भ्रमराष्टकम्
गन्धाढ्यासौ भुवनविदिता केतकी स्वर्णवर्णा
पद्मभ्रान्त्या क्षुधितमधुपः पुष्यमध्ये पपात ।
अन्धीभूतः कुसुमरजसा कण्टकैश्चिन्नपक्षः
स्थातुं गन्तुं द्वयमपि सखे नैव शक्तो द्विरेफः ॥ १॥
गन्धाढ्यां नवमल्लिकां मधुकरस्त्यक्त्वा गतो यूथिकां
दैवात्ताञ्च विहाय चम्पकवनं पश्चात् सरोजङ्गतः ।
वङ्घस्तत्र निशाकरेण विधिना क्रन्दत्यसौ मूढधीः
सन्तोषेण विना पराभवपदं प्राप्नोति मूढो जनः ॥ २॥
येऽमी ते मुकुलोद्गमादनुदिनं त्वामाश्रिताः षट्पदा
स्ते भ्राम्यन्ति फलाद्वहिर्बहिरतो दृष्ट्वा न सम्भाषसे ।
ये कीटास्तवदृक्पथञ्च न गतास्ते त्वत्फलाभ्यन्तरे
धिक् त्वां चूत यतः परापरपरिज्ञानानभिज्ञो भवान् ॥ ३॥
नीतं जन्म नवीननीरजवने पीतं मधु स्वेच्छया
मालत्याः कुसुमेषु येन सततं केली कृता हेलया ।
तेनेयं मधुगन्धलुब्धमनसा गुञ्जालतां सेव्यते
हा धिग् दैवकृतं सएव मधुपः काङ्कां दशां नागतः ॥ ४॥
पलाशकुसुमभ्रान्त्या शुकतुण्डे मधुव्रतः ।
पतत्येष शुकोप्येनं जम्बुभ्रान्त्या जिघांसति ॥ ५॥
दृष्ट्वा स्फीतो भवदलिरसौ लेख्यपद्मं विशालं
चित्रं चित्रं किमिति किमिति व्याहरन् निष्पपात ।
नास्मिन् गन्धो नच मधुकणा नास्ति तत्सौकुमार्यं
घूर्णन्मूर्द्ध्ना बत नतशिरा व्रीडया निर्जगाम ॥ ६॥
अलिरसौ नलिनीवनवल्लभः
कुमुदिनीकुलकेलिकलारसः ।
विधिवशेन विदेशमुपागतः
कुटजपुष्परसं बहु मन्यते ॥ ७॥
रात्रिर्गमिष्यति भविष्यति सुप्रभातं
भास्वानुदेष्यति हसिष्यति पद्मजालम् ।
इत्थं विचिन्तयति कोषगते द्विरेफे
हा हन्त हन्त नलिनीं गज उज्जहार ॥ ८॥
इति भ्रमराष्टकं समाप्तम् ।
Encoded and proofread by Aaditya Kalyanaraman