श्रीनृसिंहस्तवराजः
श्रीगणेशाय नमः ।
श्रीलक्ष्मीनृसिंहगुरवे नमः ।
ॐ अस्य श्रीनृसिंहस्तवराजस्तोत्रमन्त्रस्य महेश्वर ऋषिः ।
अनुष्टुप्छन्दः । श्रीलक्ष्मीनृसिंहो देवता ।
मम सर्वाभीष्टसिध्यर्थे जपे विनियोगः ॥
ध्यनम् -
कर्पूरधामधवलं कटकां गदादि-
छत्रत्रिनेत्रशशिशेखरमण्डितास्यम् ।
वामाङ्गसंश्रितरमानयनाभिराम-
मब्जाक्षशङ्खसगदां नृहरिं नमामि ॥
ॐकारममृतं ब्रह्म नृसिंहमक्षरं परम् ।
यद्रूपं परमं ज्ञेयं तं नमामि हरिं परं ॥ १॥
उग्रमूर्तिं महामूर्तिं ज्ञानगम्यं निरञ्जनम् ।
अकाराद्यक्षराः सर्वे तं देवं प्रणमाम्यहम् ॥ २॥
लोकप्रियं लोकगुरुं लोकेशं परमं पदम् ।
सकलं निष्कलं नित्यं नित्यानित्यं नमाम्यहम् ॥ ३॥
ज्वालाकरालमृत्युग्रं मृगवक्त्रमनामयम् ।
स्वरूपं श्रीसमायुक्तं योगगम्यं नमाम्यहम् ॥ ४॥
परं ज्योतिः परं धाम परमानन्दविग्रहम् ।
शुक्तिकर्णं परं ध्येयं तं नमामि हरिं परम् ॥ ५॥
ईश्वर उवाच ।
ममात्मा प्राणशक्तिस्त्वं मत्प्रियं मद्गुरुं परम् ।
ममानन्दकरं श्रेष्ठं नारसिंहं नमाम्यमहम् ॥ ६॥
पिता त्वं च सखा भ्राता माता नेता गुरुः सखा ।
सुहृदश्वात्मरूपस्त्वं त्वां विना नास्ति मे सुखम् ॥ ७॥
वायुरग्निः कला काष्ठा पर्वतारण्यरूपधृक् ।
पशवस्तरवः सर्वे विग्रहोन्यो धृतस्त्वया ॥ ८॥
दैत्यदानवनशाय विग्रहो धृत उच्यते ।
हिरण्यकशिपुर्दैत्यो बलवीर्यमदोत्कटः ॥ ९॥
तस्य नाशायते रूपं धृतं चोग्रं परं महत् ।
भवान् रूपधरः श्रेष्ठ नृसिंहमतिविग्रहम् ॥ १०॥
नेत्रेस्थितस्ते दावाग्निर्दैत्यानां भयकारणम् ।
श्रीनृसिंहं महावीरं दैत्यदानवमर्दनम् ॥ ११॥
योगेशं योगपुरुषं लोकेशं योगदायकम् ।
सदायोगीहृदिस्थानं सेवितं च विराजितम् ॥ १२॥
कोटिसूर्यप्रतीकाशं स्वरूपेण विशेषतः ।
कोटि कन्दर्पलावण्यं विग्रहं वीरसिंहकम् ॥ १३॥
देवाधिदेवं सर्वज्ञं सर्वलोकहिते रतम् ।
शूरं शूरप्रतीकारं महाकालाग्निमर्दनम् ॥ १४॥
ज्योतिरूपं निराभासं निरान्तकं निरामयम् ।
स्वरूपं सगुणं शान्तं परेशं परतः परम् ॥ १५॥
नागयज्ञोपवीतं च कैवल्यं मोक्षदायकम् ।
ज्ञानानन्दप्रतीकाशं ज्ञानमार्गं च शाश्वतम् ॥ १६॥
नित्यानित्यं सदा सौख्यमानन्दमतिसुन्दरम् ।
शङ्खघ्नमखिलं तेजोविग्रहं मत्स्यरूपिणम् ॥ १७॥
भूधरं कूर्मदेहं तं हिरण्याक्षविमर्दनम् ।
वाराहप्रतीमं चोग्रं नृसिंहं दिव्यतेजसम् ॥ १८॥
जाह्नवीहृदिसम्भूतं वामनं बलिमर्दनम् ।
जमदग्निसुतं वीरं चापमार्गणधारिणम् ॥ १९॥
ईशमीड्यं महातेजं परश्वायुधधारिणम् ।
पितृवाक्पालितं शूरं शाश्वतं चिरमायुषम् ॥ २०॥
कौसल्यागर्भसम्भूतं परमानन्दविग्रहम् ।
कोमलाङ्गं परं श्रेष्ठं जानकीवल्लभं विभुम् ॥ २१॥
शृङ्खलास्त्रोटिताः सर्वादेवान्सर्वान्सुखं ददौ ।
परं तीर्थं परं जाप्यं ममात्मानन्द चेतसम् ॥ २२॥
सर्ववेदार्थसामर्थ्यं केवलं तत्त्वरूपिणम् ।
शिवध्यानपरं मन्त्रं वीरासनपरं तपम् ॥ २३॥
विश्वामित्रमुनेः सेव्यं चिन्मयं च निरञ्जनम् ।
करुणासागरं देवं काकुत्स्थं जानकीप्रियम् ॥ २४॥
यज्ञरूपं निराभासं सत्यसन्धं जितारिणम् ।
तं नमामि परं मन्त्रं रामकृष्णं जगन्मयम् ॥ २५॥
चतुर्भुजं रमायुक्तं देवक्यातनुजं विभुम् ।
पीतकौशेयवसनं मेघश्यामं जनार्दनम् ॥ २६॥
श्रीवत्सधारिणं देवं कंसासुरविघातकम् ।
सहस्रफणिशेषेण नित्यं स्तुत्यादि सेवितम् ॥ २७॥
श्रीधरं श्रीकरं श्रीशं श्रीनिवासं जगद्गुरुम् ।
बुद्धो बुद्धप्रियो बुद्धेर्बोधको बुद्धिवन्दितः ॥ २८॥
कल्कि सृजत्कल्किरूपो करुणाकरवत्सलः ।
श्रीनृसिंहो महावीरो दुष्टदानवमर्दनः ॥ २९॥
श्रीनृसिंहो नरैस्तुत्यो गन्धर्वैः किन्नरैर्वरैः ।
ॐ क्ष्रौं श्रीनृसिंह दिव्यतेज कोटिसूर्य प्रतीकाश
सर्वदुष्टान्नाशय नाशय दारय दारय मारय मारय तापय तापय
दीपय दीपय विदारय विदारय स्तम्भय स्तम्भय मोहय मोहय
शापय शापय शृङ्खलास्त्रोटय त्रोटय नाशय नाशय शोषय
शोषय त्राटय त्राटय हुं हुं हुं हुं हुं हुं हुं हुं हुं हुं हुं (११)
क्रौं क्रौं क्रौं (३) श्रीं श्रीं श्रीं श्रीं श्रीं (५) सौं सौं सौं (३)
क्ष्रौं क्ष्रौं क्ष्रौं (३) टं टं (२) ठं ठं ठं ठं (४)
फं फं फं फं (४) ह्रां ह्रां ह्रां (३) ह्रीं ह्रीं ह्रीं (३)
श्रीनृसिंह शीघ्रं एहि एहि मम रक्ष रक्ष
शत्रून्नाशय नाशय व्यालव्याघ्रसिंहसर्पशार्दुलान्नाशय
नाशय सर्वदुष्ट दुर्जन शत्रुभयं नाशय नाशय मम रक्ष
रक्ष स्वाहा ॥
आयुतं यो जपेत्पूर्वं होतव्यं सर्पिषा तथा ।
तत्तत्सिद्धिर्भवेत्तस्य साधकस्य न संशयः ॥ ३०॥
श्रीनृसिंहः केशवः शौरिर्गोविन्दो गरुडध्वजः ।
माधवश्चक्रपाणिश्च विश्वक्शेनो हलायुधः ॥ ३१॥
शाश्वतः शङ्करः शूली हयग्रीवोऽच्युताग्रजः ।
डमरूशूलहस्तश्च नागाभरणभूषितः ॥ ३२॥
कृपयानन्द सम्पूर्णो वृषाङ्को वृषभध्वजः ।
नारायणः परं ज्योतिः सुज्योतिर्ज्योतिषां पतिः ॥ ३३॥
स्वाहाकारः स्वधाकारो वषट्कारः कृपाकरः ।
नररूपोऽथ सिंहश्च षोडशायुधधारणः ॥ ३४॥
शुक्तिकर्णो विरूपाक्षो नखायुधविभूषणः ।
दंष्ट्राकरालमत्युग्रो श्रीशः श्रीधरशाश्वतः ॥ ३५॥
नीलोऽनिलः सरोग्निश्च शून्यमाकाशभूतधृक् । (शून्यमाकाशभूधृतः)
त्वं ज्योतिर्ब्रह्म इन्द्रश्च विछुरीशः परो गुरुः ॥ ३६॥
(फलश्रुतिः)
इत्येतैर्नामभिः स्तोत्रं जपेन्नित्यं प्रयत्नतः ।
एकान्ते निर्जने देशे शुचौस्छाने मनोहरे ॥ ३७॥
मण्डलं कारयेत्तत्र पूजयेन्नृहरिं गुरुम् ।
स्तवराजं जपेत्तत्र पूजा नानाविधा शुभाः ॥ ३८॥
स्तवराजं जपेन्नित्यं भावयुक्तं सुधीमता ।
अस्मिन्जगत्रये तस्य नासाध्यं नच दुष्करम् ॥ ३९॥
य इदं मन्त्रराजं तु सर्वसिद्धिप्रदं नृणां ।
रात्रौ यः सप्तवाराणि श्मशाने मुक्तकेशिना ॥ ४०॥
अश्वत्थो परिसङ्गम्य दक्षिणाभिमुखो भवेत् ।
सरिपून्नाशयेच्छीघ्रं निशि तत्र न संशयः ॥ ४१॥
स्छित्वा पूर्वमुखः स्वस्छो विंशत्यावर्त्तनं चरेत् ।
पूर्वोक्ते न विधानेन शीघ्रं रिपुविनाशनम् ॥ ४२॥
त्रिंशदावर्तनं गेहे सप्तकं त्रीणिसङ्ख्यया ।
भावयुक्तो जितेन्द्रश्च भूमिशा यीहविष्यभुक् ॥ ४३॥
समन्त्रजपसिध्यर्थं प्रत्यक्षो नृहरिस्तदा ।
आयुतं यो जपेत्पूर्वं समन्त्रः सिद्धिदायकः ॥ ४४॥
लक्ष्मीस्तस्य प्रसन्ना च सदातिष्ठति तद्गृहे ।
रिपुणां कुलनाशाय जपेद्द्वेयुतसङ्ख्यया ॥ ४५॥
अङ्गुलिद्वयकीलं तु तुलसीमूलकाष्ठजम् ।
निःक्षिप्तं यस्य गेहे तु पुत्रस्तस्य भविष्यति ॥ ४६॥
य इदं स्तवराजं तु नृसिंहसिद्धिदायकम् ।
शिवेन कथितं सारं पार्वत्यग्रे विशेषतः ॥ ४७॥
यो जपेच्छ्रुणुयाद्वापि भावयुक्तः सुधीमता ।
ससाम्राज्यमवाप्नोति सत्यं जानिहि पार्वति ॥ ४८॥
शौर्यवीर्यबलं तेजो पुत्रं पौत्रं च शाश्वतम् ।
सर्वभोगान्पुमान्शीघ्रं नृसिंहस्य प्रसादतः ॥ ४९॥
य इदं जपते नित्यमिह लोके परं सुखम् ।
अन्ते प्रयातिमोक्षं च शिवस्य वचनं तथा ॥ ५०॥
इति श्रीरुद्रयामले परमगुह्यसारे शिवपार्वतीसंवादे
श्रीनृसिंहस्तवराजस्तोत्रं सम्पूर्णम् ।
श्रीलक्ष्मीनृसिंहार्पणमस्तु ।
शुभं भवतु । श्रीरस्तु ।