॥ श्रीश्रीनिवासस्तवः ॥

श्री श्रीनिवासपरब्रह्मणे नमः आत्रेय श्रीवेङ्गटाध्वरिणः कृतौ श्रवणानन्दे प्रथमशतकम् आचक्रायुधमा च मामकगुरोराचार्यवर्गं भजे यस्यान्तर्निगमान्तदेशिकयतिश्रेष्ठौ मुनिर्यामुनः । रामस्तामरसेक्षणः स च मुनिर्नाथः शठारातिरि- त्यन्तस्सन्तमसच्छिदः श्रुतिदृशामग्रेसरा जाग्रति ॥ श्रीः ॥ या कल्याणनिधिर्व्रजन्ति शरणं यामेव धीमेदुरा यक्षेशन्ति ययेक्षिता भुवि जना यस्यै हरिस्तिष्ठते । यस्या जातमिदं वदन्ति भुवनं यस्याः सदस्याः सुरा यस्यामायतते शिवं भगवस्तामिन्दिरां चिन्तये ॥ २॥ माकानेकहगर्वचर्वणचणैर श्रान्तविश्राणनै- र्मानाकाङ्क्षितसंविधाननिपुणे नारायणे जाग्रति । कष्टं कष्ठमुपेत्य दुष्टनृपतिद्वारक्षमा रक्ष मा- मित्याक्रन्दकृतां वृथैव दिवसान्येतानि यातानि नः ॥ ३॥ तूर्णं दुर्नरपालवर्णनमहादुर्नाटकोपक्रमं दोषं शेषयितुं वृषाचलपते तोषं च नेतुं सतः । अत्रामुत्र च लब्धुमग्र्यसुमनोलभ्यानि भाग्यान्यमी पद्माकान्त तव स्तवे भवदवैरार्ताः प्रवर्तामहे ॥ ४॥ वाचा वाञ्छति यत्तव स्तवमिह प्रह्वापि जिह्वा चिरा- दाराध्यामि भवन्तमित्यपदिशंस्तेनापराध्यामि ते । यद्वाऽसावतिबालवागिति कृपाव्याजाय ते जायते सन्दत्ते शिशुकैः शुकैश्च कलितो वर्णोऽपि कर्णोत्सवम् ॥ ५॥ मालीमस्यमवापिता घनतमःप्रायैर्मुरारे चिरा- दिङ्गालैरिव जङ्गमाधमगुणाभासैरियं भारती । तत्तादृग्भिरशङ्करशिरःकम्पस्य सम्पादकै- र्गम्भीरैरवदायते तव गुणैर्गाङ्गैस्तरङ्गैरिव ॥ ६॥ जम्भालम्भनचित्तकम्पनमहाकुम्भाभवक्षोजभृ- द्रम्भाद्यामरशम्भलीदृढरीरम्भादिकं भावुकम् । शम्पालोलमवेक्ष्य मुह्यतु जनः किं पामरेणामुना त्वं पादाम्बुजचुम्बनं भगवतः सम्पादयेथा मनः ॥ ७॥ वेदैर्वक्तुमजादयो गुणगणान् विश्वेश ते नेशते स्तोतुं तान् मितया गिरा व्यवसितो हास्याय हा स्यादयम् । सिन्धुं राघवसेतुनाऽपि तरितुं तं सर्वतो दुश्शकं को वा लङ्घयितुं व्यवस्यति कुशस्तम्बेन कुम्भेन वा ॥ ८॥ मुग्धे वाणि नृणां गुणाः कतिपये मिथ्या निबद्धा इति प्रोत्सिक्ता भगवद्गुणानुकथनारम्भाय किं जृम्भसे । आकृष्टाः कतिचिद् वनेषु हरिणा इत्याजिहार्षामहो लुब्धो लब्धमदो विधास्यति विधोरङ्के कुरङ्गेऽपि कः ॥ ९॥ त्वत्कल्याणगुणामृतार्णवसुधालेशोऽपि लीढो भवं हन्तीति स्तवविस्तरेष्वपटुता नातीव दोषाय नः । आपाताप्लव एव जह्नुदुहितर्यह्नाय शुध्द्यै भवेत् तस्या नेतरगाधवारिषु तलस्पर्शोऽपि नापेक्षितः ॥ १०॥ सन्दर्भे मम माऽस्तु सुन्दरतया सन्तोषसान्द्रो बुधः किन्तु त्वद्गुणलेशपेशलतया सन्तुष्यतु श्रीपते । राजानो मणिपेटिकामवहिता रक्षन्ति यत् तत्र नो पेटीसौष्ठवमेव हेतुरपि तु ख्यातं मणेर्गौरवम् ॥ ११॥ नाद्यं भूतमहो वहामि शिरसा त्वत्पादजातं न च द्वैतीयीकमथ त्वदीक्षणभुवः शौरे तृतीयस्य वा । अन्ते नावसमप्यवाप्य जननं तुर्यान्न वा पञ्चमे किञ्चाहं चरतां गुरुस्तदपि ते स्तोत्रे प्रवर्ते कथम् ॥ १२॥ ओङ्कारस्य रहस्यमित्यज इति ब्रह्मेति सर्वात्मना- मात्मेति प्रकृतेः परः पुरुष इत्याद्यः स्वयम्भूरिति । वेदान्तैरवबोधिताय भगवन् विश्वैकजीवातवे बोधानन्दमयाय सिन्धुदुहितुर्नाथाय तुभ्यं नमः ॥ १३॥ यश्चक्षुर्जगतां तदेव निगमास्त्वञ्चक्षुराचक्षते लक्ष्मीनाथ तथापि दृश्यमितरादृश्यः स्वयं पश्यसि । अप्येतच्छतमन्युपावकजनिस्थानं सदा नः पुन- र्वक्त्रं देव तव प्रसादशिशिरं हर्षं दृशोर्वर्षति ॥ १४॥ तत्तादृक्करुणारसैरविरलैस्त्वन्मानसं शीतलं तापानां त्रितयं हरेदिति हरे धैर्यं ममोदञ्चति । तज्जन्मा विवृणोति शीतकिरणस्तच्छैत्यमत्युज्ज्वलं लिङ्गं कार्यगुणं हि कारणगुणे शंसन्ति निस्संशयम् ॥ १५॥ नित्याय स्वतनुस्थवारिधिवरापत्याय मृत्युञ्जय- स्तुत्याय क्षपितप्रणम्रजनदौर्गत्याय सत्यात्मने । इच्छानिर्मितविश्वजन्यवनसंहाराय निश्श्रेयस- द्वाराय स्थिरसम्पदे नम इदं नारायणायास्तु ते ॥ १६॥ दीनानां सुरधेनवे तनुभृतामन्तस्तमोभानवे मायातूलकृशानवे कलयते मानक्षतिं दानवे । निर्धूताखिलकर्मणे विनमतां नित्येन्दिरानर्मणे तुभ्यं निर्मलधर्मणे नम इदं कुर्मः परब्रह्मणे ॥ १७॥ पादाम्भोजमहं भजामि भवतो वेदाञ्चलैरञ्चितं प्रख्यातात् किल पन्नगाचलपते यस्य प्रभावादसौ । सिद्धा मूर्ध्नि फनीश्वरस्य पृथिवीं शर्वस्य चापो मुने- रग्निश्चाक्षपदस्त्रिवर्णजनुषां शुश्रूषकाप्तिस्तथा ॥ १८॥ मूर्तीनां तिसृणां परा तु कतमेत्यब्जाक्ष संशेरते भ्रान्तिं यान्ति च देवतान्तरपरैर्ये वाङ्मयैस्तामसैः । यः पादाम्बु ददाति यस्तदुपसङ्गृह्णाति गृह्णाति वा यश्चैतच्छिरसैव तेषु परमः को वेति पृच्छामि तान् ॥ १९॥ पर्यङ्कस्तव पङ्कज्जाक्ष गिरिजाप्राणेशितुर्भूषणं चारु त्वच्चरणारविन्दसलिलं चूडापदे मालिका । मन्त्रो नित्यजपोचितो ननु भवन्नामैव तद्योषितः पारम्ये भवतो मुकुन्द भुवि कः सन्देग्धि मन्देतरः ॥ २०॥ नालीके जननं स्थितिं च भजतो नारायण ब्रह्मणः स्थानेऽभूद् रज एव कारणगुणः कार्ये हि सूते गुणम् । ईशाने पुनरन्धकारिपदभाज्यर्हं तमस्तत् किल श्रीवासे त्वयि सारसत्वविभवः सञ्जाघटीति स्फुटम् ॥ २१॥ नागेन्द्राद्रिविहार सारसवनस्तोमप्रकाशावहा धीरोदारपदक्रमा मतिमताध्येया सुवर्णाकृतिः । पुष्यन्ती निजमौलिना सुमनसो ज्योतिष्मदङ्गोज्ज्वला त्रय्येषा सुरपूज्य रज्यतितरां त्वय्येव लक्ष्मीरिव ॥ २२॥ नित्पापाकृतमीर्निरत्ययशुभाधारैर्वृतो बान्धवैः प्रौढाभस्थिरधीरसन्नभवनस्थायी व्यथाभारहृत् । सद्गोष्ठीषु सदा विभानमधिकं प्राप्तः श्रितस्त्वां हरे तत्तुल्यस्त्वदनाश्रितश्च भगवन्नन्त्ये भङ्गं विदुः ॥ २३॥ श्रेयस्तोयदसम्प्रदायरसिकच्छायः सहायः श्रिय- श्चिन्तारत्नसपत्नवीक्षितलवश्चेक्रीयतामन्वहम् । यो विश्वेन च गात्रवान् हिमरुचाऽप्युष्णांशुना नेत्रवान् सुग्रीवेण च मित्रवान् कुशलवब्रह्मादिभिः पुत्रवान् ॥ २४॥ पूर्वं त्वत्पदपांसुना बलिरिपो पूता जलध्यद्गना पुंसः साऽपि सुरापगा वितनुते पूतान् सुरापानपि । पत्नी योगिवरस्य सा सुरपगा प्राप्ता विशुद्धिं परां तेनेत्यत्र न विस्मयः स मम किं पापं न लोपं नयेत् ॥ २५॥ मामाराध्य दुरत्ययं स्वयममी मायापयोधिं तर- न्त्वित्यालोच्य सहेन्द्रियैरिह वपुस्त्वं चेतनेभ्योऽदिशः । तेष्वेके तत एव दुष्कृतशतं सञ्चिन्वते श्रीपते क्लृप्ते तापशमाय विन्दति सरस्यन्धस्तु पातव्यथाम् ॥ २६॥ गोविन्देति कृपाकरेति कमलाकान्तेति कृष्णेति वा काकुत्स्थेति रघूद्वहेति जलदश्यामेति रामेति वा । वैकुण्ठेत्यतिचण्डकण्टकवनीदावेति देवेति वा शेषाद्रीश तवैव नाम कथयन् श्रेयो न विन्देत कः ॥ २७॥ कल्याणैकनिकेतनं तदनघं कालाम्बुदश्यामलं चित्ते नृत्यतु शेषभूधरशिरोरत्नं चिरत्नं महः । यस्योरस्यनिशं सुता जलनिधेर्यस्यास्ति तन्मेखला पार्श्वे यस्य पदे च तत्प्रियतमा यत् तत्र शेते स्वयम् ॥ २८॥ दुरादेव निरस्य दुष्टनृपतिद्वाराग्रनित्यस्थितिं तारावल्लभदुर्लभप्रभमुखं धाराधरश्यामलम् । पारावारसुतासखं सुमनसामाराधयामः प्रभुं घोरापारसमस्तदुष्कृतपरीहाराय नारायणम् ॥ २९॥ कीर्तिं नश्चिरवर्तिनीं क्षितितले पुष्णातु कृष्णाम्बुदः कश्चित् तापहरो गृहीतकमलः कल्लोलिनीवल्लभात् । धिन्वन् जीवनदानतो जगदिदं तन्वन्नदीनां श्रियं प्राप्तः साधुकदम्बजृम्भणकरः श्रीवेङ्कटक्ष्माधरम् ॥ ३०॥ आस्तामष्टनवैर्दिनैरपयती प्रास्तापर्वर्गस्पृहा वृष्णोन्तःपुरकेळिताण्डवविधौ तृष्णा कदुष्णाञ्चिता । दीक्षामाश्रितरक्षणे कृतवतो मोक्षाय लक्ष्मीपतेः साक्षदेव पदारविन्दविषयां प्रेक्षामपेक्षामहे ॥ ३१॥ कल्याणानि चिरं तरङ्गगयतु नः कारुण्यकल्लोलिनी- कान्तस्स्वान्तचरस्सतां सफलयन् काकोदरेन्द्राचलम् । आमोदादमृतं ददाति विबुधव्राताय जातादरो गाम्भीर्यैकनिधिर्घनैरभिगतो यो जीवनप्रेप्सुभिः ॥ ३२॥ पुण्यारण्यमहीरुहैरविरले पुष्पासवैश्शीतले नानादिग्जनसेव्यमान शिखरे नागाधिपक्ष्माधरे । आविर्भूतमुपासितं मुनिजनैरप्राकृतं दैवतं पद्माकान्तभुजान्तरं शुभपरीपाकाद्विलोकामहे ॥ ३३॥ अङ्घ्रिं जिघ्रति वेङ्कटाचलपतेरारुह्य चोरुद्वयी- मध्यास्ते रशनामथाटति कटोमासेवते नन्दकम् । वक्षस्थां श्रयते श्रियं विहरते शङ्खे रथाङ्गे च धी- रालीढे मुखचन्द्रमण्डलसुधां कोटीरमाटीकते ॥ ३४॥ ध्यातं योगकलाविलासरसिकैश्शीतं दयास्रोतसा ख्यातं मौळिषु कृत्रिमेतरगिरां क्रीतं श्रिया विभ्रमैः । वेतण्डेन्द्रविपद्विमोचनचणं वातन्धयक्ष्माधरे जातं धाम निरामयं प्रशमयत्वा तङ्कजातं मम ॥ ३५॥ हेमाटोपविडम्बिगात्रसुषमां वामालकां कामपि प्रेमावेशवशेन वक्षसि वहन्वैमानिकेन्द्राञ्चितः । क्षेमाणि स्वयमातनोतु जगतां कामाभिरामाकृतिं- र्भूमा कोऽपि भुजङ्गभूधरशिरस्सीमातमालोपमः ॥ ३६॥ प्रातर्नातनवं तवाभिगमनं पश्चात्त्वदर्चाक्षमं द्रव्यं नार्जयमाचरं न च ततः प्राज्यां त्वदिज्यामषि । स्वाध्यायं न च हर्षहेतुमजपं नाध्यायमङ्घ्री च ते तन्मे जन्म विपश्चितोऽपि विफलं शौरे तिरश्चामिव ॥ ३७॥ भोगीशानमहीधरेन्द्रमकुटीपाटीरवाटीचर- द्भिल्लोत्फुल्लसरोजपत्रनयनानेत्रैकपात्रायितः । नाभीपद्मनिवासिधातृवदनप्रोद्यज्जरद्भारती- गानाकर्णनहृष्टकर्णयुगळः पायादपूर्वः प्रभुः ॥ ३८॥ नाभेरेव बभूव यस्य गगनं नेत्रादसौ तन्मणिः चित्तात्तत्परिपन्थि धाम शिशिरं तच्छेखरः फालतः । प्राणात्तत्करकङ्कणाशनमदोमित्रं च वक्रादयं शेषाद्राववलोकितो हरिरुरोभूषायितान्तःपुरः ॥ ३९॥ शौरे वाहनयाञ्चकर्थ शकुनिं मुक्त्वा गजाश्चादिकान् सर्पे संविशसे कथं मणिमये तल्पेऽप्यनल्पे सति । विस्तीर्णालयहीनवत् सुबहुषु स्थानेषु सत्स्वप्यहो पुत्रं नाभिबिले न्यधाः कथमिमां पत्नीं च वक्षस्थले ॥ ४०॥ अविरतमधुपानक्षुभ्यदक्षिभ्रुवाणा- मवनिभृदधमानामास्यमात्मम्भरीणाम् । परुषतममपास्य प्रत्यहं नित्यहर्ष- प्रदमिदमवलोके पद्मनाभाङ्घ्रिपद्मम् ॥ ४१॥ सकलकुशलदायी सर्वदेवातिशायी प्रबलदुरितलावी भक्तचित्तानुसेवी । भवगहनविदारी पारिजातापहारी फणिपतिगिरिवासी पादु पद्माविलासी ॥ ४२॥ उरुतरदुरितैघध्वंसदक्षैः कटाक्षैः उपचितकमलानामुत्पलश्यामलानाम् । फणिगिरिनिलयानां भक्तदत्ताभयानां दृढमतिरहमद्य स्तोममभ्येमि भासाम् ॥ ४३॥ प्रबलदनुजपाळीप्राणसंहारकेळी- पटिमघटितकीर्तिर्भास्वदानन्दमूर्तिः । फणिगिरिगृहमेधी भक्तबाधानिरोधी भवतु हृदि ममायं प्रास्तुवन्नागमा यम् ॥ ४४॥ कमलविमलशोभाविभ्रमादभ्रमान्- क्षपणनिपुणवक्त्रः कौणपानाममित्रः । उरसि सरसिजाक्षीमुद्वहन्विद्वदाढ्यं- करणचरणरेणुः कोऽपि पायादपायात् ॥ ४५॥ विविधनिगमसारे विश्वरक्षैकधीरे वृषशिखरिविहारे वक्षसाऽऽश्लिष्टदारे । भगवति यदुवीरे भक्तबुद्धेरदूरे भवतु चिरमुदारे भावना निर्विकारे ॥ ४६॥ अनिशमुरुभिरत्रामुत्र च क्लेशमूलैः किमुदरभृतिकार्यैराप्रयाणादवार्यैः । सुखमनघमवाप्तुं सोऽहमम्भोदभासं फणिपतिगिरिवासं भावये श्रीनिवासम् ॥ ४७॥ प्रतिकटकमटित्वा पार्थिवाग्रे नटित्वा पटुचटुशतमुक्त्वा पातकान्येव कृत्वा । किमिह फलमवाप्तं केवलं कैटभारेः स्मर चरणसरोजे सन्तराम्यन्तरात्मन् ॥ ४८॥ वशयति हृदयं मे वर्षति श्रीश हर्षं जनयति परिशुद्धिं जायते मङ्गळाय । दमयति परितापं देव निर्हन्ति पापं दरमपि विधुनीते दर्शनं तावकीनम् ॥ ४९॥ कबलितघनवर्गः कान्तिभिः पेशलाभिः कमलवननिवासाकान्तबाहान्तरालः । पुरुष इह रथाङ्गी पूर्णिमाचन्द्रबिम्ब- प्रतिभटवदनश्रीः प्रातराभातु चित्ते ॥ ५०॥ सुरतरुरिवोदारो दारोपशोभिभुजान्तरः मधुरकरुणालोको लोकोपरक्षणदीक्षितः । अखिलसुमनःकोटीकोटीरचुम्बिपदाम्बुजः फणिधरणिभृन्मल्लो मल्लोचनाभरणायते ॥ ५१॥ तमुपनिषदां सारं सारङ्गलाञ्छनलोचनं प्रकटितकृपासारं सारम्भमाश्रितपालने । लयमिह रुषा वारं वारं नयन्तममुं द्विषां वृषगिरिपतिं वारं वारं शुभाय विचिन्तये ॥ ५२॥ मुनिभिरनिशं ध्येया गेया सुरप्रमदाजनैः वलभिदुपलच्छायादायाददीप्तिलसत्तनुः । उरसि विहरज्जाया कायाधवाभयदायिनी विहितदुरितापाया पायाद्वृषाचलदेवता ॥ ५३॥ दुरितभरिते दुर्देहेऽस्मिन् दुरामयदूषिते मम नवनवस्तर्षोत्कर्षो भवत्यनिवारितः । अमुमपनयन्नम्भोजश्रीकदम्बविडम्बके तव हृतनमत्खेदे पादे रुचिं रचयेशितः ॥ ५४॥ अभिगतिमुखैरस्यामि श्रीनिवास न वासरान् प्रशमितभवोद्वेगैर्योगैर्नयामि न यामिनीः । न च विरचये नाथ त्रुठ्यत्तमांसि नमांसि ते तदपि भवता हा मे मुक्तिस्पृहाऽपि न हापिता ॥ ५५॥ दुरत्ययरुजातुरे दुरितधूसरे नश्वरे हरे बत कलेबरे मतिहरे कृतघ्नोदरे । स्पृहामिह विहाय ते स्मरति मानसं मे यथा तथा कुरु सुधाब्धिजासख दयामविघ्नोदयाम् ॥ ५६॥ तमःप्रकररुद्धये तदनु सत्त्वसंवृद्धये विशुद्धमतिसिद्धये विमलनिर्बृतेर्लब्धय । भवन्तु मयि सन्ततं भगवतो वृषाद्रिप्रभोः प्रगेतनपयोरुहप्रतिभटाः कटाक्षच्छटाः ॥ ५७॥ प्रपन्नानां नानादुरितपरितापव्यतिकरं निरुन्धाना धानाप्रदमुनिधनेशीकृतिचणा । प्रबिभ्राणाऽभ्राणामपि मदहरां दीप्तिमनघाम् भृताशेषा शेषाचलशिखरभूषा विजयते ॥ ५८॥ मुदे वो देवोऽयं भवतु भुजगेन्द्राचलतटी- कृतावासो वासोरुचिनिचयधूताचिररुचिः । गजादीनां दीनां शमयितुमवस्थां करुणया निजग्राह ग्राहप्रभृतिरिपुवर्गं सपदि यः ॥ ५९॥ अभीष्टं वो दुग्धामखिलमिह गोपालतिलकः पयोदश्यामाङ्गः फणिधरणिभृत्काननचरः । अघा सं वद्धानामहह जरतीनामपि गवां परीपोषं कुर्वन् रसममितमुत्पादयति यः ॥ ६०॥ नमस्तस्मै भस्मीकृतनरकबाणादिविबुध- प्रतिद्वन्द्विश्रेणीविषतरुवनीकाय महते । हुतानां हव्यानां नियतमुपभोक्त्रेऽधिसवनं प्रशस्ताराध्याय प्रचुररुचये निस्यशुचये ॥ ६१॥ विहारि जगदुद्भवस्थितिविलोपनैर्यातनां धुनातु मिथुनं मिथस्तदवियोगि यत्रैककम् । वदन्ति वसुधाधरं पुनरचञ्चलाभं बुधाः परं नवसुधाधरं स्फुरति चञ्चलाभं तथा ॥ ६२॥ शुचये रचये प्रणाममस्मै प्रभवे सुप्रभवेषपेशलाय हरये निरयेक्षणं क्षणं यं विनता नो जनता कदाप्युपैति ॥ ६३॥ कलिकल्मषहारिनामधेयं कलये तापसमानसावधेयम् । मदनस्पृहणीयरूपधेयं तदनन्ताचलमौलिभागधेयम् ॥ ६४॥ तव सागरभूस्तु धर्मपत्नी दिवसानामधिपो निवासवेदिः । शिवधातृमुखास्सुतास्त्वदन्यै- रवधार्यो महिमा कथं त्वदीयः ॥ ६५॥ मधुरं विधुरम्यवक्त्रबिम्बं महितं धाम हितं मखाशनेभ्यः । तदहं मदहन्तृ दानवानां विदधे भीत्युदधेः प्लवं गुणाढ्यम् ॥ ६६॥ नमतां ममतावलेपहन्त्रे वरदाय स्फुरदायतेक्षणाय । करवै मुरवैरिणे प्रणामा- नुरगोर्वीधरगो य एष भाति ॥ ६७॥ करुणावरुणालयं मुरारे कमलाक्षं कमलाक्षमासमेतम् । भजते निजतेजसा जितार्कं विगतांहा जगतां धुरन्धरं त्वाम् ॥ ६८॥ अनन्तशैलेश तवाभिधानं क्षणं गृणन्तः प्रविशन्ति नाकम् । रमासख त्वद्विमुखाश्च मध्ये रसङ्गतं हन्त तमेव यान्ति ॥ ६९॥ प्रसाधयेद् यां तपसा चिरेण स्मरान्तक श्लाघ्यतरां गतिं ताम् । वृषाचलारण्यनिषादकाना प्रसादलेशेन न साधयेत्किम् ॥ ७०॥ ददासि दासप्रकराय राय स्तथाऽपि नाथ त्वमकम्पसम्पत् । श्रियो वियोगस्य कथा कथं स्या- दहीनपृथ्वीभृदुपाश्रयस्य ॥ ७१॥ प्राप्तोदयो हि प्रथमाद्रिशृङ्गे दोषावसाने हरिरेष दृश्यः । संशोषयन्मानसवृतिपङ्गं प्रसन्नपङ्केरुहशोभनाभः ॥ ७२॥ सा काऽपि राकाशशिदास्यदास्य- मुद्रा समुद्रात्मजया जयाढ्या । शेषाद्रिभूषा जलदाविशेषा पायादपायाद्वसतिः कृपायाः ॥ ७३॥ अन्यादृशी तार्क्ष्यरथा सुधाब्धि- कन्यापदन्यासविशेषधन्या । मूर्तिर्मदार्तिं महनीयकीर्ति- र्मुष्णातु कृष्णा विनतेष्वनुष्णा ॥ ७४॥ भवान् पुराणः पुरुषः प्रसिद्धो वयोऽधिकं तावकवाहमाहुः । कापि त्वरा ते करिराजगर्जा- काले कथङ्कारमभून्मुरारे ॥ ७५॥ नरे नरेऽहं धनचापलेन नवं नवं व्यातनवं स्तवं यत् । ततस्ततं दोषमशेषमुञ्चै- स्तव स्तवः श्रीकमन च्छिनत्तु ॥ ७६॥ न मे मनो योषिदुरोजकुम्भे न स्वीयडिम्भे न च शातकुम्भे । परं तु रन्तुः कमलालयायाः पदारविन्दे रुचिमेव विन्दे ॥ ७७॥ अभूरिवर्षोन्मुखमेघसुन्दरै- रनाश्रितश्रीवृषशैलकन्दरैः । अनिन्दिरामन्दिरसद्भुजान्तरै- रलं बतान्धै रिह देवतान्तरैः ॥ ७८॥ त्वदङ्घ्रिपद्मैकधना धनान्तरं न कामयन्ते न च साधनान्तरम् । अनन्तशैलेश भवन्तमेव यत् फणन्त्युपायं च फलं च पण्डिताः ॥ ७९॥ नलिननयन नागशैलवासिन् मलिनहृदामपि कल्मषापहन्तः । जननमरणरोगदुःखशान्त्यै चरणयुगं शरणं वृणे त्वदीयम् ॥ ८०॥ गोवर्धनोऽपि शिरसा विधृतः किमन्य- द्येन त्वयाधिजठरं सकलोऽपि लोकः । तस्मिन्निह त्वयि वृषाद्रिपतेऽहमात्म- रक्षाभरं कृशतमो निदधामि दक्षे ॥ ८१॥ किं भो मनः कितवलम्पटशम्भलीनां सम्भोगकेलिकिलिकिञ्चितसम्भ्रमेण । अम्भोजदम्भहरनेत्रयुगो यशोदा- डिम्भो रसेन भवता परिरम्भणीयः ॥ ८२॥ मोट्टायितं त्रिदशपट्टणकुट्टिनीनां दृष्टं विनष्टमिदमष्टनवैर्दिनैस्तत् । हृट्टीकतां स्थितिमदुष्टिनि शुक्समष्टि- कुट्टाकदृष्टिनि धृतक्षिणि वस्तुनीदम् ॥ ८३॥ दम्भोलिपाणिपुटभेदनशम्भलीनां वक्षोजकुम्भपरिरम्भसुखोपलम्भम् । मा नाम चीकमत मानसमस्मदीयं वैकुण्ठचिन्तनरसैर्वयमुत्सुकाः स्मः ॥ ८४॥ न मणीन् रमणीश्च सोऽहमीहे न हयेभ्यः स्पृहये न वा गजेभ्यः । वरदश्शरदश्शतं दृशौ मे भुजगाद्रौ शरणार्थिनो धिनोतु ॥ ८५॥ कारागेहे संसृतिरूपे भ्रमतो मे का रागे हे कृष्ण विवृद्धे मतिवार्ता । नागोदाराहार्यपते मां स्वयमव्या नागो दारालङ्कृतमूर्ते मम वीक्ष्यम् ॥ ८६॥ वन्दारुषु मन्दारममन्दार्तिहरं ते वन्दामह इन्दावपि निन्दावहमास्यम् । मारारिकुमारादिसमाराधितमूर्ते नारायण घोरादपचारादिह पायाः ॥ ८७॥ प्रधानाय सम्पन्निधानाय भक्त- व्यथानाशदत्तावधानाय तुभ्यम् । समस्ताधिनाथ स्वमस्थाभिक्लृप्तं नमस्स्तादिदं निस्तमस्ताविधायिन् ॥ ८८॥ नागराजाचले सागराग्र्यात्मजा- कान्तबाहान्तरो दान्तबाधाहरः । वारिजाक्षश्श्रयत्पारिजातो जग- द्राजते रक्षितुं राजतेजोमुखः ॥ ८९॥ मरुतां भगवन् मरुतां विरतिं लषतां मिषतां द्विषतां ततयः । भवता मनुजीभवता मृदुतां जहता महता निहता इह ताः ॥ ९०॥ किञ्चित्सञ्चिन्तये गोपीकिलिकिञ्चितवञ्चितम् । अञ्चितं ज्योतिरमरैरञ्जनाद्रावुदञ्चितम् ॥ ९१॥ सर्वदानन्दनिलयं सार्थयन्नवनीतहृत् । कृष्णस्त्वं वेङ्कटाधीश किं तु शैलेन धार्यसे ॥ ९२॥ वृषाचलपते कृत्स्नविषादहरणक्षमम् । प्रपद्ये भवतः पादपयोरुहमहं कृशः ॥ ९३॥ मानयामो हरे न त्वामानयामो न ते मुदम् । पनायामोऽहह क्षुद्रान् धनायामोहतो हताः ॥ ९४॥ प्रपद्ये निरवद्यं तत्फणिभूधरभूषणम् । परब्रह्म हरब्रह्मदुर्लभं वल्लभं श्रियः ॥ ९५॥ अञ्जनमहीधरचरं जनमनीषा- रञ्जनमधोक्षज निरञ्जनमिह त्वाम् । लोचनयुगीकृतविरोचनसुधांशुं केचन भजन्ति भवमोचनमभिज्ञाः ॥ ९६॥ सञ्चरति योगिहृदि किञ्च रविबिम्बे यो लसति नीलघनजालसममूर्तिः । निष्कृतिविहीनबहुदुष्कृतिसमुत्थं सङ्कटमपास्यतु स वेङ्कटगिरीशः ॥ ९७॥ इन्दुकरबृन्दपरिकन्दलदमन्दा- नन्दकरमन्दहससुन्दरमुखश्रि । निस्तुलमुपस्थितमुरस्स्थितवरस्त- न्यस्तु मम शेषगिरिमस्तगतवस्तु ॥ ९८॥ प्रशमितपिशिताशं प्रास्तसंसारपाशं कृतनतगदनाशं कीर्तिभिस्स्मेरिताशम् । नवजलदनिकाशं नागशैलप्रकाशं परिहृतविषयाशं भावयामो रमेशम् ॥ ९९॥ कल्याणाभ्यामशेषाभ्युदयविभवसम्पीडनक्रीडनाभ्यां नाभ्यामभ्युद्गतस्य द्वियुगमुखशिशोः श्रूयमाणस्तवाभ्याम् । बोधामोदार्णवाभ्यां भुजगपरिबृढक्ष्माधरालङ्कृतिभ्यां दिव्याभ्यां दम्पतिभ्यां भवतु नम इदं देवतासेविताभ्याम् ॥ १००॥ ॥ इत्यात्रेय श्रीवेङ्कटध्वरिकृतिषु श्रवणानन्दे श्रीनिवासस्तवे प्रथमशतकम् ॥
॥ अथ द्वितीयशतकम् ॥ श्रियः प्रियतमं सेवे शेषाचलशिरोमणिम् । महितं सुमनोबृन्दैर्मन्दारमिव मादृशाम् ॥ १॥ कमनीयैर्निजालोकैः कमलानन्दकारिभिः तमसामपनेतारं तमेव हरिमाश्रये ॥ २॥ परिष्कृताञ्जनधरं परं श्रुत्यन्तगोचरम् । लोचनं स्तौमि लोकानां किमप्यज्ञानमोचनम् ॥ ३॥ प्रतीपशरभारावलोपकं गजपालकम् । दधामि हरिमाश्चर्यं गुहाशयमिहाश्रये ॥ ४॥ अदृश्यं योगिवर्यैरप्यब्जदीप्तिकरं हरिम् । उपतिष्ठेऽधिकारुण्यमुद्यन्तमिव भास्करम् ॥ ५॥ देवतामादिमां वन्दे धृतां भुजगभूभृता । समुद्रमाश्रितामुर्वीं पृथुचापप्रसाधिताम् ॥ ६॥ आनन्दनिलयं वन्दे श्लाघ्यं दुग्धार्णवादपि । श्रीधरं यत्र जागर्ति परं ज्योतिर्निरञ्जनम् ॥ ७॥ प्रपन्नाभयदोस्मीति सत्यापय वचो मयि । नाळीकशब्द उचितः श्रीनिवासस्य ते यतः ॥ ८॥ प्रपञ्चास्यमुपास्य त्वां नृपञ्चास्यति मानवः । करोषि तस्य यत्स्वामिन् करोषितमभीप्सितम् ॥ ९॥ वृषाचलेशस्य तुषारदीधितित्विषा मुखेनार्तविषादहारिणः । मुदां निदानं द्युसदावलिस्तुतं सदा पदाम्भोजमुदारमाश्रये ॥ १०॥ सकृत्प्रपन्नाय कृशाय दैवतैरनाप्यमप्यर्पयसि स्थिरं पदम् । दयालुता माधव दुर्बलेषु हि प्रभूत्तमानां परमं विभूषणम् ॥ ११॥ अजस्रमप्यब्धिसुतां वहन्नुरस्यजामधिष्ठाय सृजन् प्रजा हरे । भवत्यहो मन्मथजन्मभूर्भवान् तथापि कन्दर्पजिताऽभिमन्यसे ॥ १२॥ त्व किमिन्दुना तेन कलङ्कितेन यं प्रबिभ्रतो नापगतान्धकारिता । तवैव वीक्षे मुखचन्द्रमद्भुतं तमो मुरारे हरति स्मृतोऽपि यः ॥ १३॥ पतङ्ग उद्यन्नुपमानतां भव- स्पदो नु[दोर्न]देव प्रतिवक्तु [पत्तु]मर्हति । असंशयं दुष्यति यस्य दर्शने जनो ययोस्त्वभ्युदयं प्रपद्यते ॥ १४॥ फणभृदद्रीश गुणालिभिः क्षमा- घृणाविरोधिक्षपणादिभिश्श्रुतम् । प्रणामतस्त्वां निपुणाश्रयं त [-णः श्रयन् स]दा नृणां पतीनेव तृणाव[य] मन्यते ॥ १५॥ मनस्तुरङ्गं विषयच्छटावटान्तरे गभीरेव द[पत]यालुमाशु मे । वितु[कृ]ष्य दक्षं विरचय्य शिक्षया हरे तदु[मु]च्चैरधिरोढुमर्हसि ॥ १६॥ स्थिरमङ्गलदायकम् श्रितानां परमं धाम वृषाद्रिधाम वन्दे । स्मरमन्युमदैर्गदैरयुक्ता न रमन्ते हि यतोऽपरत्र युक्ताः ॥ १७॥ वलवैरिशिलावलेपलोपक्षमभू[भा]मण्डलभव्यदिव्यदेहम् । प्रणमत्तित्रदशा[शं] दृशोः पुरस्तात् परमं वस्तु तदस्तु निष्कलं मे ॥ १८॥ तरुणार्ककरावमर्शहृष्यन्नलिनाहङ्कृतिहुङ्कृतिप्रवीणम् । भवमोचन लोचनद्वयं ते भगवन्मामकमानसे चकास्तु ॥ १९॥ भुवनाभ्युदयावनान्तलील स्तवनादेव सतीहितार्थदातः । तव दास्यपदे मयीह शौरे भवदावानलपातिता न युक्ता ॥ २०॥ वृषशैलवनस्थलीविहारी मधुहारी सुमनश्शिरस्सु नित्यम् । निहिताङ्घ्रिरलङ्कृतागमान्तो मम चेतःकमले तु लालगीतु ॥ २१॥ द्युतरो नमतां प्रसीद शार्ङ्गिन् इतरोपायविधावहं न शक्तः । तरणौ तरणे त्र[कृ]पां सृजन्तौ चरणौ ते शरणं वृणे शरण्यम्[ण्य] ॥ २२॥ इदमेव पदं सुरस्रवन्तीं जनयित्वा शिवयाम्बभूव शम्भुम् । इति माधव दर्शयन् करस्ते सततं लोचनगोचरो मम स्तात् ॥ २३॥ जगदण्डसहस्रभारखेदो जठरस्यातिकृशस्य जतु मा भूत् । इति तद्बलकल्पनाय कट्यां कलितं श्रीधर चिन्तये करं ते ॥ २४॥ नतिरस्तु तटिद्धनद्युतिभ्यां श्रितशेषाचलशृङ्गसङ्गतिभ्याम् । परिपालितभक्तसन्ततिभ्यां प्रथमाभ्यामनुरूपदम्पतिभ्याम् ॥ २५॥ हरिनीलनिभं हरेरुरस्तत्कलये श्रीः किल यत्र वर्तमाना । उषिता ध्रुवमुत्पलेऽपि नीले कमला पद्म इवेति सौति बुद्धिम् ॥ २६॥ गारुत्मतद्युतिविडम्बिनि कैटभारे गाढे विराजति तवोरसि कौस्तुभोऽयम् । दीव्यत्तमालगहनाहितमेचकिम्नि प्राच्यावनीधरतटे भगवानिवार्कः ॥ २७॥ सर्वज्ञमस्तकगृहीतकलस्य तस्य भ्रातुर्विधातुमनसः परमं प्रक[ह]र्षम् । लक्ष्म्याः किमिङ्गितमवेत्य वृषाचलेन्दो वक्त्रेऽर्धचन्द्रतिलकं वहसि प्रसन्नः ॥ २८॥ गोवर्धनं धृतवता गुणपूर्ण मूर्ध्ना मन्थानमप्यचलमूढवता महान्तम् । अम्भोरुहाक्ष वहसे किमपक्षपातात् तं चारु काञ्चनमयम् च [गिरिं सु]मेरुम् ॥ २९॥ प्रह्लादवारणविभीषणभानुसूनु- पाञ्चालराजतनयाप्रमुखावनेन । तावद्बभूव तव नैवे वृषाचलेन्दो यावद्यशोऽतिकृशमादृशरक्षणेन ॥ ३०॥ ग्राहग्रहेण विरटन् करटीव नैते लोकान्तरागमविलम्बसहिष्णवो मे । इत्यस्मदाद्यलसदासरिरक्षिषातो जागर्ति[र्षि] नाथ वृषभूभृति सावधाने[नः] ॥ ३१॥ यन्मेखलापरिलसन्मणिमञ्जुदीप्ति- पीताम्बरस्सु[रं सु]मनसः कथयन्ति या[यं] च । यद्भोगिभूभृदिति यश्च हरे प्रसिद्धं वासस्तवावहतु तञ्च स च श्रियं नः ॥ ३२॥ अत्युन्नतं तिलकभूषितमायताक्ष- मुद्भासिमेखलमुदारसहस्रपादम् । शेषाचलेशितरनन्तपदाभिधेयं त्वां त्वद्गिरिं च सममेव विचिन्तयामः ॥ ३३॥ अल्पेतरश्रमविकासकरैरसारै- र्घोरैरलं तव[बत] लुलायकुलानुसारैः । काङ्क्षाधिकार्पणकृतत्रिदिवद्रुनिन्दे वन्दे मुकुन्द भवतश्चरणारविन्दे ॥ ३४॥ अक्षाणि मे विषयपङ्कमलीमसानि प्रक्षिप्य [-क्षाल्य] नाथ गुरुणा करुणारसेन । पादाम्बुजे ननु निजे अमृतप्रदो [दे] षडेतानि तल्पदय [सङ्गमय] षट्पदकूजितानि ॥ ३५॥ मन्देतरस्फुरणमङ्गलकालमेघ- मन्देहदायिसुषुमैकनिकायकायम् । वन्दे तमेव वरदं शरम्बुजाक्षं यं देवमाहुररविन्दगृहासहायम् ॥ ३६॥ कमलनयन दीव्यत्कौस्तुभोदारदीपं भवनभवतु नस्तद्बाहुमध्याभिधानम् । प्रथितसदनुभावैस्सात्विकैर्भाव्यमानं यदुतिलक समिन्धे यत्र शृङ्गारवत्वम् ॥ ३७॥ अनुचितमहमीदृङ्मुक्ततां यत्समीहे मशकशिशुरिवोच्चैर्भक्त [मत्त] मातङ्गरूपम् । क्षममिदमथवा मे त्वां प्रपन्नस्य तूर्णं तृणमपि वृषशैलाधीश दिव्यास्त्रयन्तम् ॥ ३८॥ विषद[ज]विततिरास्तामुत्पलं धिक् सरोगं कृतमतिकठिनैस्तैर्गोत्रभिद्ग्रावभिश्च । नियतममृतदं ते निर्मितातङ्कभङ्गं वपुरतिसुकुमारं वासुदेव स्तुतो[वेऽ]हम् ॥ ३९॥ प्रकृतिमहदहङ्कृत्यादिकं तत्त्वजातं पुरुषमपि शरीरं तावकं सङ्गिरन्ते । मधुमथन परं ब्रह्मैकमेवाद्वितीयं त्वमसि तदखिलश्रुत्यन्ततात्पर्यभूमिः ॥ ४०॥ निखिलविहितहातॄन् नीतकालान्निषिद्धैः निरुपधिकरुणाब्धिस्त्रातुमस्मानकस्मात् । विभुरपहतपाप्मा विश्वभूतान्तरात्मा- प्यधिवससि वृषागाधित्यकां सत्यकामः ॥ ४१॥ पुनरपि जननीनां चेन्न कुक्षौ विविक्षा निरवधिनि सुखे चेदस्ति साक्षादपेक्षा । चरणनलिनयुग्मे तावके देव के वा शरणवरणमेते श्रीपते नाचरन्ति ॥ ४२॥ वरद मदपचाराः किञ्चिदालोचिताश्चे- न्नलिननयन नालं नारकास्त्वत्प्रक्लृप्ताः । वितरणकरुणाद्यास्त्वद्गुणाश्शीलिताश्चे- दमृतमपि सुधान्धुं [सुरान्धः] स्वल्पमित्यप्यवैमि ॥ ४३॥ हृदि मम कलुषेऽस्मिन् पादपद्मं त्वदीयं चरतु कथमिदं ते नाथ हन्तेति चिन्ताम् । दुरुपलसुतनृकृत्यद्भुतानःप्रहार- प्रभृति चरितमस्य श्रीपते निर्धुनीते ॥ ४४॥ अशरणं भगवन्नभिरक्ष मामयमहं भवतः करुणापदम् । प्रचुररोगगणेन च पाप्मनां ननु यतश्चयतः प्रसृतोऽस्म्यहम् ॥ ४५॥ अतितरामपराधपरम्परां रचयतो मनुजानभिरक्षितुम् । कमलया सहखेलमभूषयन् हि[द्धि]ततमं ततमञ्जनभूधरम् ॥ ४६॥ त्रिभुवनैकवदान्यमनन्यधीः किमपि नाथ भवन्तमिहार्थये । तव पदाम्बुजभक्तिमनुत्तमां कलय मे लयमेति यथा[या] तमः ॥ ४७॥ कृतबुधावमतीन् कुमहीपतीनिह विहाय मदीयगिरां चयः । मधुरिपुं भजतां मधुरस्फुरन्नवरसो वरसोमसुहृन्मुखम् ॥ ४८॥ विफलया विषयान्तरचिन्तया किमनयाऽपितु कामपि देवताम् भज मनस्सुमनःप्रकरैः सदा नमसितामसिताम्बुधरोपमाम् ॥ ४९॥ तव रमासख तुङ्गतमा क्षमा तमपि येन ररक्षिथ वायसम् । त्वदितरो निहतिं बत तत्र को न कुरुते कुरुतेऽपि कृतागसि ॥ ५०॥ अपि कृतागसि तेऽजनयत्क्षमां मयि रमा क्षणमप्यनया भवान् । मुररिपो वरिवर्ति कन[कर]स्फुरद्वनजया न जयावहया विना ॥ ५१॥ मधुरिपो भवदीयभुजान्तरं मनसि मे लगताद् धृतकौस्तुभम् । स्फुरति यत्र हि मादृशगुप्तये सरसिजोरसिजोपमिताचला ॥ ५२॥ फणिपतिक्षितिभृत्तटभूषणे बलिरिपो हृदयं रिपुभीषणे । भवति रज्यति मूर्तिरिवोल्लसन्मरतके रतकेलिजुषः श्रियः ॥ ५३॥ फणिगिरौ हि स एव भवान् [वन्] भवान्मितधियामवनार्थमवातरत् अविरतं मुनयः कमलोल्लसत्पद हरे दहरे यमुपासते ॥ ५४॥ तावकं किमपि देव कञ्जभूवामदेववलशासनादिभिः । दैवतैरविरतं निषेवितम् पादपङ्कजयुगं भजामहे ॥ ५५॥ अञ्चतां दुरितपुञ्जभञ्जनादञ्जनावनिधरावतंसकात् । अन्यमत्र नहि चित्तमानये मानये न च विरोधिहानये ॥ ५६॥ दासमाविधि [थ] कयासु [धु] नन्दनं दन्तिनं दशमुखानुजं घ [श्रि] तम् । श्रीनिवास चरितानि ते परं कानि वा न विकृतानि पण्डितैः ॥ ५७॥ राजमानविभवां महीमरुद्राजमानसविहारहा [वा] सिकाम् । मानयामि फणिशैलदेवतामानयामि च तदङ्घ्रिमाशयम् ॥ ५८॥ देवकीतनय तावकी तनूरिन्दिराविहृतिमन्दिरायिता । आतनोति मम नूतनोत्पलश्यामला परमकोमला मुदम् ॥ ५९॥ प्रातराशयमहीशभूमिभृन्नेतराश [श्र] य रमापते मम । वीतरागविनुतात् त्वदुञ्चकैर्नेतरानिह भजामि निर्जरान् ॥ ६०॥ नीति [च] राजिमनुसृत्य नित्यमप्याचरामि विहितं न माधव । खेचराभिनुत नो मतिर्भवद्गोचरापि कृपयैव पाहि माम् ॥ ६१॥ मेघदर्पहरदीप्तिवैखरी शेखरीकृतपदाम्बुजा सुरैः । भाविता मुनिभिरादिदेवता सं [सा] वतादुपविता पदाऽवता ॥ ६२॥ दुर्वचप्रथिमगर्वचर्वितप्राज्ञमुद्भिरकृपैरलं नृपैः । अञ्जनाद्रिचर कञ्जनाभ ते चिन्तये वपुररण्य शान्तये ॥ ६३॥ अप्रबुद्धमकृतत्वदञ्जनं कञ्जलोचन कृतात्मवञ्चनम् । भावितापरिचितप्रपञ्चनं पाहि चक्रधर मामकिञ्चनम् ॥ ६४॥ वरुणस्य भक्तिमरुणस्य शूलिनो वलशासनस्य वनजासनस्य वा । तनुतां च नोत्र विनुतां सुरैस्समं स्मर गाढभक्तिरुरगाद्रिदेवताम् ॥ ६५॥ कमलाभिरामविमलायतेक्षणां कमनीयमूर्तिममनीषिदुर्गमाम् । परमामुपस्थितरमामिमां मनो भज गाढमेव भुजगाद्रिदेवताम् ॥ ६६॥ स्मरणं पदत्रभरणं मुकुन्द ते यजनं पदाब्जभजनं च कीर्तनम् । स्तवनं गुणानुभवनं शुभालयव्रजनं च हन्ति वृजिनं शरीरिणम् ॥ ६७॥ निजवैभवेन नहि केवलं स्वयं तव सारसत्वमुपयाति लोचनम् । निजगोचरेऽपि पुरुषे परं रमासख सारसत्वमुपपादयत्यदः ॥ ६८॥ रमया सदैव रममाण उच्चकैर्नरमानितस्त्वमिति नाथ साम्प्रतम् । नलिनायताक्ष परमेतदद्भुतं नमदिष्टकार्यपि मदिष्टकार्यसि ॥ ६९॥ दुरितानि साधु चरितानि वा जनस्तनुते मुकुन्द ननु ते प्रचोदनात् । उचिते स्तवं [वे] विरचितो [ते] पि मे [वचः] परिपोषणे मधुरिपो तव स्पृहा ॥ ७०॥ उरगेशभूमिधरगेहमच्युतं शरणं गतस्य तरणं भवाम्बुधेः । सुकरं ननु श्रमकरं यदाश्रयात् कपयोपि नैव नपयोधिलङ्घिनः ॥ ७१॥ दलितोग्रचाप तुलितोभ्र [ग्र] गूढपाद्विषया त्वन [द] न्यविषयाशया कृतम् । तव नागशैलभवनास्मदाशये चिरमस्तु वीतविरमस्तु सन्निधिः ॥ ७२॥ हृदयं प्रविश्य हृतसर्वकल्मषो विदुषां विधातुमपवर्गमुत्सवम् । तनुते तदीयतनुषु प्रहर्षतः पुरुषोत्तमं सु [मस्स] पुलकाङ्कुरार्पणम् ॥ ७३॥ मदमोहलोभमुखवैरिधूतये परितापकारिदुरितापनीतये । किमपि स्मरामि कमलाब्धिकन्यकाकिलिकिञ्चितैकरसिकं परं महः ॥ ७४॥ अविच्छेदामोदा कलशजलराशेर्दुहितरि- स्फुरद्रागा नागाधिपशिखरिणीशादिमहिता । असौ दासत्रासक्षपणनिपुणा दुष्टदमने कृतासक्तिव्यक्तिर्निगमगणगीता विजयते ॥ ७५॥ विदित्वा तत्त्वार्थानपि विशदमाम्नायशिरसां पुराणानि श्रुत्वाप्यसकृदपि बुद्ध्वा स्मृतिगिरः । समाजे स्थित्वापि श्रुतिनयविदां हन्त विदुषां [विषयान्] न हातुं शक्तोहं नरकहर किं मे न दयसे ॥ ७६॥ धनायाभिः क्षुद्रं नृपमपि विना यादवनुतिं वपनायानीतीच्छां जनयसि महायासजननीम् । अहन्तामाहत्म्यादसुरबलहन्तारमतुलं न हन्तारे चेतो नयसि खलु चिन्ताविषयताम् ॥ ७७॥ अशेषान् शेषाद्रेरधिप मम दोषान्निरसितुं महत्प्रायश्चित्तं मधुमथन नैवास्त्यनुगुणम् । प्रपश्यन्नापीठान्मणिमकुटपर्यन्तमतुलं पवित्रं गात्रं ते परमपुरुषाभूवमनघः ॥ ७८॥ स्पृहा दीनत्राणस्थिरबिरुदरक्षासु यदि ते यशः प्राप्तुं व्याप्तं यदि च रुचिराशासु दशसु । तदाशैषैर्दोषैः शरणितमसम्भावितगुणं विपद्भ्यस्त्रायेथा वृषगिरिपते खिन्नमिह माम् ॥ ७९॥ नरं वा देवं वा कमपि नलिनाक्ष श्रुतवतां प्रसिद्ध्यन्ते [न्तो] दृष्टाः परमभिमतर्थाः कतिपये । प्रपन्नानां त्वां नः परममधिपं ब्रूहि जगता- महो कष्टं सिद्ध्यत्यभिलषितमद्यापि न कथम् ॥ ८०॥ धनादित्सोपज्ञव्यसनजनितप्राणिविपदां महीभृत्पाशानां मदनमदनद्धोग्रमनसाम् । मुखं दूरे हित्वा मुरमथन मे लोचनयुगं वदान्यं वक्त्रं ते वरद शरदः पश्यतु शतम् ॥ ८१॥ नियन्ता [न्तर्वि] विश्वेषां नियतमनुकूलस्तव भवन्- नपन्थानं मुञ्चन्नतिदृढमतिस्त्रास्यस इति । वृणानो गोप्ता स्याः स्वयमिति विमुक्तेतरगतिः प्रपद्ये भीतोहं परमपुरुष त्वामभयदम् ॥ ८२॥ न दा [या] तुं न स्ता [स्ना] तुं न च रचयितुं ते स्तुतिगिरो न दा [गा] तुं न ध्यातुं न कलयितुमाराधनमपि । न यष्टुं न स्प्रष्टुं किमपि तव तुष्ट्यै पटुरहं शरण्यौ ते लक्ष्मीरमण शरणं यामि चरणौ ॥ ८३॥ अभक्त्या भक्त्या वा शुचिरशुचिर्वा मधुरिपो सकृद्वा भूयो वा सकलफलदं त्वां स्मरति यः । निरातङ्कं तुङ्गं निखिलमपि दत्सेऽभिलषितं न केषामाश्चर्यं जनयति तवौदार्यमतुलम् ॥ ८४॥ ॥ इति श्री पञ्चमतभञ्जन विख्याततातयज्वभागिनेयाप्तोर्यामादियज्वात्रेयवंशमौक्तिकाप्पयाचार्य तनूभवश्लेषयमकचक्रवर्तिरवुनाथाचार्यतनयस्य श्रीनिवासकृपाविदितनयस्य श्रीसीताम्बागर्भसम्भवस्य काञ्चीनगरवास्तव्यस्य वेङ्कटाचार्ययज्वनः कृतिषु श्रवणानन्दे द्वितीय शतकं सम्पूर्णम् ॥ श्रवणनन्दपद्येषु काठिन्यं यत्र लक्षितम् । श्रीशैलस्तातयाचार्यस्तत्रैवं विवृतिं व्यधात् ॥ From a telugu book veNkaTeshakAvyakalApa Encoded and proofread by Malleswara Rao Yellapragada malleswararaoy at yahoo.com

% Text title            : shrIshrInivAsastava
% File name             : shrInivAsastava.itx
% itxtitle              : shrInivAsastava
% engtitle              : shrIshrInivAsastava
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : venkateshwara
% Texttype              : stotra
% Author                : shrIshailastAtayAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Proofread by          : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Source                : Venkatesha Kavyakalapa
% Indexextra            : (Venkatesha Kavyakalapa)
% Latest update         : December 19, 2015
% Send corrections to   : sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP