वाल्मीकिप्रोक्तः महाभारततत्त्वोपदेशः
वाल्मीकिरुवाच ।
वेदव्यास किमादौ त्वं श्रोतुमिच्छसि सम्प्रति ।
तदहं भारतादीनां वीजं ते प्रवदामि वै ॥ १॥
व्यास उवाच ।
कीदृशं भारतं नाम किं फलं तस्य तद्वद ।
केन वाहं करिष्यामि केन शक्तिर्भवेन्मम ॥ २॥
वाल्मीकिरुवाच ।
भारतं कृतवान् पूर्वं देवो नारायणः स्वयम् ।
रामायणं तस्य वीजं परात्परतरं मतम् ॥ ११॥
आदौ रामायणं देवो ब्रह्मणे दत्तवान् पुरा ।
दत्तञ्च ब्रह्मणा मह्यं श्लोकबद्धं मया कृतम् ॥ १२॥
विस्तारितञ्च रुचिरं वेदार्थसारसम्मतम् ।
पुनश्च भारतं कर्तुं ब्रह्मणा देशितोऽप्यहम् ॥ १३॥
नैव स्वीकृतवान् पूर्वं भारतं कर्तुमेव च ।
भारतस्य विधानाय त्वं नारायणनिर्मितः ॥ १४॥
रामायणाच्च विस्तीर्णं त्वं महाभारतं कुरु ।
रामायणपरीपाट्या त्वं महाभारतं कुरु ॥ १५॥
रामायणस्य काव्यस्य भारतस्य च वै मुने ।
विशेषात् शृणु मद्वाक्यान्नारायणनिरूपितम् ॥ १६॥
एक एव स्वयं देवः परमात्मा विभुः प्रभुः ।
कालाकाशस्वरूपोऽसौ सुखदुःखविवर्जितः ॥ १७॥
सोऽयं मानुषतां गत्वा स्वेच्छया कमलापतिः ।
चिक्रीड जगतीमध्ये रक्षोवधच्छलेन वै ॥ १८॥
धर्मांश्च दर्शयामास वर्णाश्रमविभागशः ।
अहं तद्वर्णयिष्यामि काव्यं रामायणाह्वयम् ॥ १९॥
परमात्मस्वरूपस्य सीतानाथस्य चेष्टितम् ।
वर्णितं चैकरूपस्य तच्छरीरविशेषवत् ॥ २०॥
सएव देवो भगवान् कृष्णः कमललोचनः ।
जीवद्वितीयश्चिक्रीड़ भूभारक्षयहेतवे ॥ २१॥
जीवात्मपरमात्मानौ नरनारायणावुभौ ।
अर्जुनश्च तथा कृष्णस्तावेव स्वेच्छया स्थितौ ॥ २२॥
पञ्चानां पाण्डुपुत्राणां तृतीयो योऽर्जुनो नरः ।
कृष्णश्च देवकीपुत्रो वासुदेवोऽखिलार्त्तिहा ॥ २३॥
नारायणो वासुदेवो नरश्चैवार्जुनाह्वयः ।
नरनारायणमयं तन्महाभारतं विदुः ॥ २४॥
एकं नारायणमयं कृतं रामायणं मया ।
रामायणे भारते च विशेषोऽयमुदाहृतः ॥ २५॥
गोपनीयो ह्ययं पन्था न वाच्यं यस्य कस्यचित् ॥ २६॥
ईदृशं भारतं प्रोक्तं नरनारायणात्मकम् ।
भारतं परमं पुण्यं भारतं देवसम्मितम् ।
भारतं भवने यस्य तस्य हस्तगतो जयः ॥ २७॥
भारतस्य समुद्रस्य मेरोर्नारायणस्य च ।
अप्रमेयाणि चत्वारि पुण्यतोयगुहागुणाः ॥ २८॥
भारतस्यान्तरीक्षस्य कालस्य च हरेरपि ।
अप्रमेयाणिं चत्वारि भावः सीमा गतिः क्रिया ॥ २९॥
भारतस्य च गङ्गाया शिवस्य च हरेरपि ।
अप्रमेयाणि चत्वारि नामपुण्यार्थशक्तयः ॥ ३०॥
भारतं श्रूयते स्वर्गे भारतं श्रूयते क्षितौ ।
भारतं श्रूयते चैव पाताले परमादरैः ॥ ३१॥
भारते विविधा अर्था भारते विविधा कथा ।
भारते षड्दर्शनानि भारते धर्मसञ्चयाः ॥ ३२॥
न भारतमनाश्रित्य कथा काचित् प्रवर्त्तते ।
आहारमनपाश्रित्य शरीरस्येव धारणम् ॥ ३३॥
यद्रात्रौ कुरुते पापं ब्राह्मणस्त्विन्द्रियैश्चरन् ।
महाभारतमाख्याय पूर्वां सन्ध्यां विमुञ्चति ॥ ३४॥
यदह्ना कुरुते पापं ब्राह्मणस्त्विन्द्रियैश्चरन् ।
महाभारतमाख्याय सन्ध्यां मुञ्चति पश्चिमाम् ॥ ३५॥
पूजयेद्धारतं गेहे स्थापयेत् भारतं गेहे ।
दद्याच्च भारतं सद्भ्यः पठेदपि ॥ ३६॥
स एव परमश्रीमान् सार्थकं तस्य जन्म च ।
वृषोत्सर्गशतञ्चैव गयाश्राद्धशतं तथा ॥ ३७॥
राजसूयाश्चमेधौ च यज्ञो विपुलदक्षिणौ ।
सदक्षिणौ भारतस्य श्रवणं पाठ एव च ।
तुल्यान्येतानि कर्माणि मिथः प्रतिनिधीन्यपि ॥ ३८॥
दक्षिणा भारतस्यापि आत्मा सर्वस्वमेव च ।
सर्वस्वं भारते दद्यात् सर्वस्वं पितृमातृषु ॥ ३९॥
सर्वस्वं गुरुवे दद्यात् सर्वस्वं याचके क्रमात् ।
इत्येवं ते फलं प्रोक्तं भारतस्य समासतः ॥ ४०॥
॥ इति बृहद्धर्मपुराणे त्रिंशत्तमोऽध्याये व्यासमहर्षे
वाल्मिकीद्वारा (महा)भारततत्त्वोपदेशः सम्पूर्णः ॥
॥ बृहद्धर्मपुराणम् । पूर्वखण्डः । अध्यायः ३०। १-४०॥