विष्णोस्त्रिंशोपचार पूजनम्

विष्णोस्त्रिंशोपचार पूजनम्

१ ध्यानम् -- सुरकदम्बकैः प्रश्रयेण वै नियतसेवितं गोकुलोत्सवम् । किरीटकुण्डलं पीतजाम्बरं खलनिषूदनं चिन्तये विभुम् ॥ २ आवाहनम् -- खगपवाहनं क्षीरजाप्रियं भवभयापहं भुक्तिमुक्तिदम् । सुरपतिं जगन्नाथमीश्वरं कमलभासमा वाहयाम्यहम् ॥ ३ आसनम् -- विधिमुखामरैर्नम्रमूर्तिभिः प्रणतसंश्रितं दुर्धरादिमत् । वरमणिप्रभा भासुरन्नवं जनपगृह्यतां स्वर्णमासनम् ॥ ४ पाद्यम् -- कुसुमवासितं गन्धविस्तृतं मुनिनिषेवितं सादरेण वै । ध्रुवपराशराभीष्टद ! प्रभो जनपगृह्यतां पाद्यमुत्तमम् ॥ ५ अर्घ्यम् ः- कनकसम्पुटे स्थापितं वरं जलसुवर्णमुक्ताफलैर्युतम् । करसरोरुहाभ्यां घृतम्मया जनपगृह्यतामर्घ्यमुत्तमम् ॥ ६ आचमनीयम् -- तव रमायुजः सेवनाज्जना नृपतिसन्निभाः सम्भवन्ति हि । सुरतरङ्गिणी शुद्धवारिभि- र्जनपगृह्यतामाचमं शुभम् ॥ ७ स्नानम् -- हरिपदाम्बुजा नर्मदामही सरयूचन्द्रभागाभ्य आहृतम् । जलजवासितं स्नानहेतवे जनपगृह्यतामर्पितञ्जलम् ॥ ८ पयःस्नानम् -- सुरगवुद्भभवं वीर्यवर्धकं निखिलदेहिनां जीवनप्रदम् शशधरप्रभं फेनसंयुतम् जनपगृह्यतामर्पितं पयः ॥ ९ दधि स्नानम् -- शुचिपयः समुद्भूतमुतप्रदं व्रजनिवासिभिः स्वादितं शुभम् । रजतसंनिभं शीततामयं जनपगृह्यतामर्पितन्दधिम् ॥ १० घृतस्नानम् -- हुतवहप्रियं क्षीरजोद्भवं सकलदेहिनां सत्त्ववर्धकम् । कुमुदसदृशं विष्णु दैवतं जनपगृह्यतामर्पितङ्घृतम् ॥ ११ मधुस्नानम् -- मधुलतोद्भवं स्वादुमञ्जुलं मधुपमक्षिकाद्यैर्विनिर्मितम् । मधुरतामयं गन्धसम्प्रदं मधुहतेऽर्पितं गृह्यताम्मधु ॥ १२ शर्करा स्नानम् -- मदनकार्मुकाद्या विनिर्मिता मधुरतान्विता सर्वपापहा । सरसताङ्गता तारकोपमा जनपगृह्यतां शुद्धशर्करा ॥ १३ उद्वर्तन स्नानम् -- कदम्बकेतकी पुष्पसम्भवं मृगमदान्वितं यन्त्रनिर्मितम् । जनुपकारिणा भक्तितो मया जनपगृह्यतां तैलमर्पितम् ॥ १४ शुद्धोदक स्नानम् -- हरिपदाम्बुजा नर्मदामही सरयूचन्द्रभागाभ्य आहृतम् । जलजवासितं स्नानहेतवे जनपगृह्यतामर्पितञ्जलम् ॥ १५ वस्त्रम् -- विविधतन्तुभिर्गुम्फितं नवं सुतपनीयभं सोत्तरीयकम् । मधुरिपो जगन्नाथ माधव जनपगृह्यतां वस्त्रमर्पितम् ॥ १६ यज्ञोपवीतम् -- त्रिगुणितं सितैरर्कतन्तुभिः कृतमिदम्मया शुद्धचेतसा । निगमसम्मतं बन्धमोचकः जनपगृह्यतामुपवीतकम् ॥ १७ गन्धम्-चन्दनम् -- मलयसम्भवं पीतवर्णकं मृगमदाधिभिर्वासितं वरम् । मुक्तिषट्पदं कुङ्कुमान्वितं जनपगृह्यतां गन्धमर्पितम् ॥ १८ अक्षतान् -- कमलसम्भवा मौक्तिकोपमा स्त्रिपथगोदकैः शालिताः शिवाः । अगरुकुङ्कुमैर्मिश्रितावरा जनपगृह्यतामर्पिताक्षताः ॥ १९ पुष्पमाला -- तरुणमल्लिका कुन्दमालती बकुलपङ्कजानां समुच्चयैः । सततसुत्रितं भक्तितो मया जनपगृह्यतां हारमर्पितम् ॥ २० श्वेत चूर्ण -- कदम्बकेतकी वृक्षसम्भवं विविधसौख्यदं कान्तिवर्धनम् । सितकरोपमं स्नेहसत्कृतं जनपगृह्यतां श्वेतचूर्णकम् ॥ २१ रक्तचूर्ण ;-- अमरजादिभिर्देववृन्दकैः शिरसिवैधृतं प्रश्रयेण वा । तपनसदृशं दृष्टिमुत्कलं जनपगृह्यतां रक्तचूर्णकम् ॥ २२ सिन्दूर चूर्ण -- गणपतिप्रियं बालसूर्यभं पवनसूनुना स्वीकृतं सदा । सुरभिवासितं सूक्ष्मचूर्णकं जनपगृह्यतां नागसम्भवम् ॥ २३ धूपम् -- अगरगुग्गुला ज्यादिमिश्रितं तपनयोगजोद् भूतसौरभम् । अमरवृन्दकैः स्नेह सत्कृतं जनपगृह्यतां धूपमुत्तमम्। ॥ २४ दीपम् -- अनलतैलिनी गोघृतान्वितं तिमिरनाशकं दीप्ततन्तुभिः । कनकभाजने स्थापितम्मया जनपगृह्यतां दीपमुत्तमम् ॥ २५ नैवेद्यम् -- पनसदाडिमाम्रादिसत्फलं सुघृतमोदका पूपपायसम् । रजतभाजने स्थापितम्मया जनपगृह्यतां खाद्यमुत्तमम् ॥ २६ जळ-आचमनी -- जलधिगोद्भवं शीततामयं सकलप्राणिनां प्राणदायकम् । विधिसमर्पितं शुद्धचेतसा जनपगृह्यतामाचममं शुभम् ॥ २७ मुखवास --(पूगीफलं ताम्बूलं) -- खपुरसम्भवं पूगचूर्णयुग् मृगमदेलुका वासितं वरम् । फणिलतादलैः क्लृप्तबीडकं जनपगृह्यतामास्यभूषणम् ॥ २८ दक्षिणा -- निखिलयाचिनां श्रेष्ठभोगदा निगमसम्मता कर्मपूर्णदा ॥ सकलभूजनैर्वाञ्छिता सदा जनपगृह्यतां हेमदक्षिणा ॥ २९ नीराजनम् -- हुतवहप्रियैर्मिश्रितं वरं जलधिजैर्युतं सर्वपापहम् । मुखविलोकनार्थाय संस्कृतं जनपगृह्यतामार्तिकं शुभम् ॥ ३० प्रदक्षिणाम् -- वरदसञ्चितं पूर्वजन्मभिर्दहति किल्विषं त्वत्प्रदक्षिणा । नरहरिमुदा शुद्धचेतसा सततमीश्वरं त्वां नमाम्यहम् ॥ इति विष्णोर्स्त्रिंशोपचारपूजनं सम्पूर्णम् । Proofread by Sunder Hattangadi
% Text title            : Vishnu Puja with 30 parts
% File name             : viShNorstriMshopachArapUjana.itx
% itxtitle              : viShNorstriMshopachArapUjana
% engtitle              : viShNorstriMshopachArapUjana
% Category              : vishhnu, pUjA, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Texttype              : svara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi
% Latest update         : August 5, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org