सन्ध्याकृतं हरिस्तोत्रम्
सन्ध्योवाच -
निराकारं ज्ञानगम्यं नरं य-
न्नैव स्थूलं नापि सूक्ष्मं न चोच्चैः ।
अन्तश्चिन्त्यं योगिभिर्यस्य रूपं
तस्मै तुभ्यं हरये मे नमोऽस्तु ॥ ५१॥
शिवं शान्तं निर्मलं निर्विकारं-
ज्ञानात्परं सुप्रकाशं विसारि ।
रविप्रख्यं ध्वान्तभागात् परस्ता-
द्रूपं यस्य त्वां नमामि प्रसन्नम् ॥ ५२॥
एकं शुद्धं दीप्यमानं विनोदं
चित्तानन्दं सत्वजं पापहारिम् ।
नित्यानन्दसत्यं भूरिप्रसन्नं
यस्य श्रीदं रूपमस्मै नमोऽस्तु ॥ ५३॥
विद्याकारोद्भावनीयं प्रभिन्नं
सत्त्वच्छन्नं ध्येयमात्मस्वरूपम् ।
सारं पारं पावनानां पवित्रं
तस्मै रूपं यस्य चेयं नमस्ते ॥ ५४॥
नित्यार्जवं व्ययहीनं गुणौघै-
रष्टाङ्गैर्यश्चिन्त्यते योगयुक्तैः ।
तत्त्वव्यापि प्राप्य यज्ज्ञानयोगे-
परं यातां योगिनस्तं नमस्ते ॥ ५५॥
यत्साकारं शुद्धरूपं मनोज्ञं
गरुत्मस्थं नीलमेघप्रकाशम् ।
शङ्खं चक्रं पद्मगदे दधानं
तस्मै नमो योगयुक्ताय तुभ्यम् ॥ ५६॥
गगनं भूर्दिशश्चैव सलिलं ज्योतिरेव च ।
वायुः कालश्च रूपाणि तस्य तस्मै नमोऽस्तु ते ॥ ५७॥
प्रधानपुरुषौ यस्य कार्याङ्गत्त्वे निवत्स्यतः ।
तस्मादव्यक्तरूपाय गोविन्दाय नमोऽस्तु ते ॥ ५८॥
यः स्वयं पञ्चभूतानि यः स्वयं तद्गुणः परः ।
यः स्वयं जगदाधारस्तस्मै तुभ्यं नमो नमः ॥ ५९॥
परः पुराणः पुरुषः परमात्मा जगन्मयः ।
अक्षयो योऽव्ययो देवस्तस्मै तुभ्यं नमो नमः ॥ ६०॥
यो ब्रह्मा कुरुते सृष्टिं यो विष्णुः कुरुते स्थितिम् ।
संहरिष्यति यो रुद्रस्तस्मै तुभ्यं नमो नमः ॥ ६१॥
नमो नमः कारणकारणाय दिव्यामृतज्ञानविभूतिदाय ।
समस्तलोकान्तरमोहदाय प्रकाशरूपाय परात्पराय ॥ ६२॥
यस्य प्रपञ्चो जगदुच्यते महान्
क्षितिर्दिशः सूर्य इन्दुर्मनोजवः ।
वह्निर्मुखान्नाभितश्चान्तरीक्षं
तस्मै तुभ्यं हरये ते नमोऽस्तु ॥ ६३॥
त्वं परः परमात्मा च त्वं विद्या विविधा हरे ।
शब्दब्रह्म परम्ब्रह्म विचारणपरात्परः ॥ ६४॥
यस्य नादिर्नमध्यञ्च नान्तमस्ति जगत्पतेः ।
कथं स्तोष्यामि तं देवं वामनो गोचराद्बहिः ॥ ६५॥
यस्य ब्रह्मादयो देवा मुनयश्च तपोधनाः ।
न विवृण्वन्ति रूपाणि वर्णनीयः कथं स मे ॥ ६६॥
स्त्रिया मया ते किं ज्ञेया निर्गुणस्य गुणाः प्रभोः ।
नैव जानन्ति यद्रूपं सेन्द्रा अपि सुरासुराः ॥ ६७॥
नमस्तुभ्यं जगन्नाथ नमस्तुभ्यं तपोमय ।
प्रसीद भगवंस्तुभ्यं भूयो भूयो नमो नमः ॥ ६८॥
इति कालिकापुराणे द्वाविंशोऽअध्यायान्तर्गतं
सन्ध्याकृतं हरिस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran