सारनाथस्तोत्रम्
सारक्षेत्रपतिं सरोजजपतिं सारातिदूरं सदा
सारं सारविमानगं सुरवरं सारेश्वरीनायकम् ।
नित्यं सारसरोवरे विरचितस्नानद्विजाराधितं
संसाराब्धितरिं सरोजनयनं तं सारनाथं भजे ॥ १॥
सर्वतत्त्वालय श्रीमन् व्याकृताधशिरो हरे ।
परमात्मन् सारनाथ रक्ष मां शरणागतम् ॥ २॥
समस्तजगदाधार शङ्खचक्रगदाधर ।
सारनाथ ममानुज्ञां देहि त्वत्तीर्थसेवने ॥ ३॥
सारक्षेत्रे सारनाथः सारपुष्करिणीतटे ।
रमया सारनायक्या विमाने सारसान्ज्ञके ॥ ४॥
अव्याजकृपया नित्यं तत्र सन्निहितो हरिः ।
श्रिताभीष्टं ददन्नित्यं मोदते सूरिभिः सह ॥ ५॥
पञ्चसारमिदं नित्यं यः स्मरेत् प्रयतः पुमान् ।
स सर्वानर्थितानर्थान् ध्रुवमाप्नोति पूरुषः ॥ ६॥
नाच्यारुचारुवदनाम्बुजराजहंसं
सत्सारखच्चरितपूर्णमुदारहासम् ।
संसारसागरतरिं हृदयाब्जवासं
तं श्रीनिवासममजं स्वरमावतंसम् ॥ ७॥
नमस्ते सारनाथाय कावेरीवरदायिने ।
सर्वपापविनाशाय सर्वाभीष्टप्रदायिने ॥ ८॥
सारक्षेत्र निवासाय सारपुष्करिणीतटे ।
यस्य प्रसादात् कावेरी गङ्गाधिक्यं पुरा गता ॥ ९॥
भक्ताभीष्टफलप्रदाङ्घ्रियुगलं कौशेयराजत्कटिं
लक्ष्मीमङ्गलमन्दिरोरसि लसन्मुक्तावलीकौस्तुभम् ।
हस्तैः शङ्खरथाङ्गपङ्कजगदा बिभ्राणमभ्राकृतिं
राकाचन्द्रमुखं सुजातमकुटं श्रीसारनाथं भजे ॥ १०॥
सारक्षेत्रे पवित्रे सुजनसुखकरे सारकासारतीरे
साराव्यव्योमयाने विरचितनिलयः सारनेच्या समेतः ।
साराम्भोधानकञ्जायितनयनयुगः फालसौन्दर्यसारः
संसाराब्धेरसारात् स हरिरवतु मां सारनाथो रमेशः ॥ ११॥
आलोड्य चिन्तितपदा श्रुतिराह यस्मा-
दास्तम्बमाम्बुजभवेन्दुशिरोमणिभ्याम् ।
उत्पत्तिजीवनलयानुदितान्ययोग-
हानं श्रियःपतिममुं हृदि चिन्तयामः ॥ १२॥
यस्मादथर्वशिखया द्रुहिणस्वमूर्ति-
रुद्रेन्द्रमूलजगतोऽभिहिता प्रसूतिः ।
पैङ्ग्यश्रुतिस्फुटगतिप्रतिपन्नरूपा
पद्मासनं तमनिशं प्रणमामि देवम् ॥ १३॥
यत्पत्नीदृष्टिलेशाद् द्रुहिणहरमुखा लब्धसत्ताः सुरेन्द्रा
यद्भक्तानां नियम्याः सकलसुरगणा ब्रह्मरुद्रेन्द्रमुख्याः ।
यत्पादक्षालनाम्बु प्रथयति शुचितां चन्द्रमौलेश्च लोके
तस्मै नारायणाय प्रवितनुत नुतिं सर्वभूतान्तराय ॥ १४॥
ब्रह्मेशादेर्नियन्ता परमपुरुष इत्याह नित्या हि वाणी
पुंवाक्यैस्तस्य बाधः कथमिव भविता प्राप्तदोषप्रभेदैः ।
दूरापास्तं च गौरीमधुमथनभिदाबाधकं वावयजालं
लक्ष्मीशं तं प्रपद्ये प्रतिभटरहितप्राभवोद्भूतिभव्यम् ॥ १५॥
वेदान्तेषु प्रतीतात् तदितरभजनाद् यस्य भक्तिः प्रकृष्टा
तत्रैव स्थानमग्र्यं स्फुरति विधिशिवस्थानतोऽप्यूर्ध्वदेशे ।
लक्ष्म्या सार्धं तमेकं हृदयसरसिजे ब्रह्मविद्याप्रदात्र्या
देवं नारायणाख्यं भवजलधिसमुत्तारणं संश्रयामः ॥ १६॥
इति श्रीसारनाथस्तोत्रं सम्पूर्णम् ।
स्तोत्रसमुच्चयः २ (७६)
The God Saranatha at Tirucherai (near Kumbakonam)
is eulogized in this stotra (76) describing
the various sacred objects in that place.
Proofread by Rajesh Thyagarajan