श्रीसुदर्शनस्तोत्रम् ३

श्रीसुदर्शनस्तोत्रम् ३

श्रीमन्नारायणं देवं ब्रह्मरुद्रादिवन्दितम् । सर्वलोकनियन्तारं नमामि पुरुषोत्तमम् ॥ १॥ श्रीमद्रामानुजाचार्यपौत्रस्तत्पादसंश्रितः । श्रीरङ्गार्यगुरोः पुत्रः श्रीरामाह्वयदेशिकः ॥ २॥ श्रीवाधूलकुलोद्भूतस्तपचक्रविधायकम् । स्तोत्रं सौदर्शनं चक्रे वेदवेदान्तगोचरम् ॥ ३॥ पवित्रं त इति प्रोक्तं वेदेषु त्रिषु च स्थितम् । चरणं तैत्तिरीये तु missing in the manuscript ॥ ४॥ लोकस्य द्वारमित्येतद्वाक्यं तत्रैव चोदितम् । चमू षु चेति यद्वाक्यं तत्रोक्तमृचि साम्नि च ॥ ५॥ मैत्रावरुणशाखायां पठ्यते सुमहात्मभिः । चक्रं बिभर्तीत्यृग्वेदे खिले सम्यक् प्रकीर्तितम् ॥ ६॥ अथर्वणोपनिषदि ह्येभिर्वयमिति स्मृतम् । ऋचि पौष्कलशाखायां प्रतिविष्णो इतीरितम् ॥ ७॥ धृतोर्ध्वपुण्ड्रमिति यदथ शाखोदितं हि तत् । दक्षिणे त्विति यद्वाक्यं महोपनिषदि स्थितम् ॥ ८॥ वषट् इति च यद्वाक्यं कठवल्ल्यां तदीरितम् । तापनीये तु तं प्राप्तमिति मन्त्रमुदाहृतम् ॥ ९॥ यज्ञोपवीतीत्यारभ्य ये वा शून्यं त इत्यपि । सुदर्शनोपनिषदि वेदविद्भिस्तु पठ्यते ॥ १०॥ तस्माद्ब्राह्मणवाक्यं तु श्वेताश्वतरचोदितम् । तत्रोपवीतादि पञ्च कथ्यते सुमहात्मभिः ॥ ११॥ कात्यायनेति होवाचेत्येवं शतपथेरितम् । तत्रैव कथितं चक्रं द्विभुजे धार्यमित्यपि ॥ १२॥ तत्रैव दशपर्यायैः कथितं चक्रधारणम् । देवास इति वाक्यं च तत्रैव परिकथ्यते ॥ १३॥ विवस्वत इति ह्येतद्वाक्यं तत्रैव संस्थितम् । चक्रमादायेति वाक्यं स्थितं यत्तदथर्वणे ॥ १४॥ तथैव पाञ्चजन्यं च पठ्यते वेदवित्तमैः । अग्निनेति तथा वाक्यं तत्रैव परिपठ्यते ॥ १५॥ इत्येवं तप्तचक्रस्य धारणं श्रुतिचोदितम् । तस्मात् सर्वप्रयत्नेन धार्यं मोक्षफलेप्सुभिः ॥ १६॥ ब्रह्मचारी गृही वानप्रस्थ इत्याश्रमैस्तथा । ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चापि तथा परैः ॥ १७॥ अनुलोमैर्विलोमैश्च भक्तिश्रद्धासमन्वितैः । सुवासिनीभिर्नारीभिर्विधवाभिस्तथैव च ॥ १८॥ विष्णोः सुदर्शनं धार्यं वेदवेदान्तगोचरम् । इति सौदर्शनं स्त्रोत्रमकरोद्रामदेशिकः ॥ १९॥ इति श्रीसुदर्शनस्तोत्रं सम्पूर्णम् । Proofread by Rajesh Thyagarajan
% Text title            : Shri Sudarshana Stotram 3 03 14
% File name             : sudarshanastotram3.itx
% itxtitle              : sudarshanastotram 3 (shrImannArAyaNaM devam)
% engtitle              : sudarshanastotram 3
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 03-14
% Indexextra            : (Scan)
% Latest update         : August 14, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org