श्रीविष्णुस्तोत्रम्

श्रीविष्णुस्तोत्रम्

(शार्दूलविक्रीडितवृत्तम्) यन्नित्यं श्रुतिभिर्मुहुर्मुहुरहो संस्तूयमानं स्थितं यद्ब्रह्मेन्द्रसुरादिकैरहरहर्ध्यातं च गीतं पुनः । यत्सर्वेषु विराजितं मुनिनुतं दिव्यं परं पावनं तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ १॥ यत्सौख्याम्बुधिलेशतः सुरुचिरा ब्रह्माण्डभूकोटयो यत्प्राप्य स्थिरमोक्षदं पुनरसौ नावर्तते भूतले । एषोऽस्य श्रुतयो वदन्ति परमानन्दश्च यो ज्ञानिनः तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ २॥ सूर्याचन्द्रमसौ न यत्र हुतभुङ्नीमास्तथा विद्युतो नैते यत्र वसन्ति तारकगणा यद्भासितुं विश्रुतम् । यद्भासैव विभाति सर्वमिह यद्धान्तं स्वतः शाश्वतं तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ ३॥ नाविद्या न च जीवविश्वकलना मायेशभावादिकं यस्मिन्नैव विभाति यस्य न तथा भिन्नं विभानं क्वचित् । चिन्मात्रैकरसं स्थितं परमहो यद्ब्रह्मरूपं शिवं तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ ४॥ कार्यं यस्य न कारणं किमपि यद्बद्धं च मुक्तं च नो यः स्त्री नैव पुमांस्तथा न च गुणा यस्मिन्विकारास्तथा । यन्नाम्नापि न भाति नैव च तथा रूपेण वक्ति श्रुतिः तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ ५॥ सन्मात्रे सुखविग्रहे सुविमलेऽद्वैतं कुतः सम्भवेत् कस्य स्यात्प्रभवस्तथा भवति का नारी च को वा पुमान् । देहप्राणहृदिन्द्रियैर्भवति किं युक्तं च बद्धोऽस्ति कः तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ ६॥ मायामात्रमिदं हि विश्वमखिलं जीवेशबन्धादिकं या माया किल सापि मा यदि भवेच्छिष्येत किं वा पुनः । यन्माया जननी न तत्खलु वसेत्सच्चिद्घनेऽस्मिन्यतः तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ ७॥ माया या खलु सा जडा कथमियं सम्भाव्यते चिद्घने तत्सान्निध्यवशात्करोत्यपि च चेज्ज्ञानं तदेव ध्रुवम् । यत्पूर्णं सतताद्वयं विभुमहद्यस्मिन्न किञ्चिन्मिषत् तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ ८॥ चिद्ब्रह्मेति च शासनात्कथमियं माया च भिन्नास्पदा तद्भानं च तथास्य चित्स्थितिरहो लक्ष्येत किं मायया । ब्रह्मच्छायमनन्तमद्वयपरं सत्यं च यच्छ्रूयते तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ ९॥ गूहेद्ब्रह्म न भासकं कथमपि स्पर्धेत किं तेन वा तस्माद्भिन्नमपीह किं पुनरियं माया सृजेद्वै जडा । माया नैव विजृम्भते चिति शिवे यस्मिन्नखण्डेऽद्वये तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ १०॥ यज्ज्ञात्वामृतमश्नुते हि सकलान् पाशांश्छिनत्ति स्वयं सर्वज्ञत्वमवाप्यते किल कृती स्याद्ब्रह्मसौख्यं स्वयम् । शिष्येदस्य च लम्बने किमपि नो भिन्नं ततो लम्बनं तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ ११॥ मृत्योर्मृत्युमुपैति भीतिमपि यः पश्येद्यतो भिन्नतां नाना नेह न तद्द्वितीयमिति वा ब्रूते श्रुतिर्नित्यशः । सत्यं ज्ञानमनन्तमद्वयमहो रूपं हि यत्प्राणिनां द्वष्णोः परमं पदमिह स्वाराज्यसौख्याम्बुधिम् ॥ १२॥ माया यद्यपि सर्वकार्यमिह यत्तस्याभवेदस्तुतौ सर्वव्यापिविभासकं भवति किं लुप्तं च तेनाधुना । यत्सर्वस्य विभासितं श्रुतिमतं सत्यं परं चिद्रसं तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ १३॥ कोऽन्याद्वा वचनात् स्फुटं परतरं यत्प्राणिनां जीवनं मूढः कोऽत्र विहाय तत्परमहो मन्येत वैकारिकम् । हित्वा सर्वमपीह संसरणतः प्राप्तं सुखं मायिकं तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ १४॥ चिन्मात्रैकरसाद्वयं श्रुतिनुतं यत्स्वात्मसौख्यं शिवं तज्ज्ञेयं जनयेत्कथं जडमहो दोषैरनेकैर्वृतम् । चिद्रूपं खलु यत्सदैव रहितं ज्ञेयेन वा मायया तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ १५॥ चिन्मात्रे सुखमात्रके जडमिदं दृश्यं भ्रमाद्भाव्यते स्यान्मायापि विमोहिता खलु जडा हेतुर्भवेदस्य या । लभ्यं यत्सुखरूपकं न च जडं मायाभ्रमे वा भवेत् तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ १६॥ ब्रह्मैवाहमिदं च सर्वमपि वा ब्रह्मैव वक्ति श्रुतिः भिन्नं किं समजायतैकमिह यद्ब्रह्मैव बाह्यान्तरम् । यन्माया जगदीशजीवविषयभ्रान्त्या न लुप्येत्क्वचित् तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ १७॥ यद्ब्रह्माहमिति स्फुटं तनुजगज्जीवेशभावा इमे पुंस्त्रीपुत्रहृदिन्द्रियाणि च पुनर्भोक्ता च भोगादयः । देवाः प्रेतगणाश्च तिर्यगथवा यस्मिन् खपुष्पायते तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ १८॥ यत्पूर्णं स्वत एव निर्मलमहो स्वानन्दमात्रं परं तस्मिन्सर्वविभासके स्फुटतरे भिन्नस्य यत्सर्जने । यस्येच्छा न च हैतुकं जगदहो जायेत यस्मिन् क्वचित् तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ १९॥ माया नापि तदुत्थितं च जगतः सङ्कल्पनं नैव च नैव स्यात्प्रकृतिः पुमानपि च तद्योगो जगत्सर्जने । विद्यापुरुषश्च योषिदुत तद्योगश्च पुत्रोद्भवः तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ २०॥ ज्ञेयं नैव यदस्ति चिघनशिवे द्वैतं कुतो भाव्यते सर्वज्ञः परमेश्वरोऽपि न तथा किञ्चिज्ज्ञजीवस्ततः । यस्मिन्सर्वमपीति किञ्चिदथवा ज्ञेयं न वेत्तुं क्वचित् तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ २१॥ माया चेदिह वाऽऽवृणोति किमिदं शक्यं जडायां भवेत् तस्माच्चेतयते च सा यदि तया किं छाद्यते ब्रह्म तत् । यन्नैवाऽव्रियते न कार्यमपि वा जायेत यस्मिन् क्वचित् तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ २२॥ भिन्नेयं न च वास्ति सा यदि भवेद्भिन्ना न माया क्वचित् भिन्नेयं च यदा भवेत्तदपि नो माया भवेद्वास्तवी । सद्ब्रह्मेति च शासनाद्भवति या भिन्ना सती यत्र तु तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ २३॥ भावो नाप्यसतः सतोऽपि न तथा भावः क्वचिद्वर्ण्यते माया नापि ततो न कार्यमिति वा मन्तुं क्वचिच्छिष्यते । पश्येन्नैव कदापि केन यदि वा श्रुत्यक्षरं यत्स्फुटं तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ २४॥ जाड्यं दुःखमथामृतत्वमिति यत्सम्बाध्यते सज्जने सच्चित्सौख्यमिति स्फुटं परमहो ब्रह्माद्वयं शाश्वतम् । आनन्दैकरसाद्वयेऽपरमिदं दुःखादिकं नो यतः तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ २५॥ सूक्ष्मस्थूलतयापि भूम्नि जगतोऽस्तित्वं न सत्यं भवेत् तच्छक्तेरपि वा भवेद्यदि तदा शक्तिर्न भिन्ना क्वचित् । भिन्नं कार्यमितो यतो न हि भवेद्यच्चाद्वयं शाश्वतं तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ २६॥ भिन्ना सापि च कापि शक्तिरथवा भिन्ना न वक्तुं भवेत् तस्माद्भिन्नविभासकर्मकुशलाऽनिर्वाच्यभावा यदि । मिथ्यैवेयमिति स्फुटं यदि न सा यस्मिन्नसङ्गेऽद्वये तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ २७॥ माया काऽपि च वा भवेद्भवतु तत्कार्यं च तस्या अपि सत्यं ज्ञानमनन्तमद्वयमहो स्वस्माद्विविच्यादिशेत् । तन्मत्वा विमुखेन पश्यति कदा मायां च यस्मिन् परे तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ २८॥ दुःखान्तं किल जीवितं क्षणसुखं दोषैरनेकैर्वृतं योगो यन्नरकस्य तद्रतिरसः कस्मै सुखायोद्भवेत् । सर्वं दुःखमिदं विमोहकमतो यन्मायिकं विस्फुटं तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ २९॥ तुच्छा दुःखमयी ह्यसत्यपि च सा दुर्लङ्घनीया यदि मामेवेह भवेत्प्रपन्न इति चेन्मायां तरेद्योवदत् । यं लब्ध्वा परमं स्वकं पुनरहो मायां न पश्येत्क्वचित् तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ ३०॥ संसारार्तिहरं क्षिप्रं ज्ञानविज्ञानदायकम् । विष्णुस्तोत्रमिदं नित्यं पठन् स्वाराज्यमश्नुते ॥ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान् श्रीधरस्वामीमहाराजविरचितं श्रीविष्णुस्तोत्रं सम्पूर्णम् । वैकुण्ठचतुर्दशी - रचनास्थानं - काफि उद्यानं, चिक्कमगळूरु संवत्सरः - १९४३ Proofread by Manish Gavkar
% Text title            : Shri Vishnu Stotram
% File name             : viShNustotramshrIdharasvAmi.itx
% itxtitle              : viShNustotram (shrIdharasvAmIvirachitam)
% engtitle              : viShNustotram by shrIdharasvAmI
% Category              : vishhnu, shrIdharasvAmI, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : Shridharasvami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Description/comments  : shrIdharasvAmI stotraratnamAlikA
% Indexextra            : (Marathi, Collection 1, 2, Selected
% Latest update         : February 11, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org