं प्रदर्शयति सा तर्जनिका मुद्रा रूपे सौम्येति । यथा उदूखले हविर्वैतानप्रसारणार्थं करान् प्रसारयन्ति उदूखलोपरि सा ध्वजमुद्रा रूपे सौम्येति । स्थण्डिलवीक्षणे यज्ञगाथागायने-
ॐ यज्ञं ब्रूमो यजमानमृचः सामानि भेषजेति वाक्यमुच्चार्य्य ब्राह्मणा यथा वैश्वानरं प्रार्थयन्ति करसम्पुटेन साऽऽवाहनीति वरमुद्रा रूपे सौम्येति । प्रवरकर्मणि कुशाण्डिकाकाले दर्भकङ्कणं करे धृत्वा यथाऽऽचार्या वैश्वानरमुत्थापयन्ति करप्रदर्शनेन सा रूपेऽभयमुद्रा रूपे सौम्येति । एवं च वराभयमुद्रायुग्मं रूपस्य ब्रह्मक्षेत्रे ध्येयं, न जैवक्षेत्रे (प्रवण) आभाति सा कोष्ठके । पुरोडाशाच्छादने यजमानं प्रति, पुरोडाशवत्सा सुदुघा लोकेऽस्मा उपतिष्ठतीत्याद्युच्चार्य्य यथा सदस्या एषां करान् प्रदर्शयन्ति, हविष-इत्यादिवाक्येन पुरोडाशस्विष्टकृते यजन्ति सा योगमुद्रा रूपे, व्याख्यानमुद्रापि रूपे सौम्येति । इति मुद्रापञ्चकं रूपे ध्येयम् ।
अथ श्रुणुत शिल्पाध्येतारः शिल्पे (१२३) बाध्रसन्धाम् ।
बाध्रं बलं ज्ञापयति रूपे ॥ १७॥
बाघ्रमित्यायुधं (१२४) । सर्वं तनुवत् । कौणपान् प्रति देवाः क्षिपन्ति । तदाऽऽयुधस्य मन्त्रबीजानि (१२५) ध्येयानि । मन्त्रहीनायुधं लोष्ट्रं भवति । तथा खोदनेऽपि मन्त्रम् (१२६) उच्चारयन्ति स्थापकाः । तथाऽऽयुधस्य द्वादश बीजानि जानन्ति मन्त्रिणः । मन्त्रस्य सूक्ष्मनादो बीजमिति । तद्योगेन मन्त्रक्रिया प्रकटी भवति ।
इन्द्रस्यायुधं वज्रः । ॐ वं वज्राय, वम्बीजेन प्रोक्षन्ति सा संहारशक्तिरिति (१२७)। मरुतस्यायुधं ध्वजः । ॐ धं ध्वजाय, धम्बीजेन प्रोक्षन्ति । एषा धूनन (१२८) शक्तिरिति । यमस्यायुधं दण्डः । ॐ दुं दण्डाय, दुम्बीजेन प्रोक्षन्ति । सा घातनशक्तिरिति । वरुणस्यायुधं पाशः । ॐ पं पाशाय, पम्बीजेन प्रोक्षन्ति । साऽऽकर्षणी शक्तिरिति । ईशानस्यायुधं शूलम् । ॐ शुं शूलाय, शुम्बीजेन प्रोक्षन्ति । सा भेदनशक्तिरिति । सोमस्यायुधं पात्रम् । ॐ पं पात्राय, पम्बीजेन प्रोक्षन्ति । सा प्राणशक्तिरिति । वैश्वानरस्यायुधं स्रुक् । ॐ स्रुं स्रुवाय, स्रुंबीजेन प्रोक्षन्ति । सा त्यागशक्तिरिति । सूर्यस्यायुधं पद्मम् । ॐ पं पद्माय, पम्बीजेन प्रोक्षन्ति । सा प्रल्हादिनी शक्तिरिति । अम्बाया आयुधं माला । ॐ मं मालायै, मंबीजेन प्रोक्षन्ति । सा ध्यानशक्तिरिति । विष्णोरायुधं चक्रम् । ॐ हुं चक्राय, हूम्बीजेन प्रोक्षन्ति । सा माया (१२९) शक्तिरिति । कुवेरस्यायुधं कुम्भः । ॐ कं कुम्भाय, कंबीजेन प्रोक्षन्ति । सा निधिशक्तिरिति । गणदैवतस्यायुधमङ्कुशः । ॐ अं अङ्कुशाय, अम्बीजेन प्रोक्षन्ति । सा संयमशक्तिरिति ।
रीत्या नादयुक्तं रचयन्ति कारुकारा आयुधानि । नाद इति मन्त्रस्य रसः । स हि बीजमिति कृत्यं ज्ञेयम् । षोडशकोष्ठकेषु रूपस्य करसंयोगे नेमिस्पर्शनं ध्येयम् ।
अथ वास्तूद्गीथान् प्रति कक्षासन्धां सौम्याननो वव्रे (पिप्पलादः) ।
आसनषट्कं मुख्यम् ॥ १८॥
आसनं रूपस्य कृत्यं प्रकाशयति देहस्याकृतिः प्रकेतनमिति । उत्सर्गा चासीन चेति भेदेन द्वे मुख्य इति । रूपाकले या उत्थितास्ता (१३०) उत्सर्गाः । रूपभेदे या आसीनास्ता आसिका इति ज्ञेयम् । यथा यज्ञे यज्ञकर्मणि तथा रूपप्रयोगे ग्राव्णि च ।
आसनं षड्धा । यथा यजमानाः स्वशालायां दर्भासने उपविशन्ति तत् सुखासनं रूपे । यथाऽरणिमन्थने अग्निध्रा रज्जुं चालयन्ति तद् विषमासनं रूपे ।
यथा वेद्युपरि आचार्या उपविशन्ति तत् स्वस्तिकासनं रूपे । यथा सूत्रायणकाले रक्षाविधाने पिशङ्के सूत्रशृङ्खले तद्बन्धनकाले ब्राह्मणा वसन्ति तद् योगासनं रूपे । यथा सवित्राराधने द्विजा उपविशन्ति तत् कुक्कुटासनं रूपे । यथा होद्गीथा वाजसनेयसंहितोक्त सन्ध्योपासनकाले करौ प्राचीं प्रति प्रसारयन्ति तत् सौम्यासनं रूपे, इति प्रयोग । इति आसनषट्कं रूपे यज्ञे च ।
पप्रच्छुराङ्गिरस शिल्पकाश्यपादिश्रोतारो भगवन्तः किमर्थमासने भेदा जायन्ते, कथमुपवेशनार्थमेतद् ध्येयमिति । इत्यगम्यरूपबोधार्थं तेषां काः सन्धा प्रवदन्तु श्रद्धया सौम्याः ।
आसनाद्रूपस्य कृत्यभावं प्रचक्षते । सुखासनं रूपस्य शान्तभावं प्रददाति । विषमासनं वैरभावं क्षेपण-क्रियादि प्रकटयति । स्वस्तिकासनं प्राज्ञभावं प्रकटयति, योगासनं ब्रह्मानुभूतिमात्मानुभूतिभावं च विज्ञापयति । कुक्कुटासनमुद्ग्रीवभावं प्रकाशयति । सौम्यासनं स्थैर्य प्रददाति । रूपाकलार्थमेतद् ध्येयम् । सर्वे शिल्पाचार्या ब्रह्मक्षेत्रे षोडशकोष्ठकान्तराले नेमिमध्ये रूपान्वये एतदाचरन्ति ।
शृणुत प्रियङ्करश्रोतारः, रूपाकले दैववाहनस्य (१३१) सन्धाः । वाहनानि रूपस्य गुणान् प्रकाशयन्ति विज्ञापयन्ति ।
गुणानुसृतं रूपत्रयम् ॥ १९॥
सत्त्वात् सात्त्विकानि रजसो राजसानि तमसस्तामसानीति भेदाः । यानि रूपाणि सायुज्यं प्रददति तानि सात्त्विकरूपाणि । यानि कायसुखप्रदायकानि तानि राजसानि । यानि रूपाण्यरिं प्रति मृत्युप्रदानि तानि तामसानि (१३२) ।
गुणानुक्रमेण वास्तुवेदस्य रूपविद्या इति व्याख्यानम् । य एनां वेद । शृणु वाहनस्वरूपम्-
वाहनं रूपस्य प्रकृतिज्ञापकविशेषः ॥ २०॥
यथा इन्द्रो (१३३) दिग्गजानाकर्षति । पर्जन्यं वर्षयति । तथाऽऽकर्षणात्मकं ऐरावतमारोहति । यथा यमो जीवस्य प्राणानाकर्षति, तथा घोरमहिषम् (१३४) आरोहति । यथा वैश्वानरो याज्ञिकैर्दीप्तो भवति, तथा मेषम् (१३५) आरोहति । यथा एकायने सविता भ्रमति सप्ततन्तुस्तथैकरथाङ्गाढ्यरथम् (१३६) आरोहति ।
यथा रुद्रो धर्मं सञ्चारयति तथा धर्मवृषभम् (१३७) आरोहति । यथा प्रजापतिर्ज्ञानेन प्रजा आकर्षति तथा हंसं (१३८) आरोहति । यथा विष्णुर्मोक्षं प्रददाति तथा सुपर्णम् (१३९) आरोहति । यथाऽम्बा (रिपु) वर्गं नाशयति तथा द्वीपिनम् (१४०) आरोहति ।
वाहनानि षोडशकोष्ठके जैवक्षेत्रे ध्येयानि । रूपे ब्रह्मक्षेत्रस्य निम्ने, अधोऽन्यच्च श्रेयः । आशृणु उपदैवतस्य सन्धाः । सौम्य पिप्पलादो वव्रे (१४१)।
उपदैवतं प्रतिरूपमिति ॥ २१॥
प्रजापतेरेते सर्वे देवा इमानि पञ्च महाभूतानि तद्गुणा पृथिवीवाय्वाकाशाब्ज्योतिरित्येतानि जायन्त इति । तद्भूत-ज्ञानात् स्वस्वगुणभावरूप इव प्रचक्षते । तद्भूत-ज्ञानादुपदैवतभावाः सन्ति ।
यथा वैश्वानर (१४२) इति ब्रह्म । स यज्ञः । यज्ञस्य दाहिका (१४३) शक्तिः स्वाहा । पचनात्मिका स्वधा (१४४)। इत्थमुपदैवभावः प्रथितः प्रसरति तत्सपर्यायामिन्द्रस्य प्रजननशक्तिरिन्द्राणी (१४५)। मारुतस्य वेगिनी शक्तिर्वायुनायी सा द्रुता ।यमस्य द्वौ गुणौ, पालिकाऽवनाशिकेति । तस्य पालिका शक्तिराकुतिः (१४६) , अवनाशिका मृत्युरिति (१४७)। वरुणस्य प्रवाहिका शक्तिर्वारुणी (१४८)। सोमस्य धारिका शक्तिरिलेति (१४९) । सूर्यस्य सवितुरवलम्बिनी शक्तिश्छाया (१५०) । साऽऽवेशिनी शक्तिरुषा (१५१)।
विष्णोर्मुक्तिप्रदा श्रीशक्तिर्हिरण्यवर्णा हरिणी (१५२) धारिणी शक्तिः पृथिवी (१५३)। शेषस्य सहना शक्तिः धृतिर्व्यापिनी शक्तिः विधृतिः यथा क्षमाऽन्नधृतिरिति । विधृतिः सौख्यमिति । हिरण्यगर्भस्य कालात्मिका शक्तिः । गायत्री (१५४) ज्ञानरूपा, सावित्री (१५५) मेधारूपा, सरस्वती (१५६) प्रज्ञारूपा । देवी विशिष्टा त्रिकालरूपा च ।
राष्ट्रया (१५७) रुद्रेति । तस्य प्रजननशक्तिरम्बाऽम्बालिका (१५८,१५९) चेति द्वे । दुर्गाया रक्षणशक्तिः सुन्दरी मोहिनी चेति द्वे आकर्षणरूपे । एतत्क्रमे दैवगुणस्यानुक्रमे उपदैवतानि जायाभावेन जायन्ते । तदेतल्लक्षणानि ।
अथ प्रतिकीर्णमाथर्वणाङ्गिरसशिल्पकाश्यप-कुवित्स-कोशलादयः प्रणम्य पप्रच्छुः, भगवन्तः पिप्पलादा दिव्यपुरुषाः कथं का हेतय इत्यबोध्यमिति विशदेन ब्रुवन्तु सौम्याः । दिव्यपुरुषपिप्पलादो वव्रे । शिल्पोद्गीथाः शृणुत वक्ष्यामो विस्तरेण अपसार्थममुथ उपरूपाकलस्यानुशासनं पूर्वं वेदेन यथोक्तम् ।
प्रजापतिरसृजत् कालम् । दक्षिणोत्तरौ द्वौ । उत्तराद्देवा दक्षिणात्पितरः । उत्तरात्सविता दक्षिणाञ्चन्द्रमाः । प्रतिकाममृषयो दक्षिणं प्रतिपादयन्ति । तत् पितृयानं रात्रिरिति । ब्रह्मचारिणो मोक्षकामा उत्तरम्प्रतिपादयन्ति । तद्धि देवयानं दिवम् । दक्षिणादर्यमलोकाः पञ्चपादपितरः (१६०)। उत्तराद्द्वादशाकृतिदिवमाहुः । एतन्न्याये गुणेनैकं ब्रह्म द्वादशधा भवति । तथा हि सूर्यो ज्योतिषां पतिरिति गुणानुसृतेर्देवस्तल्लक्षणानुसृते रूपाणि, ततः प्रतिरूपाणि जायन्ते । एतत्सत्यम् ।
यथा यज्ञात् त्याग (१६१) इति मुख्यम् । दैवभावे तत्स्वाहा (१६२) । त्यागवृत्तिरिति स्वाहा । भोग्यमिति स्वधा, इदं पितृभावः ।
यथा विष्णुर्मोक्षं ददाति । मोक्ष इति श्रीः । भोग्यरूपेण पृथिवी भोग्या (१६३) । यथा रुद्रस्य मोक्षगुणादम्बा, भोगवृत्त्याऽम्बालिकेति द्वे । यथेन्द्रस्य त्यागवृत्त्या यज्ञाः, भोगवृत्त्येन्द्राणीति । यदा गुणा बहुधा उपवृत्त्या (तदा) बहुधा प्रतिरूपाणि भवन्तीति परिपश्यन्ति धीराः ।
यथा वैश्वानरस्य सप्त वृत्तय उत्थानाद् विलयान्तं प्रवदन्ते । क्रमेण ताः स्निग्धा, धूम्रा, तप्ता, उत्तप्ता, दाहिका, भस्मा, निर्वाणेति । एतत्क्रमेणाग्निस्तपति । तद्गुणात् सप्त जिह्वा जायन्ते । जिह्वायाः प्रतिरूपाणि कल्पयन्ति । (पूर्वक्रमेण) काली, कराली, मनोजवा, सुलोहिता, सुधूम्रवर्णा, स्फुलिङ्गिनी, विश्वरुची इत्येताः सर्वाः स्त्रीरूपाः रूपभावे ग्राह्याः ।
यथा श्रुतिरिति महती । सा मेधारूपेण भारती सम्भवति । मेधाया यथा वाणी प्रभवति तथा श्रुतेर्महती महीयसी सरस्वती (१६४) जायते पराविद्याया रूपा । तत्तदाकारात्मिकाः पुष्टिभावेन लक्ष्मीदेवहूत्यादयः । एताः सर्वाः षोडशक्षेत्रस्य द्विपार्श्वे दैवक्षेत्रे तत्तद्रूपस्य जायाभावेनोपदैवतानीति सत्यं ध्येयं -रूपकारा वास्तूद्गीथाः ।
उपदैवताद्रूपज्ञानं प्रसरति ॥ २२॥
सपर्यया भूतविद्याः (१६५) प्रशम्यन्ति ।
अरिसन्धा ध्येया ॥ २३॥
रूपधाराया वृत्तिरिति श्रेष्ठा ॥ २४॥
अथ रूपधारायाः शृणु वृत्तिभेदान् । यथा वृत्त्याः परिणामः । प्राजापत्य -प्रथम-वृत्तिर्मनः (१६६)। मनसो वृत्तिः प्राणः (१६७) । प्राणस्य वृत्तिः क्रिया । क्रिया हि विद्या (१६८) । सा द्विविधा कथयन्ति ऋषयः । सदसद्विद्येयम् । या ऋतस्य धारा सा दैवक्रिया । सा परा विद्या । या अनृता सा अक्रिया । सा अदैवा अपरेति । तदपराज्ञानादसुराः । अहर्देवा आश्रयन्ते रात्रिमसुराः (१६९) ।
येषां भयशोकाः सन्ति, यथा निकन्दिनः, कण्वजम्भाः, यातुधानाः, पृश्निपर्ण्यादयोऽवयोनयो गुणानुभेदेनैते सर्वेऽन्यार्थघातकाः सर्वेऽरिणो देवे च लोके यज्ञं घातयन्ति । एते सर्वे शलभक्षका बीभत्सरूपाः कोकमुखा रुक्षग्रीवाः शिमिजाः (१७०) । सर्वे वैराज्यकिम्पुरुषाः क्रुधा दैवघातकाः । एतानरीन् षोडशकोष्ठकरूपक्षेत्रे मर्दितरूपेण जैवक्षेत्रे आचरन्ति प्रतिरूपचर्यायाम् । एते शलभक्षिणो देवानां भयदा भवन्ति । एतैस्तेषां दुःखम् । यज्ञात् तरन्ति । एतदर्थं केचिद्वा ऋषीन् ध्यायन्ति देवाः । देवयजनान्मुनयो मनस्विनो भवन्ति । दैवभावेन देवार्थं होतारोऽन्नसमिधः क्षिपन्ति वैश्वानरे । ऋषयः स्तोतारो भवन्ति ।
स्तोतॄणां रूपे सुभगविशेषः (१७१) ॥ २५॥
गाथाः (१७२) पठन्ति । जना यजन्ति बहुधा रूपं सर्वक्रियाधारः मनुष्यलोके रूपविद्या । नादः सत्यमिति ध्येयम् । रूपं चरन्ति वास्तुवेदिनः स्थापका वास्तूद्गीथाः । स्तोतॄणां बहुधा पैला नालन्दिनोऽप्सरसो देवान् मोदयन्ति मोदकाः ।
कायमनोवाक्येन गायन्ति ते स्तुवका भ्राजिनः । यक्षा गायन्ति गाथाः । गन्धर्वा (१७३) देवानन्दार्थं नृत्यन्ति । सर्वे मिश्रयोनयः षोडशकोष्ठकक्षेत्रे ऊर्ध्वकोणगतक्षेत्रे निधेयाः उपदैवक्षेत्रे ।
ये नरा दैवभावपरायणास्ते याजका । ध्याने तेषां सत्ता दिव्येव विभाति । तान् जैवक्षेत्रस्य पार्श्वगतक्षेत्रे अधःक्षेत्रद्वये न्यसेत् । एवं दैवरूपं षोडशकोष्ठके ध्येयम् । ते तु धन्या ये क्रतूँश्च यज्ञानाचरन्ति उपासन्ते रूपाणि । रूपज्ञानाद् प्रज्ञा प्रभवति लोके ।
प्रज्ञार्थमेतद् वास्तूपाख्यानम् ॥ २६॥
एतदर्थं प्रज्ञां व्याख्यापयाम इति । वास्तुसूत्रोपनिषद् भगवतः पिप्पलादस्य भव्यं व्याख्यानम् । यो जानाति स रूपाचार्यो भवतीति वास्तूद्गाता इति ध्येयम् । ये ध्यायन्ति ते मुक्ताः । परमऋषिभ्यो नमः।
स्तुता मया वरदा वेदमाता
प्र चोदयन्तां पावमानी द्विजानाम् ।
आयुः प्राणं प्रजां पशुं कीर्ति द्रविणं ब्रह्मवर्चसम् ।
मह्यं दत्त्वा व्रजत ब्रह्मलोकम् ॥
(अथर्व १९.७१.१)
इति ॐ नमो विश्वकर्मणे ।
ॐ विश्वकर्मा मा सप्तऋषिभिरुदीच्या दिशः पातु तस्मिन् क्रमे तस्मिञ्छ्रये तां पुरं प्रैमि ।
स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥
इति (अथर्व १९.१७.७)
इति षष्ठप्रपाठकः समाप्तः ॥
परमऋषिभ्यो नमः । परमऋषिभ्यो नमः ।
सम्पूर्णेयं वास्तुकर्मावतारपिप्पलादस्य आथर्वणीय वास्तुसूत्रोपनिषत् । उड्रदेशिकेन आथर्वणोद्गात्रा सोमभट्टेन कृता परिशुद्धिटिप्पणी समाप्ता ।
इदं आथर्वणीय वास्तुसूत्रोपनिषद् अथर्वणाचार्यसोमभट्टेन कृत विषयबोधिनिटिप्पणी समेत लिखितं मया बाङ्की कुरुमचैनि ग्रामवासिना वास्तुशास्त्रि कामदेव उद्गाथा श्री रामचन्द्रदेव भूपालस्य पञ्चदशाङ्के राजा हरिचन्दन नृपार्थ । ॐ नमो महादेव्यै ॥
टिप्पणी
Footnotes of Vastusutropanishat
(१) अथर्व ११.४.१६ मण्डलोक्तऋषिविशेषः । १९ काण्डे पञ्चमानुवाकस्य प्रवर्तक ऋषिः अङ्गिराः ।
(२) काश्यपशिल्पसूत्रकारः शिल्पकाश्यपनामा ऋषिः ।
(३) आथर्वणीय- षोडशविध- तापिनीग्रन्थाः-अवधूततापिनी, त्रिपुरातापिनी, नृसिंहतापिनी, पुरुषतापिनी, वृषतापिनी, इत्यादयः सर्वे आथर्वणीयाः ।
(४) वास्तुविषयकसूत्राणि ।
(५) वास्तुदैवतं वास्तोष्पतिरित्यर्थः ।
(६) काश्यपशिल्पसूत्रस्य देवशिल्प-प्रासादशिल्प-नगरशिल्प-दुर्गशिल्प-धातुकरण-लेखविचारादि विषयाः ।
(७) रूपशिलास्थापनार्थं शुभयोगे दर्भोत्पाटक आथर्वणब्राह्मणविशेषः ।
(८) शिल्पाधिदैवतम्, अथर्ववेदसंहितायामुक्तम् । विश्वकर्माणं ते सप्तऋषिवन्तमृच्छन्तु, अथर्व० १९.१८.७ ।
(९) पैप्पलादसंहितायां प्रथमकाण्डे उक्तं - श्यामा सरूपङ्करणी पृथिव्या अध्युद्भृता । इदमू षु प्र साधय पुना रूपाणि कल्पय ॥ १.२६.५ (शौ १.२४.४)
(१०) मूर्तिश्चतुर्विधा प्रोक्ता मृण्मयी शैली एव च । धातवी दारवी चैव पूजनार्थे विशेषतः ॥
(११) आदित्यो यूप इति ऐतरेये उक्तं तथा तैत्तिरीये च ।
(१२) अथर्ववेदे वैतानसूत्रमिति । अथर्ववेदे १३.१.४७ उक्तम् । पुनः यूपमुग्रा मरुतः स्कम्भहिमं घ्रंसं चाधाय यूपान् कृत्वा पर्वतान् । इन्द्रेण मन्त्रे उक्तं पुनः अथर्ववेदे यूप स्कम्भरूपेण उक्तश्च दशमकाण्डे चतुर्थानुवाके दैवतरूपेण ।
(१३) गृह्यसूत्रे च अथर्ववेदे ७ काण्डे नवमानुवाके ३ सूत्रे उक्तम् । शतपथब्राह्मणे ``वास्तु हि तद् यज्ञस्य यद् घृतेषु हविषु'' इति उक्तम्, तद् देवता वास्तुपुरुषः शिखिन्यादि इति ।
(१४) ब्रह्मसुखं हि मधु इति अथर्ववेदे १.३४.१ उक्तम्-
इयं वीरुन्मधुजाता मधुना त्वा खनामसि ।
मधोरधि प्रजातासि सा नो मधुमतस्कृधि ॥
(१५) प्रतिमा - अथर्ववेदे ९.४.२ उक्तं - अपां यो अग्रे प्रतिमा बभूव प्रभूः सर्वस्मै पृथिवीव देवी इति । वाजसनेयिसंहितायामुक्तं - असौ वै लोकः प्रतिमेषा ह्यन्तरिक्षलोके प्रतिमा इव इति ॥
(१६) ऋत्विग्विशेषाः आथर्वणपुरोहिताः ।
(१७) अथर्ववेदे २.८.१ काण्डे उक्तं उदगातां भगवती विचृतौ नाम तारके । इति ॥
(१८) पौलस्त्यस्य अपत्यं विश्रवापुत्रः रावणः ।
(१९) अथर्व ९.४.२
(२०) प्रयोगात्मकसूत्रमिति खिलम् ।
(२१) भीत्त्याकारे महाशैले दैवलीलादयो यथा । रूपशाला तपस्विनां मोदार्थमभिखोदिता । इति काश्यपवचनम् ।
(२२) स्तम्भ इति यूपः यूपः वै स्तम्भ (स्कम्भ) इति अथर्ववेदे १०.७ उक्तम् ॥ प्रयोगभेदे स्कम्भत्रयं ब्रह्मयजने स्कम्भो वै यूपः, पितृयजने वृषस्तम्भः, कामयजने मिथुनस्कम्भ इति भेदः ।
(२३) यद्गुह्यं अधिकोपायेन विग्रहप्रामाण्यं भवति । सा खिलपञ्जरविद्या, असाधारणी इत्यर्थः, गुह्यं रेखाज्ञानमिति ।
(२४) उद्गीथमुपासाञ्चक्रे । एतमेवाङ्गिरसं मन्ये । अङ्गानां यद्रसः । आत्मज्ञऋषिविशेषः ।
(२५) सपर्योपयोगिनी प्रतिमा ।
(२६) तैत्तिरीयब्राह्मणोक्तः नक्षत्रविशेषः यः शुभदायकः, अभिजिन्नाम नक्षत्रमुपरिष्टादिति वाक्यम् ।
(२७) अथर्व २०.१३७.३
(२८) एकवर्णा कपिला गौः पुरुरूपा गौरिति भावः । दैवतन्त्रे शक्तिप्राप्ता गाव । अथर्ववेदे १०.१०.६ उक्तं ``स्वधाप्राणा महीलुका'' इति ।
(२९) कुम्भीकामोचनार्थं अथर्ववेदे १६.६.८ उक्तम्-ॐ कुम्भीका द्वषीकाः पीयकान् । इति ।
(३०) शतकेशी रुद्ररूपो महावृषः । अथर्ववेदे ५.२२.८ उक्तः । यथा- महावृषान् मूजवतो बन्ध्वद्धि परेत्य । प्रैतानि तक्मने ब्रूमो अन्यक्षेत्राणि वा इमा । इति ।
(३१) तापवर्गप्रदयोनिविशेषाः तथा च अथर्ववेदे १९.३५.२ उक्तं स नो रक्षतु जङ्गिडो धनपालो धनेव इति ।
(३२) काश्यपसंहिताशिल्पशास्त्रे प्रथमाध्याये उक्तं -युजुवदण्डसंयुक्तं वलयं वेष्टितं तथा । रज्जुद्विमुष्टि यस्याग्रेऽप्ययः कीलसघूर्णिका इति ।
(३३) अथर्ववेदे ६.१९.१ अयं मन्त्रः । मर्मनिर्धारणे उपाध्यायाः पवमानसूक्तं पठन्ति इत्याचारः ।
(३४) पातनं मर्दनं चैवमङ्कनं सा त्रिधा क्रिया । खोदनोत्तरकर्माणि स्थापकः संस्मरेत् सदा ॥ काश्यपसंहिता अ। १, श्लो १४ ।
(३५) शुक्रशिलाचूर्णमिति वज्ररेखाङ्कनस्योपादानम् ।
(३६) कीर्त्तिरिति रूपं सा प्रतिमा तस्याऽऽधारः रेखापञ्जर इति ।
(३७) न मृण्मयप्रतिमार्थं रेखान्यासस्य प्रयोजनम् ।
(३८) वृत्तबिन्दुविषयाणि विशदरूपेण पिप्पलादीयप्रणवतारके ध्येयानि ।
(३९) ॐ विश्वकर्माय (विश्वकर्मणे) विद्महे कारुकाराय धीमहि तन्नो शिल्पी प्रचोदयात् ।
(४०) ॐ विश्वकर्माय (विश्वकर्मणे) नमः, इति तस्याष्टाक्षरो मन्त्र इति ।
(४१) न यज्ञशुल्वप्रयोगे विश्वज्योतिरित्यादिनिर्माणे प्रयोजनम् ।
(४२) दृश्यरूपेण शिलोपरि इति भावः ।
(४३) यस्मिन् देशे यथाकारे देवलीला प्रवर्त्तते ।
(४४) तालांशज्ञानसम्प्राप्ते शिल्पी स्थापक उच्यते । रेखान्यासं यो जानाति स रूपज्ञो भवेत् तथा । शिल्परहस्यागमे ४, २ उक्तम् ।
(४५) प्रजापतिरेते सर्वे देवा इमानि च पञ्चमहाभूतानि वायुराकाश आपो ज्योतिरित्येतानीमानि च क्षुद्रमिश्राणि ऐतरेये पञ्चमखण्डे उक्तम्-तथा हि वास्तुवेदे सम्यक् भिन्नता जायते, दृश्यते ।
(४६) सर्वरूपशैलस्य आधारः चतुरस्रम् ।
(४७) अश्मना ह्यापः प्रभवन्ति । शतपथब्राह्मणे नवमाध्याये उक्तम् ।
(४८) मध्यदैर्घ्यमध्यप्रस्थयोर्मध्यबिन्दुमवलम्ब्य ।
(४९) व्योम इति भावः ।
(५०) द्यावा-पृथिवीं सञ्जानीथ, अथ वर्षति, शतपथे उक्तम् । अथर्व १२.१ उक्तं अर्णवभूम्यात् परम व्योम जायते इति भावः ।
(५१) अग्निरूपं त्रिभुजक्षेत्रम् ।
(५२) हुतमिति रेखा, त्रिरेखेण यत् क्षेत्रं तत् त्रिहुतं भवति ।
(५३) दिव्यं दैवीभावः । अथर्वसंहितायामुक्तं २.१२.४- पितॄणामामुं ददे हरसा दैव्येन इति ।
(५४) गुह्योक्तविधिना अग्निस्थापने ब्रह्मोपदेशने स्थण्डिले षट्कोणलिखनानन्तरं विष्टरद्वयं स्थापयन्ति । तदुपरि अग्निं स्थापयन्ति, इति अग्निसन्धानविधिः ।
(५५) तन्त्रे तथा कालिकोपनिषदि उक्तम्-कूर्चबीजं व्योमषष्ठस्वरा बिन्दुमिलनरूपाः, तद्द्वयं मायाद्वयं दक्षिणे कालिकेति ।
(५६) यातुधानः निर् ऋतेरादिवाक्यात् तापवर्गप्रदो योनिविशेष इति अथर्ववेदे उक्तम् ।
(५७) मण्डुवंशजोतः कौत्सस्य शिष्यः ऋषिविशेष इति बृहदारण्यके उक्तम् ।
(५८) प्रयोगरूपेणैतत् षड्धाङ्कनोपादानम्, व्योमाभासे मण्डलञ्च चतुरस्रोपसञ्ज्ञकः कोणरेखा । वायुश्च कर्णिकापृथिवी तथा त्रिभुजमग्निरूपञ्च षट्कोणं दैवमन्दिरम् । काश्यपवचनम् ।
(५९) रूपक्षेत्रे खनित्रेणाविशन्ति, सितवज्ररेखायां ततः अयसा खोदयन्ति मूलम् ।
(६०) वास्तुयागे शिलानिर्मितसौम्ययूपः विष्णुयज्ञे षोडशांशविशिष्टशिलायूपः विधेय । पितृयज्ञे दारवी वृषयूपस्य प्रयोजनं भवति ।
(६१) इन्द्रे लोका इन्द्रे तप इन्द्रेऽध्यृतमाहितम् । इन्द्रं त्वा वेद प्रत्यक्षं स्कम्भे (यूपे) सर्वं प्रतिष्ठितम् ॥ (१०.७.३०) अथर्ववेदे एवं बहुधा उक्तम् ।
(६२) सममानेन सूत्रपातनेन रेखाः सौम्या भवन्ति ।
(६३) दैर्ध्यरेखाः ।
(६४) प्रस्थरेखाः ।
(६५) पैप्पलादसंहितायां प्रथमखण्डे रूपस्य स्वरूपविषये उक्तं - रूपं रूपवयोवस्तेन त्वां परिदध्मसि, इति रूपभावस्य धारणा ।
(६६) अन्नाद् भवन्ति भूतानि पर्जन्यादन्नसम्भवः इति गीतायाः ३.१४, तैत्तिरीयोपनिषदि २.२ अपि च प्रश्नोपनिषदि षष्ठप्रश्ने उक्तम् ।
(६७) मूर्तिकारा हि स्थापकाः, ते स्थापकोद्गीथा इति ।
(६८) मूर्तिदर्शनमात्रेण यद्भावो मनसि जायते सा रूपप्रेरणा ।
(६९) रूपमध्ये यथाकीलं कीलाभासे यदङ्गकः । यो जानाति इमं भावं मर्मज्ञः स इति स्मृतः ॥ शिल्परत्नकोषे द्वितीयसर्गे १८ श्लोके उक्तम् ॥
(७०) चाक्रः स्थपति-श्रेष्ठ इति पाटवचाक्रशतपथे उक्तम् ।
(७१) दारवी मुष्टिमानेन कीलान् सङ्गृह्य यत्नतः । चतुःपार्श्वे यदा शिला तदा तु अवरोधनम् । इति शिल्परत्नकोषे रोधनक्रिया ।
(७२) गाथां गायन्ति गाथिनः यथा कुन्तापसूक्तानि अथर्ववेदे (२०.१२७ १) उक्तानि ``इदं जना उप श्रुत नराशंस स्तविष्यते'' इत्यादिजटाक्रमेण पठन्ति गाथिनः ।
(७३) अथर्वसंहितायां ३.१२ : शालाया ध्रुवा-स्तम्भः; अश्वावती-भित्तिः; स्थूणा-वंशस्तम्भः; कुम्भ-धारककाष्ठानि; निर्माणेऽपि खनित्रप्रयोजनं भवति ।
(७४) वनवासिनः ।
(७५) मण्डलकरणार्थं सूचीमुखाकृति (रज्ज्वे) शोणप्रस्तरन्यासितशस्त्रविशेषः ।
(७६) प्रस्तरभेदिवृक्षस्य वल्कलं माहेन्द्रपर्वतारण्ये उपलब्धं इति ।
(७७) यथाविहित लक्षणानुपातेन इति भद्रोपायः ।
(७८) ग्रन्थिरेखा वलिः पर्वाण्यङ्गरागं यथोचितम् । प्रकृत्यानुसृतेः कुर्यात्तदङ्गसौभगं स्मृतम् । शिल्पागमे तृतीयाध्याये १४ श्लोके उक्तम् ।
(७९) ध्यानानुसृतं यद्रूपं तद्रूपो ध्यानविग्रहः, शिल्परत्नकोशे ४५५ तमे श्लोके ।
(८०) कामस्तदग्रे समवर्त्तताधि मनसो रेतः प्रथमं यदासीत् । इति नासदीये ।
(८१) शिलाया अपृथक् संलग्नरूपेण सर्वाङ्गं यत्र सुषमं तदर्धाकलम् ।
(८२) सदा यौवनसम्पन्नं पेशिग्रन्थिविवर्जितम् । दैवलक्षणसंयुक्तं रूपं सुषममुच्यते । शिल्पागमे ।
(८३) तथा अङ्गानि केवल रेखाचुम्बित अङ्गस्य तद्रेखा अवलम्बने तद् स्पर्शीतमिति ।
(८४) ज्योतिः प्रतीकभावनाङ्गुष्ठम् ।
(८५) तत्त्वज्ञानेन चित्तस्य विक्रियाऽभावावेशेन मनसः विक्रिया इति । तत्त्वबोधात् चित्तं स्थिरं भवति, भावप्रचोदने मनः तत्त्वबोधे प्रविलीयते, विसर्ग इव द्वयोः एका गतिः, अतो द्विधा एकत्वमिति परिणामः ।
(८६) यूपस्य ध्वजमानार्थं त्रिवृतकरणध्येयं मध्यनिर्धारणार्थं च निम्नोर्ध्वे लघुभागस्य मानसम्प्राप्त्यर्थमिदं मानमिति भावः ।
(८७) विंशो हि पुरुषो दश द्वादशाङ्गुल्यो दश यो ह्या इति शतपथे उक्तम् । दशेन्द्रियस्याधारः पुरुष इत्यर्थः । यथा पुरुषे दशाङ्गं तथा पिप्पलादीयपितृमेधेन स्तम्भाकृतियूपे दशाङ्गं कल्पयन्ति ऋषयः ।
(८८) अष्टारयूपदेवता प्रतिष्ठायां वास्तुकर्मणि प्रयोजनं भवति । षोडशार यूप विष्णुमहायज्ञे प्रयोजनं भवति । वृषस्तम्भो मृताहे पितृयज्ञे वृषोत्सर्गे प्रयोजनमिथुनस्तम्भस्य प्रचलनं नास्ति । (उत्कलभाषायाम्) प्रथम द्वितीय पथररे करिब वृषस्तम्भं वट विल्व उदुम्बररे करिब ।
(८९) रुद्र वृषरूपेण शुक्लयजुर्वेद उक्तं च धर्मवृषभमिति ``वृष वै धर्मः'' पैप्पलादसंहितायां १ खण्डे ``हिरण्यशृङ्गो वृषभो य समुद्रादुदाचरत्'' । ``स वृष हि इन्द्र सखा शतवालो'' इति अथर्ववेदे उक्तम् । तद्वृष पितृरूपेण पितृयूपस्यावासे उपासयन्ति, पितॄणां रुद्र, इति तस्य भावः ।
(९०) पञ्च प्रयाजाः दैवपुजने, आज्यभागः, प्रधानयागः, स्विष्टकृत्, प्राशित्रावदानम्, इडावदानम्, भागप्राशनम्, अन्वाहार्य-दक्षिणा अनुयाजत्रयम्, ब्युहनम्, सूक्तवाक्, शंयुवाक्, पत्नीसंयाज इति दशकर्मभेदे दशयज्ञाङ्गसंयोगशीर्षरूपेण विष्णुक्रमः तस्य दशाङ्गस्य भावः ।
(९१) प्रत्यक्षदर्शनं सम्भवति ।
(९२) ब्रह्मकील इति मध्यरेखा ।
(९३) अष्टकाश्राद्धे इन्द्रः विश्वेदेवाः प्रजापतिः, सप्तपुरुषार्थः पिप्पलादीयब्राह्मणाः ।
(९४) यथा मनुष्यगर्भान्तरे भ्रूणे कृमि -मज्जा-अस्थि-मांस-मेद-स्नायु-रक्त-केशात्मक-शिराछन्दे-चर्मादि दशास्तरणयुक्तं दशकोष्ठकं कल्पयन्ति शिशुवेदोपनिषदि आथर्वणीयाः ।
(९५) यथा शतपथे स्वर्णपुरुषरूपेण प्रजापतिरूपं कल्पयन्ति होतारः षष्ठाध्याये उक्तम् ।
(९६) महर्षिकात्यायनस्य शुल्वं भगवतः पिप्पलादस्य शिल्पसूत्रमिति ।
(९७) रेखाकृतिरिष्टकान्यास इति श्रोणिः । ज्योतिष्टोमे महावेधाः, श्रोणिरित्यादि ।
(९८) अत्र भयङ्करे अद्भुतभावो विलीयते । शिल्पे अद्भुतभावः ऊहनीयः ।
(९९) यद् प्रदर्शयन्ति तनुषि तद्भावः यदीक्षणेन हृदये सञ्चारयन्ति स रसः ।
(१००) तर्दः (खर्वत) अथर्व० ६.५०.१ उक्तः, अन्नहानिकरः पतङ्गविशेषः ।
(१०१) चतुर्दशसङ्ख्यक इत्यर्थः ।
(१०२) वाग् वै मन्त्रः शतपथब्राह्मणे उक्तम् । वाक्येन सह यद् प्रकटयन्ति ।
(१०३) यथा अथर्वसंहितायां लक्षणम्, ६.१४१.३- सहस्रपोषाय कृणुतं लक्ष्माश्विना । इति ।
(१०४) रूपं रूपं वयो वयः संरभ्यैनं परिष्वजे इत्युक्तं अथर्व १९.१.३.ततः विष्णुरूपं, यदस्ति वचनेऽप्युक्तम्, पैप्पलादसंहितायां स्त्रीणां प्रतिरूपमुपासका तदर्थं प्रतिरूपाणि ।
(१०५) देवतायतनमिति, तानि न कम्पन्ते, दैवतप्रतिमा हसन्ति रुदन्ति नृत्यन्ति स्फुटन्ति सीदन्ति, उन्मीलन्ति निमीलन्ति, शतपथब्राह्मणे ७.१०.उक्तम् । ऐतरेय ब्राह्मणे ४.५ रूपविद्या छन्दोमय दैवशिल्पम्, रूपेण उक्तम् । तथा शतपथब्राह्मणे ३.२ प्रतिरूपशिल्परूपेण उक्तम् । रूपं वै अर्च्चारूपं, प्रतिरूपाणि उपदेवतानि, अन्या मण्डनमिति ।
(१०६) यथा जैमिनीयब्राह्मणे (२.४) उक्तं दिश उ एवं विश्वदेवाः दिशो वै प्राणः इति वाक्यम् ।
(१०७) अहल्लिका भाट इत्यर्थः कुन्तापीय रमणीविशेषः ।
(१०८) तारादि देवताः । द्यौश्च म इदं पृथिवी च प्रचेतसौ शुक्रो बृहन् दक्षिणया पिपर्तु । अथर्व० ६.५३.१ सूर्य इत्यर्थः ।
(१०९) आशानामाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः । अथर्ववेदे १.३१.१।
(११०) विष्णुयाजकाः । पुरुषो ह नारायणोऽकामयत । यो वैष्णवो वामनः, शतपथे उक्तम् ।
(१११) यथा ज्योतिष्येवं रूपं दधातीति शतपथे उक्तम् ।
(११२) यथा पाकयज्ञे औपासने च प्रजापतिः, स्वीष्टकृत् अङ्गदेवता प्रातः सूर्यः प्रधानो भवति तथा विश्वदेवार्थं देवयज्ञः ।
(११३) षोडशकलं वै ब्रह्म शतपथब्राह्मणे उक्तम् । ``षोडशर्चेभ्यः स्वाहा'' इति षोडशकला उक्ताः । अथर्व १९.२३.१३।
(११४) यदङ्गं चरति धरायाम् ।
(११५) नाभौ जीवसत्ता राजते प्रसरति च ।
(११६) हृदये प्राणस्तिष्ठति ।
(११७) ब्रह्मरन्ध्रे तेजो विभाति, आविर्भवति ।
(११८) तत्तारकं द्विविधं, मूर्तितारकममूर्तितारकञ्चेति । यदिन्द्रियान्तं तन्मूर्तिमत्, यद् भ्रूयुगातीतं तदमूर्तिमत् इति अद्वयतारके उक्तम् ।
(११९) सर्वान्तरः स्वयञ्ज्योतिः सर्वाधिपतिरस्म्यहं इति स्वराट् योगतत्त्वोपनिषदि उक्तम् ।
(१२०) हिरण्मये परे कोषे विरजं ब्रह्म निष्कलमिति न्यायेन ।
(१२१) यथा नारदपरिव्राजकोपनिषदि उक्तम्-चक्षुषा रूपग्रहणं श्रोत्रे शब्दग्रहणमित्यादि । अथर्ववेदे-रूपं रूपं वयोवय इत्याद्युक्तम् ।
(१२२) तद् वै ब्रह्मणो रूपेऽमृतत्वं चैवामृतं च शतपथब्राह्मणे उक्तम् ।
(१२३) कौषीतकिब्राह्मणे कलाविद्येत्युक्तम् । पिप्पलादसहिन्तायां १ उक्तम् ।
(१२४) अथर्ववेदे (६.१३३.२) मेखलाबन्धनप्रसङ्गे उक्तम्-आहुतास्यभिहुत ऋषीणामस्यायुधं इति । परामित्रान्दुन्दुभिना हरिणस्याजिनेन च । सर्वे देवा अतित्रसन्ये सङ्ग्रामस्येशते । अथर्व० ५.२१.७
(१२५) आथर्वणीये आसुरीकल्पे बीजमन्त्रस्य प्रयोग उक्तः ।
(१२६) वाग् वै मन्त्र इति शतपथे उक्तम् । वाग् वै देवानां मन्त्र इति कौषीतकीये उक्तम् ।
(१२७) संहारण वं इति पूर्वपाठशब्दस्य शक्तिरित्यर्थः ।
(१२८) कम्पनमित्यर्थः ।
(१२९) प्रज्ञा इत्यर्थः ।
(१३०) दण्डायमान मूर्तिरित्यर्थः ।
(१३१) ऐतरेये यथोक्तवाहनरूपस्य रूपविशेषः ।
(१३२) शतपथे छान्दोग्ये चोक्तः एष क्रमः एषा देवयजनविद्या । आत्मानन्देन यजनोपायेन त्रयस्त्रिंशद् देवताः तार्क्ष्ये ब्राह्मणे उक्ताः ।
(१३३) वृद्धि जालं बृहतः शक्रस्य वाजिनीवत इति अथर्व ८.८.६।
(१३४) प्राणो वै महिष इति शतपथे उक्तम् ।
(१३५) मेष इव वै सं च वि चोर्वच्यसे इति । अथर्व ६.४९.२।
(१३६) सूर्यस्य वा एक रश्मिर्वृष्टिद इति शतपथे उक्तम् । स सविता रथेनेति ।
(१३७) वृषभोऽसि स्वर्ग ऋषीनार्षेयान् गच्छ इति । अथर्व ११.१.३५।
(१३८) हंसेति शब्दार्थः सर्वेषु देहेषु व्याप्तो वर्तते इति हंसोपनिषदि उक्तम् ।
(१३९) द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते इति । ऋ १.१६४.२०; अथर्व ९.९.२०।
(१४०) एना व्याघ्रं परिषस्वजानाः सिंहं हिन्वन्ति महते सौभगाय इति । अथर्व ४.८.७।
(१४१) वास्तुवेदे इदमुपदैवतं प्रतिरूपमित्यर्थः । प्रतिरूपं शतपथब्राह्मणे एकादशकाण्डे उक्तम् । तेषां चर्य्या जैमिनीयब्राह्मणे -प्रत्यङ्गं ह्येष सर्वाणि रूपाणि य आदित्यः स प्रतिरूपमित्युक्तः ।
(१४२) वैश्वानरो वै सर्वेऽग्नय इति शतपथे उक्तम् ।
(१४३) असौ वैश्वानरो योऽसौ तपति (पचति) इति शतपथे ।
(१४४) पुरुषे येनेदमन्नं पच्यते इति शतपथे उक्तम् ।
(१४५) सेन्द्रस्य पत्नीति गोभिलगृह्यसूत्रे उक्तम् ।
(१४६) जीवस्याऽवयवात्मिका ।
(१४७) अग्निर्वै मृत्युरिति कौषीतकि ब्राह्मणे, मृत्युर्वै तस्य शतपथे च ।
(१४८) ऐतरेये वारुणी रात्रिरिति उक्तम् ।
(१४९) इला वै अन्नमिति अथर्ववेदे उक्तम् ।
(१५०) तमश्छाया ।
(१५१) उषा देवी वाचा संविदाना वाग्देव्युषसा संविदाना इति अथर्ववेदे उक्तम् ।
(१५२) द्यौरित्यर्थः । भूतभविष्यदभीष्टवीर्या लक्ष्मीर्वलमिति अथर्ववेदे उक्तम् ।
(१५३) सेयं देवानां पत्नीति शतपथे उक्तम् ।
(१५४) तेजसा वै गायत्री प्रथममिति ताण्ड्यब्राह्मणे ।
(१५५) वाक् सावित्रीति गोपथब्राह्मणे उक्तम् ।
(१५६) सारस्वतरूपं ऐतरेये उक्तम् ।
(१५७) सविता राष्ट्रं राष्ट्रपतिरिति शतपथे च ११.४.३.१४।
(१५८) अम्बा अथर्ववेदे उक्ता ।
(१५९) भेषजरूपा अम्बालिकेति वाजसनेये उक्ता ।
(१६०) ``देवाः पितरः पितरो देवा । यो अस्मि सो अस्मि,'' अथर्व ६.१२३.३ काण्डे । स विश्वेदेवा तथा पितर उपदेवा वसुपितर रुद्रपितामह आदित्य प्रपितामह इति पितृयूप प्रोत्थनमन्त्राणि २४ सूक्तोक्तं च ।
(१६१) मुञ्चतांहसोअंहस इति वदन्ति । अथर्व । ३१.२.ये दक्षिणतो जुहूति जातवेदो दक्षिणाया दिशोऽभिदासन्त्यस्मान् इति त्यागः । अथर्व ४.४०.२.इन्द्रासोमा तपतं रक्ष इति वदन्ति । अथर्व ८.४.१.विषेण भङ्गुरावतः प्रति स्म रक्षसो जहि इति भोगः अथर्व ८.३.२३ ।
(१६२) स्वाहा वै सत्यसम्भूता ब्रह्मणो दुहितेति । शतपथे उक्तम् ।
(१६३) एतेन विष्णोः श्रीदेवी भूदेवीति वृत्तिद्वयं सूचितम् ।
(१६४) सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने । सरस्वतीं सुकृतो हवन्ते सरस्वती दाशुषे वार्यं दात् ॥ अथर्व १८.४.४५।
(१६५) लौकिक सिद्ध्यर्थे या विद्या सा भूतविद्या ।
(१६६) मन इव हि प्रजापतिः तैत्तिरीयब्राह्मणे उक्तम् । (२.२.१.२)
(१६७) प्राणो वै हरिः स हि हरतीति । कौषीतकिब्राह्मणं (१७.१) ।
(१६८) यद्द्धामं चक्रुर्निखनन्तो अग्रे कार्षीवणा अन्नविदो न विद्यया । (अथर्व ६.११६.१) ।
(१६९) गोभिलगृह्यसूत्रे उक्तम् ।
(१७०) शिमि-कर्म, तज्जाताः ।
(१७१) स्तोतृयोवच शृणु वद्ध च मे इति अथर्वसंहितायाम् ।
(१७२) कुन्तापसूक्तादयः खिलपाठाः । यथा शुनः शेषस्य शतगाथा इति ।
(१७३) योषित्कामा गन्धर्वा गन्धेन वै रूपेण चरन्तीति शतपथे उक्तम् ।
Footnotes are assembled together and marked
with number in parenthesis in the text.
Proofread and rearranged by K.S. Sheshadri