श्रीहरिसहस्रनामस्तोत्रम्

श्रीहरिसहस्रनामस्तोत्रम्

(सर्वमङ्गलस्तोत्रम्) ॐ श्रीगणेशाय नमः । स्वामिनारायणं कृष्णं भक्तिधर्मात्मजं भुवि । प्रादुर्भूतमहं वन्दे पातुं सद्धर्ममासुरात् ॥ १॥ कलौ घोरेऽपि यद्भक्तोऽष्टाङ्गयोगश्रमं विना । सद्याः समाधौ तद्धाम गोलोकादि समीक्षते ॥ २॥ यन्नामोच्चारणादेव मलौघाः कलिसम्भवाः । सद्यः एव विनश्यन्ति तमीडे धर्मनन्दनम् ॥ ३॥ नाम्नां सहस्रं तस्याहं ब्रुवे सत्सङ्गिजीवनात् । उद्धृतं यस्य पाठेन सर्वं तत्पठितं भवेत् ॥ ४॥ ॐ अस्य श्रीसर्वमङ्गलाख्यस्य श्रीहरिनामसहस्रस्तोत्रस्य शतानद ऋषिः । अनुष्टुप्छन्दः । धर्मनन्दनः श्रीहरिर्देवता । धर्मप्रिय इति बीजम् । नैष्ठिकेन्द्र इति शक्तिः । भक्तिपोषक इति कीलकम् । मम सकलमनोरथसिद्ध्यर्थे जपे विनियोगः । अथ करन्यासः ॐ श्रीहरये नमोऽङ्गुष्ठाभ्यां नमः । ॐ कृष्णाय नमस्तर्जनीभ्यां नमः । ॐ हरिकृष्णाय नमो मध्यमाभ्यां नमः । ॐ नीलकण्ठाय नमो अनामिकाभ्यां नमः । ॐ नारायणाय नमः कनिष्ठिकाभ्यां नमः । ॐ स्वामिनारायणाय नमः करतलकरपृष्ठाभ्यां नमः । अथ षडङ्गन्यासः । ॐ श्रीहरये नमो हृदयाय नमः । ॐ कृष्णाय नमः शिरसे स्वाहा । ॐ हरिकृष्णाय नमः शिखायै वषट् । ॐ नीलकण्ठाय नमः कवचाय हुम् । ॐ नारायणाय नमो नैत्राभ्यां वौषट् । ॐ स्वामिनारायणाय नमोऽस्त्राय फट् । अथ ध्यानम् । श्रीमच्छारदपूर्णचन्द्रविलसत्स्मेराननं श्रीहरिं तुङ्गे पीठवरे स्थितं परिवृतं सद्भक्तवृन्दैर्यथा । ताराभिर्विधुमर्च्यमानमुरुधा तैश्चन्दनैः कौसुमै- र्हारैः शेखरपङ्क्तिभिश्च हृदये शुक्लाम्बरं चिन्तये ॥ ५॥ अथ सहस्रनामस्तोत्रम् । ॐ स्वामि ब्रह्म परब्रह्म श्रीकृष्णाः पुरुषोत्तमः । ब्रह्मधामा वासुदेव ईशेशो दिव्यविग्रहः ॥ ६॥ सुव्रतात्मा गजन्नाथ इष्टदः करुणानिधिः । प्रतापसिंहशरणं शतानन्दवरप्रदः ॥ ७॥ नारायणो नरसखो बदरीशस्तपः प्रियः । स्वधर्मस्थो मुनिध्येयो महर्षिगणपूजितः ॥ ८॥ अधर्मवैरी दुर्वासः सप्तधर्माद्यनुग्रहः । धर्मावतारो धर्मात्मा भक्तिधर्मानुशासनः ॥ ९॥ रामानन्दो जनानन्द औद्धवाध्वप्रवर्तकः । विष्णुयागप्रियो भक्तिधर्माराधित ईश्वरः ॥ १०॥ वृन्दावनेन्दुर्वरदोमुनिसङ्घहितावहः । द्रोण्यर्तिहर्ता विघ्नेशो धर्मसङ्कष्टनाशनः ॥ ११॥ भक्तिधर्मात्मजो भूमा भक्तिधर्मतपःफलम् । सावर्णिगोत्रतिलकोमध्वाद्यनवमीजनुः ॥ १२॥ जनमङ्गलदिव्याङ्गो नराकृतिरलौकिकः । भूतलानन्दजनको द्विजेन्द्रकुलभूषणम् ॥ १३॥ रामप्रतापावरजो हनूमदभिरक्षितः । हरिकृष्णो हरिः कृष्णो नीलकण्ठो वृषात्मजः ॥ १४॥ स्त्रीवृन्दलालितो भक्तिनन्दनः प्रियदर्शनः । हरिप्रसादहर्षाब्धिधर्मप्रत्नीस्तनन्धयः ॥ १५॥ क्रीडद्बालव्रजानन्दः कालीदत्तमदापनुत् । इच्छारामाग्रजोऽयोद्यावासो बाल्यमनोहरः ॥ १६॥ सरयूनियतस्नानः सीतारामेक्षणोत्सुकः । प्रदक्षिणीकृतायोध्यः करात्तजपमालिकः ॥ १७॥ वर्णिव्रतधरो दान्तो गुरुभक्तः उदारधीः । अधीताखिलसच्छास्त्रः सामगो निरहङ्कृतिः ॥ १८॥ प्रसूपदिष्टसाङ्गात्मभक्तिरज्ञानहारकः । पितृप्रत्तात्मविज्ञानः पितृदिव्यगतिप्रदः ॥ १९॥ निराशस्तीव्रवैराग्यः सन्त्यक्तगृहबान्धवः । वर्णीवेषो महासत्त्वः स्वजनाज्ञातनिर्गमः ॥ २०॥ असंलम्बितसच्छास्त्रसारोद्धाराल्पपुस्तकः । गणंशस्मरणस्तीर्णसरयूदैत्यमोहनः ॥ २१॥ वनवासरुचिः श्राद्धो विप्रेन्द्रो नैष्ठिकाग्रणीः । हिमाद्रिसानुचरणो निर्भयो भीतभैरवः ॥ २२॥ निःशङ्कस्थो हनुमद्दत्तस्वादुफलाशनः । पुलहाश्रमवासोऽर्कप्रीणनोऽर्कसमीक्षणः ॥ २३॥ ऊर्ध्वदोरेकपादस्थो विस्मापिततपोधनः । कृशो महातपाः शुद्धो भक्तिधर्मनिषेवितः ॥ २४॥ गोपालयोगिसम्प्राप्तसाङ्गयोगोऽतिधैर्यवान् । योगक्रियापटुः कर्ता कृतज्ञो भूरितीर्थकृत् ॥ २५॥ ब्रह्मात्मसंस्थितिः शान्तः सिद्धवल्लभपूजितः । गोपालरक्षकः सिद्धदर्पहा मान्त्रिकार्चितः ॥ २६॥ तैलङ्गविप्रदोषघ्नः कृत्याभीषणदर्शनः । पिवैकमानहाकालभैरवत्रासदेक्षणः ॥ २७॥ जगन्नाथपुरावास आसुरावेशहृद्विभुः । धार्मिकोऽसुरगुर्वोघोच्छेदहेतुरविक्रियः ॥ २८॥ सत्रधर्मार्चितः कान्तः स्वप्रतापाक्षितासुरः । नानातीर्थकृतावासः प्रावृडभ्रावकाशकृत् ॥ २९॥ ग्रीष्मसाधितपञ्चाग्निः शिशिराम्बुस्थितिः शुचिः । निर्मानो निर्ममोऽस्नेहो निष्कामो निर्जितेन्दिर्यः ॥ ३०॥ जितनिद्रो जितक्रोधो निर्मदो निःस्पृहोऽचलः । कृच्छ्रव्रती सत्यवादी क्षमी धर्मनिसन्ततः ॥ ३१॥ जितत्र्यवस्यो मेधावी दम्भहीनस्तपोधनः । उपवीतीवल्कवासास्तरुमूलनिकेतनः ॥ ३२॥ अहिंसवृत्तिस्तेजस्वी निर्निमेषविलोचनः । धनुर्मुक्तेषुगमनो ब्रह्मदर्शी महामतिः ॥ ३३॥ अयाचिताहृतारो निर्द्वन्द्वो निष्परिग्रहः । वाय्वाहारो जलाहारो मिताहारोऽक्षताङ्गः ॥ ३४॥ ज्ञानी ध्यानी जितस्वादः प्रत्याहारहठोऽस्मयः । पावनस्तैर्थिकगुरुवर्णिराजो दयाकरः ॥ ३५॥ जटी कौपीनवासनः शालग्रामतृषाहरः । शिवाप्तसक्तुरक्षोभ्यो निःसङ्गोऽध्यावित्तमः ॥ ३६॥ सदासमाधिरानन्दी निर्दोषो दोषनाशनः । कान्तारगतिरेकाकीसर्वसाधुगुणालयः ॥ ३७॥ तैर्थिकस्तीर्थ धर्मज्ञसतीर्थस्थाधर्मनाशनः । अनादृतवपुः सौख्यः प्राणायामपरो व्रती ॥ ३८॥ ऋषिवृत्तिर्मुनिर्मौनीनिर्विकल्पोऽल्पभाषणः । वस्त्रपूतोदकपिबो यावदर्थागचेष्टितः ॥ ३९॥ ब्रह्मज्ञस्वैरवर्तित्वबोधिग्रन्थविवर्जनः । निरूपानदपृष्टाध्वाघोरारण्यचरोऽभ्रमः ॥ ४०॥ स्त्र्यङ्गगन्धासहोऽसक्तो जडाङ्गिरसवर्तनः । ऊर्ध्वरेता ब्रह्मचारी योगी योगज्ञसन्नतः ॥ ४१॥ योगीन्द्र दुश्चराचारः सौराष्ट्रजनपावनः । लोजलोकमहानन्दः साधुः साधुप्रपूजितः ॥ ४२॥ अनुच्चारितदुर्वाक्यो मधुराक्षरभाषणः । त्यागिमान्यो महायोगी सदाश्चर्यक्रियः स्थिरः ॥ ४३॥ ध्याता ध्यातृमनोदर्शीमनस्वी मानदो मृदुः । प्रश्नोत्तरपटुर्वेदतत्त्वज्ञो बुद्धिमान्बुधः ॥ ४४॥ उद्धवेक्षोत्सुकोऽनन्तःपत्रीलेखपटुः प्रभुः । पत्र्युत्तरज्ञातनिजैश्वर्य साध्वतिमानितः ॥ ४५॥ रामानन्दस्वामिवीक्षानन्दः साधुप्रियः प्रयः । बोधन्याप्तमहादीक्षो गुरुसेवापरो यमी ॥ ४६॥ भक्तो नारायणमुनिः सहजानन्द आत्मदृक् । गुरुमान्यो गुरुप्रेष्ठो गुर्वन्तिककृताञ्जलिः ॥ ४७॥ गुर्वाज्ञाकृततत्पार्श्वोपवेशगमनक्रियः । नारायणानन्यमतिरेकान्तिकमुनिप्रियः ॥ ४८॥ वर्णीन्द्रो नैष्ठिकप्रेष्ठ एकान्तिकसदर्चकः । यशस्वी भूरितेजस्वी वैदिको ब्रह्मवर्चसी ॥ ४९॥ सन्न्यायवर्ती निर्द्वेषो भक्तिहर्षविवर्धनः । गृहीतहितवाक् सर्वभूततत्त्वविदूहवान् ॥ ५०॥ सत्यप्रियः सत्यपरो निष्कामनरवल्लभः । अद्रोहकः सदोद्योगी षडूर्मिविजयक्षमः ॥ ५१॥ धर्मकार्यक्षिप्रकारी दीर्धदर्शी विचारवान् । देशकालाद्यविहतस्वस्वरूपाचलस्थितिः ॥ ५२॥ सत्तमो दमधृद्दक्षो विनीतः स्मृतिमान् ऋजुः । सच्छास्त्रव्यसनोऽव्यग्रीऽभिमानिपुरुषारुचिः ॥ ५३॥ अतिसर्वमतिर्वाग्मी सत्सङ्गिजनवल्लभः । अप्रमत्तोऽतिप्रगल्भोऽनलसोऽन्यगुणग्रहः ॥ ५४॥ सदाचारप्रियः शुष्कज्ञानिवादतमोरविः । कृष्णार्पितान्नगन्धादिदेवतापितृयाजकः ॥ ५५॥ सद्यः प्रश्नसमाधानविस्मापितसभाजनः । अजातशत्रुः समद्दक् धर्मनिष्ठमहादरः ॥ ५६॥ अनसूयोऽचमप्रज्ञः कामशास्त्रविवर्जनः । दीनाल्पविक्ल्वत्वेक्षाजाततीप्रव्यथाकुलः ॥ ५७॥ स्वधर्मादिगुणोपेतहर्य भक्तजनारुचिः । सन्मण्डलावासरुचि सन्मण्डलपरायणम् ॥ ५८॥ सच्छास्त्रनिन्दितत्यागी प्रशास्तार्थनिषेवकः । सम्पदापत्समो मोक्षधिषणः प्रतिभानवान् ॥ ५९॥ सुचिरश्रुतसच्छास्त्रो नापमानितसज्जनः । वाक्यार्थक्षिप्रविच्छत्रुमित्रदत्तसमोत्तरः ॥ ६०॥ अग्राह्यवस्त्वनाकाङ्क्षी नष्टवस्तुसुचोज्झितः । ययोचितसमाराम्भः सफलारब्धसत्क्रियः ॥ ६१॥ सच्छास्त्रानुगतप्रज्ञो दैवपित्र्यस्वकर्मकृत् । अपैशुन्यकृदद्यूतः पापिसंसर्ग्यनादरः ॥ ६२॥ ब्रह्मनिन्दाश्रवःखेदः स्त्रीप्रसङ्गभृशारुचिः । अकार्याचरणहीतः समयोचितभाषणः ॥ ६३॥ निर्लज्जानतसद्विप्रगुरुदेवपदाम्बुजः । मुक्तानन्दानुगस्तुष्टो गुणाब्दि सन्मनोहरः ॥ ६४॥ गुरुदत्तजनस्वाम्यः सुरम्यविषयारुचिः । गुरुयाचितभक्तान्तदुःखस्वप्राप्तिसद्वरः ॥ ६५॥ अतिमानुषसत्कर्मा सुखसेव्योऽखिलेष्टदः । प्रपन्नाभयदः श्रीमानुत्तमोत्तम आत्मवान् ॥ ६६॥ तापत्रितयहृद्वार्तः सदसद्व्यक्तिवित्तमः । सत्पतिः सर्वहितकृज्ज्ञानदो भवमोचकः ॥ ६७॥ भूरिप्रतापो निर्मोहो महाराजो नृपार्चितः । अधृष्योऽविकृतोऽजयः शरण्यो भक्तवत्सलः ॥ ६८॥ अतर्क्योऽनुपमोऽपारोऽप्रमादोऽव्यय उज्ज्वलः । धर्मशंसी धर्महेतुर्वेदगूढार्थबोधकः ॥ ६९॥ कालमायाभयत्राता भक्तवर्म सुमङ्गलः । उपासनारीतिवक्ता ब्रह्मधामव्रदर्शकः ॥ ७०॥ ब्रह्मभूतपरब्रह्मोपासनास्थापकोऽक्षरः । कन्दर्पदर्पदलनो नैष्ठिकप्रतपोषकः ॥ ७१॥ अदीनदिव्यचरितो मनोनिग्रह्युक्तिदः । वरणीयोऽन्यदुःखज्ञः संसारार्णवनाविकः ॥ ७२॥ स्वामिनारायणो वाक्यसुधातर्पितसत्सभः । विधवास्पर्शदोषातिप्रख्यातोपशमस्थितिः ॥ ७३॥ प्रतिबिम्बांशवादादिमततूलदवानलः । सभक्तिधर्मधर्माढ्यभक्तियोगप्रवर्तकः ॥ ७४॥ प्रोक्तासद्देशकालादिदोषो निष्कपटप्रियः । सद्देशकालादिगुणज्ञापकः सत्प्रशंसकः ॥ ७५॥ स्वधर्मशिथिलाप्रीतिर्भक्तकल्पमहीरुहः । धर्महीनज्ञानभक्तिदोषभूयस्त्वबोधकः ॥ ७६॥ स्वधर्महीनपुरुषत्यागी सत्यप्रतिश्रुतः । बह्वन्नसत्रो विष्ण्वादिपञ्चायतनमाननः ॥ ७७॥ विप्रापराधसहनः सत्यसङ्कल्प आशुदः । सान्वयाधर्ममूलघ्नो यज्ञकृद्ब्राह्मणप्रियः ॥ ७८॥ विष्णुस्वरूपाविष्कारो निर्मायः सर्वदर्शनः । जनसाहस्रयुगपत्समाधिस्थितिकारकः ॥ ७९॥ स्वेक्षायातनरस्त्र्योघान्योऽन्यसम्मर्दसद्यशाः । विप्रभोजनसंहृष्टो विप्रात्मा विप्रपूजितः ॥ ८०॥ वेदैकवेद्यो दिव्याङ्गो मेघजिद्दर्पभञ्जनः । सर्वयोगकलोद्भासी स्वतन्त्रः सर्वविद्वशी ॥ ८१॥ कृष्णात्माऽऽकृष्टहृदयो देशिको दिव्यदर्शनः । गोलोकरमणो ब्रह्मक्रीडो वैकुण्ठनायकः ॥ ८२॥ अनेकमूर्तिरण्डस्थो बहिःस्थो योगशिक्षकः । पुरःसरो मनोवेगः स्वनेता दर्शितामरः ॥ ८३॥ विष्णुयागसमारम्भः षण्मासाशितवाडवः । नानदेशगतिर्नानायज्ञकृद्भूरिदक्षिणः ॥ ८४॥ सद्यःसमाधिः सर्वात्मा निरीशमतखण्डनः । मकारपञ्चकोच्छेता धर्मसर्गप्रपोषकः ॥ ८५॥ पापिकृतान्तः परमः पुण्यकीर्तिः पृथुश्रुवाः । कृशोध्धवाध्वसम्पोष्टा साध्वीधर्मप्रवर्तकः ॥ ८६॥ दैत्यांशगुरुखद्योतभास्करो धर्मधारकः । लोभादिदोषगदिता तामसव्रतवर्जनः ॥ ८७॥ सुव्रतः सिद्धिदः सिद्धः सिद्धेशः सिद्धिपोऽच्युतः । कौलाध्वशापदः प्रोक्तासुरलक्ष्माऽसुरातिगः ॥ ८८॥ भुजङ्गनगरानन्दो निजभक्तस्तुतो महान् । अहिंसास्थापको भूरिनिजैश्वर्यप्रदर्शकः ॥ ८९॥ दूरदेशस्थात्मभक्त दत्त साक्षात्स्वदर्शनः । सच्छास्त्रोदितसत्कीर्तिरात्यन्तिकगतिप्रदः ॥ ९०॥ परापकारसाहस्रविस्मृतिः कोमलान्तरः । पाषण्डरक्षितात्मीयो दैत्यमोहनचेष्टितः ॥ ९१॥ अखण्डितार्षमर्यादः परगुह्याप्रकाशकः । पात्रार्पितबहुद्रव्यो यथायुक्तोपदेशकः ॥ ९२॥ अविग्रहप्रियो वाणीदण्डपारुष्यवर्जितः । ब्रह्मण्यदेवो देवेज्यो दशरूपप्रदर्शकः ॥ ९३॥ अकुण्ठितवचा देशाचारज्ञोऽनादृतोद्धतः । शिक्षार्थक्षणरुङ् नित्यमैत्रः सच्छास्त्रसङ्ग्रही ॥ ९४॥ धर्मिपक्षः साधुसेवी पुण्यश्रवणकीर्तनः । प्रणतार्तिहरः पूज्यो विषयासक्तनिन्दकः ॥ ९५॥ भक्तदेहान्तसमयदत्तदिव्यस्वदर्शनः । यमदूतावितस्वीयो नरकार्तिनिवारकः ॥ ९६॥ सन्मार्गवर्तिताशेषस्वाश्रितः शीघ्रसिद्धिदः । अनायरोगिवृद्धार्भभिक्षुपोषणकारकः ॥ ९७॥ गूढाशयो गूढमन्त्रः सर्वजीवप्रतारकः । भक्तासद्वासनोच्छेत्ताऽसदाग्रहविवर्जनः ॥ ९८॥ पोष्यवर्गानुविहिततत्समानमिताशनः । आपत्कालात्यक्तनिजः पञ्चकालर्चिताच्युतः ॥ ९९॥ योगेश्वरो मुनिपतिर्नित्यमुक्तो महामुनिः । बौद्धादिनास्तिकमतखण्डनः पण्डितार्चितः ॥ १००॥ अहिंसयज्ञप्रस्तोता वैष्णवक्रतुकारकः । मद्यमांससुरागन्धाघ्राणशुद्धिविधापकः ॥ १०१॥ मत्तोन्मत्तखलावादी पुरस्कृतगुणाधिकः । नानाभक्तजनानन्दः सदसद्व्यक्तिदर्शकः ॥ १०२॥ भृगुनान्दीशशापार्तजनरक्षक उत्तमः । वेदविच्छास्त्रविद्वादिदुर्जेयो हृतसंशयः ॥ १०३॥ खट्वाङ्गात्मा हृदम्भोजध्येयो ध्यातृमनोहरः । ज्योतिः संस्थोऽतिरम्याङ्गः सुरेखारुणपत्तलः ॥ १०४॥ चार्वाङ्गुलिर्नखेन्द्वालिर्प्रभापहृतहृत्तमाः । पद्मकोशातिमृदुलचरणस्तुङ्गगुल्फकः ॥ १०५॥ ह्रस्वजङ्घो वृत्तजानुः समोरुः सत्सितांशुकः । गम्भीरनाभिराजानुभुजस्ततभुजान्तरः ॥ १०६॥ कण्ठलम्बितहारालिः कम्बुकण्ठोऽरुणाधरः । प्रफुल्लपद्मवदनः कुन्ददन्तो मितस्मितः ॥ १०७॥ तिलपुष्पाभनासान्तश्यामबिन्दुः समश्रवाः । वामश्रवोऽन्तरश्यामबिन्दुः पद्मदलेक्षणः ॥ १०८॥ विशालभालतिलकः सूक्ष्मवक्रशिरोरुहः । शिरः पटलसत्पुष्पापीडराजिः स्वभक्तदृक् ॥ १०९॥ अवतारी भयत्राताऽभयराजवरप्रदः । कृतदुर्गपुरावासः क्रोधयन्ताऽद्भुतक्रियः ॥ ११०॥ नानादेशप्रेषितस्वभक्तनाशितदुष्क्रियः । असुरक्लिष्टसत्सङ्घसान्त्वनः साधुवल्लभः ॥ १११॥ सद्रोहिगुरुभूपालशिक्षकक्ष्मेशराज्यदः । गवेन्द्रार्चितपादाब्जो गवेन्द्रवरदोऽनधः ॥ ११२॥ भक्तत्रातोद्धवस्वामिसम्प्रदायप्रकाशकः । विप्रप्रशंसनस्तीर्थविधिबोधक आर्तिहृत् ॥ ११३॥ विप्रसन्तर्पणो नानाप्रतवक्ता महायशा । कौलोच्छिद्विजयो वर्ण्यविष्णुयागमहोत्सवः ॥ ११४॥ भक्तिगम्यो भक्तवशः कृतदिग्विजयोऽक्षयः । भक्तिधर्मकृतानन्दः सर्वमङ्गलदर्शनः ॥ ११५॥ उत्तमात्मा जयोप्रेष्ठो ललितेष्टवरप्रदः । मुकुन्दसेवासन्तुष्टो जयानीतपयःपिबः ॥ ११६॥ नारायणधृतामन्त्रो वासुदेवादत्तचन्दनः । गोपलमञ्जितामन्त्रोऽखण्डाप्तार्चनसाधनः ॥ ११७॥ उमानाथाप्तपुष्पादिर्जयप्रक्षालिताम्बरः । ललितासंस्कृतान्नादिः पञ्चाल्यालिप्तपाकभूः ॥ ११८॥ अवरामार्जितवासः शिवोपानितपादुकः । दयगोविन्दाप्तवन्यो मयरामाविताम्बरः ॥ ११९॥ प्रयागोक्तपुराणाधिर्निशानित्यकथादरः । मुक्तब्रह्मस्तुतयशाः प्रेमगीतगुणश्रुतिः ॥ १२०॥ महानुभावमुदितः शुकरक्षितपुस्तकः । आनन्दकल्पितावासः विजयोत्सवतोषितः ॥ १२१॥ यथार्हकारितात्मीयसेवनो भक्तकामधुक् । निबद्धोत्सवपर्यायो विजयोत्सवतोषितः ॥ १२२॥ अन्नकूटकृतानुज्ञो महासम्भारहारकः । पत्रदूताहूतभक्तः पाकशालावलोकनः ॥ १२३॥ प्रत्युद्गतमुनिव्रातो मानिताखिलवैष्णवः । सत्प्रीणनः क्षणस्वापो दीपालीमङ्गलाप्लवः ॥ १२४॥ ब्रह्मक्षणाशुविहितनैत्यकोऽखिलधर्मवित् । चारुचक्रकपीठस्थ उत्तमक्ष्मेशपूजितः ॥ १२५॥ भक्तस्वेक्षाप्रदानोत्को मयरामेक्षणस्मितः । भक्तसम्प्रीणनधृतनूतनांशुकभूषणः ॥ १२६॥ अनर्घ्यपीतकौशेयपरिधानविचक्षणः । मुकुटाकृतिसम्बद्धशोणशीर्षपटद्युतिः ॥ १२७॥ सस्वर्णबिन्दुकौसुम्भसत्कञ्चुकधृतिप्रभः । स्कन्धोल्लसद्धैमपटः कटिबद्धारुणांशुकः ॥ १२८॥ हैमाङ्गदलसद्बाहुः कर्णशोभितकुण्डलः । कण्ठलम्बितसस्वर्णमुक्ताहारालिशोभनः ॥ १२९॥ चञ्चत्सुवर्णकटकश‍ृङ्खलाभकरद्वयः । सद्रत्नखचितस्वर्णमुद्रिकाशोभिताङ्गुलिः ॥ १३०॥ सत्केसरोर्ध्वतिलकः सरक्ताक्षतचन्द्रकः । अवतंसोल्लसत्कर्णश्चलत्कौसुमशेखरः ॥ १३१॥ सुगन्धिपुष्पहारालिदर्शनीयो मनोहरः । गजेन्द्रगमनोऽर्काशुचञ्चद्वासाः स्मिताननः ॥ १३२॥ उच्चरम्यासनासिनो मुनिमण्डलमध्यगः । सोमवर्मोद्धृतच्छत्रो मुकुन्दधृतनक्तकः ॥ १३३॥ अलयभृगुजिद्रत्नदण्डचामरवीजितः । सूरनाञ्जात्तव्यजनो जपमाललसत्करः ॥ १३४॥ स्वेक्षणानन्दितस्वीयः श्रुतकीर्तिर्निजार्चितः । विप्रसात्कृतवित्तौघो दानशूरो निरेषणः ॥ १३५॥ उत्मत्तगङ्गाप्लवनो दीपावलिमहोत्सवः । नित्यकर्मादरो नूत्नवसनो दीनवत्सलः ॥ १३६। सदर्चितोऽन्नकूटेक्षो रमारञ्जनभोजनः । सदाशनो बद्धकटिः स्वभक्तपरिवेषणः ॥ १३७॥ भक्तभुक्तीक्षणानन्दः सदानन्दो महाशयः । सत्सङ्गदीपको भक्तशिक्षादक्ष उरुक्रमः ॥ १३८॥ धर्मरक्षाकरः स्पर्शाविवेको धर्मसिद्धिदः । निष्कामसिद्धिदस्त्यागिसेव्योऽद्वैतो जपप्रियः ॥ १३९॥ एकादशीव्रतविधिप्रवक्तैकादशीश्वरः । प्रबोधनीव्रताचारो महादानप्रतोषितः ॥ १४०॥ मुनिप्रतोषो विदुरनीतिशास्त्रप्रशंसनः । अक्षरस्थो मुनिव्रातस्तुतो योषिद्गणेडितः ॥ १४१॥ भक्त्येकतोष्यो भक्त्यात्मा भक्तग्राममहोत्सवः । वृत्तालयपुरावासो भक्तसङ्घसुखप्रदः ॥ १४२॥ प्राप्तस्वबन्धुसन्मानो भूरितर्पितपार्षदः । गङ्गार्पितफलाहारो भक्तसङ्घसमर्चितः ॥ १४३॥ नानादेशीयभक्तौघार्पितवित्तौघदानकृत् । भक्तभ्रातृद्वयावासपर्यायकृतभोजनः ॥ १४४॥ दोलोत्सवविधानज्ञो नरनारायणार्चकः । रङ्गक्रीडनकृन्मुक्तकामचारनिषेधकः ॥ १४५॥ स्त्रीपुंप्रसङ्गभूर्यापद्दर्शको धर्मदेशिकः । साष्टाङ्गब्रह्मचर्यैकस्थापको धर्मवित्तमः ॥ १४६॥ गृहीतरनरस्त्र्यङ्गस्पर्शदोषप्रकाशकः । स्त्रीपुंसान्योन्यसंस्पर्शव्यवस्थाकृद्विदां वरः ॥ १४७॥ आहारशुद्धिकृत् सद्यःपापनिष्कृतिकारकः । वेदान्ततत्त्वप्रथनः साङ्ख्ययोगार्थदर्शकः ॥ १४८॥ अदाम्भिकप्रियोऽतृष्णो गुणग्राहीगुणप्रियः । पुराणश्रवणौत्सुक्यः पुराणविधिबोधकः ॥ १४९॥ श्रीमद्भागवतश्रोता श्रीमद्भागवतार्चकः । श्रीमद्भागवताभिज्ञः श्रीमद्भागवतार्पकः ॥ १५०॥ श्रीमद्भागवतोत्कृष्टपुरश्चरणकारकः । जन्माष्टम्युत्सवापूर्णजीववर्ममनोरथः ॥ १५१॥ कार्यायननरानन्दो वास्तुवेश्मनिकेतनः । सूरसम्भावनः शाकसंस्कारानन्दितस्वकः ॥ १५२॥ नागटङ्कजनप्रीतः शुकप्रश्नकृतोत्तरः । चान्द्रायणव्रताराध्यः पञ्चालजनपावनः ॥ १५३॥ शिवरात्रिव्रताचारः कृतदोलामहोत्सवः । द्वैताद्वैतार्थनिगमहार्दबोधी महोदयः ॥ १५४॥ दिव्याङ्गभक्तिधर्मादिरूपप्रेक्षयिताऽमृतः । हेमन्तार्चास्तुतिप्रीतो जीर्णदुर्गजनार्चितः ॥ १५५॥ कृततीर्थविधिर्विप्रभोजनो भूरिदोऽभव । दुर्गभक्तातिसुखदः कृतकृत्यो जगत्पतिः ॥ १५६॥ रहःस्थो गूढसङ्कल्पो हरिमन्दिरकारकः । महारम्भः सदास्वस्थ: कलिदोषहरोद्यमः ॥ १५७॥ कृतश्रीनगरवासो महासम्भारसाधकः । श्रीपुरेशार्हितः सभ्यः पूर्तकर्मप्रशंसकः ॥ १५८॥ नरनारायणाद्यर्चा स्थापकः पौरमानितः । क्षेत्रमाहात्म्यगदिता महोत्सवविधापकः ॥ १५९॥ एकाहभोजिताशेषपौरविप्रो बहुप्रदः । पूजोत्सवव्यवस्थाकृद्गाङ्गेयप्रार्थितो मनुः ॥ १६०॥ मूलीपुःस्थापितश्रीमद्राधाकृष्णोऽक्षरप्रदः । निबद्धोत्सवमर्यादो भक्ताभीष्टफलप्रदः ॥ १६१॥ भुजङ्गपुरभक्तातिप्रीतः पौरप्रपूजितः । नरनारायणप्रतिष्ठापको विप्रपूजकः ॥ १६२॥ वृत्तालयाक्षिपद्मार्कः शिल्पिसन्मानकारकः । लक्ष्मीनारायणाद्यर्चास्थापकोऽर्चितभूसुरः ॥ १६३॥ धवलमुरलीमनोहरसंस्थापकोऽर्थदः । संस्थापितजयतल्प रेवतीबलदेवकः ॥ १६४॥ मुक्तादिष्टोत्पथच्छेदश्चित्रार्चार्चापवर्तकः । द्वारिकाप्रेषितसुहृत्तीर्थवास्यघदर्शकः ॥ १६५॥ सत्त्राता द्वारिकेशात्मा भक्तापद्दर्शनाक्षमः । सच्चिदानन्दवरदो लक्ष्मीनारायणात्मकः ॥ १६६॥ वर्धितक्षेत्रमाहात्म्यस्तप्तमुद्राङ्कितस्वकः । मुक्तात्मा त्रियुगो वादिजेताऽनुयुगसम्भवः ॥ १६७॥ असुराविदितेशत्वः प्रकटेश्वरलक्षणः । अन्तः संशयहृद्वार्तो दुराचारविमोचनः ॥ १६८॥ अशस्त्रो धिषणाशस्त्रो आसुरावेशकर्षणः । लडुकादीष्टगणपः सिन्दूरादिष्टमारुतिः ॥ १६९॥ वृत्तालयप्रियो धर्मजन्माहार्चितसद्विजः । महासभासनो दत्तविध्युपात्तसुतद्वयः ॥ १७०॥ पुत्राविन्यस्तगुरुतः पुत्रसात्कृतसंश्रितः । सदोविभक्तदेशादिः सम आचार्यशिक्षकः ॥ १७१॥ भक्तिजन्माहभक्तौघरतर्पणश्चित्रिताधिप । नृपामात्यार्थितः पौरप्रीतो वटपुरागमः ॥ १७२॥ मन्त्रिप्रत्युद्गतो नानावाद्यवादकसंवृतः । सालङ्कारगजारुढश्चारुचामरवीजितः ॥ १७३॥ दृक्पावितजनव्रतः सिंहजिन्नृपपूजितः । स्वप्रतापपराभूत विद्वद्वैरिकृतानतिः ॥ १७४॥ सिंहजित्संशयच्छेत्ता भक्तिरीतिप्रदर्शकः । रघुवीरार्पितस्वीयभूषावित्तनवांशुकः ॥ १७५॥ सर्वजीवहितः सर्वसच्छास्त्ररसदोहनः । अनाकुलमनाः शिक्षापत्रीलेखनकृत्स्वभूः ॥ १७६॥ सामान्यधर्मवचनो विशेषवृषवर्णनः । निगमाद्यष्टसच्छास्त्रातिरुचिः शास्त्रसारवित् ॥ १७७॥ विशिष्टाद्वैतमतधृत् साकारब्रह्मवर्णनः । रामानुजकृताग्रन्थ श्रुतिपाठप्रवर्तकः ॥ १७८॥ गृहीतविठ्ठलेशोक्तव्रतोत्सविधिः सुधीः । यताधिकारसद्धर्मवक्ता वैदिकसम्मतः ॥ १७९॥ शिक्षापत्रीस्थापितस्वमाहात्म्यः पाठसिद्धिदः । सद्धर्मातिप्रवृत्तीच्छुः शिक्षापत्रीप्रवर्तकः ॥ १८०॥ प्रमोदिताश्रितजनो नरनारायणेक्षणः । महादोलोत्सवोऽयोध्याप्रसादर्पितसुद्वसुः ॥ १८१॥ धौरेयस्थापितश्रीमद्राधामदनमोहनः । पुत्रोपदिष्टश्रीकृष्णमन्त्रदीक्षाविधिक्रमः ॥ १८२॥ प्रोक्तदीक्षितसद्धर्मः कृष्णपूजाविधापकः । प्रोक्तापराधनिर्हारः क्षमासारः सदर्चनः ॥ १८३॥ स्त्र्याचार्यपत्नीशिष्यत्वस्थापकः शिष्यशासनः । पुत्रदत्तमहादीक्षः पुत्रदीक्षितपूरुषः ॥ १८४॥ स्नुषादीक्षितयोषः श्रीराधाकृष्णेष्टदेवतः । सत्सङ्गिध्येयसन्मूर्तिरेकान्तिकपरायणम् ॥ १८५॥ पुत्रप्रोक्ताब्दिकाशेषव्रतोत्सवविधिक्रमः । गोपालप्रश्नसंहृष्टस्त्यागिधर्मोपदेशकः ॥ १८६॥ लोभोन्मूलनधीदाता कामोत्खननयुक्तिदः । दुर्जेयरसजिद्बोधो निःस्नेहत्वविधापकः ॥ १८७॥ मानसर्पविषत्राता कृष्णैकान्तिकशंसनः । सधर्मज्ञानवैराग्यभक्तिबोधनपाटवः ॥ १८८॥ ज्ञानस्वरूपनिर्णेता नियन्ता पुरुषात्मकः । प्रकृतीशो महाकालो मायेशोऽव्याकृतात्मकः ॥ १८९॥ हिरण्यगर्भस्तत्त्वात्मातत्त्वलक्षणलक्षकः । वैराजोऽखिलविश्वात्मा बुद्धिप्रेरक ईशिता ॥ १९०॥ जीवेश्वरब्रह्ममायारूपयाथार्थ्यबोधकः । निर्गुणो गुणवृत्तिज्ञो बद्धजीवनिमोचनः ॥ १९१॥ भक्त्याराध्यो महादेवो ज्ञेयो ध्येयः प्रकाशकः । शेषीकृताक्षरपरश्रीकृष्णः कालकालनः ॥ १९२॥ कृष्णसेवाहीनमुक्तिचतुष्कोच्छापहापकः । आदिष्टसाङ्ख्यसिद्धान्तो निजज्ञानफलप्रदः ॥ १९३॥ ऋष्यात्मकश्चतुर्वर्णाश्रमधर्मनिरूपकः । षट्कर्मविधिनिर्णेता गायत्रीमन्त्रदैवतः ॥ १९४॥ स्मार्तवक्ता श्रौतवक्ता विप्रधर्मविशेषवित् । जीविकावृत्तिनिर्णेता हेयोपादेयबोधकः ॥ १९५॥ आशौचनिर्णयः श्राद्धविधिवक्ता विधिप्रियः । कलिहेयार्थनिर्णेता रजधर्मनिरूपकः ॥ १९६॥ पतिव्रताधर्मवक्ता विधवाधर्मरक्षकः । नानाव्रतसमाराध्यः पूजाविध्युपदेशकः ॥ १९७॥ स्पर्शनिर्णयकृद्वानप्रस्थधर्मप्रदर्शकः । सन्न्यासधर्मगदिता साङ्गनिष्कृतिबोधकः ॥ १९८॥ जीर्णदुर्गस्थापित श्रीद्वारिकेशादिरात्मदः । ब्रह्मचारिधर्मवक्ता बृहद्धर्ममहादरः ॥ १९९॥ दुर्गालयस्थापित श्रीगोपीनाथोऽखिलार्थदः । सहाङ्गयोगोपदेष्टा पिण्डब्रह्माण्डनिर्णयः ॥ २००॥ भूतस्वरूपनिर्णेता वायुभेदनिरूपकः । कालज्ञानवदो योगसिद्धिहेतुप्रदर्शकः ॥ २०१॥ शतानन्दस्तुतः स्तुत्यो भक्तवाञ्छितपूरकः । शिक्षापत्रीग्रन्थनकः शिक्षापत्रीविधिब्रुवः ॥ २०२॥ शिक्षापत्र्यर्थसन्तुष्टो लीलासन्दर्भकारकः । निर्वासनस्तिरोधानलीलासम्मोहितासुरः ॥ २०३॥ वैमानिकवृतो हृष्टदेववृन्दसमर्चितः । स्वार्चाप्रादुष्कृतैश्वर्यो दत्तप्रत्यक्षदर्शनः ॥ २०४॥ भक्तेक्षाहसितः पुष्पाद्युपाहर्ताऽन्नभोजनः । क्षीरपो नीरपः स्वोपयाचकेष्टाशुसिद्धिदः ॥ २०५॥ पुत्रदो वित्तदो विद्याप्रदो वैरभयापहः । अपमृत्युहरो भुक्तिप्रदो मुक्तिद आश्रयः ॥ २०६॥ ऐश्वर्यदो रोगहरो ज्ञानकृद्भक्तिदोऽधिपः । समाधिदस्तमोहर्ता सर्वमङ्गलमङ्गलम् ॥ २०७॥ (फलश्रुतिः) इत्येतच्छ्रीहरेर्नाम्नां सहस्रं परिकीर्तितम् । स्वरूपगुणचारित्रानुबन्धीप्सितसिद्धिदम् ॥ २०८॥ एतद्धि परमं स्तोत्रं सर्वमङ्गलसंज्ञितम् । यःपठेच्छृणुयाद्वाऽसौ नित्यं मङ्गलमाप्नुयात् ॥ २०९॥ धर्मसर्गे मतिस्तस्य स्थिरा स्यान्मुक्तिदायिनी । जयेदधर्मसर्गं च बन्धहेतुं स सत्वरम् ॥ २१०॥ भुक्तिं मुक्तिं तथैकान्तभक्तिं चास्य प्रभावतः । देहान्ते च हरेर्धाम गोलोकं प्राप्नुयाद्धि सः ॥ २११॥ तस्मादेतत्सदा भक्त्या पठनीयमिहौद्धवैः । भक्तैः पुंभिर्द्विजैः स्रीभिः सच्छूद्रैरपि दीक्षितैः ॥ २१२॥ नैतत्खलाय दातव्यं न धर्मशिथिलाय च । नाभक्ताय क्वचिद्देयं देयं भक्ताय सर्वथा ॥ २१३॥ एतत्सदामङ्गलकारि पुंसां तथाऽखिलामङ्गलनाशकारि । स्तोत्रं भवत्युद्धववर्मभाजां यतोऽधिकङ्किञ्चननास्ति पाठ्यम् ॥ २१४॥ इति श्रीमदुद्धवसम्प्रदायाचार्यप्रवर श्रीसहजानन्दस्वामिशिष्य शतानन्दमुनिविरचितं सर्वमङ्गलाख्यं श्रीहरिसहस्रनामस्तोत्रं समाप्तम् ॥ Encoded by Sivakumar Thyagarajan Proofread by Sivakumar Thyagarajan, NA
% Text title            : Hari Sahasranamastotram 
% File name             : harisahasranAmastotram.itx
% itxtitle              : harisahasranAmastotram sarvamaNgalastotram (shatAnandamunivirachitam)
% engtitle              : harisahasranAmastotram sarvamangalastotram
% Category              : vishhnu, sahasranAma, krishna, mangala, svAminArAyaNa
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Shatananda
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan
% Proofread by          : Sivakumar Thyagarajan, NA
% Description-comments  : See corresponding nAmAvalI.
% Indexextra            : (Scan, Gujarati,  nAmAvaliH)
% Latest update         : November 12, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org