वाल्मीकिप्रोक्तः महाभारततत्त्वोपदेशः

वाल्मीकिप्रोक्तः महाभारततत्त्वोपदेशः

वाल्मीकिरुवाच । वेदव्यास किमादौ त्वं श्रोतुमिच्छसि सम्प्रति । तदहं भारतादीनां वीजं ते प्रवदामि वै ॥ १॥ व्यास उवाच । कीदृशं भारतं नाम किं फलं तस्य तद्वद । केन वाहं करिष्यामि केन शक्तिर्भवेन्मम ॥ २॥ वाल्मीकिरुवाच । भारतं कृतवान् पूर्वं देवो नारायणः स्वयम् । रामायणं तस्य वीजं परात्परतरं मतम् ॥ ११॥ आदौ रामायणं देवो ब्रह्मणे दत्तवान् पुरा । दत्तञ्च ब्रह्मणा मह्यं श्लोकबद्धं मया कृतम् ॥ १२॥ विस्तारितञ्च रुचिरं वेदार्थसारसम्मतम् । पुनश्च भारतं कर्तुं ब्रह्मणा देशितोऽप्यहम् ॥ १३॥ नैव स्वीकृतवान् पूर्वं भारतं कर्तुमेव च । भारतस्य विधानाय त्वं नारायणनिर्मितः ॥ १४॥ रामायणाच्च विस्तीर्णं त्वं महाभारतं कुरु । रामायणपरीपाट्या त्वं महाभारतं कुरु ॥ १५॥ रामायणस्य काव्यस्य भारतस्य च वै मुने । विशेषात् श‍ृणु मद्वाक्यान्नारायणनिरूपितम् ॥ १६॥ एक एव स्वयं देवः परमात्मा विभुः प्रभुः । कालाकाशस्वरूपोऽसौ सुखदुःखविवर्जितः ॥ १७॥ सोऽयं मानुषतां गत्वा स्वेच्छया कमलापतिः । चिक्रीड जगतीमध्ये रक्षोवधच्छलेन वै ॥ १८॥ धर्मांश्च दर्शयामास वर्णाश्रमविभागशः । अहं तद्वर्णयिष्यामि काव्यं रामायणाह्वयम् ॥ १९॥ परमात्मस्वरूपस्य सीतानाथस्य चेष्टितम् । वर्णितं चैकरूपस्य तच्छरीरविशेषवत् ॥ २०॥ सएव देवो भगवान् कृष्णः कमललोचनः । जीवद्वितीयश्चिक्रीड़ भूभारक्षयहेतवे ॥ २१॥ जीवात्मपरमात्मानौ नरनारायणावुभौ । अर्जुनश्च तथा कृष्णस्तावेव स्वेच्छया स्थितौ ॥ २२॥ पञ्चानां पाण्डुपुत्राणां तृतीयो योऽर्जुनो नरः । कृष्णश्च देवकीपुत्रो वासुदेवोऽखिलार्त्तिहा ॥ २३॥ नारायणो वासुदेवो नरश्चैवार्जुनाह्वयः । नरनारायणमयं तन्महाभारतं विदुः ॥ २४॥ एकं नारायणमयं कृतं रामायणं मया । रामायणे भारते च विशेषोऽयमुदाहृतः ॥ २५॥ गोपनीयो ह्ययं पन्था न वाच्यं यस्य कस्यचित् ॥ २६॥ ईदृशं भारतं प्रोक्तं नरनारायणात्मकम् । भारतं परमं पुण्यं भारतं देवसम्मितम् । भारतं भवने यस्य तस्य हस्तगतो जयः ॥ २७॥ भारतस्य समुद्रस्य मेरोर्नारायणस्य च । अप्रमेयाणि चत्वारि पुण्यतोयगुहागुणाः ॥ २८॥ भारतस्यान्तरीक्षस्य कालस्य च हरेरपि । अप्रमेयाणिं चत्वारि भावः सीमा गतिः क्रिया ॥ २९॥ भारतस्य च गङ्गाया शिवस्य च हरेरपि । अप्रमेयाणि चत्वारि नामपुण्यार्थशक्तयः ॥ ३०॥ भारतं श्रूयते स्वर्गे भारतं श्रूयते क्षितौ । भारतं श्रूयते चैव पाताले परमादरैः ॥ ३१॥ भारते विविधा अर्था भारते विविधा कथा । भारते षड्दर्शनानि भारते धर्मसञ्चयाः ॥ ३२॥ न भारतमनाश्रित्य कथा काचित् प्रवर्त्तते । आहारमनपाश्रित्य शरीरस्येव धारणम् ॥ ३३॥ यद्रात्रौ कुरुते पापं ब्राह्मणस्त्विन्द्रियैश्चरन् । महाभारतमाख्याय पूर्वां सन्ध्यां विमुञ्चति ॥ ३४॥ यदह्ना कुरुते पापं ब्राह्मणस्त्विन्द्रियैश्चरन् । महाभारतमाख्याय सन्ध्यां मुञ्चति पश्चिमाम् ॥ ३५॥ पूजयेद्धारतं गेहे स्थापयेत् भारतं गेहे । दद्याच्च भारतं सद्भ्यः पठेदपि ॥ ३६॥ स एव परमश्रीमान् सार्थकं तस्य जन्म च । वृषोत्सर्गशतञ्चैव गयाश्राद्धशतं तथा ॥ ३७॥ राजसूयाश्चमेधौ च यज्ञो विपुलदक्षिणौ । सदक्षिणौ भारतस्य श्रवणं पाठ एव च । तुल्यान्येतानि कर्माणि मिथः प्रतिनिधीन्यपि ॥ ३८॥ दक्षिणा भारतस्यापि आत्मा सर्वस्वमेव च । सर्वस्वं भारते दद्यात् सर्वस्वं पितृमातृषु ॥ ३९॥ सर्वस्वं गुरुवे दद्यात् सर्वस्वं याचके क्रमात् । इत्येवं ते फलं प्रोक्तं भारतस्य समासतः ॥ ४०॥ ॥ इति बृहद्धर्मपुराणे त्रिंशत्तमोऽध्याये व्यासमहर्षे वाल्मिकीद्वारा (महा)भारततत्त्वोपदेशः सम्पूर्णः ॥ ॥ बृहद्धर्मपुराणम् । पूर्वखण्डः । अध्यायः ३०। १-४०॥
% Text title            : Advice on the (Maha)Bharata Composition Conveyed by Valimiki to Vyasa
% File name             : mahAbhAratatattvopadeshaHvAlmIkikRRitaH.itx
% itxtitle              : mahAbhAratatattvopadeshaH vAlmIkiproktaH (bRihaddharmapurANAntargataH)
% engtitle              : mahAbhAratatattvopadeshaH vAlmIkiproktaH
% Category              : misc, advice, vyAsa, bRihaddharmapurANam
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Valmiki
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : NA
% Description/comments  : Brihaddharmapuranam | pUrvakhaNDaH | adhyAyaH 30| 1\-40 ||
% Indexextra            : (Scan)
% Latest update         : March 27, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org