कार्पण्यपञ्जिकास्तोत्रम्
ध्यानः ।
कोणेनाक्ष्णोः पृथुरुचिः मिथो हारिणा लिह्यमाना-
वेकैकेन प्रचुरपुलकेनोपगुढौ भुजेन ।
गौरीश्यामौ वसनयुगलं श्यामगौरं वसानौ
राधाकृष्णौ स्मरविलसितोद्दामतृष्णौ स्मरामि ॥ १॥
अथ श्रीकार्पण्यपञ्जिकास्तोत्रं
श्रीवृन्दावनेशौ जयतः
तिष्ठन् वृन्दाटवीकुञ्जे विज्ञप्तिं विदधत्यसौ ।
वृन्दाटवीशयोः पादपद्मेषु कृपनो जनः ॥ १॥
नवेन्दीवरसन्दोहसौन्दर्यास्कन्दनप्रभम् ।
चारुगोरोचनागर्वगौरवग्रासिगौरभाम् ॥ २॥
शातकुम्भकदम्बश्रीविडम्बिस्फुरदम्बरम् ।
हरता किंशुकस्यांशून् अंशुकेन विराजिताम् ॥ ३॥
सर्वकैशोरवद्वृन्दचूडारूढहरिण्मणिम् ।
गोष्ठाशेषकिशोरीणां धम्मिल्लोत्तंसमल्लिकाम् ॥ ४॥
श्रीशमुख्यात्मरूपणां रूपातिशयिविग्रहम् ।
रमोज्ज्वलव्रजवधूव्रजविस्मापिसौष्ठवाम् ॥ ५॥
सौरभ्यहृतगान्धर्वं गन्धोन्मादितमाधवाम् ।
राधारोधनवंशीकं महतीमोहिताच्युताम् ॥ ६॥
राधाधृतिधनस्तेनलोचनाञ्चलचापलम् ।
दृगञ्चलकलाभृङ्गीदष्टकृष्णहृदम्बुजाम् ॥ ७॥
राधागूढपरीहासप्रौढिनिर्वचनीकृतम् ।
व्रजेन्द्रसुतनर्मोक्तिरोमाञ्चिततनूलताम् ॥ ८॥
दिव्यसद्गुणमाणिक्यश्रेणीरोहणपर्वतम् ।
उमादिरमणीव्यूहस्पृहणीयगुणोत्कराम् ॥ ९॥
त्वां च वृन्दावनाधीश त्वां च वृन्दावनेश्वरि ।
काकुभिर्वन्दमानोऽयं मन्दं प्राऋथयते जनः ॥ १०॥
॥ दशभिः कुलकम् ॥
योग्यता मे न काचिद् वां कृपालाभाय यद्यपि ।
महाकृपालुमौलित्वात् तथापि कुरुतं कृपाम् ॥ ११॥
अयोग्ये सापराधेऽपि दृश्यन्ते कृपयाकुलाः ।
महाकृपालवो हन्त लोके लोकेशवन्दितौ ॥ १२॥
भक्तेर्वां करुणाहेतोर्लेशाभासोऽपि नास्ति मे ।
महालीलेशरतया तदप्यत्र प्रसीदतम् ॥ १३॥
जने दुष्टेऽप्यभक्तेऽपि प्रसीदन्तो विलोकिताः ।
महालीलामहेशाश्च हा नाथौ बहवो भुवि ॥ १४॥
अधमोऽप्युत्तमं मत्वा स्वमज्ञेऽपि मनीषिणम् ।
शिष्टं दुष्टोऽप्ययं जन्तुर्मन्तुं व्यधित यद्यपि ॥ १५॥
तथाप्यस्मिन् कदाचिद् वामधीशौ नामजल्पिनि ।
अवद्यवृन्दनिस्तारिनामाभासौ प्रसीदतम् ॥ १६॥
यदक्षम्यं नु युवयोः सकृद्भक्तिलवादपि ।
तदागः क्वापि नास्त्येव कृताशां प्रार्थये ततः ॥ १७॥
हन्त क्लीबोऽपि जीवोऽयं नीतः कष्टेन धृष्टताम् ।
मुहुः प्रार्थयते नाथौ प्रसादः कोऽप्युदञ्चतु ॥ १८॥
एष पापी रुदन्न् उच्चैरादाय रदनैस्तृणम् ।
हा नाथौ नाथेति प्राणी सीदत्यत्र प्रसीदतम् ॥ १९॥
हाहारावमसौ कुर्वन् दुर्भगो भिक्षते जनः ।
एतां मे शृणुतं काकुं काकुं शृणुतमीश्वरौ ॥ २०॥
याचे फुत्कृत्य फुत्कृत्य हा हा काकुभिराकुलः ।
प्रसीदतमयोग्येऽपि जनेऽस्मिन् करुणार्णवौ ॥ २१॥
क्रोशत्यार्तस्वरैरास्ये न्यस्याङ्गुष्ठमसौ जनः ।
कुरुतं कुरुतं नाथौ करुणाकणिकामपि ॥ २२॥
वाचेह दीनया याचे साक्रन्दमतिमन्दधीः ।
किरतं करुणस्वान्तौ करुणोर्मिच्छटामपि ॥ २३॥
मधुराः सन्ति यावन्तो भावाः सर्वत्र चेतसः ।
तेभ्योऽपि प्रेममधुरं प्रसादीकुरुतं निजम् ॥ २४॥
सेवामेवाद्य वां देवावीहे किञ्चन नापरम् ।
प्रसादाभिमुखौ हन्त भवन्तौ भवतां मयि ॥ २५॥
नाथितं परमेवेदमनाथजनवत्सलौ ।
स्वं साक्षाद्दास्यमेवास्मिन् प्रसादीकुरुतं जने ॥ २६॥
अञ्जलिं मूर्ध्नि विन्यस्य दीनोऽयं भिक्षते जनः ।
अस्य सिद्धिरभीष्टस्य सकृदप्युपपाद्यताम् ॥ २७॥
अमलो वां पारिमलः कदा परिमलन् वने ।
अनर्घेण प्रमोदेन घ्राणं मे घूर्णयिष्यति ॥ २८॥
रञ्जयिस्यति कर्णौ मे हंसगुञ्जितगञ्जनम् ।
मञ्जुलं किं नु युवयोर्मञ्जीरकलसिञ्जितम् ॥ २९॥
सौभाग्याङ्करथाङ्गादिलक्षितानि पदानि वाम् ।
कदा वृन्दावने पश्यन्न् उन्मदिष्यत्ययं जनः ॥ ३०॥
सर्वसौन्दर्यमर्यादानीराज्यपदनीरजौ ।
किमपूर्वाणि पर्वाणि हा ममाक्ष्णोर्विधास्यथ ॥ ३१॥
सुचिराशाफलाभोगपदाम्भोजविलोकनौ ।
युवां साक्षाज्जनस्यास्य भवेतामिह किं भवे ॥ ३२॥
कदा वृन्दाटवीकुञ्जकन्दरे सुन्दरोदयौ ।
खेलन्तौ वां विलोकिष्ये सुरतौ नातिदूरतः ॥ ३३॥
गुर्वायत्ततया क्वापि दुर्लभान्योन्यवीक्षणौ ।
मिथः सन्देशसीधुभ्यां नन्दयिस्यामि वां कदा ॥ ३४॥
गवेषयन्तावन्योऽन्यं कदा वृन्दावनान्तरे ।
सङ्गमय्य युवां लप्स्ये हारिणं पारितोषिकम् ॥ ३५॥
पणीकृतमिथोहारलुञ्चनव्यग्रहस्तयोः ।
कलिं द्यूते विलोकिष्ये कदा वां जितकाशिनोः ॥ ३६॥
कुञ्जे कुसुमशय्यायां कदा वामर्पिताङ्गयोः ।
पादसंवाहनं हन्त जनोऽयं रचयिष्यति ॥ ३७॥
कन्दर्पकलहोद्घट्टत्रुटितानां लतागृहे ।
कदा गुम्फाय हाराणां भवन्तौ मां नियोक्ष्यतः ॥ ३८॥
केलिकल्लोलविस्रस्तान् हन्त वृन्दावनेश्वरौ ।
कर्हि बर्हिपतत्रैर्वां मण्डयिष्यामि कुन्तलान् ॥ ३९॥
कन्दर्पकेलिपाण्डित्यखण्डिताकल्पयोरहम् ।
कदा वामलिकद्वन्द्वं करिष्ये तिलकोज्ज्वलम् ॥ ४०॥
देवारम्भे वनस्रग्भिर्दृशौ ते देवि कज्जलैः ।
अयं जनः कदा कुञ्जमण्डपे मण्डयिष्यति ॥ ४१॥
जाम्बूनदाभताम्बूलीपर्णान्यवदलय्य वाम् ।
वदनाम्बुजयोरेष निधास्यति जनः कदा ॥ ४२॥
क्वासौ दुष्कृतकर्माहं क्व वामभ्यर्थनेदृशी ।
किं वा कं वा न युवयोरुन्मादयति माधुरी ॥ ४३॥
यया वृन्दावने जन्तुरनर्होऽप्येष वास्यते ।
तयैव कृपया नाथौ सिद्धिं कुरुतमीप्सितम् ॥ ४४॥
कार्पण्यपञ्जिकामेतां सदा वृन्दाटवीनटौ ।
गिरैव जल्पतोऽप्यस्य जन्तोः सिध्यतु वाञ्छितम् ॥ ४५॥
इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीकार्पण्यपञ्जिकास्तोत्रं समाप्तम् ।