$1
श्रीवेंकटेशाष्टोत्तरशतनामस्तोत्रम् ४
$1

श्रीवेंकटेशाष्टोत्तरशतनामस्तोत्रम् ४

ऋषय ऊचुः । सूत सर्वार्थतत्त्वज्ञ सर्ववेदाङ्गपारग । येनचाराधितः सद्यः श्रीमद्वेंकटनायकः ॥ १॥ भवत्यभीष्टसर्वार्थप्रदस्तद्ब्रूहि नो मुने । इति पृष्टस्तदा सूतो ध्यात्वा स्वात्मनि तत् क्षणात् ॥ उवाच मुनिशार्दूल श्रूयतामिति वै मुनीन् ॥ २॥ ॥ श्रीसूत उवाच॥ अस्ति किंचिन्महद्गोप्यं भगवत्प्रियकारकम् । पुरा शेषेण कथितं कपिलाय महात्मने ॥ ३॥ नाम्नामष्टशतं पुण्यं पवित्रं पापनाशनम् । आदाय हेमपद्मानि स्वर्णदीसंभवानि च ॥ ४॥ ब्रह्मा वै पूर्वमभ्यर्च्य श्रीमद्वेंकटनायकम् । अष्टोत्तरशतैर्दिव्यैर्नामभिर्मुनिपुष्पकैः ॥ ५॥ स्वाभीष्टं लब्धवान् ब्रह्मा सर्वलोकपितामहः । भवद्भिरपि पद्मैश्च समभ्यर्च्य च नामतः ॥ ६॥ तेषां शेषनगाधीशो मनसो ह्लादकारकः । नाम्नामष्टशतं पुण्यं वेंकटाद्रिनिवासिनः ॥ ७॥ आयुरारोग्यदं पुंसां धनधान्यसुखप्रदम् । ज्ञानप्रदं विशेषेण महदैश्वर्यकारकम् ॥ ८॥ अर्चयेन्नामभिर्दिव्यैः वेंकटेशपदांतिकैः । नाम्नामष्टशतस्यास्य ऋषिर्बहुः प्रकीर्तितः ॥ ९॥ छंदोऽनुष्टुप् तथा देवो वेंकटेश उदाहृतः । नीलगोक्षीरसंभूतो बीजमित्युच्यते बुधैः ॥ १०॥ श्रीनिवासस्तथा शक्तिर्हृदयं वेंकटाधिपः । विनियोगस्तथाऽभीष्टसिद्ध्यर्थे विनिगद्यते ॥ ११॥ ॐ नमो वेंकटेशाय शेषाद्रिनिलयाय च । वृषदृग्गोचरायाथ विष्णवे सततं नमः ॥ १२॥ सदंजनगिरीशाय वृषाद्रिपतये नमः । मेरुपुत्रगिरीशाय सरस्स्वामितटं जुषे ॥ १३॥ कुमारकल्पसेव्याय वज्रदृग्विषयाय च । सुवर्चलासुतान्यस्त-सेनापत्यकराय च ॥ १४॥ रामाय पद्मनाभाय सदा वायुस्तुताय च । त्यक्तवैकुण्टलोकाय गुह्यकुंजविहारिणे ॥ १५॥ हरिचंदनगोप्तेंद्रस्वामिने सततं नमः । शंकरऽजननेत्राब्जविषयाय नमो नमः ॥ १६॥ वसूपरिचरित्राय कृष्णाय सततं नमः । अब्धिकन्यापरिष्वक्तवक्षसे वेंकटाय च ॥ १७॥ सनकादिमहायोगिपूजिताय नमो नमः । देवजित्प्रमुखानंतदैत्यसंघप्रणासिने ॥ १८॥ श्वेतद्वीपे वसन्मुक्तपूजितांघ्रियुगाय च । शेषपर्वतरूपत्वप्रशासनवराय च ॥ १९॥ प्रकाशनपराय सानुस्थापिततार्क्ष्याय तार्क्ष्याचलनिवासिने । मायागूढविमानाय गरुडस्कन्धवासिने ॥ २०॥ अनंतशिरसे नित्यमनंताक्षाय ते नमः । अनंतचरणाय श्रीशैलनिलयाय च ॥ २१॥ दामोदरय ते नित्यं नीलमेघनिभाय च । ब्रह्मादिदेवदृष्टाय विश्वरूपाय ते नमः ॥ २२॥ वेंकटागतसद्धेमविमानांतर्गताय च । अगस्त्यार्चिताशेषजनदृग्विषयाय च ॥ २३॥ वासुदेवाय हरये तीर्थपंचकवासिने । वामदेवप्रियायाथ जनकेष्टप्रदाय च ॥ २४॥ वाक्पतिब्रह्मधात्रे च चंद्रलावण्यदायिने । मार्कण्डेयमहातीर्थजातपुण्यप्रदाय च ॥ २५॥ नारायणनगेशाय ब्रह्मकॢप्तोत्सवाय च । शंकचक्रगदापद्मलसत्करतलाय च ॥ २६॥ द्रवन्मृगमदासक्तविग्रहाय नमो नमः । केशवाय नमस्तुभ्यं नित्ययौवनमूर्तये ॥ २७॥ अर्थितार्थप्रदात्रे च विश्वतोर्थौघहारिणे । तीर्थस्वामिसरःस्नातजनाभीष्टप्रदाय च ॥ २८॥ कुमारधारिकास्कन्दमह्यशक्ति-प्रदाय च । जमदग्निसमद्भूतपौत्रिणे कूर्ममूर्तये ॥ २९॥ किन्नरद्वंद्वशापांतप्रदात्रे माधवाय च । वैखानसमुनिश्रेष्ठ-पूजिताय नमो नमः ॥ ३०॥ सिंहाचलनिवासाय श्रीमन्नारायणाय च । सद्भक्तनीलकण्ठाय नृसिंहाय नमो नमः ॥ ३१॥ कुमुदाक्षगणश्रेष्ठसेनापत्यप्रदाय च । दुर्मेधःप्राणहर्त्रे च वामनाय नमो नमः ॥ ३२॥ क्षत्रियान्तकरामाय मत्स्यरूपाय ते नमः । पाण्डवाघप्रहर्त्रे च श्रीधराय नमो नमः ॥ ३३॥ उपत्यकाप्रदेशस्थशंकरध्यानमूर्तये । रुक्माब्जसरसीकूललक्ष्मीकृततपस्विने ॥ ३४॥ लसल्लक्ष्मीकरांभोजदत्तकल्हारकस्रजे । शालिग्रामनिवासाय शुकदृग्विषयाय च ॥ ३५॥ नारायणार्थिताशेषजनदृग्विषयाय च । मृगयारसिकायाथ वृषभासुरहारिणे ॥ ३६॥ अंजनागोत्रपतये वृषभाचलवासिने । अंजनासुतदात्रे च माधवस्याघहारिणे ॥ ३७॥ प्रियाङ्गप्रियकोलाय श्वेतकोलवराय च । नीलधेनुपयोधारासेकदेहोद्भवाय च ॥ ३८ । सगरप्रियमित्राय चोलपुत्रप्रियाय च । सुधर्मिणे सुचैतन्यप्रदात्रे मधुघातिने ॥ ३९॥ कृष्णाख्यविप्रवेदान्तदेशिकत्व प्रियाय च । वराहाचलनाथाय बलभद्राय ते नमः ॥ ४०॥ त्रिविक्रमाय महते हृषीकेशाय ते नमः । अच्युताय नमो नित्यं नीलाद्रिनिलयाय च ॥ ४१॥ नमः क्षीराब्धिनाथाय वैकुंठाचलवासिने । मुकुंदाय नमो नित्यं अनंताय नमो नमः ॥ ४२॥ विरिंचभ्यर्तितानीतसौम्यरूपाय ते नमः । सुवर्णमुखरीस्नातमनुजाभीष्टदायिने ॥ ४३॥ हलायुधजगत्तीर्थसमस्तफलदायिने । गोविन्दाय नमो नित्यं श्रीनिवासाय ते नमः ॥ ४४॥ अष्टोत्तरशतं नाम्नां चतुर्थ्या नमसान्वितम् । यः पठेच्छृणुयान्नित्यं श्रद्धाभक्तिसमन्वितः ॥ ४५॥ वेंकटेशाभिधे यंत्रे वेंकटाद्रिनिवासिनः । अर्चयन्नामभिस्तस्य फलमुक्तं प्रसिध्यते ॥ ४६॥ अर्चनायां विशेषेण ग्राह्यमष्टोत्तरं शतम् । तस्य श्रीवेंकटेशश्च प्रसन्नो भवति ध्रुवम् ॥ ४७॥ गोपनीयमिदं स्तोत्रं सर्वेषां न प्रकाशयेत् । श्रद्धाभक्तियुजामेव दापयेन्नामसंग्रहम् ॥ ४८॥ इति शेषेण कथितं कपिलाय महात्मने । कपिलाख्यमहायोगिसकाशात्तु मयाश्रुतम् । तदुक्तं भवतामद्य सद्यः प्रीतिकरं हरेः ॥ ४९॥ ॥ इति श्रीवराहपुराणे श्रीवेंकटेशाष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥ Encoded and proofread by N. Balasubramanian bbalu at satyam.net.in
$1
% Text title            : veNkaTeshvarAShTottarashatanAmastotram 4
% File name             : venkatesha4.itx
% itxtitle              : veNkaTeshAShTottarashatanAmastotram 4
% engtitle              : ve.nkaTeshAShTottarashatanAmastotram 4
% Category              : vishhnu, venkateshwara, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : venkateshwara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N.Balasubramanian bbalu at satyam.net.in
% Proofread by          : N.Balasubramanian bbalu at satyam.net.in
% Description-comments  : shrIvarAhapurANantargatam
% Latest update         : May 3, 2008
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org