अभयदानम्
अभयं सर्वभूतेभ्यो मतः सर्वं प्रवर्तते ॥
यं नत्वा मुनयश्चिरेप्सितपदं गच्छन्ति निर्विघ्नतः
यो वै सर्वगणाधिपः प्रभुरिति ख्यातः स्वयं निर्गुणः ।
तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः
सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ १॥
विद्याख्या परमेश्वरी भवति या मुख्या च भूमाप्तये
ब्रह्मैक्यं निजमूलमन्वयति यच्छिष्टं पदं प्राणिनाम् ।
तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः
सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ २॥
नाम्ना श्रीधर चिन्मयो धरति यो नित्यं च मोक्षश्रियम्
जीवानां तरणाय सद्गुरुरिति ख्यातः स्वयं शाश्वतः ।
तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः
सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ ३॥
यत्प्राप्तं सनकादिभिर्मुनिबरैः प्राप्तं शुकेनापि यत्
यन्नित्यं ह्युररीकृतं च खलु वे ब्रह्मादिभिर्दैवतैः ।
तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः
सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ ४॥
ओङ्कार व्यभजच्छ्रुतिर्बहुविधा ब्रूते चतुर्धाष्टधा
तुर्यं शुद्धमिति स्फुटं च परमं श्रीरामभद्रश्च यत् ।
तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः
सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ ५॥
न स्त्री नैव पुमानकाय इति यो ह्यात्मा च सर्वान्तरः
गोत्रं यस्य न लिङ्ग मस्ति न तथा वर्णो न वा ह्याश्रमः ।
तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः
सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ ६॥
सर्वात्मा श्रुतिरप्यहो वदति यज्ज्ञात्वा न शोकः पुनः
सर्वोपाधिविवर्जितं भवति यच्छान्तं पदं निर्गुणम् ।
तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः
सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ ७॥
भेदाभेदविभेदशून्यमिति यन्नास्ति द्वयं यस्य वै
सूक्ष्मात्सूक्ष्मतरं ह्यणुर्न महतो यद्वै महद्विश्रुतम् ।
तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः
सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ ८॥
अज्ञानेन विभाति दुःखमिति तन्नाशाय भोगभ्रमः
आनन्दोऽसि न भोगकर्म तव भो वाक्यैर्महद्भिः स्फुटम् ।
तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः
सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ ९॥
पक्षीवापि पशुः पिशाच मनुजा, गन्धर्वयक्षाः सुराः
आब्रह्मादिपिपीलिकान्तनृषु नो नारीषु भेदः क्वचित् ।
तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः
सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ १०॥
भीरस्तु द्वितयान्न सा खलु वसेज्ज्ञानैकमात्रे शिवे
स्वानन्दे विततेऽद्वये सुविमले सर्वात्मकेऽरूपतः ।
तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः
सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ ११॥
यत्पूर्व सकलस्य भिन्नमपि नो यस्मिन्विकारः क्वचित्
माया नास्ति न चेश जीवकलनाऽविद्या न यस्मिन्मिषत् ।
तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः
सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ १२॥
आनन्दोऽद्वय एक एव सततं ज्ञानैकमात्रोस्म्यहम्
कार्यं नाऽपि च कारणं किमपि वा ब्रह्माण्डपिण्डावपि ।
तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः
सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ १३॥
अभयं सर्वभूतेभ्यो मतः सर्वं प्रवर्तते ।
॥ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवता श्रीधरस्वामिना
विरचितं अभयदानं सम्पूर्णम् ॥
लेखनकाल दिनाङ्क २९-१०-१९४२
Abhayadana means giving a promise, assurance,
or guarantee of safety or protection to all the
beings. This is given by sannyAsi who is
granted sannyAsa by a Guru. It is also
considered as a greatest gift in Buddhism.