पाण्डुरङ्गस्तोत्रम् १

पाण्डुरङ्गस्तोत्रम् १

(प्रथमं) (अनुष्टुब् वृत्तम्) प्रसादं कामये नित्यं (१)समदं पाण्डुरङ्गजं । नचोच्चैःश्रवसं नित्यं समदं पाण्डुरं गजम् ॥ १॥ वन्दे निजयशःपाननिष्ठं तं स्वरसादरं(२) । (३)शुद्धप्रेम्णामिष्टकायां तिष्ठन्तं स्वरसादरम् ॥ २॥ पाण्डुरङ्गं सकृन्नत्वा कलिना मलिना अपि । भवन्ति भावुका भास्वदुचयः(४) शुचयः सदा ॥ ३॥ संसृतौ कलिकाले यः सदरः (५) सदरस्तुतेः(६) । विठ्ठलादभयं प्राप्तः करुणावरुणालयात् ॥ ४॥ यञ्चेतः पाण्डुरङ्गस्य सदा चरणसादरम् । तं(७) सन्तं नान्यमूचुर्ज्ञाः सदाचरणसादरम् ॥ ५॥ विठ्ठलेति जपेन्नाम पाण्डुरङ्गस्य यः सदा । कृपाकटाक्षा न विभोरन्त्यजं तं त्यजन्त्यहो ॥ ६॥ यः पिबत्यसकृन्नाम प्रभोर्भवगदार्दितः । ह्रेपयत्यमृत(८) किं न स कलौ सकलौषधम् ॥ ७॥ मोचिताः पाण्डुरङ्गेण पतिता अतितापतः । अयमेव कलौ कीर्त्या निजया विजयावहः ॥ ८॥ नाम्ना यः पाति यमलं(९) नाम्नायः स्तोतुमीश्वरम्(९) । यशसा यस्य सद्वृन्दं समहं(१०) तमहं भजे ॥ ९॥ वैरस्यदर्शिना स्वर्गे कलौ वैरस्य कारिणा । यशसास्य प्रभोस्तीर्थे सज्जना मज्जनालसाः ॥ १०॥ (११) वदन्ति विठ्ठलं विज्ञा जडेभ्योऽप्यतिदुर्लभा । या दीयते प्रभो! भक्तवश! सा यशसा तव ॥ ११॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा येऽन्येऽपि सङ्कराः । रङ्कराजमुखाः सर्वे कृताः श्रीशेन शङ्कराः ॥ १२॥ पूर्वं प्रयासेनाविद्याविनाशमलभन् जनाः । अद्य नाम्ना प्रभोः कष्टं विनाशमलभं जनाः ॥ १३॥ पाण्डुरङ्गपुरं मोहो (१२) वदत्यत्रत्यमानसे । कथं तिष्ठामि विजये हन्त तेऽहं तते सति ॥ १४॥ नामसङ्कीर्तनप्रायं पाण्डुरङ्गपुरं विना । भ्रमम्भवति मेदिन्यां परितोऽपारतोषभाक् ॥ १५॥ पाण्डुरङ्गपुरे पीतप्रभुनामयशःसुधाः । बुधाः स्मरन्ति न स्वर्ग रष्टचक्रगदायुधाः ॥ १६॥ तीर्थान्यायाति सर्वाणि दैवतान्युस्सुकानि यत् । द्रष्टुं भगवतः को न चत्वरं सत्वरं व्रजेत् ? ॥ १७॥ पाण्डुरङ्गपुरं प्राप्य सर्वो ना (१३) रदति स्फुटम् । हरिनामयशोगाननिरतोऽविरतोत्सवः ॥ १८॥ पाण्डुरङ्गपुरं सन्तो भूवैकुण्ठं वदस्यहो! । एतत्तु सर्वसुलभं कुलभञ्जनमंहसाम्(१४) ॥ १९॥ प्रवर्तितेन परमामृतसत्रेण सर्वदा । पुण्डरीकेण सर्वोऽपि सत्रपः(१५) सत्रपः(१६) कृतः ॥ २०॥ पुण्डरीकेण सर्वार्यैः सत्कृतं सत्कृतं तथा । ब्रह्माण्डेत्र न केनापि कविना भविनाऽमलम्(१७) ॥ २१॥ अमुना यमुनारोधः पूर्वं भीमरथीतटं । पश्चादलङ्कृत गोपच्छद्माना पद्मानाभिना(१८) ॥ २२॥ दयालुना भगवता पाण्डुरङ्गेण बन्धुना । दीना हीना निजगतिं गमिता अमिता जनाः ॥ २३॥ पाण्डुरङ्गः प्रभुभक्तबहुमानवशंवदः । बिभर्ति भर्ता जगतां शिरसातिरसाच्छिवम्(१९) ॥ २४॥ श‍ृण्वत्रभङ्गाननिशं तृप्तो नाद्यापि विठ्ठलः । कथं हरन्तु न सतामुक्तयो मुक्तयोगिनः(२०) ॥ २५॥ धीः श्रियं जनता भक्तौ तामसीमामुदारतां(२१) । जानात्वच्छा(२२) प्रभोर्वेत्ति तामसीमामुदारताम् ॥ २६॥ मधुपा अप्सु राजीवं, सुरा जीवं(२३) यथा दिवि । उपासते तथा सन्तं पाण्डुरङ्गपुरे जनाः ॥ २७॥ पाण्डुरङ्गपुरस्था ये जीवन्मुक्ता हि तेऽखिलाः । यत्प्रभूक्तिः स्वतीर्थाप्तमज्जना मज्जना(२४) इति ॥ २८॥ मज्जनं चन्द्रभागायां, पाण्डुरङ्गस्य दर्शनम् । कीर्तनश्रवणं यस्य स (२५)महासमहा भवे ॥ २९॥ तीर्थ क्षेत्रं पाण्डुरङ्गो नामसङ्कीर्तनं कलौ । मलौधहृत्स्वमहसा सहसा रचितेंऽजलौ ॥ ३०॥ विदा(२६) ज्ञानेन ठान् शून्यान् लाति गृह्णाति विठ्ठल । निरुक्तमिदमस्माकं चरमं परमं बलम् ॥ ३१॥ जडोद्धारयशोग्रन्थग्रहह्रीतसुमेधसे । नमो भगवते तस्मै पाण्डुरङ्गाय वेधसे ॥ ३२॥ नमोऽस्तु पितृभक्ताय पुण्डरीकाय साधवे । जडोद्धारव्रतं पुण्यप्रभावाद्यस्य माधवे ॥ ३३॥ ज्ञानदेवैकनाथाद्या नामदेवादयोऽपरे । तेभ्यो नमोऽस्तु यैर्भक्तया राञ्जितोऽरं जितोऽजितः(२७) ॥ ३४॥ इति श्रीरामनन्दनमयूरेश्वरकृतं पाण्डुरङ्गस्तोत्रं सम्पूर्णम् । टिप्पणि १। समदं शमदम् । २। स्वे आत्मनि यो रसस्तस्मिन्नादरो यस्य तम् । ३। स्वरे, शुद्धप्रेम्णा गाने सादरम् । ४। भास्वद्रुचयः सूर्यकान्तयः । ५। दरेण भीत्या सहितः । ६। सद्भिः अरं प्रभूतं स्तुतिर्यस्य तस्मात् । ७। ज्ञाः पण्डितास्तं सन्तं सदाचरणे सादरं नान्यमूचुरित्यन्वयः । ८। अमृतं सः पुरुषः कलौ सकलौषधं शुण्ठीं न ह्रेपयति किं ? इत्यन्वयः । ९। यमीश्वरं स्तोतुमाम्नायो नालमित्यन्वयः । १०। सानन्दम् । ११। विज्ञाः पण्डिता विठ्ठलं वदन्ति । हे भक्तवश ! अतिदुर्लभा या मुक्तिर्जडेभ्योऽपि दीयते सा न त्वया किन्तु तव यशसा यशोगानेनेत्यन्वयः । १२। अत्रत्यमानसे वर्तमानो मोहः पाण्डुरङ्गपुरं वदति । हन्तेति खेदे । स्वयोत्यध्याहार्यम् । त्वयि तते सति सर्वत्र प्रथितयशसि सति अहं ते तव विजये कथं तिष्ठामि । त्वां विजेध्ये इत्यर्थः । १३। रदति विदीर्णो भवति । द्रवीभवतीत्यर्थः । १४। पापानाम् । १५। सत्रपो देवः । देवलोक इत्यर्थः । १६। लज्जान्वितः । १७। भवः संसारोऽस्त्वस्व तेन । संसारिणेत्यर्थः । १८। पचनाभिना पद्मनाभेन विष्णुनेति यावत् । १९। अतिरसात्प्रेम्णोऽतिशयेन । २०। मुक्ताश्च योगिनश्च तान् । २१। असीमाममर्यादाम् । २२। अच्छा निर्मलैव धीस्तां, असीमाम्, उदारतां वेत्तीति योजना । २३। बृहस्पतिम् । २४। मम जनाः मद्भक्ताः । २५। अतितेजस्वी । २६। इयं विठ्ठलशब्दस्य निरुक्तिः । २७। अत्र कविमातृकायामपि समाप्तिद्योतको। लेखो न दृश्यते । Proofread by Rajesh Thyagarajan
% Text title            : Panduranga Stotram 1
% File name             : pANDurangastotram1.itx
% itxtitle              : pANDuraNgastotram 1 (shrIrAmanandanamayUreshvarakRitam prasAdaM kAmaye nityaM)
% engtitle              : pANDurangastotram 1
% Category              : vishhnu, vishnu, moropanta, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : Mayurakavi or Moropanta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Stotras composed by Moropanta mayUrakavi
% Indexextra            : (Scan)
% Latest update         : December 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org