नमः कात्यायनाय

नमः कात्यायनाय

लेखकः - नन्दप्रदीप्तकुमारः नमोनमोऽस्तु शब्दाय वार्त्तिकाऽमलमूर्तये । श्रुतधराय शान्ताय कात्यायनाय योगिने ॥ संस्कृतव्याकरण-वाङ्मये कात्यायनः वार्तिककाररूपेण परिचयः प्राप्तः । असौ महात्मा महान् वैयाकरण आसीत् । अस्य ``वररुचिः'' इति नामान्तर आसीत् । महाराज-समुद्रगुप्तः कृष्णचरित्र- काव्ये मुनिकवि-वर्णनप्रसंगे अभाणि- ``यः स्वर्गारोहणं कृत्वा स्वर्गमानीतवान् भुवि । काव्येन रुचिरेणैव ख्यातो वररुचिः कविः ॥ न केवलं व्याकरणं पुपोष दाक्षीसुतस्येरितवार्तिकैर्यः । काव्येऽपि भूयोऽनु चकार तं वै कात्यायनोऽसौ कविकर्मदक्षः ॥ '' इति स्वर्गारोहणकाव्यकर्तुरस्य वार्तिककारस्य वररुचेश्च नानाश्लोकाः वैद्यकीये शार्ङ्गधरपद्धत्यां, सदुक्तिकर्णामृते एवं सुभाषितमुक्तावल्यादिग्रन्थेषु समुपलभ्यन्ते । क्वासौ कात्यायन इत्यस्मिन् विषये जिगमिषा जायते । कात्यायनशब्दो वस्तुतो गोत्रप्रत्ययान्तः सिध्यति । स्कन्दपुराणे एको याज्ञवल्क्य-पुत्रः कात्यायन आसीत् । तत्पुत्रो वररुचिः । सश्च विश्वामित्रवंशजो यज्ञविद्यायाः विलक्षणस्तथा श्रौत-गृह्य-शुल्यसूत्रादीनां सूत्रग्रन्थानां प्रणेता आसीत् । सोऽपि शुक्ल-यजुर्वेदस्य आंगिरसायनस्य वा कात्यायनशाखायाः प्रवर्तकः याज्ञवल्क्यस्य पौत्रत्वेन निरूपितः, यस्य समयः ख्री०पू०चतुर्थशताब्दी तृतीयशताब्दी वा मन्यते । महाभाष्ये- ``प्रियतद्धिता दाक्षिणात्याः'' (१/१/३) अनेन वाक्येन सः दाक्षिणात्य-प्रदेशीय इति वक्तुं शक्यते । अन्यत्र एको गोभिलपुत्रः कात्यायनो यः छान्दोग्यपरिशिष्टस्य कर्ता एव । अपरः प्राकृतप्रकाशकारः वररुचिर्यो वासवदत्तायाः रचनाकारः सुबन्धो मातुलः षष्ठशताब्दीय आसीत् । अन्येषु कात्यायनेषु एकः कौशिकगोत्रियः, अपरः आंगिरसगोत्रियः, अन्यश्च भार्गवगोत्रियः, श्रुताः । किन्तु वार्तिककारः कात्यायनः कात्यगोत्रिय कत्य-ऋषे अपत्यः ख्री०पू० पञ्चमशताब्दीय इति केचन द्रढयन्ति । अन्यत्र दृश्यते महर्षेः कात्यायनस्य कठोर-तपसा सन्तुष्टा सती स्वयमादिमाता भगवती तद्वंशे कन्यारूपेण समुत्पन्ना बभूव । कालान्तरे सा महिषासुरस्य विनाशं कृतवती । पुनः अन्य- मतानुसारं कात्यायनः दाक्षिणात्य-निवासी तथा पाणिनेः साक्षात् शिष्य आसीदिति । एतद्विषये महती शंका वर्तते । कथासरितसागरे सोमदेवभट्ट-मतानुसारं कात्यायनः कौशाम्बेः निवासी अभूत् । तस्य पिता सोमदत्तः माता च वसुदत्ता आस्ताम् । पूर्वजन्मनि सः पुष्पदन्तनामा गन्धर्व बभूव । माहेश्वरीशापात् मर्त्यभूमौ मानवरूपेण वररुचिनाम्ना जातः, यः खलु वर्षस्य शिष्य आसीत् । पाणिनिरपि वररुचेः गुरुभ्राता एव । यच्चोक्तं- ``प्रणिधानादथ ज्ञात्वा जगादैवमुमापतिः । योगी भूत्वा प्रविश्येदं पुष्पदन्तस्तदाश‍ृणोत् ॥ जयायै वर्णितं तेन कोऽन्यो जानाति हि प्रिये । श्रुत्वेत्यानाययद्देवी पुष्पदन्तमतिक्रुधा ॥ मर्त्यो भवाविनीतेति विह्वलं तं शशाप सा'' ---। इति नन्दि-विरोधसत्वेऽपि शिव-पार्वतीसम्बादं गुप्तभावेन योगबलेन पुष्पदन्तः श्रुतवान् । एतस्मात्कारणात् पार्वती शापिता तस्मै । स्कन्द-पुराणानुसारं पुरा याज्ञवल्क्यस्याश्रमः आनर्ते-गुजुराते आसीत् । पश्चात्तस्मिन् मिथिलायां गते तत्पुत्रः कात्यायनः महाराष्ट्रं प्रति प्रस्थितः । यदि वार्तिककारः कात्यायनस्य पौत्रोऽभूत्तर्हि पाणिनोत्तरवर्त्ती ज्ञायते, यदि पाणिनेः साक्षात् शिष्यस्तर्हि तस्य समकालीन एव ज्ञायते, इति महान् विवादस्य विषयः । वस्तुस्थितिदर्शनेन कात्यायनः पाणिनेः पूर्ववर्त्तीति निश्चेतुं शक्यते । संप्रति वररुचिप्रणीत-वार्त्तिकविषये संक्षेपत आलोच्यतेऽत्र । तत्र वार्त्तिकं नाम वृत्तिर्ग्रन्थसूत्रविवृतिः । तत्तु स्वतन्त्रतया नोपलभ्यते । वार्त्तिकस्वरूपं तु- ``उक्तानुक्तदुरुक्तानां चिन्ता यत्र प्रवर्तते । तं ग्रन्थं वार्त्तिकं प्राहुः वार्त्तिकज्ञाः मनीषिणः'' ॥ वृत्तिः+कथादिभ्यः ठक् । उक्तानुक्तदुरुक्तार्थव्यक्तीकारकग्रन्थो विशेषो वार्त्तिकः । यद्वा यत्र प्रागुक्त-अनुक्त-दुरुक्तादिविषयाणां विचारो विवक्ष्यते तत् वार्त्तिकमिति ख्यातम् । हेमचन्द्रेणापि हेमशब्दानुशासने ``उक्तानुक्तदुरुक्तानां व्यतिकारी तु वार्त्तिकम्'' उक्तम् । राजशेखरकृत-काव्यमीमांसायां च ``उक्तानुक्तदुरुक्तचिन्ता वार्त्तिकमि'' ति समर्थितम् । नागेशाचार्याः तत्कृत-उद्योतटीकायां ``उक्तानुक्तदुरुक्तचिन्ताकरत्वं'' वार्त्तिकत्वमाहुः । अनेन स्पष्टं प्रमाणीक्रियते यत् पाणिनिसूत्रकृतत्रिदोषपरिहाराय वररुचिना भगवता वार्त्तिकं प्रणीतम् । वार्त्तिकाणां संख्यानिर्द्धारणे न केनापि समर्थः, यतोहि भाष्यकारेण बहूनां वार्तिककाराणां मतानि नामानि च संगृहीतानि । यद्भवतु कात्यायनस्य वार्त्तिकं पाणिनीयव्याकरणस्य महत्वपूर्णमंगम् । वार्त्तिकं विना पाणिनीय-व्याकरणमसंपूर्णमेव । अत्याधुनिका वैयाकरणाः वररुचेः प्रथम-वार्त्तिकं ``सिद्धेः शब्दार्थसम्बधे'' प्राचीनाः ``रक्षोहागमलध्वसंन्देहाः प्रयोजनम्'' वा गृहीत्वा भगवता पतञ्जलिना महाभाष्यारम्भः विहितः इति स्वीकुर्वन्ति । सायणाचार्येण ऋग्वेदभाष्यारम्भे व्याकरणस्य प्रयोजनसम्बन्धे- ``तस्यैतस्य व्याकरणस्य प्रयोजनविशेषो वररुचिना वार्त्तिके दर्शितः ``रक्षोहागमलध्वसंन्देहाः प्रयोजनम्'' उक्तम् । ``एतानि रक्षादीनि प्रयोजनानि प्रयोजनान्तराणि च महाभाष्ये पतञ्जलिना स्पष्टीकृतानि'' । इति । कात्यायनः प्रकृतपक्षे पाणिनो न दोषद्रष्टा किन्तु समालोचक एवासीत् । पाणिनीयसूत्राणामपूर्णतामाकलय्य अत्यावश्यकरूपेण तेन वार्त्तिकाणां निर्माणं विहितम् । कुत्रापि पाणिनिं बोद्धुमसमर्थः सन् प्रतिकूल-मन्तव्यो विहितः सः । पश्चात् भाष्यकारः वररुचिमतं खण्डयित्वा पाणिनिं समर्थितवान् । कात्यायनविषयेऽत्र मया दिङ्मात्रं प्रदर्शितम् । अलमति विस्तरेण । शम् । --- लेखकः - नन्दप्रदीप्तकुमारः Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Text title            : NamaH Katyayanaya
% File name             : namaHkAtyAyanAya.itx
% itxtitle              : namaH kAtyAyanAya (lekhaH)
% engtitle              : namaHkAtyAyanAya
% Category              : misc, sahitya, article, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : May 13, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org