शौनकप्रोक्तं विष्णुस्तोत्रम्

शौनकप्रोक्तं विष्णुस्तोत्रम्

विष्णवे विष्णवे नित्यं विष्णवे विष्णवे नमः । जिष्णवे जिष्णवे सर्वं जिष्णवे जिष्णवे नमः ॥ ३॥ नमामि विष्णुं बुद्धिस्थमहङ्कारगतं हरिं चित्तस्थमीशमव्यक्तमनन्तमपराजितम् । विष्णुमीड्यमशेषेशमनादिनिधनं विभुम् ॥ ४॥ विष्णुश्चित्तगतो यन्मे विष्णुर्बुद्धिगतश्च यत् । यच्चाहङ्कारगो विष्णुर्यद्विष्णुर्मयि संस्थितः ॥ ५॥ करोति कर्तृभूतोऽसौ स्थावरस्य चरस्य च । तत्पापं नाशमायातु तस्मिन्नेव विचिन्तिते ॥ ६॥ ध्यातो हरति यः पापं स्वप्ने दृष्टः शुभावहः । तमुपेन्द्रमहं विष्णुं नतोऽस्म्यार्तिहरं हरिम् ॥ ७॥ जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः । हस्तावलम्बदं विष्णुं प्रणतोऽस्मि परात्परम् ॥ ८॥ सर्वेश्वरेश्वर विभो परमात्मन्नधोक्षज । हृषीकेश हृषीकेश हृषीकेश नमोऽस्तु ते ॥ ९॥ नृसिंहानन्त गोविन्द भूतभावन केशव । दुरुक्तं दुष्कृतं ध्यातं प्रशमाग्र्य नमोऽस्तु ते ॥ १०॥ यन्मया चिन्तितं दुष्टं स्वचित्त्ववशवर्तिना । नरकावहमत्युग्रं तच्छमं नय केशव ॥ ११॥ ब्रह्मण्यदेव गोविन्द परमार्थपरायण । जगन्नाथ जगद्धातः पापं प्रशमयाच्युत ॥ १२॥ यच्चापराह्ने पूर्वाह्ने मध्याह्ने च तथा निशि । कायेन मनसा वाचा कृतं पापमजानता ॥ १३॥ जानता वा हृषीकेश पुण्डरीकाक्ष माधव । नामत्रयोच्चारणतस्तत्प्रयातु मम क्षयम् ॥ १४॥ शारीरं मे हृषीकेश पुण्डरीकाक्ष मानसम् । पापं प्रशमयाद्य त्वं वाक्कृतं मम माधव ॥ १५॥ यद्व्रजन्यत्स्वपन्भुञ्जन्यदुत्तिष्ठन्यदास्थितः । कृतवांश्चापि यच्चाहं कायेन मनसा गिरा ॥ १६॥ महत्स्वल्पमतिस्थूलं कुयोनिनरकावहम् । यातु प्रशमनं सर्वं वासुदेवस्य कीर्तनात् ॥ १७॥ परं ब्रह्म परं धाम पवित्रं परमं च यत् । तस्मिन्सङ्कीर्तिते विष्णोः पादे पापं प्रणश्यतु ॥ १८॥ सूरयो यत्प्रवेक्ष्यन्ति ह्यपुनर्भवकाङ्क्षिणः । ममाखिलं दह त्वं हि तद्विष्णोः परमं पदम् ॥ १९॥ यत्प्राप्य न निन्वर्तन्ते गन्धस्पर्शादिवर्जितम् । पापं प्रणाशयत्वद्य तद्विष्णोः परमं पदम् ॥ २०॥ सदसद्यत्तथा व्यक्ताव्यक्तरूपमजाजरम्? प्रणमामि जगद्धाम तद्विष्णोः परमं पदम् ॥ २१॥ शारीरे मानसे चैव पापे वाग्जे च पार्थिव कृते सम्यङ्नरो भक्त्या पठेच्छ्रद्धासमन्वितः । मुच्यते सर्वपापेभ्यः कृष्णनामप्रकीर्तनात् ॥ २२॥ उच्चार्यमाने चैतस्मिन्देवदेवस्य संस्तवे । विलयं पापमायाति भाण्डमाममिवाम्भसि ॥ २३॥ तस्मात्सञ्चिन्तिते पापे समनन्तरमेव ते । जप्तव्यमेतत्पापस्य प्रशमाय महीपते ॥ २४॥ इति विष्णुधर्मेषु त्रिनवतितमोऽध्यायान्तर्गतं शौनकप्रोक्तं विष्णुस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Shaunakaproktam Vishnu Stotram
% File name             : viShNustotramshaunakaproktam.itx
% itxtitle              : viShNustotraM shaunakaproktam (viShNudharmopapurANAntargatam)
% engtitle              : viShNustotraM shaunakaproktam
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : from Vishnudharma Upapurana. Adhyaya 93
% Indexextra            : (Text)
% Latest update         : December 25, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org