श्रीमदनगोपालस्तोत्रम्
ईश्वर उवाच-
शृणु देवि प्रवक्ष्यामि रहस्यं भुवनेश्वरि ।
तवैव पौरुषं रूपं गोपिकानयनामृतम् ॥ १॥
सदा निषेवितं रागाद्भवद्विरहभीरुभिः ।
सत्यभामादिरूपाभिर्मायामूर्तिभिरष्टभिः ॥ २॥
ख्यातं मदनगोपालसंज्ञया भुवनत्रये ।
तस्य ध्यानं प्रवक्ष्यामि सर्वपापप्रणाशनम् ॥ ३॥
सर्वमोहमयं सर्वसम्पत्प्रदमनुत्तमम् ।
अणिमादिमहैश्वर्यप्रदमायुःप्रवर्धनम् ॥ ४॥
सौभाग्यदायकं नॄणां स्त्रीणां चैव विशेषतः ।
किमत्र बहुनोक्तेन ध्यानेनानेन भामिनि ।
यद्यदिच्छति तत्सर्वं नरः प्राप्नोत्यसंशयः ॥ ५॥
श्रीमद्बालार्कसङ्काशं पद्मरागमणिप्रभम् ।
बन्धूकबन्धुरालोकसन्ध्यारागारुणद्युतिम् ॥ ६॥
मकुटानेकमाणिक्यप्रभापल्लविताम्बरम् ।
किरीटोपान्तविन्यस्तबर्हिबर्हावतंसकम् ॥ ७॥
कस्तूरीतिलकाक्रान्तकमनीयालकस्थलम् ।
निस्तलस्थूलमाणिक्यचारुमौक्तिकमण्डलम् ॥ ८॥
दन्तांशुकुसुमाश्लिष्टचिबुकोद्देशशोभितम् ।
शशाङ्कबिम्बालङ्कारश्लाघातङ्ककराननम् ॥ ९॥
अनर्धरत्नग्रैवेयविलसत्कम्बुकन्धरम् ।
उदंशुमौक्तिकैर्हारैर्वैजयन्त्या च मालया ॥ १०॥
श्रीवत्सकौस्तुभाभ्यां च परिष्कृतभुजान्तरम् ।
छत्रं पुष्पं शरं पद्मं सृणिं शङ्खेक्षुकार्मुके ॥ ११॥
गदां पाशं च मुरलीं बिभ्राणं मोहनाकृतिम् ।
निम्ननाभिं रोमराजीविलसत्पल्लवोदरम् ॥ १२॥
विसङ्कटकटीदेशवाचालमणिमेखलम् ।
स्पुरत्सौदामनीछायादायादकनकाम्बरम् ॥ १३॥
मणिमञ्जीरकिरणकिञ्जल्कितपदाम्बुजम् ।
शाणोल्लीढमणिश्रेणिरम्याङ्घ्रिनखमण्डलम् ॥ १४॥
आपादकण्ठमायुक्तभूषाशतमनोहरम् ।
कल्पकानोकहाराममहिते मणिमण्डपे ॥ १५॥
चिन्तामणिमहापीठमध्ये हेमसरोरुहे ।
कर्णिकापरिसन्दीप्तश्रीमञ्चक्रासने शुभे ॥ १६॥
तिष्ठन्तं देवदेवेशं त्रिभङ्गीललिताकृतिम् ।
वामांसशिखरोपान्तव्यालोलमणिकुण्डलम् ॥ १७॥
आकुञ्चितभ्रुवं किञ्चित्कुञ्चिताधरपल्लवम् ।
गानामृतरसास्वादनिष्पन्दनिखिलेन्द्रियैः ॥ १८॥
उपास्यमानमानन्दात् सदारैर्दिविषद्वरैः ।
सौरदुन्दुभिनिर्घोषैर्मुक्तप्रसववृष्टिभिः ॥ १९॥
ध्यायेन्मदनगोपालं मन्त्री शुचिरलङ्कृतम् ।
(यः) पठेन्मदनगोपालध्यानस्तोत्रं समाहितः ।
सर्वान् कामानवाप्नोति दुर्लभानप्ययत्नतः ॥ २०॥
इति श्रीमदनगोपालस्तोत्रं सम्पूर्णम् ।
Proofread by Rajesh Thyagarajan