श्रीस्तवामृतलहरी

श्रीस्तवामृतलहरी

श्रीविश्वनाथचक्रवर्तिठक्कुरविरचिता Contents अनुक्रमणिका (1) Shri Gurudevashtakam (१) श्रीगुरुदेवाष्टकम् (2) Shri Gurucharanasmaranashtakam (२) श्रीगुरुचरणस्मरणाष्टकम् (3) Shri Paramaguruprabhuvarashtakam (३) श्रीपरमगुरुप्रभुवराष्टकम् (4) Shri Ganganarayanadevashtakam (४) श्रीगङ्गानारायणदेवाष्टकम् (5) Shri Narottamashtakam (५) श्रीनरोत्तमाष्टकम् (6) Shri Lokanathaprabhuvarashtakam (६) श्रीलोकनाथप्रभुवराष्टकम् (7) Shri Shachinandanavijayashtakam (७) श्रीशचीनन्दनविजयाष्टकम् (8) Shri Manmahaprabhorashtakam Svarupacharitamritam (८) श्रीमन्महाप्रभोरष्टकम् श्रीस्वरूपचरितामृतम् (9) Shri Svapnavilasamritashtakam (९) श्रीस्वप्नविलासामृताष्टकम् (10) Shri Gopaladevashtakam (१०) श्रीगोपालदेवाष्टकम् (11) Shri Madanagopalashtakam (११) श्रीमदनगोपालाष्टकम् (12) Shri Govindadevashtakam (१२) श्रीगोविन्ददेवाष्टकम् (13) Shri Gopinathadevashtakam (१३) श्रीगोपिनाथदेवाष्टकम् (14) Shri Gokulanandagovindadevashtakam (१४) श्रीगोकुलनन्दगोविन्ददेवाष्टकम् (15) Shri Svayambhagavattvashtakam (१५) श्रीस्वयंभगवत्त्वाष्टकम् (16) Shri Jaganmohanashtakam (१६) श्रीजगन्मोहनाष्टकम् (17) Shri Anuragavallih (१७) श्रीअनुरागवल्लिः (18) Shri Vrindadevyashtakam (१८) श्रीवृन्दादेव्यष्टकम् (19) Shri Radhikadhyanamritastotram (१९) श्रीराधिकाध्यानामृतस्तोत्रम् (20) Shri Rupachintamanih (२०) श्रीरूपचिन्तामणिः (21) Shri Sankalpakalpadrumah (२१) श्रीसङ्कल्पकल्पद्रुमः (22) Nikunjakelivirudavali (२२) निकुञ्जकेलिविरुदावली (23) Suratakathamritam Aryashatakam (२३) सुरतकथामृतं आर्यशतकम् (24) Shri Nandishvarashtakam (२४) श्रीनन्दीश्वराष्टकम् (25) Shri Vrindavanashtakam 2 (२५) श्रीवृन्दावनाष्टकम् २ (26) Shri Govardhanashtakam (२६) श्रीगोवर्धनाष्टकम् (27) Shri Krishnakundashtakam (२७) श्रीकृष्णकुण्डाष्टकम् (28) Shri Gitavali 2 (२८) श्रीगीतावली २

(1) Shri Gurudevashtakam ॥ (१) श्रीगुरुदेवाष्टकम् ॥

संसारदावानललीढलोक त्राणाय कारुण्यघनाघनत्वम् । प्राप्तस्य कल्याणगुणार्णवस्य वन्दे गुरोः श्रीचरणारविन्दम् ॥ १॥ महाप्रभोः कीर्तननृत्यगीत वादित्रमद्यन्मनसो रसेन । रोमाञ्चकम्पाश्रुतरङ्गभाजो वन्दे गुरोः श्रीचरणारविन्दम् ॥ २॥ श्रीविग्रहाराधननित्यनाना श‍ृङ्गारतन्मन्दिरमार्जनादौ । युक्तस्य भक्तांश्च नियुञ्जतोऽपि वन्दे गुरोः श्रीचरणारविन्दम् ॥ ३॥ चतुर्विधश्रीभगवत्प्रसाद स्वाद्वन्नतृप्तान् हरिभक्तसङ्घान् । कृत्वैव तृप्तिं भजतः सदैव वन्दे गुरोः श्रीचरणारविन्दम् ॥ ४॥ श्रीराधिकामाधवयोरपार माधुर्यलीलागुणरूपनाम्नाम् । प्रतिक्षणास्वादनलोलुपस्य वन्दे गुरोः श्रीचरणारविन्दम् ॥ ५॥ निकुञ्जयूनो रतिकेलिसिद्ध्यै या यालिभिर्युक्तिरपेक्षणीया । तत्रातिदाक्ष्यादतिवल्लभस्य वन्दे गुरोः श्रीचरणारविन्दम् ॥ ६॥ साक्षाद्धरित्वेन समस्तशास्त्रै- रुक्तस्तथा भाव्यत एव सद्भिः । किन्तो प्रभोर्यः प्रिय एव तस्य वन्दे गुरोः श्रीचरणारविन्दम् ॥ ७॥ यस्य प्रसादाद्भगवत्प्रसादो यस्याप्रसादान् न गतिः कुतोऽपि । ध्यायन् स्तुवंस्तस्य यशस्त्रिसन्ध्यं वन्दे गुरोः श्रीचरणारविन्दम् ॥ ८॥ श्रीमद्गुरोरष्टकमेतदुच्चै- र्ब्राह्मे मुहूर्ते पठति प्रयत्नात् । यस्तेन वृन्दावननाथ साक्षात् सेवैव लभ्या जुषणोऽन्त एव ॥ ९॥ इति श्रीमद्विश्वनाथचक्रवर्तिविरचितं श्रीगुरुदेवाष्टकं सम्पूर्णम् ।

(2) Shri Gurucharanasmaranashtakam ॥ (२) श्रीगुरुचरणस्मरणाष्टकम् ॥

प्रातः श्रीतुलसीनतिः स्वकरतस्तत्पिण्डिकालेपनं तत्साम्मुख्यमथ स्थितिं स्मृतिरथ स्वस्वामिनोः पादयोः । तत्सेवार्थबहुप्रसूनचयनं नित्यं स्वयं यस्य तं श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ ॥ १॥ मध्याह्ने तु निजेशपादकमलध्यानार्चनान्नार्पण प्रादक्षिणानतिस्तुतिप्रणयिता नृत्यं सतां सङ्गतिः । श्रीमद्भागवतार्थसीधुमधुरास्वादः सदा यस्य तं श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ ॥ २॥ प्रक्षाल्याङ्घ्रियुगं नतिस्तुतिजयं कर्तुं मनोऽत्युत्सुकं सायं गोष्ठमुपागतं वनभुवो द्रष्टुं निजस्वामिनम् । प्रेमानन्दभरेण नेत्रपुटयोर्धारा चिराद्यस्य तं श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ ॥ ३॥ रात्रौ श्रीजयदेवपद्यपठनं तद्गीतगानं रसा स्वादो भक्तजनैः कदाचिदभितः सङ्कीर्तने नर्तनम् । राधाकृष्णविलासकेल्यनुभवादुन्निद्रता यस्य तं श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ ॥ ४॥ निन्देत्यक्षरयोर्द्वयं परिचयं प्राप्तं न यत्कर्णयोः साधूनां स्तुतिमेव यः स्वरसनामास्वादयत्यन्वहम् । विश्वास्यं जगदेव यस्य न पुनः कुत्रापि दोषग्रहः श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ ॥ ५॥ यः कोऽप्यस्तु पदाब्जयोर्निपतितो यः स्वीकरोत्येव तं शीघ्रं स्वीयकृपाबलेन कुरुते भक्तौ तु मत्वास्पदम् । नित्यं भक्तिरहस्यशिक्षणविधिर्यस्य स्वभृत्येषु तं श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ ॥ ६॥ सर्वाङ्गैर्नतभृत्यमूर्ध्नि कृपया स्वपादार्पणं स्मित्वा चारु कृपावलोकसुधया तन्मानसोदासनम् । तत्प्रेमोदयहेतवे स्वपदयोः सेवोपदेशः स्वयं श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ ॥ ७॥ राधे ! कृष्ण ! इति प्लुतस्वरयुतं नामामृतं नाथयो- र्जिह्वाग्रे नटयन् निरन्तरमहो नो वेत्ति वस्तु क्वचित् । यत्किञ्चिद्व्यवहारसाधकमपि प्रेम्नैव मग्नोऽस्ति यः श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ ॥ ८॥ त्वत्पादाम्बुजसीधुसूचकतया पद्याष्टकं सर्वथा यातं यत्परमाणुतां प्रभुवर प्रोद्यत्कृपावारिधे । मच्चेतोभ्रमरोऽवलम्बा तदिदं प्राप्याविलम्बं भवत् सङ्गं मञ्जुनिकुञ्जधाम्नि जुषतां तत्स्वामिनोः सौरभम् ॥ ९॥ इति श्रीमद्विश्वनाथचक्रवर्तिविरचितं श्रीगुरुचरणस्मरणाष्टकं सम्पूर्णम् ।

(3) Shri Paramaguruprabhuvarashtakam ॥ (३) श्रीपरमगुरुप्रभुवराष्टकम् ॥

प्रपन्नजननीवृति ज्वलति संसृतिर्ज्वालया यदीयनयनोदितातुलकृपातिवृष्टिर्द्रुतम् । विधूय दवथुं करोत्यमलभक्तिवाप्यौचितीं स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ १॥ यदास्यकमलोदिता व्रजभुवो महिम्नां ततिः श्रुता बत विसर्जयेत्पतिकलत्रपुत्रालयान् । कलिन्दतनयातटी वनकुटीरवासं नयेत् स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ २॥ व्रजाम्बुजदृशां कथं भवति भावभूमा कथं भवेदनुगतिः कथं किमिह साधनं कोऽधिकृत् । इति स्फुटमवैति को यदुपदेशभाग्यं विना स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ३॥ तपस्वियतिकर्मिणां सदसि तार्किकानां तथा प्रतिस्वमतवैदुषीप्रकटनोढगर्वश्रियाम् । विराजति रविर्यथा तमसि यः स्वभक्त्योजसा स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ४॥ किमद्य परिधास्यते किमथ भोज्यते राधया समं मदनमोहनो मदनकोटिनिमज्जितः । इतीष्टवरिवस्यया नयति योऽष्टयामान् सदा स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ५॥ मृदङ्गकरतालिकामधुरकीर्तने नर्तयन् जनान् सुकृतिनो नटन् स्वयमपि प्रमोदाम्बुधौ । निमज्जति दृगम्बुभिःपुलकसङ्कुलःस्नाति यः स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ६॥ समं भगवतो जनैः प्रवरभक्तिशास्त्रोदितं रसं सुरसयन्मुहुः परिजनांश्च यः स्वादयन् । स्वशिष्यशतवेष्टितो जयति चक्रवर्त्याख्यया स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ७॥ स्थितिः सुरसरित्तटे मदनमोहनो जीवनं स्पृहा रसिकसङ्गमे चतुरिमा जनोद्धारणे । घृणा विषयिषु क्षमा झटिति यस्य चानुव्रजे स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ८॥ इदं प्रभुवराष्टकं पठति यस्तदीयो जन- स्तदङ्घ्रिकमलेष्टधीः स खलु रङ्गवत्प्रेमभाक् । विलासभृतमञ्जुल्याल्यतिकृपैकपात्रीभवन् निकुञ्जनिलयाधिपावचिरमेव तौ सेवते ॥ ९॥ इति श्रीमद्विश्वनाथचक्रवर्तिविरचितं श्रीश्रीपरमगुरुप्रभुवराष्टकं सम्पूर्णम् ।

(4) Shri Ganganarayanadevashtakam ॥ (४) श्रीगङ्गानारायणदेवाष्टकम् ॥

कुलस्थितान् कर्मिण उद्दिधीर्षु- र्गङ्गैव यस्मिन् कृपयाविशेष । श्रीचक्रवर्ती दयतां स गङ्गा नारायणः प्रेमरसाम्बुधिर्माम् ॥ १॥ नरोत्तमो भक्त्यवतार एव यस्मिन् स्वभक्तिं निदधौ मुदैव । श्रीचक्रवर्ती दयतां स गङ्गा नारायणः प्रेमरसाम्बुधिर्माम् ॥ २॥ वृन्दावने यस्य यशः प्रसिद्धं अद्यापि गीयते सतां सदःसु । श्रीचक्रवर्ती दयतां स गङ्गा नारायणः प्रेमरसाम्बुधिर्माम् ॥ ३॥ श्रीगोविन्ददेवद्विभुजत्वशंसि श्रुतिं वदन् सद्विपदं निरास्थत् । श्रीचक्रवर्ती दयतां स गङ्गा नारायणः प्रेमरसाम्बुधिर्माम् ॥ ४॥ सौशील्ययुक्तो गुणरत्नराशिः पाण्डित्यसारः प्रतिभाविवस्वान् । श्रीचक्रवर्ती दयतां स गङ्गा नारायणः प्रेमरसाम्बुधिर्माम् ॥ ५॥ जनान् कृपादृष्टिभिरेव सद्यः प्रपद्यमानान् स्वपदेऽकरोद्यः । श्रीचक्रवर्ती दयतां स गङ्गा नारायणः प्रेमरसाम्बुधिर्माम् ॥ ६॥ लोके प्रभुत्वं स्थिरभक्तियोगं यस्मै स्वयं गौरहरिर्व्यतानीत् । श्रीचक्रवर्ती दयतां स गङ्गा नारायणः प्रेमरसाम्बुधिर्माम् ॥ ७॥ वृन्दावनीयातिरहस्यभक्तेर्ज्ञानं विना यः न कुतोऽपि सिद्ध्येत् । श्रीचक्रवर्ती दयतां स गङ्गा नारायणः प्रेमरसाम्बुधिर्माम् ॥ ८॥ विश्रम्भवान् यश्चरणेषु गङ्गानारायणप्रेमाम्बुराशेः । एतत्पठेदष्टकमेकचित्तः स तत्परीवारपदं प्रयाति ॥ ९॥ इति श्रीमद्विश्वनाथचक्रवर्तिविरचितं श्रीश्रीगङ्गानारायणदेवाष्टकं सम्पूर्णम् ॥

(5) Shri Narottamashtakam ॥ (५) श्रीनरोत्तमाष्टकम् ॥

श्रीकृष्णनामामृतवर्षिवक्त्र चन्द्रप्रभाध्वस्ततमोभराय । गौराङ्गदेवानुचराय तस्मै नमो नमः श्रीलनरोत्तमाय ॥ १॥ सङ्कीर्तनानन्दजमन्दहास्य दन्तद्युतिद्योतितदिङ्मुखाय । स्वेदाश्रुधारास्नपिताय तस्मै नमो नमः श्रीलनरोत्तमाय ॥ २॥ मृदङ्गनादश्रुतिमात्रचञ्चत् पदाम्बुजामन्दमनोहराय । सद्यः समुद्यत्पुलकाय तस्मै नमो नमः श्रीलनरोत्तमाय ॥ ३॥ गन्धर्वगर्वक्षपणस्वलास्य विस्मापिताशेषकृतिव्रजाय । स्वसृष्टगानप्रथिताय तस्मै नमो नमः श्रीलनरोत्तमाय ॥ ४॥ आनन्दमूर्च्छावनिपातभात धूलीभरालङ्कृतविग्रहाय । यद्दर्शनं भाग्यभरेण तस्मै नमो नमः श्रीलनरोत्तमाय ॥ ५॥ स्थले स्थले यस्य कृपाप्रपाभिः कृष्णान्यतृष्णा जनसंहतीनाम् । निर्मूलिता एव भवन्ति तस्मै नमो नमः श्रीलनरोत्तमाय ॥ ६॥ यद्भक्तिनिष्ठा पलरेखिकेव स्पर्शः पुनः स्पर्शमणीव यस्य । प्रामाण्यमेवं श्रुतिवद्यदीयं तस्मै नमः श्रीलनरोत्तमाय ॥ ७॥ मूर्तैव भक्तिः किमयं किमेष वैराग्यसारस्तनुमान् नृलोके । सम्भाव्यते यः कृतिभिः सदैव तस्मै नमः श्रीलनरोत्तमाय ॥ ८॥ राजन्मृदङ्गकरतालकलाभिरामं गौराङ्गगानमधुपानभराभिरामम् । श्रीमन्नरोत्तमपदाम्बुजमञ्जुनृत्यं भृत्यं कृतार्थयतु मां फलितेष्टकृत्यम् ॥ ९॥ इति श्रीमद्विश्वनाथचक्रवर्तिविरचितं श्रीनरोत्तमाष्टकं सम्पूर्णम् ।

(6) Shri Lokanathaprabhuvarashtakam ॥ (६) श्रीलोकनाथप्रभुवराष्टकम् ॥

यः कृष्णचैतन्यकृपैकवित्त- स्तत्प्रेमहेमाभरणाढ्यचित्तः । निपत्य भूमौ सततं नमाम- स्तं लोकनाथं प्रभुमाश्रयामः ॥ १॥ यो लब्धवृन्दावननित्यवासः परिस्फुरत्कृष्णविलासरासः । स्वाचारचर्यसतताविराम- स्तं लोकनाथं प्रभुमाश्रयामः ॥ २॥ सदोल्लसद्भागवतानुरक्त्या यः कृष्णराधाश्रवणादिभक्त्या । अयातयामीकृतसर्वयाम- स्तं लोकनाथं प्रभुमाश्रयामः ॥ ३॥ वृन्दावनाधीशपदाब्जसेवा स्वादेऽनुमज्जन्ति न हन्त के वा । यस्तेष्वपि श्लाघातमोऽभिराम- स्तं लोकनाथं प्रभुमाश्रयामः ॥ ४॥ यः कृष्णलीलारस एव लोकान् अनुन्मुखान्वीक्ष्य बिभर्ति शोकान् । स्वयं तदास्वादनमात्रकाम- स्तं लोकनाथं प्रभुमाश्रयामः ॥ ५॥ कृपाबलं यस्य विवेद कश्चित् नरोत्तमो नाम महान्विपश्चित् । यस्य प्रथीयान्विषयोपराम- स्तं लोकनाथं प्रभुमाश्रयामः ॥ ६॥ रागानुगावर्त्मनि यत्प्रसादा- द्विशन्त्याविज्ञा अपि निर्विषादाः । जने कृतागस्यपि यस्त्ववाम- स्तं लोकनाथं प्रभुमाश्रयामः ॥ ७॥ यद्दासदासानुदासदासाः वय्हं भवामः फलिताभिलाषाः । यदीयतायां सहसा विशाम- स्तं लोकनाथं प्रभुमाश्रयामः ॥ ८॥ श्रीलोकनाथाष्टकमत्युदारं भक्त्या पठेद्यः पुरुषार्थसारम् । स मञ्जुलालीपदवीं प्रपद्य श्रीराधिकां सेवत एव सद्यः ॥ ९॥ सोऽयं श्रीलोकनाथः स्फुरतु पुरुकृपारश्मिभिः स्वैः समुद्यन् उद्धृत्योद्धृत्य यो नः प्रचुरतमतमः कूपतो दीपिताभिः । दृग्भिः स्वप्रेमवीथ्या दिशमदिशदहो यां श्रिता दिव्यलीला रत्नाढ्यं विन्दमाना वयमपि निभृतं श्रीलगोवर्धनं स्मः ॥ १०॥ इति श्रीमद्विश्वनाथचक्रवर्तिविरचितं श्रीश्रीलोकनाथप्रभुवराष्टकं सम्पूर्णम् ॥

(7) Shri Shachinandanavijayashtakam ॥ (७) श्रीशचीनन्दनविजयाष्टकम् ॥

गदाधर यदा परः स किल कश्चनालोकितो मया श्रितगयाध्वना मधुरमूर्तिरेकस्तदा । नवाम्बुद इव ब्रुवन् धृतनवाम्बुदो नेत्रयो- र्लुठन् भुवि निरुद्धवाग्विजयते शचीनन्दनः ॥ १॥ अलक्षितचरीं हरीत्युदितमात्रतः किं दशां असावतिबुधाग्रणीरतुलकम्पसम्पादिकाम् । व्रजन्नहह मोदते न पुनरत्र शास्त्रेष्विति स्वशिष्यगणवेष्टितो विजयते शचीनन्दनः ॥ २॥ हा हा किमिदमुच्यते पठ पठात्र कृष्णं मुहु- र्विना तमिह साधुतां दधति किं बुधा धातवः । प्रसिद्ध इह वर्णसङ्घटितसम्यगाम्नायकः स्वनाम्नि यदिति ब्रुवन्विजयते शचीनन्दनः ॥ ३॥ नवाम्बुजदले यदीक्षणसवर्णतादीर्घते सदा स्वहृदि भाव्यतां सपदि साध्यतां तत्पदम् । स पाठयति विस्मितान् स्मितमुखः स्वशिष्यानिति प्रतिप्रकरणं प्रभुर्विजयते शचीनन्दनः ॥ ४॥ क्व यानि करवाणि किं क्व नु मया हरिर्लभ्यतां तमुद्दिशतु कः सखे कथय कः प्रपद्येत माम् । इति द्रवति घूर्णते कलितभक्तकण्ठः शुचा स मूर्च्छयति मातरं विजयते शचीनन्दनः ॥ ५॥ स्मरार्बुददुरापया तनुरुचिच्छटाच्छायया तमः कलितमःकृतं निखिलमेव निर्मूलयन् । नृणां नयनसौभगं दिविषदां मुखैस्तारयन् लसन्नधिधरः प्रभुर्विजयते शचीनन्दनः ॥ ६॥ अयं कनकभूधरः प्रणयरत्नमुच्चैः किरन् कृपातुरतया व्रजन्नभवदत्र विश्वम्भरः । यदक्षि पथसञ्चरत्सुरधुनीप्रवाहैर्निजं परं च जगदार्द्रयन्विजयते शचीनन्दनः ॥ ७॥ गतोऽस्मि मधुरां मम प्रियतमा विशाखा सखी गता नु बत किं दशां वद कथं नु वेदानि ताम् । इतीव स निजेच्छया व्रजपतेः सुतः प्रापित- स्तदीयरसचर्वणां विजयते शचीनन्दनः ॥ ८॥ इदं पठति योऽष्टकं गुणनिधे शचीनन्दन प्रभो तव पदाम्बुजे स्फुरदमन्दविश्रम्भवान् । तमुज्ज्वलमतिं निजप्रणयरूपवर्गानुगं विधाय निजधामनि द्रुतमुरीकुरुष्व स्वयम् ॥ ९॥ इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीशचीनन्दनविजयाष्टकं सम्पूर्णम् ।

(8) Shri Manmahaprabhorashtakam Athava Shrisvarupacharitamritam ॥ (८) श्रीमन्महाप्रभोरष्टकम् अथवा श्रीस्वरूपचरितामृतम् ॥

स्वरूप ! भवतो भवत्वयमिति स्मितस्निग्धया गिरैव रघुनाथमुत्पुलकिगात्रमुल्लासयन् । रहस्युपदिशन् निजप्रणयगूढमुद्रां स्वयं विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ १॥ स्वरूप ! मम हृद्व्रणं बत विवेद रूपः कथं लिलेख यदयं पठ त्वमपि तालपत्रेऽक्षरम् । इति प्रणयवेल्लितं विदधदाशु रूपान्तरं विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ २॥ स्वरूप ! परकीयसत्प्रवरवस्तुनाशेच्छतां दधज्जन इह त्वया परिचितो न वेतीक्षयम् । सनातनमुदित्य विस्मितमुखं महाविस्मितं विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ ३॥ स्वरूप ! हरिनाम यज् जगदघोषयं तेन किं न वाचयितुमप्यथाशकमिमं शिवानन्दजम् । इति स्वपदलेहनैः शिशुमचीकरन् यः कविं विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ ४॥ स्वरूप ! रसरीतिरम्बुजदृशां व्रजे भण्यतां घनप्रणयमानजा श्रुतियुगं ममोत्कण्ठते । रमा यदिह मानिनी तदपि लोकयेति ब्रुवन् विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ ५॥ स्वरूप ! रसमन्दिरं भवसि मन्मुदामास्पदं त्वमत्र पुरुषोत्तमे व्रजभुवीव मे वर्तसे । इति स्वपरिरम्भणैः पुलकिनं व्यधात्तं च यो विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ ६॥ स्वरूप ! किमपीक्षितं क्व नु विभो निशि स्वप्नतः प्रभो कथय किं नु तन्नवयुवा वराम्भोधरः । व्यधात्किमयमीक्ष्यते किमु न हीत्यगात्तां दशां विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ ७॥ स्वरूप ! मम नेत्रयोः पुरत एव कृष्णो हसन्न् उपैति न करग्रहं बत ददाति हा किं सखे । इति स्खलति धावति श्वसिति घूर्णते यः सदा विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ ८॥ स्वरूपचरितामृतं किल महाप्रभोरष्टकं रहस्यतममद्भुतं पठति यः कृती प्रत्यहम् । स्वरूपपरिवारतां नयति तं शचीनन्दनो घनप्रणयमाधुरीं स्वपदयोः समात्वादयन् ॥ ९॥ इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीमहाप्रभोरष्टकं सम्पूर्णम् ।

(9) Shri Svapnavilasamritashtakam ॥ (९) श्रीस्वप्नविलासामृताष्टकम् ॥

प्रिये ! स्वप्ने दृष्टा सरिदिनसुतेवात्र पुलिनं यथा वृन्दारण्ये नटनपटवस्तत्र बहवः । मृदङ्गाद्यं वाद्यं विविधमिह कश्चिद्द्विजमणिः स विद्युद्गौराङ्गः क्षिपति जगतीं प्रेमजलधौ ॥ १॥ कदाचित्कृष्णेति प्रलपति रुदन् कर्हिचिदसौ क्व राधे हा हेति श्वसिति पतति प्रोञ्झति धृतिम् । नटत्युल्लासेन क्वचिदपि गणैः स्वैः प्रणयिभि- स्तृणादिब्रह्मान्तं जगदतितरां रोदयति सः ॥ २॥ ततो बुद्धिर्भ्रान्ता मम समजनि प्रेक्ष्य किमहो भवेत्सोऽयं कान्तः किमयमहमेवास्मि न परः । अहं चेत्क्व प्रेयान्मम स किल चेत्क्वाहमिति मे भ्रमो भूयो भूयानभवदथ निद्रां गतवती ॥ ३॥ प्रिये ! दृष्ट्वा तास्ताः कुतुकिनि मया दर्शितचरी रमेशाद्या मूर्तीर्न खलु भवती विस्मयमगात् । कथं विप्रो विस्मापयितुमशकत्त्वां तव कथं तथा भ्रान्तिं धत्ते स हि भवति को हन्त किमिदम् ॥ ४॥ इति प्रोच्य प्रेष्ठां क्षणमथ परामृष्य रमणो हसन्नाकूतज्ञं व्यनुददथ तं कौस्तुभमणिम् । तथा दीप्तं तेने सपदि स यथा दृष्टमिव त- द्विलासानां लक्ष्मं स्थिरचरगणैः सर्वमभवत् ॥ ५॥ विभाव्याथ प्रोचे प्रियतम मया ज्ञातमखिलं तवाकूतं यत्त्वं स्मितमतनुथास्तत्त्वमसि सः । स्फुटं यन् नावदीर्यदभिमतिरत्राप्यहमिति स्फुरन्ती मे तस्मादहमपि स एवेत्यनुमिमे ॥ ६॥ यदप्यस्माकीनं रतिपदमिदं कौस्तुभमणिं प्रदीप्यात्रैवादीदृशदखिलजीवानपि भवान् । स्वशक्त्याविर्भूय स्वमखिलविलासं प्रतिजनं निगद्य प्रेमाब्धौ पुनरपि तदाधास्यसि जगत् ॥ ७॥ यदुक्तं गर्गेण व्रजपतिसमक्षं श्रुतिविदा भवेत्पीतो वर्णः क्वचिदपि तवैतन् न हि मृषा । अतः स्वप्नः सत्यो मम च न तदा भ्रान्तिरभवत् त्वमेवासौ साक्षादिह यदनुभूतोऽसि तदृतम् ॥ ८॥ पिबेद्यस्य स्वप्नामृतमिदमहो चित्तमधुपः स सन्देहस्वप्नात्त्वरितमिह जागर्ति सुमतिः । अवाप्तश्चैतन्यं प्रणयजलधौ खेलति यतो भृशं धत्ते तस्मिन्नतुलकरुणां कुञ्जनृपतिः ॥ ९॥ इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीस्वप्नविलासामृताष्टकं सम्पूर्णम् ।

(10) Shri Gopaladevashtakam ॥ (१०) श्रीगोपालदेवाष्टकम् ॥

मधुरमृदुलचित्तः प्रेममात्रैकवित्तः स्वजनरचितवेषः प्राप्तशोभाविशेषः । विविधमणिमयालङ्कारवान् सर्वकालं स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ १॥ निरुपमगुणरूपः सर्वमाधुर्यभूपः श्रिततनुरुचिदास्यः कोटिचन्द्रस्तुतास्यः । अमृतविजयिहास्यः प्रोच्छलच्चिल्लिलास्यः स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ २॥ धृतनवपरभागः सव्यहस्तस्थितागः प्रकटितनिजकक्षः प्राप्तलावण्यलक्षः । कृतनिजजनरक्षः प्रेमविस्तारदक्षः स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ३॥ क्रमवलदनुरागस्वप्रियापाङ्गभाग ध्वनितरसविलासज्ञानविज्ञापिहासः । स्मृतरतिपतियागः प्रीतिहंसीतडागः स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ४॥ मधुरिमभरमग्ने भात्यसव्येऽवलग्ने त्रिवलिरलसवत्त्वात्यस्य पुष्टानतत्वात् । इतरत इह तस्या माररेखेव रस्या स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ५॥ वहति वलितहर्षं वाहयंश्चानुवर्षं भजति च सगणं स्वं भोजयन् योऽर्पयन् स्वम् । गिरिमुकुटमणिं श्रीदामवन्मित्रताश्रीः स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ६॥ अधिधरमनुरागं माधवेन्द्रस्य तन्वं- स्तदमलहृदयोत्थां प्रेमसेवां विवृण्वन् । प्रकटितनिजशक्त्या वल्लभाचार्यभक्त्या स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ७॥ प्रतिदिनमधुनापि प्रेक्ष्यते सर्वदापि प्रणयसुरसचर्या यस्य वर्या सपर्या । गणयतु कति भोगान् कः कृती तत्प्रयोगान् स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ८॥ गिरिधरवरदेवस्याष्टकेनेममेव स्मरति निशि दिने वा यो गृहे वा वने वा । अकुटिलहृदयस्य प्रेमदत्वेन तस्य स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ९॥ इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीगोपालदेवाष्टकं सम्पूर्णम् ।

(11) Shri Madanagopalashtakam ॥ (११) श्रीमदनगोपालाष्टकम् ॥

मृदुतलारुण्यजितरुचिरदरदप्रभं कुलिशकञ्जारिदरकलसझषचिह्नितम् । हृदि ममाधाय निजचरणसरसीरुहं मदनगोपाल ! निजसदनमनु रक्ष माम् ॥ १॥ मुखरमञ्जीरनखशिशिरकिऋणावली विमलमालाभिरनुपदमुदितकान्तिभिः । श्रवणनेत्रश्वसनपथसुखद नाथ हे मदनगोपाल ! निजसदनमनु रक्ष माम् ॥ २॥ मणिमयोष्णीषदरकुटिलिमणिलोचनो- च्चलनचातुर्यचितलवणिमणिगण्डयोः । कनकताटङ्करुचिमधुरिमणि मज्जयन् मदनगोपाल ! निजसदनमनु रक्ष माम् ॥ ३॥ अधरशोणिम्नि दरहसितसितिमार्चिते विजितमाणिक्यरदकिरणगणमण्डिते । निहितवंशीक जनदुरवगमलील हे मदनगोपाल ! निजसदनमनु रक्ष माम् ॥ ४॥ पदकहारालिपदकटकनटकिङ्किणी वलय ताटङ्कमुखनिखिलमणिभूषणैः । कलितनव्याभ निजतनुरुचिभूषितै- र्मदनगोपाल ! निजसदनमनु रक्ष माम् ॥ ५॥ उडुपकोटीकदनवदनरुचिपल्लवै- र्मदनकोटीमथननखरकरकन्दलैः । द्युतरुकोटीसदनसदयनयनेक्षणै- र्मदनगोपाल ! निजसदनमनु रक्ष माम् ॥ ६॥ कृतनराकारभवमुखविबुधसेवित ! द्युतिसुधासार ! पुरुकरुण ! कमपि क्षितौ । प्रकटयन् प्रेमभरमधिकृतसनातनं मदनगोपाल ! निजसदनमनु रक्ष माम् ॥ ७॥ तरणिजातीरभुवि तरणिकरवारक प्रियकषण्डास्थमणिसदनमहितस्थिते ! ललितया सार्धमनुपदरमित ! राधया मदनगोपाल ! निजसदनमनु रक्ष माम् ॥ ८॥ मदनगोपाल ! तव सरसमिदमष्टकं पठति यः सायमतिसरलमतिराशु तम् । स्वचरणाम्भोजरतिरससरसि मज्जयन् मदनगोपाल ! निजसदनमनु रक्ष माम् ॥ ९॥ इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीमदनगोपालाष्टकं सम्पूर्णम् ।

(12) Shri Govindadevashtakam ॥ (१२) श्रीगोविन्ददेवाष्टकम् ॥

जाम्बूनदोष्णीषविराजिमुक्ता मालामणिद्योतिशिखण्डकस्य । भङ्ग्या नृणां लोलुपयन् दृशः श्री गोविन्ददेवः शरणं ममास्तु ॥ १॥ कपोलयोः कुण्डललास्यहास्य- च्छविच्छिटाचुम्बितयोर्युगेन । संमोहयन् सम्भजतां धियः श्री गोविन्ददेवः शरणं ममास्तु ॥ २॥ स्वप्रेयसीलोचनकोणशीधु प्राप्त्यै पुरोवर्ति जनेक्षणेन । भावं कमप्युद्गमयन् बुधानां गोविन्ददेवः शरणं ममास्तु ॥ ३॥ वामप्रगण्डार्पितगण्डभास्वत् ताटङ्कलोलालककान्तिसिक्तैः । भ्रूवल्गनैरुन्मदयन् कुलस्त्री- र्गोविन्ददेवः शरणं ममास्तु ॥ ४॥ दूरे स्थितास्ता मुरलीनिनादैः स्वसौरभैर्मुद्रितकर्णपालीः । नासारुधो हृद्गत एव कर्षन् गोविन्ददेवः शरणं ममास्तु ॥ ५॥ नवीनलावण्यभरैः क्षितौ श्री रूपानुरागाम्बुनिधिप्रकाशैः । सतश्चमत्कारवतः प्रकुर्वन् गोविन्ददेवः शरणं ममास्तु ॥ ६॥ कल्पद्रुमाधोमणिमन्दिरान्तः श्रीयोगपीठाम्बुरुहास्यया स्वम् । उपासयंस्तत्रविदोऽपि मन्त्रै- र्गोविन्ददेवः शरणं ममास्तु ॥ ७॥ महाभिषेकक्षणसर्ववासोऽ लङ्कृत्यङ्गीकरणोच्छलन्त्या । सर्वाङ्गभासाकुलयंस्त्रिलोकीं गोविन्ददेवः शरणं ममास्तु ॥ ८॥ गोविन्ददेवाष्टकमेतदुच्चैः पठेत्तदीयाङ्घ्रिनिविष्टवीर्यः । तं मज्जयन्नेव कृपाप्रवाहै- र्गोविन्ददेवः शरणं ममास्तु ॥ ९॥ इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीगोविन्ददेवाष्टकं सम्पूर्णम् ।

(13) Shri Gopinathadevashtakam ॥ (१३) श्रीगोपिनाथदेवाष्टकम् ॥

आस्ये हास्यं तत्र माध्वीकमस्मिन् वंशी तस्यां नादपीयूषसिन्धुः । तद्वीचीभिर्मज्जयन् भाति गोपी- र्गोपीनाथः पीनवक्षा गतिर्नः ॥ १॥ शोणोष्णीषभ्राजिमुक्तास्रजोद्यत् पिञ्छोत्तंसस्पन्दनेनापि नूनम् । हृन्नेत्रालीवृत्तिरत्नानि मुञ्चन् गोपीनाथः पीनवक्षा गतिर्नः ॥ २॥ बिभ्रद्वासः पीतमूरूरुकान्त्या श्लीष्टं भास्वत्किङ्किणीकं नितम्बे । सव्याभीरीचुम्बितप्रान्तबाहु- र्गोपीनाथः पीनवक्षा गतिर्नः ॥ ३॥ गुञ्जामुक्तारत्नगाङ्गेयहारै- र्माल्यैः कण्ठे लम्बमानैः क्रमेण । पीतोदञ्चत्कञ्चुकेनाञ्चितश्री- र्गोपीनाथः पीनवक्षा गतिर्नः ॥ ४॥ श्वतोष्णीषः श्वेतसुश्लोकधौतः सुश्वेतस्रक्द्वित्रशः श्वेतभूषः । चुम्बन् शर्यामङ्गलारात्रिके हृ- द्गोपीनाथः पीनवक्षा गतिर्नः ॥ ५॥ श्रीवत्सश्रीकौस्तुभोद्भिन्नरोम्णां वर्णैः श्रीमान् यश्चतुर्भिः सदेष्टः । दृष्टः प्रेम्णैवातिधन्यैरनन्यै- र्गोपीनाथः पीनवक्षा गतिर्नः ॥ ६॥ तापिञ्छः किं हेमवल्लीयुगान्तः पार्श्वद्वन्द्वोद्द्योतिविद्युद्घनः किम् । किं वा मध्ये राधयोः श्यामलेन्दु- र्गोपीनाथः पीनवक्षा गतिर्नः ॥ ७॥ श्रीजाह्नव्या मूर्तिमान् प्रेमपुञ्जो दीनानाथान् दर्शयन् स्वं प्रसीदन् । पुष्णन् देवालभ्यफेलासुधाभि- र्गोपीनाथः पीनवक्षा गतिर्नः ॥ ८॥ गोपीनाथाष्टकं तुष्टचेता- स्तत्पदाब्जप्रेमपुष्णीभविष्णुः । योऽधीते तन्मन्तुकोटीरपश्यन् गोपीनाथः पीनवक्षा गतिर्नः ॥ ९॥ इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीगोपिनाथाष्टकं सम्पूर्णम् ।

(14) Shri Gokulanandagovindadevashtakam ॥ (१४) श्रीगोकुलनन्दगोविन्ददेवाष्टकम् ॥

कोटिकन्दर्पसन्दर्पविध्वंसन स्वीयरूपामृताप्लावितक्ष्मातल । भक्तलोकेक्षणं सक्षणं तर्षयन् गोकुलानन्द गोविन्द तुभ्यं नामः ॥ १॥ यस्य सौरभ्यसौलभ्यभाग्गोपिका भाग्यलेशाय लक्ष्म्यापि तप्तं तपः । निन्दितेन्दीवरश्रीक तस्मै मुहु- र्गोकुलानन्द गोविन्द तुभ्यं नामः ॥ २॥ वंशिकाकण्ठयोर्यः स्वरस्ते स चेत् तालरागादिमान् श्रुत्यनुभ्राजितः । का सुधा ब्रह्म किं का नु वैकुण्ठमु- द्गोकुलानन्द गोविन्द तुभ्यं नामः ॥ ३॥ यत्पदस्पर्शमाधुर्यमज्जत्कुचा धन्यतां यान्ति गोप्यो रमातोऽप्यलम् । यद्यशो दुन्दुभेर्घोषणा सर्वजि- द्गोकुलानन्द गोविन्द तुभ्यं नामः ॥ ४॥ यस्य फेलालवास्वादने पात्रतां ब्रह्मरुद्रादयो यान्ति नैवान्यके । आधरं शीधुमेतेऽपि विन्दन्ति नो गोकुलानन्द गोविन्द तुभ्यं नामः ॥ ५॥ यस्य लीलामृतं सवथाकर्षकं ब्रह्मसौख्यादपि स्वादु सर्वे जगुः । तत्प्रमाणं स्वयं व्याससूनुः शुको गोकुलानन्द गोविन्द तुभ्यं नामः ॥ ६॥ यत् षडैश्वर्यमप्यार्यभक्तात्मनि ध्यातमुद्यच्चमत्कारमानन्दयेत् । नाथ तस्मै रसाम्भोधये कोटिशो गोकुलानन्द गोविन्द तुभ्यं नामः ॥ ७॥ गोकुलानन्दगोविन्ददेवाष्टकं यः पठेन् नित्यमुत्कण्ठितस्त्वत्पदोः । प्रेमसेवाप्तये सोऽचिरान्माधुरी सिन्धुमज्जन्मना वाञ्छितं विन्दताम् ॥ ८॥ इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीगोकुलनन्दगोविन्ददेवाष्टकं सम्पूर्णम् ।

(15) Shri Svayambhagavattvashtakam ॥ (१५) श्रीस्वयंभगवत्त्वाष्टकम् ॥

स्वजन्मन्यैश्वर्यं बलमिह वधे दैत्यवितते- र्यशः पार्थत्राणे यदुपुरि महासम्पदमधात् । परं ज्ञानं जिष्णौ मुषलमनु वैराग्यमनु यो भगैः षड्भिः पूर्णः स भवतु मुदे नन्दतनयः ॥ १॥ चतुर्बाहुत्वं यः स्वजनि समये यो मृदशने जगत्कोटीं कुक्ष्यन्तरपरिमितत्वं स्ववपुषः । दधिस्फोटे ब्रह्मण्यतनुत परानन्ततनुतां महैश्वर्यः पूर्णः स भवतु मुदे नन्दतनयः ॥ २॥ बलं बक्यां दन्तच्छदनवरयोः केशिनि नृगे निऋपे बाह्वोरङ्घ्रेः फणिनि वपुषः कंसमरुतोः । गिरित्रे दैत्येष्वप्यतनुत निजास्त्रस्य यदतो महौजोभिः पूर्णः स भवतु मुदे नन्दतनयः ॥ ३॥ असङ्ख्यातो गोप्यो व्रजभुवि महिष्यो यदुपुरे सुताः प्रद्युम्नाद्याः सुरतरुसुधर्मादि च धनम् । बहिर्द्वारि ब्रह्माद्यापि बलिवहं स्तौति यदतः श्रियां पूरैः पूर्णः स भवतु मुदे नन्दतनयः ॥ ४॥ यतो दत्ते मुक्तिं रिपुविततये यन् नरजनि- र्विजेता रुद्रादेरपि नतजनाधीन इति यत् । सभायां द्रौपद्या वरकृदतिपूज्यो नृपमखे यशोभिस्तत्पूर्णः स भवतु मुदे नन्दतनयः ॥ ५॥ न्यधाद्गीतारत्नं त्रिजगदतुलं यत्प्रियसखे परं तत्त्वं प्रेम्णोद्धवपरमभक्ते च निगमम् । निजप्राणप्रेस्ठास्वपि रसभृतं गोपकुलजा- स्वतो ज्ञानैः पूर्णः स भवतु मुदे नन्दतनयः ॥ ६॥ कृतागस्कं व्याधं सतनुमपि वैकुण्ठमनयन् ममत्वस्यैकाग्रानपि परिजनान् हन्त विजहौ । यद्यप्येते श्रुत्या धुवतनुतयोक्तास्तदपि हा स्ववैराग्यैः पूर्णः स भवतु मुदे नन्दतनयः ॥ ७॥ अजत्वं जन्मित्वं रतिररतितेहारहितता सलीलत्वं व्याप्तिः परिमितिरहंताममतयोः । पदे त्यागात्यागावुभयमपि नित्यं सदुररी करोतीशः पूर्णः स भवतु मुदे नन्दतनयः ॥ ८॥ समुद्यत्सन्देहज्वरशतहरं भेषजवरं जनो यः सेवेत प्रथितभगवत्त्वाष्टकमिदम् । तदैश्वर्यस्वादैः स्वधियमतिवेलं सरसयन् लभेतासौ तस्य प्रियपरिजनानुग्यपदवीम् ॥ ९॥ इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीश्रीस्वयंभगवत्त्वाष्टकं सम्पूर्णम् ।

(16) Shri Jaganmohanashtakam ॥ (१६) श्रीजगन्मोहनाष्टकम् ॥

गुञ्जावलीवेष्टितचित्रपुष्प चूडावलन्मञ्जुलनव्यपिञ्छम् । गोरोचनाचारुतमालपत्रं वन्दे जगन्मोहनमिष्टदेवम् ॥ १॥ भ्रूवल्गनोन्मादितगोपनारी कटाक्षबाणावलिविद्धनेत्रम् । नासाग्रराजन्मणिचारुमुक्तं वन्दे जगन्मोहनमिष्टदेवम् ॥ २॥ आलोलवक्रालककान्तिचुम्बि गण्डस्थलप्रोन्नतचारुहास्यम् । वामप्रगण्डोच्चलकुण्डलान्तं वन्दे जगन्मोहनमिष्टदेवम् ॥ ३॥ बन्धूकबिम्बद्युतिनिन्दिकुञ्चत् प्रान्ताधर्भ्राजितवेणुवक्त्रम् । किञ्चित्तिरश्चीनशिरोऽधिभातं वन्दे जगन्मोहनमिष्टदेवम् ॥ ४॥ अकुण्ठरेखात्रयराजिकण्ठ खेलत्स्वरालिश्रुतिरागराजिम् । वक्षःस्फुरत्कौस्तुभमुन्नतांसं वन्दे जगन्मोहनमिष्टदेवम् ॥ ५॥ आजानुराजद्वलयाङ्गदाञ्चि स्मरार्गलाकारसुवृत्तबाहुम् । अनर्घमुक्तामणिपुष्पमालं वन्दे जगन्मोहनमिष्टदेवम् ॥ ६॥ श्वासैजदश्वत्थदलाभतुन्द मध्यस्थरोमावलिरम्यरेखम् । पीताम्बरं मञ्जुलकिङ्किणीकं वन्दे जगन्मोहनमिष्टदेवम् ॥ ७॥ व्यत्यस्तपादं मणिनूपुराढ्यं श्यामं त्रिभङ्गं सुरशाखिमूले । श्रीराधया सार्धमुदारलीलं वन्दे जगन्मोहनमिष्टदेवम् ॥ ८॥ श्रीमज्जगन्मोहनदेवमेतत् पद्याष्टकेन स्मरतो जनस्य । प्रेमा भवेद्येन तदङ्घ्रिसाक्षात् सेवामृतेनैव निमज्जनं स्यात् ॥ ९॥ इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीजगन्मोहनाष्टकं सम्पूर्णम् ।

(17) Shri Anuragavallih ॥ (१७) श्रीअनुरागवल्लिः ॥

देहार्बुदानि भगवान्! युगपत्प्रयच्छ वक्त्रार्बुदानि च पुनः प्रतिदेहमेव । जिह्वार्बुदानि कृपया प्रतिवक्त्रमेव नृत्यन्तु तेषु तव नाथ! गुणार्बुदानि ॥ १॥ किमात्मना? यत्र न देहकोट्यो देहेन किं? यत्र न वक्त्रकोट्यः । वक्त्रेण किं? यत्र न कोटिजिह्वाः किं जिह्वया? यत्र न नामकोट्यः ॥ २॥ आत्मास्तु नित्यं शतदेहवर्ती देहस्तु नाथास्तु सहस्रवक्त्रः । वक्त्रं सदा राजतु लक्षजिह्वं गृह्णातु जिह्वा तव नामकोटिम् ॥ ३॥ यदा यदा माधव! यत्र यत्र गायन्ति ये ये तव नामलीलाः । तत्रैव कर्णायुतधार्यमाणा स्तास्ते सुधा नित्यमहं धयानि ॥ ४॥ कर्णायुतस्यैव भवन्तु लक्ष कोट्यो रसज्ञा भगवंस्तदैव । येनैव लीलाः श‍ृणवानि नित्यं तेनैव गायानि ततः सुखं मे ॥ ५॥ कर्णायुतस्येक्षटकोटिरस्या हृत्कोटिरस्या रसनार्बुदं स्तात् । श्रुत्वैव दृष्ट्वा तव रूपसिन्धु मालिङ्ग्य माधुर्यमहो! धयानि ॥ ६॥ नेत्रार्बुदस्यैव भवन्तु कर्ण नासारसज्ञा हृदयार्बुदं वा । सौन्दर्यसौस्वर्यसुगन्धपूर माधुर्यसंश्लेषरसानुभूत्यै ॥ ७॥ त्वत्पार्श्वगत्यै पदकोटिरस्तु सेवां विधातुं मम हस्तकोटिः । तां शिक्षितुं स्तादपि बुद्धिकोटि रेतान्वरान्मे भगवन्! प्रयच्छ ॥ ८॥ इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीअनुरागवल्लिः समाप्ता ।

(18) Shri Vrindadevyashtakam ॥ (१८) श्रीवृन्दादेव्यष्टकम् ॥

गाङ्गेयचाम्पेयतडिद्विनिन्दि रोचिःप्रवाहस्नपितात्मवृन्दे! । बन्धूकबन्धुद्युतिदिव्यवासो वृन्दे! नुमस्ते चरणारविन्दम् ॥ १॥ बिम्बाधरोदित्वरमन्दहास्य नासाग्रमुक्ताद्युतिदीपितास्ये । विचित्ररत्नाभरणाश्रियाढ्ये! वृन्दे! नुमस्ते चरणारविन्दम् ॥ २॥ समस्तवैकुण्ठशिरोमणौ श्री कृष्णस्य वृन्दावनधन्यधाम्नि । दत्ताधिकारे वृषभानुपुत्र्या वृन्दे! नुमस्ते चरणारविन्दम् ॥ ३॥ त्वदाज्ञया पल्लवपुष्पभृङ्ग मृगादिभिर्माधवकेलिकुञ्जाः । मध्वादिभिर्भान्ति विभूष्यमाणा वृन्दे! नुमस्ते चरणारविन्दम् ॥ ४॥ त्वदीयदूत्येन निकुञ्जयुनो- रत्युत्कयोः केलिविलाससिद्धिः । त्वत्सौभगं केन निरुच्यतां त- द्वृन्दे! नुमस्ते चरणारविन्दम् ॥ ५॥ रासाभिलाषो वसतिश्च वृन्दा वने त्वदीशाङ्घ्रिसरोजसेवा । लभ्या च पुंसां कृपया तवैव वृन्दे! नुमस्ते चरणारविन्दम् ॥ ६॥ त्वं कीर्त्यसे सात्वततन्त्राविद्भि- र्लीलाभिधाना किल कृष्णशक्तिः । तवैव मूर्तिस्तुलसी नृलोके वृन्दे! नुमस्ते चरणारविन्दम् ॥ ७॥ भक्त्या विहीना अपराधलक्षैः क्षिप्ताश्च कामादितरङ्गमध्ये । कृपामयि! त्वां शरणं प्रपन्ना वृन्दे! नुमस्ते चरणारविन्दम् ॥ ८॥ वृन्दाष्टकं यः श‍ृणुयात्पठेद्वा वृन्दावनाधीशपदाब्जभृङ्गः । स प्राप्य वृन्दावननित्यवासं तत्प्रेमसेवां लभते कृतार्थः ॥ ९॥ इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीवृन्दादेव्यष्टकं सम्पूर्णम् ।

(19) Shri Radhikadhyanamritastotram ॥ (१९) श्रीराधिकाध्यानामृतस्तोत्रम् ॥

तडिच्चम्पकस्वर्णकाश्मीरभासः स्वकान्त्या भृशं दण्डयित्र्या विलासः । स्वरूपस्य तस्यास्तु वर्ण्यः सुबोधद्रवो नामवर्णोऽपि कर्ण्यः ॥ १॥ प्रफुल्लकुसुमप्रभाद्योतितानां लसच्चन्द्रिकाप्रोतमेघोपमानाम् । कचानां सचातुर्यबन्धेयमेणी दृशः सच्चमर्याग्रिमा भाति वेणी ॥ २॥ महानर्घ्यचूडामणीकामलेखा प्लुता राजते चारुसीमन्तरेखा । उडुद्योतिमुक्तैकपङ्क्तिं वहन्ती किमास्येन्दुसौधैकधारोच्चलन्ती ॥ ३॥ नवेन्दूपमे पत्रपाश्याप्रभाले सुलीलालकालीवृते चारुभाले । मदेनान्तरा चित्रितं चित्रकं तत् विभात्यच्युतातृप्तनेत्रैकसम्पत् ॥ ४॥ अतिश्यामला विज्यकन्दर्पचाप प्रभाजिष्णुतां भ्रूद्वयी कुञ्चिताप । मुखाम्भोजमाध्वीकपानादभीष्टा- दचेष्टालिपङ्क्तिः किमेषा निविष्टा ॥ ५॥ सफर्याविव प्रेष्ठलावण्यवन्ये प्सिते राजतस्ते दृशौ हन्त धन्ये । लसत्कज्जलाक्ते तयोः श्यामपक्ष्म क्वचिद्विन्दते कान्तताम्बूललक्ष्म ॥ ६॥ तडित्कन्दली मूर्ध्नि नक्षत्रयुक्ता स्थिराधःसुधाबुद्बुदद्वन्द्वसक्ता । यदि स्यात्सरोजान्तरे तां च भासा मृगाक्ष्यास्तिरस्कुर्वती भाति नासा ॥ ७॥ कपोलाक्षिबिम्बाधरश्रीविषक्तं बह्वेन्मौक्तिकं पीतनीलातिरक्तम् । स्मितोद्यत्पुटोदीर्णमाधुर्यवृष्टि- र्लसत्यच्युतस्वान्ततर्षैकसृष्टिः ॥ ८॥ लसत्कुण्डले कुण्डलीभूय मन्ये स्थिते कामपाशायुधे हन्त धन्ये । श्रुती रत्नचक्रीशलाकाञ्चिताग्रे दृशौ कर्षतः श्रीहरये समग्रे ॥ ९॥ अतिस्वच्छमन्तःस्थताम्बूलराग- च्छटोद्गारि शोभाम्बुधौ किं ललाग । कपोलद्वयं लोलताटङ्करत्न द्युमच्चुम्बितं प्रेयसो यत्र यत्नः ॥ १०॥ स्फुटद्बन्धुजीवप्रभाहारिदन्त- च्छदद्वन्द्वमाभाति तस्या यदन्तः । स्मितज्योत्स्नया क्षालितं या सतृष्णं चकोरीकरोत्यत्यन्वहं हन्त कृष्णम् ॥ ११॥ न सा विन्दते पाकिमारुण्यभाजि- च्छविर्यत्तुलां दाडिमीबीजराजिः । कथं वर्ण्यतां या त्वियं दन्तपङ्क्ति- र्मुकुन्दाधरे पौरुषं या व्यनक्ति ॥ १२॥ मुखाम्भोजमाधुर्यधारा वहन्ती यदन्तः कियन् निम्नतां प्रापयन्ती । किमेषा कस्तूरिकाबिन्दुभृत्तं हरिं किं दधानं विभात्यासावृत्तम् ॥ १३॥ स कण्ठस्तडित्कम्बुसौभाग्यहारी त्रिरेखः पिकस्तव्यसौस्वर्यधारी । स्रजं मालिकां मालिकां मौक्तिकानां दधत्येव यः प्रेयसा गुम्फितानाम् ॥ १४॥ उरोजद्वयं तुङ्गतापीनताभ्यां समं सख्ययुक् कृष्णपाण्यम्बुजाभ्याम् । नखेन्दुर्यदोदेतुमिच्छां विधत्ते तदा कञ्चुकी कालिका नापि धत्ते ॥ १५॥ म्रदिम्णा शिरीषस्य सौभाग्यसारं क्षिपन्त्या वहन्त्या भुजाभोगभारम् । तुलाशून्यसौन्दर्यसीमां दधत्या निजप्रेयसेऽजस्रसौख्यं ददत्याः ॥ १६॥ श्रितायाः स्वकान्तस्वतां कम्रगात्र्याः श्रियाः श्रीविलासान् भृशं खर्वयन्त्याः । गतांसद्वयी सौभगैकान्तकान्तं यदा पाणिनोत्क्रामयेति सालकान्तम् ॥ १७॥ तडिद्धामभृत्कङ्कणानद्धसीमा घनद्योतचूडावली सास्त्रसीमा । चकास्ति प्रकोष्ठद्वये या स्वनन्ती स्मराजौ सुखाब्धौ सखीः प्लावयन्ती ॥ १८॥ तद्भाति रक्तोत्पलद्वन्द्वशोचि- स्तिरस्कारिपाणिद्वयं यत्र रोचिः । शुभाङ्कावलेः सौभगं यद्व्यनक्ति प्रियान्तर्हृदि स्थापने यस्य शक्तिः ॥ १९॥ (चतुर्भिः कुलकम्) नखज्योतिषा भान्ति ताः पाणिशाखाः करोत्यूर्मिकालङ्कृता या विशाखा । समासज्य कृष्णाङ्गुलीभिर्विलास- स्तदासां यदा राजते हन्त रासः ॥ २०॥ जनित्वैव नाभिसरस्युद्गता सा मृणालीव रोमावलिर्भाति भासा । स्तनच्छद्मनैवाम्बुजाते यदग्रे मुखेन्दुप्रभामुद्रिते ते समग्रे ॥ २१॥ कृशं किं नु शोकेन मुष्तिप्रमेयं न लेभे मणिभूषणं यत्पिधेयम् । निबद्धं वलीभिश्च मध्यं तथापि स्फुटं तेन सुस्तव्यसौन्दार्यमपि ॥ २२॥ क्वनत्किङ्किणीमण्डितं श्रोणीरोधः परिस्फारि यद्वर्णने क्वास्ति बोधः । कियान्वा कवेर्हन्त यत्रैव नित्यं मुकुन्दस्य दृक्खञ्जनोऽवाप नृत्यम् ॥ २३॥ प्रियानङ्गकेलिभरैकान्तवाटी पटीव स्फुरत्यञ्चिता पट्टशाटी । विचित्रान्तरीयोपरि श्रीभरेण क्षिपन्ती नवेन्दीवराभाम्बरेण ॥ २४॥ कदल्याविवानङ्गमाङ्गल्यसिद्धौ समारोपिते श्रीमदूरू समृद्धौ । विभातः परं वृत्ततापीनताभ्यां विलासैर्हरेः चेतनाहारि याभ्याम् ॥ २५॥ विराजत्यहो जानुयुग्मं पटान्तः समाकर्षति द्रागथाप्यच्युतान्तः । यदालक्ष्यते तत्र लावण्यसम्पत् सुव्रित्तं लसत्कानकं सम्पुटं तत् ॥ २६॥ तनुत्वं क्रमान्मूलतश्चारुजङ्घे प्रयातः परिप्राप्तसौभाग्यसङ्घे । पदाम्भोजयोर्नालता धारयन्त्यौ स्वभामन्तरीयान्तरे गोपयन्त्यौ ॥ २७॥ जयत्यङ्घ्रिपङ्केरुहद्वन्द्वमिष्टं दलाग्रे नखेन्दुव्रजेनापि हृष्टम् । क्वनन्नूपुरं हंसकारावभक्तं हरिं रञ्जयत्येव लाक्षारसाक्तम् ॥ २८॥ दराम्भोजताटङ्कवल्लीरथद्यै- र्महालक्षनैर्भव्यवृन्दाभिवाद्यैः । युतं यत्तलं मार्दवारुण्यशालि स्मृतं यद्भवेदच्युताभीष्टपालि ॥ २९॥ प्रिये श्यामलो लेढुभृङ्गो नलिन्या मरन्दं परं दन्दशीति क्षुदन्या । यदेतं बतेत्यच्युतोक्त्याञ्चलान्त- र्मुखाब्जे सितेन्दुं दधे सालकान्तः ॥ ३०॥ तमालम्ब्य लब्धौजसो माधवस्य स्फुटं पाणिचापल्यमल्पं निरस्य । तया स्वाधरः साधु कर्पूरलिप्तः कृतो नेति नेत्यक्षरोद्गारदीप्तः ॥ ३१॥ स जागर्ति तस्याः परिवारचेत- स्तटेऽनुक्षणं रम्यलीलासमेतः । अथाप्यष्टयामिक्यमुष्याः सपर्या यथाकालमाचर्यते तेन वर्या ॥ ३२॥ इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीराधिकाध्यानामृतस्तोत्रं सम्पूर्णम् ।

(20) Shri Rupachintamanih ॥ (२०) श्रीरूपचिन्तामणिः ॥

छत्रं शक्तियवाङ्कुशं पविचतुर्जम्बूफलं कुण्डलं वेदीदण्डगदारथाम्बुजचतुःस्वस्तिं च कोणाष्टकम् । शुद्धं पर्वतमूर्ध्वरेखामलोऽङ्गष्ठात्कनिष्ठावधे- र्बिभ्रद्दक्षिणपादपद्मममलं शच्यात्मजश्रीहरेः ॥ १॥ शङ्खाकाशकमण्डलुं ध्वजलतापुष्पस्रगर्धेन्दुकं चक्रं निर्ज्यधनुस्त्रिकोणवलयापुष्पं चतुस्कुम्भकम् । मीनं गोष्पदकूर्ममासुहृदयाङुष्ठात्कनिष्ठावधे- र्बिभ्रद्सव्यपदाम्बुजं भगवतो विश्वम्भरस्य स्मर ॥ २॥ यवमङ्गुष्ठमूले च तत्तले चातपत्रकम् । अङ्गुष्ठतर्जनीसन्धिभागस्थामूर्ध्वरेखिकाम् ॥ ३॥ सुकुञ्जिकां सूक्ष्मरूपां स्मर रे मे मनः सदा । तर्जन्यास्तु तले दण्डं वारिजं मध्यमातले ॥ ४॥ तत्तले पर्वताकारं तत्तले च रथं स्मर । रथस्य दक्षिणे पार्श्वे गदां वामे च शक्तिकाम् ॥ ५॥ कनिष्ठायास्तलेऽङ्कुशं तत्तले कुलिशं स्मर । वेदिकां तत्तले व्याप्तां तत्तले कुण्डलं ततः ॥ ६॥ एषां चिह्नतले दीप्तं स्वस्तिकानां चतुष्टयम् । अष्टकोणसमायुक्तं सन्धौ जम्बूचतुष्टयम् ॥ ७॥ असव्याङ्घ्रौ महालक्ष्म स्मर गौरहरेर्मनः । अथ वामपदाङ्गुष्ठमूले शङ्खं तले पविम् ॥ ८॥ मध्यमातलयाकाशं तद्द्वयाधो धनुः स्मर । गुणेन रहितं चापं वलयां मणिमूलके ॥ ९॥ कनिष्ठायास्तले चैकं सुशोभनकमण्डलुम् । तस्य तले गोष्पदाख्यं सत्पताकां ध्वजां पुनः ॥ १०॥ चिन्तय तत्तले पुष्पं वल्लीं तस्य तले स्मर । गोष्पदस्य तलेऽप्येकं त्रिकोणाकृतिमण्डलम् ॥ ११॥ चिन्तय तत्तले कुम्भान् चतुरः समनोरमान् । तेषां मध्ये चार्धचन्द्रं तले कूर्मं सुशोभनम् ॥ १२॥ शफरीं तत्तले रम्यां तस्यापि दक्षिणे पुनः । कूर्मस्य तुल्यभागे तु निम्ने घटतलेऽपि च ॥ १३॥ मनोरमां पुष्पमालां स्मर वामाङ्घ्रिपङ्कजे । इति द्वात्रिंशच्चिह्नानि गौराङ्गस्य पदाब्जयोः ॥ १४॥ इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीरूपचिन्तामणिः सम्पूर्णा ।

(21) Shri Sankalpakalpadrumah ॥ (२१) श्रीसङ्कल्पकल्पद्रुमः ॥

श्रीश्रीराधामदनगोपालो विजयते वृन्दावनेश्वरि वयोगुणरूपलीला सौभाग्यकेलिकरुणाजलधेऽवधेहि । दासी भावानि सुखयानि सदा सकान्तां त्वामालीभिः परिवृतामिदमेव याचे ॥ १॥ श‍ृङ्गारयाणि भवतीमभिसारयाणि वीक्ष्यैव कान्तवदनं परिवृत्य यान्तीम् । धृत्वाञ्चलेन हरिसन्निधिमानयानि सम्प्राप्य तर्जनसुधां हृषिता भवानि ॥ २॥ पादे निपत्य शिरसानुनयानि रुष्टां तां प्रत्यपाङ्गकलिकामपि चालयानि । तद्दोर्द्वयेन सहसा परिरम्भयानि रोमाञ्चकञ्चुकवतीमवलोकयानि ॥ ३॥ प्राणप्रिये कुसुमतल्पमलङ्कुरु त्वं इत्यच्युतोकित्मकरन्दरसं धयानि । मां मुञ्च माधव सतीमिति गद्गदार्ध वाचस्तवैत्य निकटं हरिमाक्षिपानि ॥ ४॥ वामामुदस्य निजवक्षसि तेन रुद्धां आनन्दबाष्पतिमितां मुहुरुच्छलन्तीम् । व्यस्तालकां स्खलितवेणीमबद्धनीवीं त्वां वीक्ष्य साधु जनुरेव कृतार्थयानि ॥ ५॥ तल्पे मयैव रचिते बहुशिल्पभाजि पौष्पे निवेश्य भवतीं नननेति वाचम् । कृष्णं सुखेन रमयन्तमनन्तलीलं वातायनात्तनयनैव निभालयानि ॥ ६॥ स्थित्वा बहिर्व्यजनयन्त्रनिबद्धडोरी पाणिर्विकर्षणवशान्मृदु बीजयानि । उत्तुङ्गकेलिकलितश्रमबिन्दुजालं आलोपयानि मणितैः स्मितमुद्गीराणि ॥ ७॥ श्रीरूपमञ्जरिमुखप्रियकिङ्करीणां आदेशमेव सततं शिरसा वहानि । तेनैव हन्त तुलसी परमानुकम्पा पान्नीभवानि करवाणि सुखेन सेवाम् ॥ ८॥ माल्यानि हारकटादिमृजा विचित्र वर्तिः शितांशुघुसृणागुरुचन्दनादि । वीटीर्लवङ्गखपुरादियुताः सखीभिः सार्धं मुदा विरचयानि कलां प्रकाश्य ॥ ९॥ त्वां स्रस्तवेषवसनाभरणां सकान्तां वीक्ष्य प्रसाधनविधौ द्रुतमुद्यताभिः । श्रीरूपरङ्गतुलसीरतिमञ्जरीभि- र्दृष्टानयानि तव संमुखमेव तानि ॥ १०॥ त्वामाशिखाचरणमूढविचित्रवेषां स्प्रष्टुं पुनश्च धृततृष्णमवेक्ष्य कृष्णम् । आयान्तमेव विकटभ्रूकुटीविभङ्ग हुङ्कृत्युदञ्चितमुखी विनिवर्तयानि ॥ ११॥ तत्रैत्य विस्मयवतीं ललितां प्रतीह साध्वीत्वकण्टकविनिष्क्रमनार्थमस्याः । प्राप्तं न्यसिद्धदयि मामियमेव धूर्ते- त्युक्तिं हरेः स्वहृदयं रसयानि नित्यम् ॥ १२॥ निष्क्रम्य कुञ्जभवनाद्विपिने विहर्तुं कान्तैकबाहुपरिरब्धतनुं प्रयान्तीम् । त्वामालीभिः सह कथोपकथाप्रफुल्ल वक्त्रामहं व्यजनपाणिरनुप्रयाणि ॥ १३॥ गायानि ते गुणगणांस्तव वर्त्म गम्यं पुष्पास्तरैर्मृदुलयानि सुगन्धयानि । सालीततिः प्रतिपदं सुमनोऽतिवृष्टिं स्वामिन्यहं प्रतिदिशं तनवानि बाढम् ॥ १४॥ प्रेष्ठस्वपानि कृतकौसुमहार काञ्ची केयूरकुण्डलकिरीटविराजिताङ्गीम् । त्वां भूषयाणि पुनरात्मकवित्वपुष्पै- रास्वादयानि रसिकालिततीरिमानि ॥ १५॥ चन्द्रांशुरूप्यसलिलैरवसिक्तरोध स्यञ्चत्कदम्बसुरभावलिगीतकीर्ति । आरब्धरासरभसां हरिणा सह त्वां तत्पाठितैव विदुषी कलयानि वीणाम् ॥ १६॥ रासं समाप्य दयितेन समं सखीभि- र्विश्रान्तिभाजि नवमालतिकानिकुञ्जे । त्वय्यानयानि रसवत्करकाम्ररम्भा- द्राक्षादिकानि सरसं परिवेषयाणि ॥ १७॥ तल्पे सरोजदलकॢप्तमनङ्गकेलि पर्याप्तमाप्तकलया रचितं तुलस्या । त्वां प्रेयसा सह रसादधिशाययानि ताम्बूलमाशायितुमुल्बनमुल्लसानि ॥ १८॥ संवाहयानि चरणावलकैः स्पृशानि जिघ्राणि सौरभसमूढचमत्क्रियाब्धिः । अक्ष्णोर्दधान्युरसिजौ परिरम्भयानि चुम्बान्यलक्षितमवेक्षितसौकुमार्याः ॥ १९॥ अन्ते निशस्तनुतरप्रसृतालकाल्या ताडङ्कहारततिगन्धवहाग्रमुक्ताः । प्रेष्ठस्य ते तव च संग्रथिता निभाल्य तत्रानयानि परमाप्तसखीः प्रबोध्य ॥ २०॥ ता दर्शयानि सुखसिन्धुषु मज्जयानि ताभ्यः प्रसादमतुलं सहसाप्नुवानि । तन्नूपुरादिरणितैर्गतसान्द्रनिद्रां शय्योत्थितां सचकितां भवतीं भजानि ॥ २१॥ हे स्वामिनि प्रियसखीत्रपयाकुलाया कान्ताङ्गतस्तव वियोक्तुमपारयन्त्याः । उद्ग्रन्थयान्यलककुण्डलमाल्यमुक्ता ग्रन्थिं विचक्षणतयाङ्गुलिकौशलेन ॥ २२॥ नाशाग्रतः श्रुतियुगाच्च वियोजयानि तद्भूषणं मणिसरांस्तु विसूत्रयाणि । प्राणार्बुदादधिकमेव सदा तवैकं रोमापि देवि कलयानि कृतावधाना ॥ २३॥ त्वां सालिमात्मसदनं निभृतं व्रजन्तीं त्यक्त्वा हरेरनुपथं तदलक्षितैत्य । तं खण्डितामनुनयन्तमवेक्ष्य चन्द्रां तद्वृत्तमालिततिसंसदि वर्णयानि ॥ २४॥ प्रक्षालयानि वदनं सलिलैः सुगन्धै- र्दन्तान् रसालजदलैस्तव धावयानि । निर्णेजयानि रसनां तनुहेमपत्र्या सन्दर्शयानि मुकुरं निपुणं प्रमृज्य ॥ २५॥ स्नानाय सूक्ष्मवसनं परिधापयानि हाराङ्गदाद्यप्यङ्गादवतारयाणि । अभ्यञ्जयाण्यरुणसौरभहृद्यतैलै- र्वर्तयानि नवकुङ्कुमचन्द्रचूर्णैः ॥ २६॥ नीरैर्महासुरभिभिः स्नपयानि गात्रा- दम्भांसि सूक्ष्मवसनैरपसारयाणि । केशान् जवादगुरुधूमकुलेन यत्ना- दाशोषयाणि रभसेन सुगन्धयानि ॥ २७॥ वासो मनोभिरुचितं परिधापयानि सौवर्णकङ्कतिकया चिकुरान्विशोध्य । गुम्फानि वेणीममलैः कुसुमैर्विचित्रां अग्रे लसच्चमरिकामणिजातभाताम् ॥ २८॥ चूडामणिं शिरसि मौक्तिकपत्रपास्यां भाले विचित्रतिलकं च मुदारचय्य । अङ्क्त्वाक्षिणी श्रुतियुगं मणिकुण्डलाढ्यं नासामलङ्कृतवतीं करवाणि देवि ॥ २९॥ गण्डद्वये मकरिके चिबुके विलिख्य कस्तुरिकेष्टपृषतं कुचयोश्च चित्रम् । बाह्वोस्तवाङ्गदयुगं मणिबन्धयुग्मे चूडा मसारकलिताः कलयानि यत्नात् ॥ ३०॥ पाण्यङ्गुलीः कनकरत्नमयोर्मिकाभि- रभ्यर्चयानि हृदयं पदकोत्तमेन । मुक्तोतकञ्चुलिकयोरसिजौ विचित्र माल्येन हारनिचयेन च कण्ठदेशम् ॥ ३१॥ काञ्च्या नितम्बमर्थहंसकनूपुराभ्यां पादाम्बुजे दलततिं क्वणदङ्गुरीयैः । लाक्षारसैररुणमप्यनुरञ्जयानि हे देवि तत्तलयुगं कृतपुण्यपुञ्जा ॥ ३२॥ अङ्गानि साहजिकसौरभयन्त्यथानि देव्यर्चयानि नवकुङ्कुमचर्चयैव । लीलाम्बुजं करतले तव धारयाणि त्वां दर्शयानि मणिदर्पणमर्पयित्वा ॥ ३३॥ सौन्दर्यमद्भुतमवेक्ष्य निजं स्वकान्त नेत्रालिलोभनमवेत्य विलोलगात्रीम् । प्राणार्बुदेन विधुवर्तिकदीपकैश्च निर्मञ्छयानि नयनाम्बुनिमज्जिताङ्गी ॥ ३४॥ गोष्ठेश्वरीप्रहितया सह कुन्दवल्ल्या प्राभातिकप्रियतमाशनसाधनाय । यान्तीं समं प्रियसखीभिरनुप्रयाणि ताम्बूलसम्पुटमणिव्यजनादिपाणिः ॥ ३५॥ गोष्ठेश्वरीसदनमेत्य पदे प्रणम्य तस्यास्तदाप्तभविकां त्रपयावृटाङ्गीम् । घ्रातं तया शिरसि तन्नयनाम्बुसिक्तां त्वां वीक्ष्य तामहमपि प्रणमामि भक्त्या ॥ ३६॥ मूर्तं तपोऽसि वृषभानुकुलस्य भाग्यं गेहस्य मेऽसि तनयस्य च मे वराङ्गि । नैरुज्यदास्यमृतपाणिरभूर्वरेण दुर्वाससो यदिति तद्वचसा हसानि ॥ ३७॥ स्नातानुलिप्तवपुषो दयितस्य तस्य तात्कालिके मधुरिमन्यतिलोलिताक्षीम् । स्वामिन्यवेत्य भवतीं क्वचन प्रदेशे तत्रैव केन च मिषेण समानयानि ॥ ३८॥ प्रक्षालयानि चरणौ भवदङ्गतः स्रङ्- माल्यादि पाकरचनानुपयोगि यत्तत् । उत्तारयाणि तदिदं तु तवास्त्विति त्व- द्वाचोल्लसानि विकसन्मधुमाधवीव ॥ ३९॥ पक्त्वास्थितां मधुरपायसशाकसूप भाजिप्रभृत्यमृतनिन्दिचतुर्विधान्नम् । त्वां लोकयानि नननेति मुहुर्वदन्तीं गोष्ठेशयापि परिवेषयितुं निदिष्टाम् ॥ ४०॥ तृप्त्युत्थितां प्रियतमाङ्गरुचिं धयन्त्या वातायन्तार्पितदृशः सहसोल्लसन्त्याः । आनन्दजद्युतितरङ्गभरे मनोज मञ्जुकृते तव मनो मम मज्जयानि ॥ ४१॥ राधे तवैव गृहमेतदहं च जाते सूनोः शुभे किमपरां भवतीमवैमि । तद्भुङ्क्ष्व सम्मुखमिति व्रजपागिरा त्व- द्वक्त्रे स्मितं स्वहृदयं रसयानि नित्यम् ॥ ४२॥ यान्तं वनाय सखीभिः सममात्मकान्तं पित्रादिभिः सरुदितैरनुगम्यमानम् । वीक्ष्याप्तगौरवगेहां दिननाथपूजा व्याजेन लब्धगहनां भवतीं भजानि ॥ ४३॥ कान्तं विलोक्य कुसुमावचये प्रवृत्तां आदाय पत्रपुटीकामनुयान्यहं त्वाम् । का तस्करीयमिति तद्वचसा न कापी- त्युक्त्या सहार्पितदृशं भवतीं स्मराणि ॥ ४४॥ पुष्पाणि दर्शय कियन्ति हृतानि चौरी- त्युक्त्यैव पुष्पपुटिकामपि गोपयानि । तद्वीक्ष्य हन्त मम कक्षतले क्षिपन्तं पाणिं बलात्तमभिमृश्य भवानि दूना ॥ ४५॥ रक्षाद्य देवि कृपया निजदासिकां मां इत्युच्चकातरगिरा शरणं व्रजानि । किं धूर्त दुःखयसि मज्जनमित्यमुष्य बाहुं करेण तुदतीं भवतीं श्रयाणि ॥ ४६॥ त्यक्त्वैव मां भवदुरःकवचं विखण्ड्य प्राप्तां श्रजं तव गलात्स्वगले निधाय । पुष्पाणि चौरि मम किं तव कण्ठहेतो- स्तत्कण्ठमेव सुभृशं परिपीडयानि ॥ ४७॥ राजास्ति कन्दरतले चल तत्र धूर्ते तस्याज्ञयैव सहसा च विवस्त्रयिष्ये । तां वीक्ष्य हृष्यति स चेन् निजदिव्यमुक्ता मालां प्रदास्यति ललाटतटे मदीये ॥ ४८॥ दोषो न ते व्रजपतेस्तनयोऽसि तस्य दुष्टस्य यन् नरपतेः खलु सेवकोऽभूः । तद्बुद्धिरीदृगभवन्मम चात्र साध्व्या भाले किमेतदभवल्लिखितं विधात्रा ॥ ४९॥ इत्यादिवाङ्मयसुधामहह श्रुतिभ्यां स्वाभ्यां धयान्युदरपूरमथेक्षणाभ्याम् । रूपामृतं तव सकान्ततया विलास सीधुं च देवि वितराण्यथ मादयानि ॥ ५०॥ प्रेष्ठे सरस्यभिनवां कुसुमैर्विचित्रां हिन्दोलिकां प्रियतमेन सहाधिरूढाम् । त्वां दोलयान्यथ किराणि परागराजि- र्गायानि चारुमहतीमपि वादयानि ॥ ५१॥ वृन्दावने सुरमहीरुहयोगपीठे सिंहासने स्वरमणेन विराजमानाम् । पाद्यार्घ्यधूपविधुदीपचतुर्विधान्न स्रग्भूषणादिभिरहं परिपूजयानि ॥ ५२॥ गोवर्धने मधुवनेषु मधूत्सवेन विद्रावितात्रपसखीशतवाहिनीकाम् । पिष्टात युद्धमनु कान्तजयाय यान्तीं त्वां ग्राहयाणि नवजातुषकूपिकालीः ॥ ५३॥ अग्रे स्थितोऽस्मि तव निश्चय एव वक्ष उद्घाट्य कन्दुकचयं क्षिप चेद्बलिष्ठा । उद्घाट्य कञ्चुकमुरः किल दर्शयन्ती त्वं चापि तिष्ठ यदि ते हृदि वीरतास्ति ॥ ५४॥ यत्कथ्यसे तदयमेव तव स्वभावो यत्पूर्वजन्मनि भवानजितः किलासीत् । मिथ्यैव तत्यदिह भोः कतिशो जितोऽभू- र्मत्किङ्करीभिरपि तद्विगतत्रपोऽसि ॥ ५५॥ इत्येवमुत्पुलकिनी कलयानि वाचः सिञ्जानकङ्कणझनत्कृतदुन्दुभीकम् । युद्धं मुखामुखि रदारदि चारुबाहु बाहव्यमन्दनखरानखरि स्तुवानि ॥ ५६॥ कस्याञ्चिदद्रिनृपदीव्यदुपत्यकायां स प्रेयसि त्वयि सखीशतवेष्टितायाम् । विश्रान्तिभाजि वनदेवतयोपनीता नीष्टानि सीधुचषकाणि पुरा दधानि ॥ ५७॥ हा किं किं किं धधरणी घुघुघूर्णतीयं धाधाधधावति भयाद्विविवृक्षपुञ्जः । भीभीभिभीरुरहमत्र कथं जिजीवा- म्येवं लगिष्यसि सदा दयितस्य कण्ठे ॥ ५८॥ त्वत्स्वामिनी प्रलपतीयमिमां गदेन हीनां करोमि कलयात्र निरेहि नेतः । इत्युक्तिसीधुरसतर्पितहृत्तदैव निष्क्रम्य जाल विततौ विदधानि नेत्रे ॥ ५९॥ घ्राणाक्षिकर्णवदने जलसेकतत्या कृष्णस्त्वया जित इतः सहसा निमज्ज्य । ग्राहो भवन् स खलु यत्कुरुते स्म तत्तु वेदान्यहं तव मुखाम्बुजमेव वीक्ष्य ॥ ६०॥ अभ्यञ्जयानि ससखीदयितां सहालि- स्त्वां स्नापयानि वसनाभरणैर्विचित्रम् । श‍ृङ्गारयाणि मणिमन्दिर पुष्पतल्पे सम्भोजयानि करकाद्यथ शाययानि ॥ ६१॥ वाणीरकुञ्ज इह तिष्ठति देवी निह्नुत्य मृग्यसि कथं तदितः परत्र । सत्यामिमां मम गिरं तमविश्वसन्तं यान्तं मयि प्रदर्श्य भवती हर्षयाणि ॥ ६२॥ स्वामिन्यमूत्रहरिरस्ति कदम्बकुञ्जे निह्नुत्य मृग्यसि कथं तदितः परत्र । सत्यामिमां मम गिरं खलु विश्वसत्याः पाणौ जयं तव नयानि तमाप्नुवत्याः ॥ ६३॥ राधे जिता च जयिनी च पणं न दातुं आदातुमप्यहह चुम्बनमीशिषे त्वम् । नाश्लेषचुम्बमधुराधरपानतोऽन्यं द्यूते ग्लहं रसविदः प्रवरं वदन्ति ॥ ६४॥ गोवर्धनेऽत्र मम कापि सखी पुलिन्द कन्यास्ति भृङ्ग्यतितरां निपुणेदृशेऽर्थे । मद्ग्राह्यदेयपणवस्तुनि मन्नियुक्ता सा ते गृहीष्यति च दास्यति चोपगूहम् ॥ ६५॥ उक्त्वेत्थमात्मदयितं प्रति वक्ष्यसे मां याहीत्यथोत्पुलकिनी द्रुतपादपाता । तामानयान्युप मुकुन्दमथासयानि तं लज्जयानि सुमुखीरति हासयानि ॥ ६६॥ स्वीया किल व्रजपुरे मुरली तवैका प्राभून् न तामपि भवानवितुं स्वभार्याम् । सा लम्पटापि भवतोऽधरसीधुसिक्ता- प्यन्यं पुमांसमिह मृग्यति चित्रमेतत् ॥ ६७॥ वंशीं सतीं गुणवतीं सुभगां द्विषन्त्योऽ साध्व्यो भवत्य इह तत्समतामलब्धाः । तां क्वापि बन्धमनयंस्तदहं भुजाभ्यां बद्ध्वैव वः शिखरिगह्वरगाः करोमि ॥ ६८॥ इत्यागतं हरिमवेक्ष्य रहस्तदीय कक्षादहं मुरलिकां सहसा गृहीत्वा । तां गोपयानि तदलक्षितमात्तचित्र पुष्पेषु सङ्गररसां कलयानि च त्वाम् ॥ ६९॥ ब्रह्मन्निमामनुगृहाण भवन्तमेव भास्वन्तमर्चयितुमिच्छति मे स्नुषेयम् । इत्यार्यया प्रणमितां धृतविप्रवेशे कृष्णेऽर्पितां च भवतीं स्मितभाग्भजानि ॥ ७०॥ यान्तीं गृहं स्वगुरुनिघ्नतयातिलौल्यात्- कान्तावलोकनकृते मिषमामृशन्तीम् । दूरेऽनुयानि यदतोऽनुविवर्तितास्यां एहीति वक्ष्यसि तदास्यरुचो धयन्ती ॥ ७१॥ गेहागतां विरहिणीं नवपुष्पतल्पे त्वां शाययानि परतः किल मुर्मुराभात् । तस्मात्परत्र शयनं विसपुञ्जकॢप्तं अध्याशयानि विधुचन्दनपङ्कलिप्ताम् ॥ ७२॥ आकर्ण्य चन्दनकलाकथितं व्रजेशा सन्देशमुत्सुकमतेः सरसा सहाल्याः । सायन्तनाशनकृते दयितस्य नव्य कर्पूरकेलिबटकादिविनिर्मितौ ते ॥ ७३॥ लिम्पानि चुल्लिमथ तत्र कटाहमच्छ मारोहयाणि दहनं रचयानि दीप्तम् । निराज्यखण्डकदलीमरिचेन्दुसीरि गोधूमचूर्णमुखवस्तु समानयानि ॥ ७४॥ अत्यद्भुतं मलयजद्रवसेकतत्या वृद्धिं जगाम यदिदं विरहानलौजः । कर्पूर केलीबटकावलिसाधनाग्नि ज्वालेन शान्तिमनयत्तदिति ब्रुवाणि ॥ ७५॥ धूलिर्गवां दिशमरुद्ध हरेः सहाम्बा रावेत्युदन्तमतुलं मधु पाययानि । तत्पानसंमदनिरस्तसमस्तकृत्यां त्वामुत्थितां सहगणामभिसारयाणि ॥ ७६॥ तत्कृष्णवर्त्मनिकटस्थलमानयानि निर्वापयाणि विरहानलमुन्नतं ते । आयात एष इति वल्लिनिगूढगात्रीं आकृष्य मह्यमहहेश्वरि कोपयानि ॥ ७७॥ श्रीकृष्णदृङ्मधुलिहौ भवदास्यपद्मं आघ्रापयाण्यतितृषन् तव दृक्चकोरीम् । तद्वक्त्रचन्द्रविकसत्स्मितधारयैव संजीवयानि मधुरिम्णि निमज्जयानि ॥ ७८॥ वैवश्यमस्य तव चाद्भुतमीक्षयाणि त्वामानयानि सदनं ललितानिदेशात् । कर्पूरकेल्यमृतकेलिततिं प्रदातुं गोष्ठेश्वरीमनु सराणि समं सखीभिः ॥ ७९॥ गत्वा प्रणम्य तव शं कथयानि देवि पृष्टा तयाथ बटकावलिं भोक्षयित्वा । तां हर्षयाणि भवदद्भुतसद्गुणाली- स्तत्कीर्तिताः सवयसे श‍ृणवानि हृष्टा ॥ ८०॥ वीक्ष्यागतं तनयमुन्नतसम्भ्रमोर्मि मग्नां स्तनाक्षिपयसामभिषिच्य पूरैः । अभ्यञ्जनादिकृतये निजदासिकास्ता मां चापि तां निदिशतीं मनसा स्तवानि ॥ ८१॥ स्नानानुलेपवसनाभरणैर्विचित्र शोभस्य मित्रसहितस्य तया जनन्या । स्नेहेन साधु बहुभोजितपायितस्य तस्यावशेषितमलक्षितमाददानि ॥ ८२॥ तेनैव कान्तविरहज्वरभेषजेन तात्कालिकेन तदुदन्तरसेन चापि । आगत्य साधु शिशिरीकरवाणि शीघ्रं त्वन्नेत्रकर्णरसनाहृदयाणि देवि ॥ ८३॥ स्नानाय पावनतडागजले निमग्नां तीर्थान्तरे तु निजबन्धुवृतो जलस्थः । संमज्ज्य तत्र जलमध्यत एत्य स त्वां आलिङ्ग्य तत्र गत एव समुत्थितः स्यात् ॥ ८४॥ तन् नो विदुर्निकटगा अपि ते ननन्दृ स्वस्रादयो न किल तस्य सहोदराद्याः । ज्ञात्वाहमुत्पुलकितैव सहालिरेत- च्चातुर्यमेत्य ललितां प्रति वर्णयामि ॥ ८५॥ उद्यानमध्यवलभीमधिरुह्य तत्र वातायनार्पितदृशं भवतीं विधाय । सन्दर्श्य तत्प्रियतमं सुरभीर्दुहानं आनन्दवारिधिमहोर्मिषु मज्जयानि ॥ ८६॥ गत्वा मुकुन्दमथ भोजितपायितं तं गोष्ठेशया तव दशां निभृतं निवेद्य । सङ्केतकुञ्जमधिगत्य पुनः समेत्य त्वां ज्ञापयान्ययि तदुत्कलिकाकुलानि ॥ ८७॥ त्वां शुक्लकृष्णरजनीसरसाभिसार योग्यैर्विचित्रवसनाभरणैर्विभूष्य । प्रापय्य कल्पतरुकुञ्जमनङ्गसिन्धौ कान्तेन तेन सह ते कलयानि केलीः ॥ ८८॥ हे श्रीतुलस्युरुकृपाद्युत तरङ्गिणी त्वं यन्मूर्ध्नि मे चरणपङ्कजमादधाः स्वम् । यच्चाहमप्यपिबमम्बु मनाक् तदीयं तन्मे मनस्युदयमेति मनोरथोऽयम् ॥ ८९॥ क्वाहं परशतनिकृत्यनुबिद्धचेताः संकल्प एष सहसा क्व सुदुर्लभार्थे । एका कृपैव तव मामजहत्युपाधि शून्यैव मन्तुमदधत्यगतेर्गतिर्मे ॥ ९०॥ हे रङ्गमञ्जरि कुरुष्व मयि प्रसादं हे प्रेममञ्जरि किरात्र कृपादृशं स्वाम् । मामानय स्वपदमेव विलासमञ्ज- र्यालीजनैः सममुरीकुरु दास्यदाने ॥ ९१॥ हे मञ्जुलालि निजनाथपदाब्जसेवां सातत्यसम्पदतुलासि मयि प्रसीद । तुभ्यं नमोऽस्तु गुणमञ्जरि मां दयस्व मामुद्धरस्व रसिके रसमञ्जरि त्वम् ॥ ९२॥ हे भानुमत्यनुपमप्रणयाब्धिमग्ना स्वस्वामिनोस्त्वमसि मां पदवीं नय स्वाम् । प्रेमप्रवाहपतितासि लवङ्गमञ्ज- र्यात्मीयतामृतमयीं मयि धेयि दृष्टिम् ॥ ९३॥ हे रूपमञ्जरि सदासि निकुञ्जयूनोः केलिकलारसविचित्रितचित्तवृत्तिः । त्वद्दत्तदृष्टिरपि यत्समकल्पयं तत्- सिद्धौ तवैव करुणा प्रभुतामुपैतु ॥ ९४॥ राधाङ्ग शश्वदुपगूहनतस्तदाप्त धर्मद्वयेन तनुचित्तधृतेन देव । गौरो दयानिधिरभूरपि नन्दसूनो तन्मे मनोरथलतां सफलीकुरु त्वम् ॥ ९५॥ श्रीराधिकागिरिभृतौ ललिताप्रसाद लभ्याविति व्रजवने महतीं प्रसिद्धिम् । श्रुत्वाश्रयाणि ललिते तव पादपद्मं कारुण्यरञ्जितदृशं मयि हा निधेहि ॥ ९६॥ त्वं नामरूपगुणशीलवयोभिरैक्या- द्राधेव भासि सुदृशां सदसि प्रसिद्धा । आगःशतान् न गणयन्त्युररीकुरुष्व तन्मां वराङ्गि निरुपाधिकृपे विशाखे ॥ ९७॥ हे प्रेमसम्पदतुला व्रजनव्ययूनोः प्राणाधिकाः प्रियसखाः प्रियनर्मसख्यः । युष्माकमेव चरणाब्जरजोऽभिषेकं साक्षादवाप्य सफलोऽस्तु ममैव मूर्धा ॥ ९८॥ वृन्दावनीयमुकुट व्रजलोकसेव्य गोवर्धनाचलगुरो हरिदासवर्य । तत्सन्निधिस्थितियुषो मम हृत्शिलास्व- प्येता मनोरथलताः सहसोद्भवन्तु ॥ ९९॥ श्रीराधया समं तदीयसरोवर त्वत्- तीरे वसानि समये च भजानि संस्थाम् । त्वन्नीरपानजनिता मम तर्षवल्ल्यः पाल्यास्त्वया कुसुमिताः फलिताश्च कार्याः ॥ १००॥ वृन्दावनीयसुरपादप योगपीठ स्वस्मिन् बलादिह निवासयसि स्वयं यत् । तन्मे त्वदीयतलस्तस्थुष एव सर्व सङ्कल्पसिद्धिमपि साधु कुरुष्व शीघ्रम् ॥ १०१॥ वृन्दावनस्थिरचरान् परिपालयित्रि वृन्दे तयो रसिकयोरतिसौभगेन । आढ्यासि तत्कुरुकृपां गणना यथैव श्रीराधिकापरिजनेषु ममापि सिद्धेत् ॥ १०२॥ वृन्दावनावनिपते जय सोम सोम मौले सनन्दनसनातननारदेड्य । गोपीश्वर व्रजविलासि युगाङ्घ्रिपद्मे प्रीतिं प्रयच्छ निरुपाधि नमो नमस्ते ॥ १०३॥ हित्वान्याः किल वासना भजत रे वृन्दावनं प्रेमदं राधाकृष्णविलासवारिधिरसास्वादं चेत्विन्दथ । त्यक्तुं शक्नुथ न स्पृहामपि पुनस्तत्रैव हृद्वृत्तयो विश्रद्धाः श्रयत ममैव सततं सङ्कल्पकल्पद्रुमम् ॥ १०४॥ इति श्रीविश्वनाथचक्रवर्तीठक्कुरविरचितः श्रीसङ्कल्पकल्पद्रुमः सम्पूर्णः ।

(22) Nikunjakelivirudavali ॥ (२२) निकुञ्जकेलिविरुदावली ॥

(१)

निकुञ्जकेलीविरुदावलीयं निकुञ्जकेलीरसिकप्रसादम् । स्वकीर्तिनैपुण्यजुषे प्रदत्ते स्वकीर्तिनैपुण्यपुषे जनाय ॥ १॥ श्रीकृष्णलीला हृदयं पुनातु मे लीला च या प्रेमरसानुभाविनी । रसश्च कान्तापरिशीलितोऽस्ति यः कान्ता च या गोकुलयौवताग्रणीः ॥ २॥ व्रजयुवतिजनैकप्राणबन्धोरमुष्य स्मरविलसितमेवोत्कर्षमाहुः कवीन्द्राः । भवकमलभवाद्यैः स्तावकैः प्रथ्यमानं न पुनरनुपमं तत्पारमैश्वर्यमुच्चैः ॥ ३॥ प्रथितमपि वदान्यं राधिके मां तवाल्यः कथमधरसुधायास्तस्करं ता ब्रुवन्ति । पिब पिब मुखचन्द्रं तत्स्वयं मे निकामं त्वमिति रहसि शंसन् शं स कृष्णस्तनोतु ॥ ४॥

(२)

चण्डवृत्तस्य नखे मातङ्गखेलितम् २ गोकुलानन्द शीलितामन्द चातुरीपुञ्ज माधवीकुञ्ज । भाजिमातङ्ग गामिनीसङ्ग शालितारङ्ग राजितानङ्ग । कौतुकासङ्ग भारभागङ्ग रागितारञ्जि यौवतासञ्जि । धीरतागञ्जि चापलाव्यञ्जि कैतवाभ्रान्त शोणनेत्रान्त । शायकाक्रान्त भाविनीस्वान्तर्भावितानन्त केलिसामन्त । रेचितोदन्त राधिकादन्त दंशनाखण्ड माधुरीषण्ड । खेलितापाङ्ग नीरदाभाङ्ग राधिताश्रान्त कन्दराध्वान्त । नीलचेलाञ्चि कामिनीकाञ्चि मोचनोदीर्ण सम्मदाकीर्ण । शेमुषीशीर्ण वामताभीर्ण खेद सम्पूर्ण वैदुषी तूर्ण । कामसंरम्भ सङ्गरारम्भ जात रोमाञ्च पाहि भो मां च ॥ ५॥ ॥ धीर ॥ उद्यन्नखाङ्कहरिणाङ्करुचा सुचारु खेलापरं कुचरथाङ्गयुगं सुकण्ठ्याः । स्वागाधहृत्सरसि साधु निमज्जयंस्त- दुन्मज्जयन् स रसिको मुदमादधातु ॥ ६॥ सङ्गत सदनङ्गज मद रङ्ग तरलदङ्ग गरल श‍ृङ्ग रुचिरभृङ्ग सुचिर गुञ्जन चणकुञ्जशरण कञ्जनिचय गञ्जनशय ॥ ७॥ ॥ वीर ॥

(३)

वीरभद्रः ३ कन्दर्पदर्पककुचाद्रिविमर्दभीति संविग्नकौस्तुभभटश्रितकण्ठपार्श्वः । कान्तातिनिःश्वसितधूसरिताधरश्रीः कृष्णो मुदं नयनयोर्मम शं तनोतु ॥ ८॥ युञ्जद्गुञ्जद्भ्रमरकलितकल भव्यस्तव्यस्थलसरसिजदल । माल्यस्वाल्यर्पितरतिरसकर रङ्गत्रङ्गद्रसनयुवतिवर । दीव्यन्नीव्यन्तिकविनिहितपुरु वाम्यक्लाम्यद्बलकरबलदुरु । हर्षोत्कर्षोत्पुलकहृदयनट शम्भस्तम्भस्फुरितजघनतट । काञ्चिप्राञ्चिस्वनितजनितसुख मन्दस्पन्दस्वलकललितमुख । नृत्यश्रित्यर्थकशुभमणिसर सद्यःप्रद्यत्प्रखरनखरशर । भिन्नस्विन्नस्तनयुगनवघट सक्तस्रक्तर्जकसुपदकभट । रत्युद्धत्युच्चलितचिकुरचय शस्तस्रस्तप्रवरकुसुममय । तल्पस्वल्पस्वननवलयधर कम्पोत्कम्पोत्तरलसुतनुकर । वेष्टस्वेष्टस्मरविलसितमद मत्तप्रत्तस्वजनहृदयमुद । भीष्टश्रीष्टस्वपघनरदबल दष्टस्पष्टप्रभसदधरदल । कान्तस्वान्तप्रणयदममलस हृद्यक्लिद्यप्यतुलकरुणरस ॥ ९॥ ॥ वीर ॥ कौस्तुभविदलित सुललित कुङ्कुमकञ्चुककुचां राधाम् । तदलकमार्जिततिलको रमयन् कृष्णो हृदि स्फुरति ॥ १०॥ सञ्जाततन्द्रास्य कञ्जातचन्द्रास्य काश्मीरजन्मादिरश्मीरसम्मादि । घर्मोचितानल्पनर्मोचिताकल्प कुञ्जे लसानन्द पुञ्जे रसाशन्द ॥ ११॥ ॥ वीर ॥

(४)

पुरुषोत्तमः ४ प्रियाया गच्छन्त्याः स्वयमनुपलब्धो वनपथं परिष्कुर्वन् पुष्पैर्घनविटपवल्लीर्विघटयन् । स्वपाणिभ्यां लुम्पन् निजचरणचिह्नं चलति य- स्तदग्रे तं नौमि प्रणयविवशं त्वां गिरिधरम् ॥ १२॥ धरणीक्लमहारिक्रिय रमणीव्रजकेलिप्रिय । ललितोद्भटवेणुस्वर वलितोत्कटकामज्वर । दलितान्वितलोकत्रप वनितास्मृत भो भद्रप । कमलार्चितपादद्युति पटलाद्रितशोकश्रुति युगलोच्चलनीपस्फटन्- मुकुलोज्ज्वलरूपछट । चपलाप्रभचेलद्वय महिलार्पितहेलस्मय । सरसेक्षणकोणक्रम रभसेक्षकलोकभ्रम । जनकाश्रितवेदक्रम शमकाच्युतशीलश्रम । कणिकार्जितमाधुर्य स दनिकाद्भुतरोचिर्लस । पुरुषोत्तम चेतःस्थित मरुषो व्रणमाशु स्मृत चरितो ध्रुवमेव द्रुतं अभितोऽर्दसि नाथ द्रुत मनसां प्रणयेन त्वयि मम सांप्रतमीश त्वयि भवताद्रतिरीतिर्मतिं अवतात्तव नामश्रुति- रमितार्थकलीलस्वरं अमितार्थद मामुद्धर ॥ १३॥ ॥ वीर ॥ उरोजान्तर्लग्नां मम दृशमियं वीक्ष्य चकितं परिस्रस्तं चेलाञ्चलमधिशिरो न्यस्य सुमुखी । पिधत्ते कञ्चुक्यावृतमपि कुचं तद्गतमनो मणिं मे सम्प्राप्येत्युदितसुबलो नोऽवतु हरिः ॥ १४॥ विमलजलदसुभगसुषम विजितचपलवसनकुसुम । सदृशमृदुलगजकभुजक चिकुररचितशिखिजदलक । रसिकयुवतिहृदयकलन चटुलनयनमदिरमिलन । रुचिरवदनमधुरहसित कथितनिखिलसुरतचरित । ललितचरणकमलचलन विलस सुतनुवितनुवलन ॥ १५॥ ॥ धीर ॥

(५)

अच्युतः ५ कर्णाध्वगाम्यतनुनर्मशलाकयैव विद्राव्यचारुरदनच्छदगाढमुद्राम् । निष्कासितां स्मितसुधां प्रसभं रमण्याः कृष्णः स्वनेत्रचषकेण पिबन्मुदे स्यात् ॥ १६॥ जय जय शीलप्रिय जलधील स्वरघननीलद्युतिधर कील स्तुत पुरुलील प्रणयनिमीलत्- त्रपतरुलील श्रुतिपरिशीलन्- नवमुरलीकप्रबलदलीक प्लुतजनभीकप्रकटतटीक प्रमदवतीकस्थितसुपटीक- र्षकरजनीपस्वकिरनदीप । प्रणुतसमीपस्फुटदलनीप स्तृततटदेश प्रथितवरेश प्रगतसुकेशप्रवर निशेश । प्रतिमविशेष प्रभृतविशेष प्रभशुभवेश व्रजमहिलेष । चलितसुचेल स्तनयुगखेलन्- नयनसुवेल स्मृतरतिवेल । सुहृदतिवेलप्रततनिशात स्मरशरजातप्रजरनिपात । प्रबलविघातप्रचलितदेह श्रितरतगेह त्वमघहरेह । स्फुत हृदि मे ह ॥ १७॥ ॥ वीर ॥ मयि क्षिप्त्वापाङ्गं कुचकनकशम्भुं स्मितसुधा सुधाराभिः कान्ते! स्नपयसि न किं पूजयसि तम् । प्रकामं कामायाच्युतकरसरोजेण सुदती- त्युपागच्छन् जल्पन्विलसतु स राधारतिसखः ॥ १८॥ वृन्दावननगवृन्दाधिकलव कुञ्जालयचर गुञ्जामणिसर । कञ्जातुलमदगञ्जामलपद कान्ताकुचशय मां तारय जय ॥ १९॥ ॥ धीर ॥

(६)

तुरङ्गः ६ पृष्ठीकृत्य प्रयान्त्या द्रुतमयमधुनैवाग्रतो रोत्स्यते मां इत्याश्वासं दधत्या हृदि बत सुतनो रक्षिणी ते पदाब्जे । प्राभूतां नैव गन्तुं कथमपि पुरतो नापि पृष्ठं द्रुतो वे- त्याकुञ्चन्त्या नितम्बत्विषि धृतनयनो माधवो मां धिनोतु ॥ २०॥ सुन्दरमुख शशिबिम्बक कुन्दनिविड मदडिम्बक दन्तपटल लसदम्बुज शन्तमकर शुभकम्बुज लङ्गिमभर परिकुण्ठक रङ्गिमधुरतरकण्ठक । सङ्गतयुवतिकदम्बकरङ्गतरलितहृदम्बर । लुञ्चनचतुरदृगङ्गन कुञ्चनविलसितरङ्गण वञ्जुलकुसुमसुरञ्जित मञ्जुलकचभरगञ्जित चञ्चलमधुकरमण्डल सञ्चलदलकसकुण्डल । मन्दहसितलसदिन्दिरशन्दचरितगुणमन्दिर । दण्डितसमदमतङ्गज मण्डितगतिवलदङ्गज । कम्परुचिररुचिनिन्दित शंपसुतनुमतिसन्दित । दम्भविषमजनवञ्चक शम्भदमन शरपञ्चक खण्डितहृदतनु सागरपण्डितरतिसुहृदङ्गर । बम्भ्रमदलिवरलम्भित सम्भ्रमसुदृगभिरम्भित । सङ्गमसदलिककङ्कण मङ्गलचलकरकङ्कण डिण्डिमरणितनिरन्तरचण्डिमकलितमुदन्तर । नन्दहृदयमकरन्दक शन्दयविपिनपुरन्दर ॥ २१॥ ॥ वीर ॥ नटच्चटुललोचनाञ्चलविलासवल्गुश्रियं स्वचिल्लिवरवल्गनग्लपितधैर्यचर्याभराम् । नवप्रणयसम्भृतस्मितसुधापिधानाकुलां निजप्रणयिणीं स्मरन् सपुलको हरिः पातु नः ॥ २२॥ जय चारुवेष नय नागरेश शयनीततालमयरागजाल । धरवेणुदूतवरसाधुधूत वनिताभिमानजनितातिमान ॥ २३॥ ॥ वीर ॥

(७)

तिलकम् ७ जीयाद्धरिः स्वमुरलीपरिगीतपीत पातत्रपाम्बुसरसीः सरसीरुहाक्सीः । शून्यान्तरा गतबला अपि ताः प्रकूर्वन्- पूर्णा निजाधरसुधारसुधारसेन ॥ २४॥ चटुलमधुपमदकुण्ठकसदलक । विमलजलदरुचिलुण्ठकदमनक मृदुलसुरभिदलगुम्फकसुललित कुलवरतनुधृतिलुम्पकविहसित । हठभरकुचपटकुञ्चनविकलित युवतिनयनकटुकुञ्चनकवलित । करकरधुननविशङ्कटकलहज विततपुलककुलकङ्कतमलयज मृगमदघुसृणसुगन्धितपरिसर वनगतमदनमुदन्धितमधुकर निकररणितरतिमङ्गलमयरव विवृतसुरतरसरङ्गलसुखनव वितनुसमरपुरुदम्भपटिमधर सुतनुनिविडपरिरम्भ रसिकवर । जनितमणितमणिकङ्कनकणदति रभसरमणगतशङ्कचिकुरतति मिलितनटनझषकुण्डलविसृमर रुचिभरवरकरिशुण्डसदृशकर । निजपरिचरणरतं जनमिममति कृपय निखिलगुणरञ्जनरतिपति शतमतिमथनकृदङ्गसुषम जय मनसिजवलिततरङ्गचरितमय ॥ २५॥ ॥ वीर ॥ रतिरणघनघर्माक्रान्तसिन्दूरपङ्क श्रितवदलकमालासक्तभालं प्रभालम् । युवतिरदनकीर्तिख्यापि बिम्बाधरहृन्- मम कलयतु कृष्णस्यास्यचन्द्रं स्वतन्त्रम् ॥ २६॥ त्वं गतशङ्कितरङ्गतरङ्गित कुन्दसुसत्तमदन्तवसन्तम । वञ्जुलकुञ्जकमञ्जुलगुञ्जक सञ्जयरञ्जककुङ्कुमपङ्कक ॥ २७॥ ॥ वीर ॥ नित्यं याति यथायथा कुचयुगं पीतत्वमुत्तुङ्गतां चोलिं प्राप्य तनुत्वमृच्छति तथास्यार्धावृतौ योग्यताम् । कान्ते कुप्यसि तत्प्रसाधनकृते सख्यौ वृथा हृष्टतां अक्ष्णोर्मे कलयेति कृष्णभणितं जागर्तु मे चेतसि ॥ २८॥

(८)

चण्डवृत्तस्य विशिखे पद्मम् ८ जय लवमात्रस्वविरहदात्र प्रदितसुगात्र व्रजमहिलात्र । ग्रहपतिकन्यातटलसदन्या प्रतिमसुधन्या यतनतवन्या सुहृदलकान्तालिपटलकान्ता लिकनिजकान्तामिलनरतान्ता । रतिरणरङ्गोदयकुचसङ्गो पणपरिभङ्गोदितवदनङ्गो रुशरनखाङ्ककलितशशाङ्का वलिवलिताङ्काधृतहरिणाङ्का ननसुदृगुल्लासकपरिफुल्ला चटुलमरुल्लालितभुजमल्ला हितपरिवेष्टप्रणयसुखेष्ट प्रवलदकष्टस्वरदनदष्ट प्रमदवती द्रागुदितसुधार्द्रा चरितमिहार्द्रा वहमति मुद्रा वितहृदि युञ्जेऽरुणतरगुञ्जे लितनवकुञ्जे रुवदलिपुञ्जे ॥ २९॥ ॥ वीर ॥

(९)

वञ्जुलम् ९ श्रीराधेक्षणसख्यलक्षणरसस्वाराज्यमत्युर्ज्जितं प्राप्य स्वैरमलं गतो यदधरो भ्राजिष्णुतां जिष्णुताम् । नाथ न्यक्कुरुतामयं तव ततः सख्यालिदृङ्मोदनो मत्तालिश्रितबन्धुजीवक यशःपुञ्ज निकुञ्जेश्वर ॥ ३०॥ कुञ्चितकचविरचनधृतचम्पक लुञ्चितमणिसरसदतनुकम्पक । रञ्जितयुवतिसुरतरसलम्पट गञ्जिततडिदभिनवरुचिसम्पट ॥ ३१॥ ॥ वीर ॥ स्नातोत्थितां कलितरञ्जितचीनचीर पाणिद्वयोद्धुतकचां चकितामकुर्वन् । कान्तां हरिर्जयति वल्लिदलावृतोऽस्या वक्षोजकक्ससुखवीक्षणसक्षणात्मा ॥ ३२॥ विलस विशङ्कत भुजगतसङ्कत जगदतिरङ्गलचरितसुमङ्गल । शशधरगञ्जक मुखरुचिरञ्जक कुरुवकमञ्जुलविकसितवञ्जुल । कुसुमसुमण्डित शुचिरसपण्डित तनुरुचिदण्डित जलधरखण्डित । तडिदतिसुन्दरवसन पुरन्दर धनुरतिनिन्दकचलशिखिचन्द्रक निचयकरम्बितकचभरलम्बित मणिसरकम्पकधृतनवचम्पक । कलितविकस्वरकलगवलस्वर सुतनुजनस्खलदुपजघनस्थल । परिहितनीव्यभिहितमदन व्यभिचरित जवस्फुरदतिखरनिष्ठुर । गुरुजनगर्जनकटुमुखतर्जन कृतगतिवर्जनवलदुपसर्जन । पिशुनविसृत्वरपुरुवलितज्वर शमनकृतक्रमधृतयुवतिभ्रम । कलपदसञ्चितचतुरिमवञ्चित कटुतरदुर्जनभवनसमर्जन । कलितसुतल्पकविलसदनल्पक मधुरिमसन्धितमदनमुदन्धित । वरतनुकङ्कितकुचयुगटङ्कित भुजपरिरम्भणरुतमणिकङ्कण चपलिमलम्भनजनितविकम्पन ॥ ३३॥ ॥ वीर ॥ विकचयदपि राधानेत्रनीलोत्पलान्तं स्मितसितरुचिबिम्बं सम्भ्रमादुज्जिहानम् । व्यनमयदथ सा प्राचूकुचत्तत्तदैवे- त्युदितमनु स जीयात्कुन्दवल्ल्या मुकुन्दः ॥ ३४॥ जय कमलागोचरपरभागो चितनवरागोपनतकलागो पनचलरामामुखविधुधामा मृतकलनामादितनवदामा ॥ ३५॥ ॥ वीर ॥ नृत्यान्ते धृतगर्वमुद्धतसखिप्रोत्तेजनात्स्वं हठा- ज्जेतुं दृगभिनेष्यमाणनटनावेशाप्तशोभां प्रियाम् । काञ्चीकञ्चुकगाढबन्धकषणासंसक्तपाणिद्वयां पश्यन् स्वाक्षियुगं हरिः सफलयन् दिश्यात्स मे वाञ्छितम् ॥ ३६॥

(१०)

बकुलभासुरम् १० जय जय पिञ्छमुकुट रससागर सागरसाभूषणपदकेतन केतनकल्पनिकुञ्जमहारत हारतरलतरताप्रतिपादक । पादकमलवरलास्यविलासक लासकलाकौतुकमुदितान्तर तान्तरमिततरुणीमुखमार्जन मार्जन परकरकमलसुखातुल । खातुलवनितावृन्दविमोहन मोहनदीप्लावितभवनारद । नारदशाप्रार्थककमलासन लासनचरणाब्जपरागक । रागकलास्वरमूर्च्छनसञ्चय सञ्चयनाश्रितसर्वविलक्षण लक्षणमयमुरलीपरिशीलक शीलकलितगुणमणिपदपर्वत । पर्वतरलरमणीक्षणनिर्वृत निर्वृतनर्मविलासहसप्रिय । सप्रियभृङ्गीस्तुतनवमालक मालकदम्बकमञ्जुलरूपक । रूपकरम्यकवित्वकवीलित वीलितशिखरितटाप्तमहारस । हारसहितकुचकञ्चुकघट्टक घट्टकलहखण्डितसुसतीव्रत । तीव्रतमःशमकाङ्गसदामद दामदरान्दोलनगतिविभ्रम । विभ्रमदन्तरुदितबहुसम्भ्रम सम्भ्रमविश्लथनीविवधूजन । धूजनकेक्षणकोणविनोदन नोदनचित्रचरित्रविराजन । राजनटोपमकौस्तुभकन्धर कन्धरसुन्दरगोकुलजीवन । जीवनजाक्षसमस्तसभाजन भाजनकुञ्जगृहश्रितदेवन देव नमो भवते भयभेदन ॥ ३७॥ ॥ वीर ॥ मधुरहसितविद्याद्राविताशेषनारी धृतिकठिनभुजाङ्गीसञ्चयः शं चिकीर्षुः । शिशिरतरदृगम्भोजाञ्चलेनामृजंस्ताः स रसयतु मुकुन्दः कुन्ददामाभिरामः ॥ ३८॥ कलितमुखतान ललितसुखगान जनितमतिमोह वनितरतिदोह । चलदमलमाल जलदसमभाल नय चतुरशील जय मधुरलील ॥ ३९॥ ॥ वीर ॥ मुखचरणमेकं कम्पयन् लम्पटत्वं दधदधितरुगात्रं धरयंश्चारयन् स्वम् । निजतनुमनु नेत्रं वल्लिगूढाम्बुजाक्षी हसितदृशि च युञ्जन् कुञ्जनाथः स जीयात् ॥ ४०॥

(११)

बकुलतुङ्गम् ११ उल्लस मुकुन्द कुन्दवनमाल मालमदहारि हारिरुचिकाय । कायनविहार हारलतिकान्त कान्तमणिराजराजदुपकण्ठ कण्ठ कमलास्य लास्यकृतभूष भूषणहगान गानवधिमोद । मोदय भदक्ष दक्षमतिनार्य नार्यपथसत्वसत्वरहृदिष्ट दिष्टमहिलाग लागपरभाग भागमलधीलधीललितलोक लोकनन्दभाल भालविधुबिम्ब बिम्बसुभगोष्ठ गोष्ठपसमुद्र । मुद्रवरचन्द्र चन्द्ररसचित्र चित्रककपोल पोलवनहास हाससहचारि चारिमसदन्त दन्तरुगकन्द कन्दरसुपर्व । पर्वतविलास लासकमहेश हे शरण देव नाथ ॥ ४१॥ उन्नीतवामकरपद्म धृताग्रशाखां राधां विलोक्य कुसुमप्रचयैकतानाम् । पश्चद्विवर्तितमुखीं सहसा विधित्सु- र्वंशीं स्वरन् जयति गूढतनुर्मुकुन्दः ॥ ४२॥ नीरदपुञ्ज श्रीधरगुञ्ज भासुरभृङ्ग क्ष्माधरश‍ृङ्ग स्थातुलसन्तस्त्वामभजन्त ॥ ४३॥ ॥ नाथ ॥ पाणिर्मेऽत्र मदीयकिङ्किणिसखः चोकूयते तेन किं सद्यः सुन्दरि किङ्किणीमनु निजां शाशङ्कमानेक्षसे । जेघ्रिये कमलं विकास्य तव किं चोकुप्यते वा मुखं साक्षादित्यतिमञ्जुला तव हरे वाणी व्रजे भ्राजताम् ॥ ४४॥ अथ चण्डवृत्तस्य सामान्यभेदः वेणुध्वानक धेनुस्वानक सारप्रीतिद सारश्रीमद । धामश्यामल भामध्यानल गोपस्त्रीकृतकोप श्रीडित । हासप्रोदित रासत्रोटित मानश्लेषण दानस्वेषण । दामभ्राजित कामप्रामृत खेलक्लेशद हेलश्लेषद । बालक्षेमद मालप्रेमद भालस्थालक जालक्षालक । हारिस्वेदक वारिक्षेपक बातप्राहित शातद्रागित । भातक्ष्माधर रातस्वादर लोकख्यापित तोकत्वावृत । मेघत्वायित हेऽघत्रावित गोपव्रातक भो पत्रानक । वादित्रारत कादित्रनत लोकस्थातुल शोकव्याकुल । चारुव्यापृत कारुण्यामृत धार प्रीणय सारश्रीमय ॥ ४५॥ ॥ वीर ॥ मणिसरमहधारे कौस्तुभानर्घ्यदीपे निजःर्दि वनमालातोरणे धाम्नि नित्यम् । परिचय कमलाङ्कस्वर्णसिंहासनस्थां अघहर वरदेवीं राधिकां त्वं सकामः ॥ ४६॥ जय कुण्डल रुचिसण्डल शुभगण्डक जगदण्डक । दवखण्डन वरमण्डन रतिपण्डित तनुदण्डित घनमण्डल नवदण्डल ॥ ४७॥ ॥ देव ॥ वदनमधुरिमसदनं चलनदलनं करीन्द्रकीर्तीनाम् । हसितं सुदृगभिलषितं हरतु हरे मामकं हृदयम् ॥ ४८॥

(१२)

मञ्जर्यां कोरकः १२ नीलसरोजकुलस्तुतकायक शीलसमृद्धिजिताखिलनायक । पीतनपीतनवाम्बर नारद गीतनवोदितलील सदा मद । मारसहस्रजयि प्रभनागर सारसलोचन हे गुणसागर । चन्दनचित्रक चित्रललाटक मन्दनटन्नयनाञ्चलहातक । कुण्डलताण्डवितच्छबिपुञ्जक तुण्डलसद्द्विजराजसुगुञ्जक । हारविराजिततुङ्गसदंसक सारविलासभरावधिशंसक । सर्वविलक्षणालक्षणमण्डित पर्वविशेषसमर्पणपण्डित । विश्वसभाजितमञ्जुलतारत निश्वसनोल्लसदानमदानत तुन्दरमाङ्कविराजदुरःस्थल सुन्दरकौस्तुभरत्नधरस्थल । नीरददामदरोर्जितधूनन धीरजगद्वनितामतिमोहन । मत्तमतङ्गजनव्यगतिक्रम सत्तमनूपुरपूरितविभ्रम । नृत्यकलातिविचक्षणमादन कृत्यकलापपराखिलसाधन । धर्मपराङ्मुखगोपवधूधृत भर्मपदाङदराववशीकृत । चारुतराब्जपरागभरादृत मारुतवेल्लितवेल्लिदलावृत । चन्द्रकशोभितचूलसुधामय मन्त्रकलस्वनवंश विभो जय ॥ ४९॥ ॥ वीर ॥ राधाकटाक्षमधुपावलिपीतबन्धु जीवाधरद्विगुणितस्मितसीधुपूरः । लीलाम्बुजं करतलेन विकाश्य जिघ्रन्- कृष्णः स मे हृदयगेहमलङ्करोतु ॥ ५०॥ पादपल्लवभासरिल्लव नीतखर्वतरूपपर्वत । मारसुस्तुत केलिवस्तुत नाथसर्वक शेषपर्वक चारुविक्रम शीलसुक्रम ॥ ५१॥ ॥ वीर ॥ वलद्घूर्णापूर्णारुणनयनमाकीर्णचिकुरं नवालक्तारक्तालिकमधरसक्ताञ्जनरसम् । प्रगे राधाबाधाप्रकुपितसखीतर्जितमलं हरिं युञ्जे कुञ्जे हृदि कमपि भावं दधति तम् ॥ ५२॥

(१३)

मञ्जर्यां गुच्छः १३ जय कुसुमशायकोद्धतयुवतिरञ्जित प्रबलतरघूर्णितारुणनयनगञ्जित भ्रमरधृतबन्धुजीवरुचिरुचिराधर प्रसरदुरुजृम्भितह्नुतिचतुरनागर । श्रमसलिलराजियावकसरसभालक क्रमविवृतविश्वगालुलितललितालक । प्रखरनखराङ्कितारुणहृदयखण्डित प्रणयभरवल्लभाकटुरटनदण्डित । क्रकचनिभचिल्लितर्जनबहुलताधुत प्रकटशपथावलिध्वनितनिजसाधुत । स्मरसमरसूचकलपितवनदामक ग्रथितबहुचातुरीप्रतिवचनसामक । द्रुतमसरलालिनिर्मितपटिमवञ्चन प्रतनु मम भावमच्युत मनसि कञ्चन ॥ ५३॥ ॥ वीर ॥ स्मरसमरविमर्दामोदमुग्धं तवाङ्गं ममकनयननासानन्दमुच्चैर्व्यतानीत् । वितर वितर चाटु प्रेमगर्भं प्रियोऽसि श्रुतिसुखमिति राधागीर्धुतं स्तौमि कृष्णम् ॥ ५४॥ दृष्टस्मरमद सृष्टश्रमपद मृष्टप्रणिगद धृष्टप्रणयद । सिद्धप्रतिभय विद्धस्वहृदय वृद्धक्लमवियदृद्धप्रभ जय ॥ ५५॥ ॥ वीर ॥ इन्दीवरेण सखि कर्णमलङ्कुरुष्वे- त्युक्ता निरञ्जनमुदीक्षयते स्वनेत्रम् । तत्त्वं श‍ृणोति न च पश्यति राधिकेति वृन्दोक्तितो विधुरितो विधुरस्तु भूत्यै ॥ ५६॥

(१४)

मञ्जर्यां गन्धः १४ धृष्टवर मानदव हेतिभर दुननव नीररुहचारुमुख राधाधृतखेदसुख मञ्जुपदचाटुचयभागुदितशीलमय लील निजतापगणसूचिसमुपक्रमण साधुचरितालिकृत शान्तसुदृगङ्घ्रिधृत चूडवनितास्रजलसिक्तकुचकुम्भतल मार्जिशुभपाणितल लब्धमकराङ्कबल मङ्क्षुहृतमानधन रोमकसमुद्गमन बोधितविलासरस लब्धरतिकुञ्जलसन्- मञ्जुकुसुमालिदल चित्रमृदुतल्पतल रूपपुरुकेलिविशदङ्ग सुहृदालिदृशं अङ्ग सुखयानुपदमिद्धरुचिचन्द्रमद हारिचरणाब्जनख दीव्यललितालिसख ॥ ५७॥ ॥ देव ॥ झनज् झनदिति श्रुति प्लुतिमिता रते किङ्किणी सनत्सनदिति स्वनाश्वसिति सन्ततिर्वां मुहुः । भ्रमद्भ्रमर संभ्रमा प्रचल सौरभालिर्विभो झलज् झलति भातु मे हृदय सम्पुटे रत्नवत् ॥ ५८॥ मदन रणग सुतनु दशन विदित विदित चरित ललन मुखर बलय कथित वितत सकल सकल निभृत सुरत कलित विपिन सदन शयन विलस विलस कमल नयन ॥ ५९॥ ॥ धीर ॥ खपुर सरस वीटीं चर्वयन्नास्य भासा वरतनु धृति गर्वं खर्वयन् पीतवासाः । सुबल भुज शिरोञ्चद्वाम बाहुः सहेलं मदकल करिगामी भाति चित्तेऽनुवेलम् ॥ ६०॥

(१५)

विदग्धत्रिभङ्गी १५ वृन्दारकनतिवृन्दादृतशुभवृन्दाविपिनपुरन्दर कन्दर खेलारत वरहेलावृत सुमहेलामुख विधुबिम्बकचुम्बक गोपीगुरुभयलोपी हितसुखरोपी क्षणरतिनायकशायक गङ्गाधरधृतिभङ्गाचित नवरङ्गावनमुरलीलितशीलित शर्मालयगुणकर्माकृतिधर नर्मामृतरसवर्षणहर्षण कृष्णातटनट कृष्णासमशरतृष्णाविधुतसतीव्रततीव्रत रम्भाजयिसुभगम्भावुक गुणसम्भावितमहिलालसलालस राधास्मरशरबाधाहर सुरसाधायकवचनामलदामल कान्तामणि नय नान्तादरलवशान्ताखिलदवलक्षण सक्षण रामाकुचमुकुलामादिततम कामार्बुदमददारुनवारण बालार्पितवनमालासुललित कालागुरुरसवासित भासित शीलोदितनिजलीलोन्नत नवनीलोत्पलरुचिजाल सदालस देवाभिलषितसेवामविरतमेवादिश करुणालय पालय ॥ ६१॥ ॥ वीर ॥ चञ्चद्बर्हविराजितिर्यगरुणोष्णीषावनत्युन्नति भ्राम्यत्कन्धरमुच्छलत्स्वरदनद्योतानुबिद्धस्मितम् । सख्यांसाहितवामबाहुवलयद्राधावितर्कावलि कर्णाकर्णिवचः प्रभोर्विजयतां गोष्ठाधिरथ्यान्तरम् ॥ ६२॥ मन्दमरुच्चलपीतचेल शन्द सखीव्रजगीतखेल । युञ्जदलिव्रजशोभिमाल कुञ्जगृहश्रितकेलिजाल ॥ ६३॥ ॥ वीर ॥ नटन्मणिसरं त्रुटद्वलयमुच्छलत्सौरभं क्वणत्कनकनूपुरं व्रणितमुक्तधाराधरम् । स्खलत्कचभरं दरश्रमकपालि सप्रेयसी भवान्मदनरम्यतां दधदधीश रंरम्यताम् ॥ ६४॥

(१६)

अथ साप्तविभक्तिकी कलिका १६ मुखविधुरिष्टः सुदृगभिमृष्टः स्मरमदधृष्टः स भवतु दृष्टः । सुवलितहस्तौ करिकरशस्तौ रतिकलितस्तौ युवतिभिरस्तौ । श्रितबहुदासा जगदभिलाषा मधुरिमवासाः स्युरिह विलासाः । गुणमभिधेयं तमपरिमेयं जगति सुगेयं रटति वरेयम् । व्रजभयदरणौ लसदाभरणौ लवणिम धरणौ प्रणुवे चरणौ । तांस्तरसारांश्चतुरिमभारान्- मम हृदुदारान् भजतु विहारन् । दयितसवयसा सहवरमहसा लस सहसरसामृतमयवचसा प्रविहर । ताभ्यां सुतनुधृताभ्यां स्मरवशगाभ्यां तैर्जयदक्षैर्युवतिधृतिक्षैः । परिषदलक्षैः प्रचलकटाक्षैः सुदृगभिलषते वनमधिवसते । तदतिमदाभ्यां वितरति ताभ्यां स्वमपि नटाभ्यां तव नयनाभ्याम् । सुदृगुदितेभ्यः स्मरविलसितेभ्य- स्तदिह त्वमेभ्यः प्रमिल सितेभ्यः । रति-सुखभरितात्तदतुलचरितान्- न फलमुदारात्परमिह सारात् । त्रस्यति ताभ्यां रतिमुग्धाभ्यां खरनखराभ्यां तवक कराभ्याम् । प्रखरतरेभ्यो मदनशरेभ्यो ऽवसि बत तेभ्यः सुतनुमितेभ्यः । प्रतिततमस्य प्रतिपदमस्य स्वमिव वरस्य त्वमसि रसस्य । स्मररणचलयोर्नटरसकलयो- र्झषकुण्डलयोर्युगमेव कलय व्रजभुवि वसतां रतिमभिलषताम् । शरणमसि सतां तस्मिन् भगवति लीलां कुर्वति परमकृपावति मतिरस्तु भवति । तव मृदुतरयोररुणाधरयोः खपुरसुरसयोः सुदृगतिरसयोरुल्लसितेषु प्रमदय तेषु स्मितकुसुमेषु प्रेमप्रदेषु । स्वान्तं पुरुदय नवनवरसमय चरित निखिलनयमन्दिर जय जय ॥ ६५॥ ॥ वीर ॥ स्वीयं कौशलसूचकेन कुटिलालोकेन कीर्णोऽप्यलं कुर्वन्नेव कपोलयोर्मकरिके गान्धर्विकायाश्चिरम् । प्रस्विन्नाङ्गुलिरादिश प्रभुवर त्वं मां कृपावारिधे येन त्वामभिवीजयानि वलितानन्दाश्रु सप्रेयसीम् ॥ ६६॥ जय शुभलीलामृतरसलीला मयभवदालिपरिजनपालीं अनुगणनायामहमपि यायां इति भवपाशावृतमतिराशां अपि रचयेयं फलतु ममेयम् ॥ ६७॥ ॥ नाथ ॥ वीर ॥ मधुररसकृतार्थीकारिहारीष्टलीलः प्रणयिसुजनचेतोवप्रविप्लाविशीलः । क्षणरुचिरुचिकान्ताकान्तिसंमर्दधीलः सुखयतु मुदिरोऽस्मान्मेदुरः कोऽपि नीलः ॥ ६८॥ राधामाधवसाधुसाधनसुधाधाराधुराधारिणां धाता सा तमियं नुतिः प्रतिपदं प्रीतिप्रताना सताम् । अत्राधिं विधुवन् धराधरधरो धाराधरेन्द्रद्युतिः सद्यः स द्यतु यद्यवद्यमधिपद्याद्यन्तमध्यान्तगः ॥ ६९॥ श्रीमद्रूपपदाब्जधूलिमलिके नित्यं दधे या मना- घ्राता हृन्मधुपं ममानयदहो कृष्णाङ्घ्रितृष्णाङ्घ्रिपम् । यः संसारमतङ्गजाङ्गमदिरां व्यस्मारयत्स्वै रसै- र्यद्गन्धाणुलवोऽपि कर्षति धृतोत्तर्षं मुनीन्द्रानपि ॥ ७०॥ षोदषभिः कलिकाभिः पूर्णामृतरश्मिमण्डलीवेयम् । विरुदावल्यधिकुञ्जं सराधामाधवमुदे भूयात् ॥ ७१॥ वियन्नभःकारकचन्द्रसङ्ख्ये शाके शूचौ सूर्यदिने शुदर्शे । निकुञ्जकेलीविरुदावलीयं राधासरस्तीरभुवि व्यराजीत् ॥ ७२॥ इति महामहोपाध्यायश्रीविश्वनाथचक्रवर्तिविरचिता निकुञ्जकेलिविरुदावली समाप्ता ।

(23) Suratakathamritam Aryashatakam ॥ (२३) सुरतकथामृतं अथवा आर्यशतकम् ॥

मूलग्रन्थस्य केन्द्रीयश्लोकः- कदाहं सेविष्ये व्रततिचमरीचामरमरु- द्विनोदेन क्रीडा कुसुमशयने न्यस्तवपुषौ । दरोन्मीलन्नेत्रौ श्रमजलकणक्लिद्यदलकौ ब्रुवाणावन्योन्यं व्रजनवयुवानाविह युवाम् ॥ उत्कलिकावल्लरी ५२ श्रीकृष्ण उवाच- चित्रमिदं नहि यदहो वितरस्यधरसुधां निकामं मे । अति कृपणोऽपि कदाचिद्वदान्यतमतां जनः प्रिये धत्ते ॥ १॥ लयमपि न याति दाने प्रत्युत ऋद्धिं रसाधिकां लभते । अधरसुधोत्तमविद्यां विबुधवरायाद्य मे देहि ॥ २॥ स्वान्ते बिभ्रति भवतीं स्वान्ते वासिन्यतिस्निग्धे । मयि किमपूर्वां नादास्त्वमिमां च यस्माद्विदुष्यहो तत्र ॥ ३॥ श्रीराधाह- कुलरमणीततिलज्जानिर्मूलनतन्त्रकौशलोद्गारैः । प्रथयसि किमु निजगर्वं ज्ञातं पाण्डित्यमस्ति ते तत्र ॥ ४॥ दैवाद्विपक्षतामपि मयि यान्त्या बत ममैव सहचर्या । न्यस्ताहं तव हस्ते कथमत्र गर्वो भवेन् न ते ॥ ५॥ अयमपि परमो धर्मः श्लाघा महती तवेयमेवेष्टा । यौवनफलमपि चेदं कुलाबलापीडनं यदहो ॥ ६॥ श्रीकृष्ण आह- स्मरनरपतिवरराज्ये धर्मः शर्मप्रदोऽयमादिष्टः । वत्स्यायनमुनिनिर्मितपद्धत्युक्तानुसारेण हि ॥ ७॥ अपि च- अत्र प्रमाणमिष्टं चेन्मदुक्तेऽपि न मन्यते किञ्चित् । भरतमुनेः किल शास्त्रं शास्त्रान्तरमत्र को गणयेत् ॥ ८॥ विद्युति विद्युतिदायी श्लाघां मनुते पयोधरः स्वीयाम् । विद्युदपि स्वां सुषमां पयोधरे श्लाघयत्यधिकाम् ॥ ९॥ श्रीराधाह- गोवर्धनगिरिकन्दरवासी हरिरसीति श्रुतं कतिधा । कुलबालाहरिणीततिरथापि गच्छत्यतो न ते दोषः ॥ १०॥ किं कुर्मः स्वाचरितो धर्मस्त्यक्तुं कथं पुनः शक्यः । दिनकरपूजनविधिरिह कुसुमावचये प्रवर्त्यते ॥ ११॥ श्रीकृष्ण आह- वृन्दारण्यपुरन्दरमपि मां न गिरापि कर्हिचिन्मनुषे । सूर्याराधनगर्वस्तदयं राधे न ते भवेत्खर्वः ॥ १२॥ गोवर्धनगिरिधारणकारणमोजो न तेऽधिकं मनुते । तव सवयस्ततिरपि स तवैककुचशैलगर्वेण ॥ १३॥ श्रीराधाह- न किल कुचौ मम शैलौ पश्याम्बुजकोरकौ नवोत्पन्नौ । न तयोर्दलनं मरकतशिलानिभेनोरसाऽद्य ते योग्यम् ॥ १४॥ कौस्तुभमणिरतितरलः सरलमतिः पुनरहं कुल प्रमदा । तदलमनेन धिनोतु त्वां निजसदृशं भृशं हृदिस्थस्ते ॥ १५॥ श्रीकृष्ण आह- सत्यमयं भयतरलः कण्ठतटान्तं मम प्रिये श्रयते । दयते तव कुचद्वयमधिकं सम्मर्दयत्यहो सद्यः ॥ १६॥ श्रीराधाह- तव खरनखरविदारणसहनं कुचयोरियं वरा शक्तिः । किमत्र सम्भवति स्फुटमनयोः स्वबलप्रकाशनाटोपः ॥ १७॥ श्रीकृष्ण आह- मम खरनखरमहाङ्कुशघातादपि शतगुणं बलं लब्ध्वा । कोलादिव कुच कुम्भौ ममार्दयतो भृशं प्रिये पश्य ॥ १८॥ श्रीराधाह- कुचपद्मकुट्मलयुगं मर्दयति त्वां निजातिदौरात्म्यात् । वृन्दावनवरसिन्धुर ननु दयसे त्वं निसर्गकारुण्यात् ॥ १९॥ श्रीकृष्ण आह- तन्वाते मुदमुच्चैस्तावककुचकोरकौ यदिमौ । नखचन्द्रोदयमधि किं स्वयोग्यमतुलं न शोभते प्रिये ॥ २०॥ श्रीराधाह- नखरानामतिखरतारताय ते तावकेन किल विधिना । व्रजवनितानामरुच्य रुषेव निरमायि किं नूनम् ॥ २१॥ श्रीकृष्ण आह- कुसुमादपि मृदुलाङ्ग्याः कुचयोरेवास्ति हन्त काठिन्यम् । इति तन् निष्काशयितुं क्षुणत्ति नखरावली चतुरा ॥ २२॥ श्रीराधाह- हन्त कृतं बत किमिदं सुरतरसोन्मदकुलस्त्रियाः कदनम् । हारास्त्रुटिताः काञ्ची गलिता स्खलिता तथैव मे वेणी ॥ २३॥ श्रीकृष्ण आह- हारा बलादुरुभाराः कृशमपि मध्यं च नह्यते काञ्ची । चिकुरकदर्थनभूता वेणी तदिमा रक्षितुं न योग्याः ॥ २४॥ श्रीराधाह- ऊधो येन गिरीन्द्रस्तमपि न वहतो ममोरसो भारः । हारैर्भूषणभूतैरभूदियं स्नेहमुद्रा किम् ॥ २५॥ कुचगिरिवहनपटुत्वं कृशमपि मध्यं यतो बलाद्धत्ते । मणिमयकाञ्चीबन्धादेव तमृते दृढताऽस्य केन स्यात् ॥ २६॥ उत्कर्षणावाकर्षणपर्यायोदितपरस्परासक्त्या । प्रीतिरियं किल वेणीचिकुराणां न च कदर्थनं वाच्यम् ॥ २७॥ श्रीकृष्ण आह- सत्यमहं गिरिधारी करनलिनाभ्यां गिरिद्वयं धास्ये । मध्यस्यात्र पटुत्वैरलं बलं किल ममैवास्ताम् ॥ २८॥ चिकुराणामपि वेण्याः परस्परासक्तिः सूचिता । प्रीत्या किं फलमिह यदि परिचरणं ते न कुर्वन्ति ॥ २९॥ वेणीबन्धविमुक्तश्चिकुर कलापोऽत्र वेल्लितो मरुता । चामरतामुपयातः स्विन्नाङ्गीं वीजयत्यहो भवतीम् ॥ ३०॥ श्रीराधाह- आविस्कृत पुरु शिल्पं सख्या मे बहु विलम्बतो रचितम् । चित्रकमलिकतटे तत्क्षणेन विध्वंसितं भवता ॥ ३१॥ श्रीकृष्ण आह- स्मितमुखि रुचार्धविधुना सुचारुभालेन मे मिलन्त्येषा । त्वदलिकविधुरेखाऽस्मै प्रेम्नाऽर्पयति स्म सर्वस्वम् ॥ ३२॥ श्रीराधाह- गण्डतटे मम मकरी श्यामा सरलातिचित्रिताप्यबलाम् । मकरद्वयताटङ्कश्चपलो धृष्टः कदर्थयत्येनाम् ॥ ३३॥ श्रीकृष्ण आह- रमणि मम श्रुतियुगलं त्वदुदितसौधद्रवैः प्लुतं तदपि । द्विगुणिततृष्णं जातं लोलुपतायाः स्वरूपमेवैतत् ॥ ३४॥ श्रीराधाह- लोलुपचूडामणिरसि तवाङ्गवृन्दं च लोलुपं यदयम् । मन्नयनाक्तमसीमप्यधरो रागी स्व मण्डनं कुरुते ॥ ३५॥ श्रीकृष्ण आह- बन्धूकान्तरवर्तिनमलिनमिवायं मसीद्रवं धृत्वा । अक्ष्णोरेव मुदं ते तनुते तदिमं किमाक्षिपसि ॥ ३६॥ श्रीराधाह- वन्दे तव परिहसितं कं देवं परिचरस्यहो निभिऋतम् । यत्प्रसादादधीता सौरतविद्यातिचातुरीधारा ॥ ३७॥ श्रीकृष्ण आह- तव जघनोत्तमसदनं सरसं देवं समुपचराम्यतुलम् । निभृतनिकुञ्जगृहस्थः प्रति दिनमुचिताधिकार एवाहम् ॥ ३८॥ श्रीराधाह- सत्यमतः स्वारूप्यं लब्ध्वा दृप्तः कुलाबलानलिनीः । मलिनीः कुरुषे का तव नयने पतिता स्वकं पतिं भजताम् ॥ ३९॥ श्रीकृष्ण आह- सखि तव निरावृतान्यतिरुचिरान्यङ्गान्यतीव सङ्कुचन्ति । सम्प्रति मन्नयनान्तर्विशन्ति मन्दाक्षमग्नानि ॥ ४०॥ श्रीराधाह- धृष्टतमे तव नयने यन्मित्रं कौस्तुभो द्युतिं तनुते । तदिह मदङ्गान्यधुना शरणं यान्तु त्वदङ्गानाम् ॥ ४१॥ श्रीकृष्ण आह- हित्वा सतृषदृशौ मम वैरादिव कौस्तुभं पराभूय । विशति तव स्तनयुगलं मद्धृदयान्तः स्वविक्रमं बिभ्रत् ॥ ४२॥ श्रीराधाह- कठिनतमं तव हृदयं कुचयुगमपि मे प्रतीयते कठिनम् । तदुचितमनयोर्मिलनं योग्यं योग्येन युज्यते यस्मात् ॥ ४३॥ श्रीकृष्ण आह- मदुरः पक्षगता त्वं मम यद्यक्ष्णोर्विपक्षतां कुरुषे । तदपि तयोस्त्वद्वदनं प्रकामसुभगं मुदं तनुते ॥ ४४॥ श्रीराधाह- स्वच्छन्दं यदि रमसे रमस्व तत्राबलास्मि किं कुर्याम् । क्षिपसि दृशं यदलज्जं मदपघने तत्कथं सहे कुलजा ॥ ४५॥ श्रीकृष्ण आह- यदि मम दृष्तिचकोर्या विधुमुखि नैवोपलभ्यसे दैवात् । हृदयगृहे खेलस्यपि तथापि हा ज्वलयसि प्रसभम् ॥ ४६॥ श्रीराधाह- तव भुजयुगदृढबन्धं वामापीहेऽन्यथा भवन्नयने । निस्त्रपशिरोमणे मां त्रपाम्बुधौ पातयिष्यतः प्रकटम् ॥ ४७॥ श्रीकृष्ण आह- त्वन्नयने च मदक्ष्णोरन्तेवासित्वमिच्छतः किन्तु । गर्वादिव न च पठतः प्रकटं प्रौढिः कियतो अहो यदियम् ॥ ४८॥ श्रीराधाह- चेतः स्फुटति स्वयं च तथापि नयने न तादृशे भवतः । साध्वीनामियमुचिता एव निसर्गत्रपाकुलता ॥ ४९॥ श्रीकृष्ण आह- सम्प्रति सत्यं ब्रूषे त्रपावतीनां शिरोमणिस्त्वमसि । वत्स्यायनतन्त्रोक्तः साध्वीनामयमेव धर्मः ॥ ५०॥ श्रीराधाह- यद्यप्यरुन्धती सा साध्वीगणगण्यगौरवा जगति । धर्ममिमं पाठयितुं तामपि शक्नोति ते नयनम् ॥ ५१॥ श्रीकृष्ण आह- राढे द्विगुणितशोभं मदास्यपङ्केरुहं ध्रुवं पिबतु । सम्प्रत्यपि निजलोचनमधुकरयुगं किं न सर्वथा दिशसि ॥ ५२॥ श्रीराधाह- लावण्याद्भुतवन्यामयं त्वदङ्गं न शीलयत्यधिकम् । लोचनशफरयुगं मम दृगन्तजालं यदा नु तत्क्षिपसि ॥ ५३॥ श्रीकृष्ण आह- नूपुरमङ्गलवाद्यज्ञापितमनसिजनृपोत्सवामोदः । त्वरितमुपयाति अलिवन्दी कीर्तिं च तव प्रथयन्विराजते ॥ ५४॥ श्रीराधाह- दयित नृपोऽस्यनुभूतः सत्यं मनसिजपरःशतानां त्वम् । दिशि दिशि सतीषु विक्रमविजयं शंसति तवैवायम् ॥ ५५॥ श्रीकृष्ण आह- सुरतमहामखभेरी त्रिजगति गर्जंस्तवैष नूपुरः । तर्जति गर्ववतीस्ताः प्रकामममराङ्गना अपि प्रसभम् ॥ ५६॥ श्रीराधाह- रमणमहोदितमदभरमत्ताहं किं ब्रवीमि ते चरितम् । स्तौषि मुहुर्नूपुरमपि नूपुरमात्रावशिष्टभूषायाः ॥ ५७॥ श्रीकृष्ण आह- किं कथ्यसे स्वयं बत रमणमहे त्वं समुद्धता सत्यम् । मदभरमत्त यन् निजपरिहितवासोऽपि कुरुषे स्मरसात् ॥ ५८॥ श्रीराधाह- स किल तवेष्टा देवता मदनः श्रद्धावतीरतो युवतीः । उपदिष्यैतन्मन्त्रं शिष्याः कुरुषे वितीर्णसर्वस्वाः ॥ ५९॥ श्रीकृष्ण आह- त्वयि पुनरसौ रसज्ञः स्मरोऽपि रोपितमुदा वसति । यदिदं कुचहाटक सम्पुटयुगमस्य सर्वस्वम् ॥ ६०॥ श्रीराधाह- एवं चेत्कथमनयोः कञ्चुकमथ मौक्तिकं लसद्धारम् । मृगमदचर्चां दलयसि कलयसि च कठिनकराघातम् ॥ ६१॥ श्रीकृष्ण आह- स्वधनव्यवहृतिसमये हाटकमयसम्पुतस्य यद्दृष्टः । मङ्गलभूषणवसनोद्घाटो मुखदार्ढ्यतः नखाघातः ॥ ६२॥ श्रीराधाह- तद्व्यवहर्ता पुनरथ कृत्वा द्विगुणितसुसम्भारम् । आवृत्यातिरहःस्थं कुरुते सम्पुटमिदं च भो दृष्टम् ॥ ६३॥ श्रीकृष्ण आह- स्मरमणिसम्पुटकुचयुगमधुनाप्युत्तानमस्ति तत्कान्ते । हृदयगृहं मम पूरय कृत्वाऽधो मुखमिदं महारत्नैः ॥ ६४॥ श्रीराधाह- विधिना विमृश्य निहितं यासामबलेति नाम युक्तार्थम् । तासां कुचसम्पुटयोरधो मुखी कृतिविधौ क्व वा शक्तिः ॥ ६५॥ श्रीकृष्ण आह- कति न करग्रहविधिना कुचसम्पुटकान्तराहृत राधे । मोदमणीनां ततयस्तदपि न मे पूर्यते हृदयम् ॥ ६६॥ श्रीराधाह- व्रजवनिताः शतकोट्यस्तवैव ताः पण्डिताश्च रतितन्त्रे । हृदयं तदपि रतौ बत रङ्कतमत्वं न ते त्यजति ॥ ६७॥ श्रीकृष्ण आह- स्मरशिखितप्ते मम हृदि सुकुमार्यस्ताः विशन्तु किं मुग्धाः । त्वमतिसमर्था प्रसभं प्रविश्य राजसि सदैवैका ॥ ६८॥ श्रीराधाह- तदये स्वरङ्गदाने स्वरङ्गनास्ताः समानय क्षिप्रम् । तत्तन्नाम गृहीत्वा मुरलीगाने तवात्र को यत्नः ॥ ६९॥ श्रीकृष्ण आह- नन्दनवनकुसुमाञ्चितशिरोऽपि धर्तुं निजात्ययोग्यतया । तव पदनखतलसविधे लज्जं ते सुरवराङ्गना अपि ताः ॥ ७०॥ श्रीराधाह- नाभीविवरवरान्मे समुद्गतेयं न कान्तरोमाली । किन्तु प्रकुपितभुजगी तदुन्मुखं किमु चिकीर्षसि स्वकरम् ॥ ७१॥ श्रीकृष्ण आह- तव रोमालीभुजगीं खेलयितुं मत्करश्चलत्यभितः । भवदखिलाङ्गगतान्यपि रोमान्युद्यान्ति किं रोद्धुम् ॥ ७२॥ श्रीराधाह- मदखिलगात्रभटा अपि यतः पराभवमवाप्य मुह्यन्ति । स्मररणमत्ते त्वयि किं बत रोम्नां युज्यते युद्धम् ॥ ७३॥ श्रीकृष्ण आह- वयमतिकृशाश्च तदपि प्रभवामोद्गमविधाविति प्रकटम् । भवतीमुद्गमचर्यां रोमभटाः स्मरयन्त्यहो चतुराः ॥ ७४॥ श्रीराधाह- रतिरसपरवश ! सहते तेऽतथ्यं किं मे तनोरन्वयः । रमयस्व अतिवामामपि तां न च दयसे कान्त्या वेदयसे ॥ ७५॥ श्रीकृष्ण आह- स्मरशरराधे राधे समरे समरेखयाञ्चिते द्वितये । इह भवदङ्गमदङ्गे प्रतिभटमधुना धुनानेस्ताम् ॥ ७६॥ श्रीराधाह- प्रस्वेदाम्बु वमन्ती घनरससिक्तेव गात्रवल्ली मे । दलितो ललिताकल्पस्तल्पश्च खण्डितो नो वा कतिधा ॥ ७७॥ श्रीकृष्ण आह- मदनघनाघन एष स्वेदमिषाद्वर्षतीह तनुवल्लीम् । घनरसभरैः प्रतिपदमुदितलसत्कोरकां कान्ते ॥ ७८॥ श्रीराधाह- प्रिय तव तरुणिमजलधेरवधेरन्वेषणं कथं कुरुताम् । महिलामतिमकरी तद्विरम्यतां रम्यतां रतं यातु ॥ ७९॥ श्रीकृष्ण आह- अतिनिःश्वसितसमीरणवेगाद्द्विगुणीभवन्महावीचिम् । केलिसुधासरितं नौ मानसकरिणौ मुहुर्मुहुर्भजताम् ॥ ८०॥ श्रीराधाह- खेलति मनःकरी ते सत्यं प्रकटं स लक्ष्यते किन्तु । तत्रैक्यं मम मनसो ब्रूषे कोऽत्राभिप्रायस्ते ॥ ८१॥ श्रीकृष्ण आह- श्रीमन्मदनसुरोत्तमसेवा सम्सिद्धये तु नौ मनसी । ऐक्यमवाप्य त्वरया तत्र च सायुज्यमीहेते ॥ ८२॥ श्रीराधाह- स्वस्मिन्नेव तनोर्मम मनसश्चाप्येकदैव सायुज्यम् । प्रसभं कुरुषे देव त्वमेव साक्षान्महामदनः ॥ ८३॥ श्रीकृष्ण आह- सर्वस्वात्मसमर्पणकारिण्यै ते मुदा मारः । स्वीयां मौक्तिकमालामलिके स्वेदकणव्याजाद्दत्ते ॥ ८४॥ श्रीराधाह- त्वदलकनिकरस्तामपि नीत्वा स्तिम्यति हठादयं चपलः । मदनप्रसाद इत्यतिभाग्यं संश्लाघते स्वीयम् ॥ ८५॥ श्रीकृष्ण आह- ताम्बूलामृतरसलवलाभेनैवात्र गर्विते भवन्नयने । अन्तर्बहिरपि तद्रसमुदिते गण्डे कथं नु मे हसतः ॥ ८६॥ श्रीराधाह- यत्सूचयसि रसप्रिय तदिदं स्वेनैव पाठितं तन्त्रम् । स्वयमेव व्याचष्टे स भवानिति किल नमस्तुभ्यम् ॥ ८७॥ श्रीकृष्ण आह- मन्मुखपङ्केरुहमपि चित्रमिदं यद्विकाशयस्यधिकम् । गुणवत्यतिसुरभितेन स्ववदनसुधाकरसुधाद्रवेण हि ॥ ८८॥ श्रीराधाह- नीलनिधेर्बत पोतो बिन्दुव्याजेन रक्षितश्चिबुके । तमपि च भवदधरोऽयं हृतवानिति कति मृषाम्यनयम् ॥ ८९॥ श्रीकृष्ण आह- अनुरागिणमपि सागसमधरं मे दण्डयस्यतः कोपात् । रदनास्त्रेण तदप्यभिमनुते लब्धप्रसादमेवायम् ॥ ९०॥ श्रीराधाह- अधि रदनच्छन्दनं मे स्वरदनकीर्तिं न किं विचारयसि । युवतीसभासु चित्रं त्रपाकुलतमतेयं नु मयि सृष्टा ॥ ९१॥ श्रीकृष्ण आह- विषमाशुगरणरङ्गे स्वाङ्गेनातुल पराक्रमा क्रमसे । दर्शय भुजबलमयि भो मयि ते दयिते गुणावली फलतु ॥ ९२॥ श्रीराधाह- तन्वीमपि तनुमेतां मुहुरतिदार्ढ्येन वेष्टयते । त्वद्भुजभुजाङ्गपाशः श्वासो मे केवलं वलते ॥ ९३॥ श्रीकृष्ण आह- सम्प्रति साक्षात्कारो मदनस्य स्यादितीव जानीमः । यन् नश्चेतस्त्वरते निरुपममत्रैकभावाय ॥ ९४॥ श्रीराधाह- ताण्डवपण्डित नितरामलमध्यापनश्रमेण ते । मदपघनाः स्वयमेते चारणचर्यासु यान्ति नैपुण्यम् ॥ ९५॥ श्रीकृष्ण आह- मदनमहाघनघूर्णाघ्रातान्यङ्गानि नौ प्रिये युगपत् । श्वासोदितजयचतुरिमभरमन्योन्यं दिशन्ति सोन्मादम् ॥ ९६॥ (श्री ग्रन्थकर्ताह- ) लोचनमीनचतुष्टयमधुना निष्पन्दतामुरीकुरुते । रसभरविस्मयमत्ते नैसर्गिकचेष्टितस्मृतिः किं स्यात् ॥ ९७॥ चन्दननलदसुधांशुद्रवमयजलयन्त्रवेश्ममध्यस्थे । स्थलजलरुहदलकल्पिततल्पेऽसुप्तां रतश्रान्तौ ॥ ९८॥ क्रमवलितैर्निःश्वसितैः सुरभयतोः स्वामिनोरथान्योन्यम् । निद्रावृद्धिमवेत्य प्रमोदसिन्धावयं जनः प्लवताम् ॥ ९९॥ सुरतकथामृतमार्यशतकं नतकन्धरो जनो जुषताम् । रतसुखधामगवाक्षश्रितनयनः स्वामिनोरहो कृपया ॥ १००॥ प्रविशतु शनैः शनैरथ मूकितनूपुरं जनस्तत्र । गात्रे निभाल्य यूनोः स्ववलयराजीं पिधाय बध्नातु ॥ १०१॥ कम्पनचकितैरलिभिस्त्यक्तुमशक्येन तालवृन्तेन । वीजयतु श्रमसलिलं प्रत्यङ्गं शोषितं निरूपयतु ॥ १०२॥ राधाकुण्डतटवासमहासम्पदं मदः सोऽयम् । किमु वाञ्छितमतिदुर्लभवस्तुनि तमृते ममास्तु सम्भाव्यम् ॥ १०३॥ अष्टमक् अधिकरहस्यव्यञ्जकं मथ्नन् निबध्यतेऽत्र शतके । तादृशभावविभावितहृदयेनैवास्तु तत्सेव्यम् ॥ १०४॥ खवियदृतुक्षमागणिते शाके वृषसंस्थिते दिवाधीशे । सुरतकथामृतमुदगदुदयतां च भक्तहृन्नभसि ॥ १०५॥ इति महामहोपाध्यायश्रीविश्वनाथचक्रवर्तिविरचितं सुरतकथामृतं समाप्तम् ॥

(24) Shri Nandishvarashtakam ॥ (२४) श्रीनन्दीश्वराष्टकम् ॥

साक्षान्महत्तममहाघनचिद्विलास पुञ्जः स्वयं शिखरिशेखरतामुपेतः । यत्रेश्वरः स खलु नन्दति येन वेति नन्दीश्वरः स मदमन्दमुदं दधातु ॥ १॥ ब्रह्माण्डवप्रगतलोकनिकायशस्य सन्तर्पि कृष्णचरितामृतनिर्झराढ्यः । पर्जन्यसन्ततिसुखास्पदपूर्वको यो नन्दीश्वरः स मदमन्दमुदं दधातु ॥ २॥ यत्सौभगं भगवता धरणीभृतापि न प्राप्यते सुरगिरिः स हि को वराकः । नन्दः स्वयं वसति यत्र सपुत्रदारो नन्दीश्वरः स मदमन्दमुदं दधातु ॥ ३॥ यत्र व्रजाधिपपुराप्रतिमप्रकाश प्रासादमूर्धकलशोपरिनृत्यरङ्गी । बर्हीक्ष्यते भुवि जयध्वजकेतुभूतो नन्दीश्वरः स मदमन्दमुदं दधातु ॥ ४॥ यच्छृङ्गसङ्गतसुगन्धशिलाधिरूढः कृष्णः सतृष्णनयनः परितो व्रजाब्जम् । आलोक्यते द्विषडुदारदालाटवीस्ता नन्दीश्वरः स मदमन्दमुदं दधातु ॥ ५॥ जिग्ये यदीयतटराजिसरोजराजि सौरभ्यमञ्जुलसरोजलशीकरेण । त्रैलोक्यवर्तिवरतीर्थयशो रसौघै- र्नन्दीश्वरः स मदमन्दमुदं दधातु ॥ ६॥ यत्तीरसङ्गिपवनैरभिमृश्यमानाः स्युः पावना अपि जनाः स्वदशां परेषाम् । सा पावनाख्यसरसी यदुपत्यकायां नन्दीश्वरः स मदमन्दमुदं दधातु ॥ ७॥ कृष्णाख्यमस्ति महदुज्ज्वलनीलरत्नं सूते तदेव वसु तत्स्वभुवैव दृष्टम् । तल्लभ्यते सुकृतिनैव यदीयसानौ नन्दीश्वरः स मदमन्दमुदं दधातु ॥ ८॥ दुर्वासनाशतवृतोऽपि भवत्प्रयत्नः पद्याष्टकं पठति यः शिखरीश तुभ्यम् । कृष्णाङ्घ्रिपद्यरस एव सदा सतृष्णं एतं जनं कुरु गुरुप्रणयं दधानम् ॥ ९॥ इति महामहोपाध्यायश्रीविश्वनाथचक्रवर्तिविरचितं श्रीनन्दीश्वराष्टकं समाप्तम् ।

(25) Shri Vrindavanashtakam 2 ॥ (२५) श्रीवृन्दावनाष्टकम् २ ॥

न योगसिद्धिर्न ममास्तु मोक्षो वैकुण्ठलोकेऽपि न पार्षदत्वम् । प्रेमापि न स्यादिति चेत्तरां तु ममास्तु वृन्दावन एव वासः ॥ १॥ तार्णं जनुर्यत्र विधिर्ययाचे सद्भक्तचूडामणिरुद्धवोऽपि । वीक्ष्यैव माधुर्यधूरां तदस्मिन् ममास्तु वृन्दावन एव वासः ॥ २॥ किं ते कृतं हन्त तपः क्षितीति गोप्योऽपि भूमेः स्तुवते स्म कीर्तिं येनैव कृष्णाङ्घ्रिपदाङ्कितेऽस्मिन् ममास्तु वृन्दावन एव वासः ॥ ३॥ गोपाङ्गनालम्पटतैव यत्र यस्यां रसः पूर्णतमत्वमाप । यतो रसो वै स इति श्रुतिस्तन् ममास्तु वृन्दावन एव वासः ॥ ४॥ भान्डीरगोवर्धनरासपीठै- स्त्रीसीमके योजनपञ्चकेन । मिते विभुत्वादमितेऽपि चास्मिन् ममास्तु वृन्दावन एव वासः ॥ ५॥ यत्राधिपत्यं वृषभानुपुत्र्या येनोदयेत्प्रेमसुखं जनानाम् । यस्मिन्ममाशा बलवत्यतोऽस्मिन् ममास्तु वृन्दावन एव वासः ॥ ६॥ यस्मिन्महारासविलासलीला न प्राप यां श्रीरपि सा तपोभिः । तत्रोल्लसन्मञ्जुनिकुञ्जपुञ्जे ममास्तु वृन्दावन एव वासः ॥ ७॥ सदा रुरुन्यङ्कुमुखा विशङ्कं खेलन्ति कूजन्ति पिकालिकीराः । शिखण्डिनो यत्र नटन्ति तस्मिन् ममास्तु वृन्दावन एव वासः ॥ ८॥ वृन्दावनस्याष्टकमेतदुच्चैः पठन्ति ये निश्चलबुद्धयस्ते । वृन्दावनेशाङ्घ्रिसरोजसेवां साक्षाल्लभन्ते जनुषोऽन्त एव ॥ ९॥ इति महामहोपाध्यायश्रीविश्वनाथचक्रवर्तिविरचितं श्रीवृन्दावनाष्टकं समाप्तम् ।

(26) Shri Govardhanashtakam ॥ (२६) श्रीगोवर्धनाष्टकम् ॥

कृष्णप्रसादेन समस्तशैल साम्राज्यमाप्नोति च वैरिणोऽपि । शक्रस्य यः प्राप बलिं स साक्षा- द्गोवर्धनो मे दिशतामभीष्टम् ॥ १॥ स्वप्रेष्ठहस्ताम्बुजसौकुमार्य सुखानुभूतेरतिभूमि वृत्तेः । महेन्द्रवज्राहतिमप्यजानन् गोवर्धनो मे दिषतामभीष्टम् ॥ २॥ यत्रैव कृष्णो वृषभानुपुत्र्या दानं गृहीतुं कलहं वितेने । श्रुतेः स्पृहा यत्र महत्यतः श्री गोवर्धनो मे दिषतामभिष्टम् ॥ ३॥ स्नात्वा सरः स्वशु समीर हस्ती यत्रैव नीपादिपराग धूलिः । आलोलयन् खेलति चारु स श्री गोवर्धनो मे दिषतामभीष्टम् ॥ ४॥ कस्तूरिकाभिः शयितं किमत्रे- त्यूहं प्रभोः स्वस्य मुहुर्वितन्वन् । नैसर्गिकस्वीयशिलासुगन्धै- र्गोवर्धनो मे दिषतामभीष्टम् ॥ ५॥ वंशप्रतिध्वन्यनुसारवर्त्म दिदृक्षवो यत्र हरिं हरिण्याः । यान्त्यो लभन्ते न हि विस्मिताः स गोवर्धनो मे दिषतामभीष्टम् ॥ ६॥ यत्रैव गङ्गामनु नावि राधां आरोह्य मध्ये तु निमग्ननौकः । कृष्णो हि राधानुगलो बभौ स गोवर्धनो मे दिषतामभीष्टम् ॥ ७॥ विना भवेत्किं हरिदासवर्य पदाश्रयं भक्तिरतः श्रयामि । यमेव सप्रेम निजेशयोः श्री गोवर्धनो मे दिषतामभीष्टम् ॥ ८॥ एतत्पठेद्यो हरिदासवर्य महानुभावाष्टकमार्द्रचेताः । श्रीराधिकामाधवयोः पदाब्ज दास्यं स विन्देदचिरेण साक्षात् ॥ ९॥ इति महामहोपाध्यायश्रीविश्वनाथचक्रवर्तिविरचितं श्रीगोवर्धनाष्टकं समाप्तम् ।

(27) Shri Krishnakundashtakam ॥ (२७) श्रीकृष्णकुण्डाष्टकम् ॥

किं तपश्चचार तीर्थलक्षमक्षयं पुरा सुप्रसीदति स्म कृष्ण एव सदरं यतः । यत्र वासमाप साधु तत्समस्तदुर्लभे तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः ॥ १॥ यद्यरिष्टदानवोऽपि दानदो महानिधे- रस्मदादिदुर्मतिभ्य इत्यहोवसीयते । यो मृतिच्छलेन यत्र मुक्तिमद्भुतां व्यधात् तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः ॥ २॥ गोवधस्य निष्कृतिस्त्रिलोकतीर्थकोटिभी राधयेत्यवादि तेन ता हरिः समाह्वयन् । यत्र पार्ष्णिघाटजे ममज्ज च स्वयं मुदा तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः ॥ ३॥ क्वापि पापनाश एव कर्मबन्धबन्धना- द्ब्रह्मसौख्यमेव विष्णुलोकवासिता क्वचित् । प्रेमरत्नमत्ययत्नमेव यत्र लभ्यते तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः ॥ ४॥ फुल्लमाधवीरसालनीपकुञ्जमण्डले भृङ्गकोककोकिलादिकाकली यदञ्चति । आष्टयामिकावितर्ककोटिभेदसौरभं तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः ॥ ५॥ दोलकेलिचित्ररासनृत्यगीतवादनै- र्निह्नवप्रसूनयुद्धसीधुपानकौतुकैः । यत्र खेलतः कोशोरशेखरौ सहालिभि- स्तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः ॥ ६॥ दिव्यरत्ननिर्मितावतारसारसौष्टवै- श्छत्रिका विराजि चारु कुट्टिमप्रभाभरैः । सर्वलोकलोचनातिधन्यता यतो भवेत् तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः ॥ ७॥ माथुरं विकुण्ठतोऽपि जन्मधामदुर्लभं वास्काननन्ततोऽपि पाणिना धृतो गिरिः । श्रीहरेस्ततोऽपि यत्परं सरोऽतिपावनं तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः ॥ ८॥ कृष्णकुण्डतीरवाससाधकं पठेदिदं योऽष्टकं धियं निमज्य केलकुञ्जराजितोः । राधिकागिरीन्द्रधारिणोः पदाम्बुजेषु स प्रेमदास्यमेव शीघ्रमाप्नुयादनामयम् ॥ ९॥ इति महामहोपाध्यायश्रीविश्वनाथचक्रवर्तिविरचितं श्रीकृष्णकुण्डाष्टकं समाप्तम् ।

(28) Shri Gitavali 2 ॥ (२८) श्रीगीतावली २ ॥

प्रभो कृष्णचैतन्य गौराङ्ग विश्वम्भर श्रीशचीनन्दन प्रेमसिन्धो । हरे कृष्ण गोपाल गोविन्द नन्दात्मज गोष्ठगोपीजनप्राणबन्धो ॥ धृ॥

(१)

पायय कृपया प्रेमसुधा मां कारय निजसेवा बहुधा माम् । श्रीगोविन्द मदनगोपाल गोपीनाथ श्रीकृष्ण हरे व्रजजनगीतलीलागाथ ॥ मधुरिमगरिमसरसकरुणालय लोचनकोणविकाशम् । मामनुभावय भावय निजगुणरूप कलापविलासम् ॥ श्रीवृन्दावनकुञ्जविहारिणि राधे हरिदयिते । नय निजचरणसरोजतलं मामुररीकुरु ललिते ॥ १॥

(२)

राग कानडा वन्दे श्रीवृषभानुसुतापद ! कमलनयनलोचनसम्पद ॥ नखर मुकुरजित कोटिसुधाकर । माधव हृदयचकोर मनोहर ॥ कमलानुत सौभगरेखाञ्चित । ललितादिकरयावकरञ्जित ॥ संसेवया गिरिधर मतिमण्डित । रासविलास नटनरसपण्डित ॥

(३)

राग तुडि इह नववञ्जुलकुञ्जे । कुरुवककुसुमसुषमनवगुञ्जे ॥ तामभिसारय धीराम् । त्रिजगदतुलगुणभरिमगभीराम् ॥ गुरुमङ्गीकुरु भारम् । विरचय मदनमहोदधिपारम् ॥ भवतीं गरिमवलम्बे । मदुचितमिह कुरु विगतविलम्बे ॥ इति गदिता मधुरिपुणा । त्वरितमगादियमतिनिपुणा ॥ रहसि सरसि चटु राधा । समबोधयदघहर पुरुबाधाम् ॥ हृदि सखि ! वससि मुरारेः । ज्वलयसि तदपि किमकृतविचारे ॥ अधुना दृशि च बलवन्ती । शिशिरय तदमितरुचि विभवन्ती ॥ हरिवल्लभ गिरममलाम् । श्रवसि रचय सुमनसमिव मृदुलाम् ॥

(४)

केदार राग सुन्दरि कलय सपदि निजचरितम् । त्वमतनुकार्मणविदुषि रसिकममूं आकर्षसि गुणकलितम् ॥

(५)

निजमन्दिरमनुपदलसदिन्दिरं अपि परिहाय विलासी । अभवदपास्तसमस्तकलं गिरि कन्दरतटवनवासी ॥ भवदनुरागनृपोऽकृत हा किं अकारणवैरमपारम् । प्रहरति मनसिज धन्वामुना प्रहितो यदमुं कति वारम् ॥ जीवयितुं यदि कान्तमनङ्ग गुणालयमिच्छसि कान्ते । अभिसर सम्प्रति भामिनि हरिवल्लभभुवि तान्ते ॥

(६)

वराडी मा तुद मुञ्च पटान्तमिति स्फुटकुटिलमुखं स्मितमिश्रम् । षाडवमिव प्रीतिश्रितभुजबलराशिरघारिरकृष्टम् ॥ सखि हे ! पश्य नयनसुखसारम् । रसिकमुकुटतनुयुगलमधि श्रितबहुविधमदनविकारम् ॥ चटुलितविकटचिल्लिधनुरर्पितशानितशोणकटाक्षा । तर्जति दयितमिमं तदपि प्रतिपरिरम्भणरसदक्षा ॥ मुखमतिपूतमिदं युवति व्रजरसनारसितमखण्डम् । स्पर्शय मा दयितेत्यभिधाय पुनर्धयति प्रियगण्डम् ॥ विरम सतीत्वमजनि मम खण्डितमिति हितमपि तव सिद्धम् । इति सा रुषेव रदैर्निजवल्लभमधरे रचयति विद्धम् ॥

(७)

हरिभुजकलितमधुरमृदुलाङ्गा । तदमलमुखशशिविलसदपाङ्गा ॥ राधा ललितविलासा । अधि रतिशयनमजनि मृदुहासा ॥ असद्कृदुदञ्चितघनपरिरम्भा । खरनखराङ्कुशोदितकुचकुम्भा ॥ स्मरशरखण्डितधृतिमतिलज्जा । प्रेमसुधाजलधिकृतमज्जा ॥ सरभसवलितरदनच्छदपाना । श्रमसलिलाप्लुतवपुरपिधाना ॥ कङ्कणकिङ्किणिझङ्कृतरुचिरा । परिमलमिलितमधुव्रतनिकरा ॥ मृगमदरसचर्चितनवनलिना । कृतिधरतिमितचिकुरवृतवदना ॥ वल्लभरसिककलारससारा । सफलीकृतनिजमधुरिमभारा ॥

(८)

कृष्णा नन्दगोपनन्दना । जय कृष्णमन्दहास्यवदना ॥ कङ्कणकिङ्किणि केयूरभूषणकौस्तुभमणिराजिता । कृष्णा पद्मनिन्दिचरणा । वञ्जुलसद्मवीथिचलना ॥ इन्दुकोटिजयिनखमणिदर्पणदण्डितघनतिमिरा ॥ कृष्णा राजदङ्कललिता । मदगजराजवर्यचलिता ॥ मञ्जुलशिञ्जितमञ्जीरचुम्बितचञ्चलमाल्यतटा ॥ कृष्णा हाटकरुचिवसना । नवरसनाटकमणिरसना ॥ नाभिसरोवरतीरसमुत्थितवीचिवलित्रितया ॥ कृष्णा कुन्ददामचपला । बन्धुरतुन्दशोभितरला ॥ कृष्णा पीनबाहुयुगला । नियतनवीनरङ्गकुशला ॥ राधिका सुखसागरनागरसुन्दराब्जनयना ॥ कृष्णा कर्णलम्बिकुण्डला । कुवलयवर्णनिन्दिकुन्तला ॥ भालरञ्जितिलकावलिनासिकादम्भरोचिरतुला ॥ कृष्णा वंशवाद्यचतुरा । लसदवतंसपिञ्छमधुरा ॥ नीलखञ्जघनपुञ्जजिष्णुनव्यसुषमा ॥ कृष्णा रासलास्यविदिता । मधुरविलासनित्यमुदिता ॥

(९)

श्रीराग विहागडा मधुरगोकुलनन्दन छविल वृन्दावनचन्द्र । मुरलीधर मधुसूदन माधव गोपीनाथ मुकुन्द । केलिकलानिधि कुञ्जविहारिन् गिरिधर आनन्दकन्द ॥ राधे कृष्ण राधे ॥

(१०)

जय माधुर्यपताके श्रीराधे । जय वृषभानुसुते ॥ ललितादिसखिकुमुदावलिराके ! प्रेममहामृतभावितरसमयतनु गुणरूपकलापे । निजपरिजनपरिषदि मामुपनय कलितललितममताके ॥

(११)

नन्दसूनो कृष्ण गोविन्द । दृशमयि दिश मयि निजकृपया । मां जीवय मन्दस्मितसुधया ॥ पीतवसन मम कलय मनो । नव नीलनलिनकमनीयतनो ॥ वल्लवनगरवतंस विभो । वल्लभ मामुररीकुरु भोः ॥ इति महामहोपाध्यायश्रीविश्वनाथचक्रवर्तिविरचितं श्रीगीतावली समाप्ता । इति श्रीमद्विश्वनाथचक्रवर्तिविरचिता श्रीश्रीस्तवामृतलहरी समाप्ता । ॥ सम्पूर्णोऽयं ग्रन्थः ॥
% Text title            : Stavamritalahari Waves of Hymns of Nectar by Vishwanatha Chakravarti
% File name             : stavAmRRitalaharIsangraha.itx
% itxtitle              : stavAmRitalaharI saNgrahaH (vishvanAthachakravartin ThakkuravirachitaH aShTakasaNgraha)
% engtitle              : stavAmRRitalaharI by vishvanAthachakravartin
% Category              : vishhnu, krishna, sangraha, vishvanAthachakravartin, stavAmRRitalaharI, aShTaka, laharI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Vishwanatha Chakravarti
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Proofread by          : Jan Brzezinski, Neal Delmonico
% Indexextra            : (Text, Hindi, Meaning)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : March 16, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org