श्रीमुकुन्दवन्दनाष्टकम्
देवं प्रपन्नार्तिहरं शरण्यं सत्यं चिदानन्दमयस्वरूपम् ॥
मुक्तोपसृप्यं नवनीरदाभं श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ १॥
सौशील्यवात्सल्यगुणाढ्यमीशं कुञ्जेश्वरं रासविहारशीलम् ॥
सखीसमूहैः परिगीयमानं श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ २॥
माधुर्यभावे मधुरस्वरूपमैश्वर्यभावे भगवत्स्वरूपम् ॥
वात्सल्यभावे च सुबालरूपं श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ ३॥
वृन्दावने नित्य-निकुञ्जमध्ये रसात्मकं रासविहारिरूपम् ।
ब्रह्मेशवृन्दारकवृन्दवन्द्यं श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ ४॥
मोक्षप्रदानाद्धि मुकुन्दसंज्ञं ज्ञानक्रियाशक्तिबलादिपूर्णम् ॥
सञ्चिन्तनीयं शरणं प्रपन्नैः श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ ५॥
ध्येयं कुमारैः सुमनोभिराद्यं गेयं वचोभिर्मुनिनारदाद्यैः ॥
आचार्यवर्यैश्च समर्चनीयं श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ ६॥
यत्पादपद्माश्रयणाद् विलीना भवन्ति जन्मादिविकारभावाः ।
तं सर्वपूज्यं परमं वरेण्यं श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ ७॥
वाणी मुकुन्दस्य गुणान् गृणातु मनस्तु तस्याङ्घ्रियुगं वृणोतु ।
करौ सदा पूजनतत्परौ स्तामन्यानि चाङ्गानि फलीभवन्तु ॥ ८॥
-वासुदेवशरण उपाध्याय, प्राचार्य-
श्रीसर्वेश्वर संस्कृत महाविद्यालय
निम्बार्कतीर्थ-सलेमाबाद, जि० अजमेर (राज०)
इति वासुदेवशरण उपाध्यायविरचितं श्रीमुकुन्दवन्दनाष्टकम्
Proofread by Mohan Chettoor