त्रिरङ्गाष्टकम्
शीर्षांशे रमणीयकुङ्कुमनिभो वर्णो सुशौर्यात्मको
मध्यांशे धवलः प्रशान्तचरितो यस्याः परिभ्राजते ।
निम्नांशे हरितं समृद्धिभरितं चिह्नं मनोरञ्जकं
वन्दे भारतभाग्यवर्धनरतां तां नस्त्रिरङ्गां सदा ॥ १॥
यस्यां राजति सुन्दरं बहुगुणं चक्रं स्वरापूरितं
द्यौर्वर्णाकलितं महायुधसमं नित्यं रिपुत्रासदम् ।
हिन्दुस्थानविकासवर्धनकरं राष्ट्रस्य शौर्यास्पदं
वन्दे भारतभाग्यवर्धनरतां नस्तां त्रिरङ्गां सदा ॥ २॥
मुक्ताकाशतले यदा चलति सा वै भारतीया मुदा
सङ्गीतेन तदीयभव्यललितं कुर्वन्ति सुस्वागतम् ।
तद्भावं सुखदं विकासभरितं जानाति राष्ट्रप्रियो
वन्दे भारतभाग्यवर्धनरतां तां नस्त्रिरङ्गां सदा ॥ ३॥
या स्तम्बाद् गगने प्रखेलति मुहू राष्ट्रोन्नतिस्थापिनी
यस्या रूपगुणादिको विजयते चित्तं नराणां क्षणात् ।
यां दृष्ट्वा परदेशशासकगणः शङ्काकुलः सर्वदा
वन्दे भारतभाग्यवर्धनरतां तां नस्त्रिरङ्गां सदा ॥ ४॥
या भूमौ परिराजते जनपदे कार्यालये वेश्मनि
संस्थाने जनमानसे प्रतिकरे यानेद्य भव्योत्सवे ।
तोये पोतगणे पुनश्च नभसि व्योमायने भासते
वन्दे भारतभाग्यवर्धनरतां तां नस्त्रिरङ्गां सदा ॥ ५॥
राष्ट्रं राष्ट्रपतिश्च राष्ट्रजनता राष्ट्रस्य मन्त्री वरो
राष्ट्रामात्यगणः प्रधानसचिवो राष्ट्रीयमन्त्रालयः ।
नेतारो हि दलस्य शासकगणो गायन्ति नत्वापि यां
वन्दे भारतभाग्यवर्धनरतां तां नस्त्रिरङ्गां सदा ॥ ६॥
राज्याणां प्रमुखाधिकारिनिकरस्तन्मुख्यमन्त्र्यादयः
सैन्याश्छात्रगणश्च शिक्षकततिर्न्यायालयास्याधिपाः ।
देशप्रेमिजना नमन्ति नितरां गीत्वा यदीयं यशो
वन्दे भारतभाग्यवर्धनरतां तां नस्त्रिरङ्गां सदा ॥ ७॥
वन्दे भारतमातरं बहुतरं तत्संविधानं मुदा
स्वाधीनाङ्कितराष्ट्रियं जनगणं रम्यं त्रिरङ्गध्वजम् ।
धर्माणां निरपेक्षतां नतशिरास् तत्सार्वभौमं प्रति
वन्दे लोकमतं प्रदेशनिकरं तद्-राष्ट्रगीतं सदा ॥ ८॥
इति श्रीव्रजकिशोरविरचितं त्रिरङ्गाष्टकं सम्पूर्णम् ।
Composed, encoded and proofread by Vrajakishora Tripathi.