आत्मोपदेशः
शास्त्रप्रतिष्ठा गुरुवाक्यनिष्ठा
सदात्मदृष्टिः परितोषपुष्टिः ।
चतस्र एता निवसन्ति यत्र
स वर्तमानोऽपि न लिप्यतेऽघैः ॥ १॥
उद्देश्य भेदेन विधेयभेदे
शास्त्राण्यनेकानि भवन्ति तावत् ।
तत्रास्तिकैराद्रियमाणमेव
विभावनीयं परमार्थसिद्ध्यै ॥ २॥
व्याख्यावलेनाभिनिवेशभाजा
प्रमेयभेदो बहुधाभ्युदेति ।
तत्रास्ति मात्सर्यकलङ्कमुक्ता
मुक्तावदाता धिषणा प्रमाणम् ॥ ३॥
तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना
नैको ऋषिर्यस्य मतं प्रमाणम् ।
धर्मस्य तत्वं निहितं गुहायां
महाजनो येन गतः स पन्थाः ॥ ४॥
अनेक शास्त्रार्थविमर्शनेन
तत्तन्महाव्यक्तिनिदर्शनेन ।
त्रैकालिकज्ञानविकस्वरेषु
महाजनत्वं गुरुषूपदिष्टम् ॥ ५॥
यदेतकत्पुत्रकलत्रमित्र -
विद्वेष्युदासीनचराचरं हि ।
तन्नामरूपाख्यविकारवर्जं
ब्रह्मेति वेदान्तविदो विदन्ति ॥ ६॥
तदात्मरत्नं न बहुश्रुतेन
न वा तपोराशिवलेन लभ्यम् ।
प्रकाशते तत्तु गुरूप दिष्ट -
ज्ञानेन जन्मान्तरखण्डकेन ॥ ७॥
जात्या गुणेन क्रियया च सम्यग्
गतप्रमादो विदधद्विधेयम् ।
लभेत यत्तेन सदैव तुष्यन्
यतेत भाग्यार्पितकार्यकायः ॥ ८॥
निष्कामचित्तेन किलैकतानः
परामृशन्वस्तु गुरूपदिष्टम् ।
उदारभावो रचयेत सौख्यं
परं परेषामपि किं स्वनिष्ठम् ॥ ९॥
इति श्रीदुर्गाप्रसादद्विवेदीविरचितः आत्मोपदेशः सम्पूर्णः ॥
Encoded by Lalitha Mallikarjunan
Proofread by Lalitha Mallikarjunan, Kamini Viswanathan