आत्मविद्याविलासः २

आत्मविद्याविलासः २

यत्पादपद्ममकरन्दजुषां नराणां संसारघोरभुजगान्न भवेत्स्म भीतिः । सच्चिद्घनं सकलसौख्यलवाम्बुराशिं श्रीदक्षिणाभिमुखमूर्तिमजं भजेऽहम् ॥ १॥ एतावदेव खलु पुम्भिरवाप्तुमर्हं यच्चेतसो निलयनं निजतत्त्वबोधे । आक्रोशनं श्रुतिशिरांसि यदर्थमेव कुर्वन्ति येन हि भवेत्पुरुषः सुखाब्धिः ॥ २॥ मातेव पुत्रमनुबोधयति श्रुतिर्हि लोकं समस्तमपि योजयितुं सुखेन । तस्माच्छ्रुतेरभिहितार्थमतन्द्रितेन चित्तेन साधयितुमत्र जना यतध्वम् ॥ ३॥ आदाविदं सकलमेव जगत्सदासी- त्कुम्भादिवत्तदनु शक्तियुतात्परस्मात् । आकाशवायुदहनाम्बुभुवो बभूवु- र्वातप्रसक्तसलिलादिव वीचिपूरः ॥ ४॥ सूक्ष्माख्यभूतगतसत्त्वरजस्तमोभि- र्लिङ्गं शरीरमुदभूदत ईश्वरेच्छा । पञ्चीचकार वियदादिकभूतसूक्ष्मा- ण्यण्डं ह्यभूदत इदं सह जीवभोग्यैः ॥ ५॥ सृष्ट्वा जगत्सकलमेवमशेषकर्ता तत्प्राविशत्पुनरुपागतजीवभावः । विस्मृत्य सत्यसुखबोधमयस्वरूपं भ्रान्त्या भ्रमत्यनिशमस्तविवेकलेशः ॥ ६॥ इत्थं प्रमादवशतः परिमुह्यमानो देहात्मबुद्धिपरिकल्पितकर्मबन्धः । स्वर्गादिभोगगमनागमनातिखिन्नो लूतावदेष भवमभ्यगमच्चिदात्मा ॥ ७॥ मायायुतस्त्वगमदीश्वरतां चिदात्मा चाविद्यया युगभवद्भृतजीवभाव ॥ माया भवेद्विमलसत्त्वगुणप्रधाना प्रोक्ता मलापिहितसत्त्वगुणा त्वविद्या ॥ ८॥ एकोऽप्यनेक इव भाति शरीरभेदा- दात्मा घटादिगतभेदवशाद्वियद्वत् । देहेन्द्रियादिषु चलत्सु निजप्रकाशा- त्पूर्णोऽपि निश्चलतरोऽपि विकारवद्वत् ॥ ९॥ एवं भवार्णवनिमज्जनदुःखितेषु लोकेषु पूर्वजनिसञ्चितपुण्यपुञ्जैः । कश्चिद्विशुद्धमतिरेत्य गुरुं कृपाब्धिं प्राह प्रणम्य भवसागरलङ्घनेच्छुः ॥ १०॥ संसारघोरजलधौ भगवन्नपारे तापत्रयौघदहने सहजारिनक्रे । मोहाम्भसि प्रचलदुद्भवमृत्युभङ्गे वीक्ष्यान्तरस्मि पतितं जगदद्य भीतः ॥ ११॥ मातुः स्थितस्य जठरे वचसां च दूरं दुःखं पुनर्जननकालभवं दुरूह्यम् । बाल्येऽपि दुःखमविषह्यमवारणीय- मालोच्य भीतिरधुना महती ममोत्था ॥ १२॥ तारुण्यमेत्य कुलयौवनरूपसम्प- द्विद्यात्मगर्वपिहितात्महिताभिलाषः । विण्मूत्रमांसरुधिरास्थिमये शरीरे नार्या रुचिं समुपयाति जनो विचित्रम् ॥ १३॥ सर्वापदां निलयमेत्य वयोऽधिकत्वं जन्तुः सुखं न लभते ह्यपि किञ्चिदत्र । पुंसामिहास्ति न भयं खलु मृत्युतोऽन्य- द्धिक्कृत्य संसृतिमिमामभवं विरक्तः ॥ १४॥ स्वामिन्कथं मम भवार्णवलङ्घनं स्या- दायासलेशरहितं वद तत्र हेतुम् । श्रुत्वा तु शिष्यवचनं रमणीयमित्थं प्रत्युत्तरं गुरुरदात्कृतमन्दहासः ॥ १५॥ देहेन्द्रियासुहृदयादिकचैत्यवर्गा- त्प्रत्यक्चितेर्विभजनं भववारिराशेः । सन्तारणे प्लव इति श्रुतिडिण्डिमोऽयं तस्माद्विचारय जडाजडयोः स्वरूपम् ॥ १६॥ प्रत्यक्चितिर्वपुरिदं न भवेज्जडत्वा- त्कुड्यादिवज्जडतयाप्यसवो न चित्स्युः । नापीन्द्रियाणि करणं कुत एव चित्स्या- त्कुद्दालकादिवदिति प्रविचारय त्वम् ॥ १७॥ दृश्यत्वतो न मनसश्च भवेच्चितित्वं नाहङ्कृतिश्च परिणामवती चितिः स्यात् । बुद्धेरचित्त्वमपि जन्मविनाशवत्त्वा- च्चित्तं च दृश्यमचिदित्यनुचिन्तय त्वम् ॥ १८॥ बुद्ध्वा समस्तमपि दृश्यमचित्स्वरूपं प्रत्यक्चितिं च निजरूपतया विदित्वा । देहेन्द्रियाद्यखिलसाक्ष्यहमित्यजस्रं सञ्चिन्तय व्यपगताखिलसंशयः सन् ॥ १९॥ देहादिकं जगदसज्जडदुःखरूपं मय्यद्वितीयनिजबोधसदादिरूपे । सन्दृश्यते भ्रमवशाद्गगने निरंशे गन्धर्वपत्तनमिवेत्यनुभावय त्वम् ॥ २०॥ या चित्प्रभा त्वमिति मेयविभासयित्री यत्सङ्क्रमाद्घटपटाद्यवभासिका धीः । आब्रह्मकीटमहमित्यवभासमाना या सैव संविदिति चिन्तय सन्ततं त्वम् ॥ २१॥ जाग्रन्मुखत्रिविधधामसुसाक्षिणी या जाग्रन्मुखत्रिविधधाम विलक्षणाया । स्वप्नाद्यनुस्मृतिबलात्सततैकरूपा सैवाहमस्मि चितिरित्यवधारय त्वम् ॥ २२॥ नोदेति नास्तमुपयाति न वृद्धिमेति नैवोपयाति परिणाममपक्षयं वा । स्वाध्यस्तसर्वजननादिविकारसाक्षि- ण्येषा हि संविदिति चिन्तय सन्ततं त्वम् ॥ २३॥ मच्छेषतां समवलम्ब्य सुतादिसर्वं येन प्रियं भवति तेन सुखस्वरूपः । देहेन्द्रियादिविषयप्रलयैकसाक्षी यस्मात्ततः सदिति मे निजरूपमास्स्व ॥ २४॥ आदौ त्वमेव सदभूरविशेषरूप- स्त्वत्तोदितं जगदिदं सविशेषजातम् । त्वय्येव तिष्ठति तथा त्वयि चावसाने संलीयते जलनिधाविव बुद्बुदादिः ॥ २५॥ व्यापित्वहेतुबलतो न दिशास्ति मेऽन्तो नित्यत्वहेतुबलतश्च न कालतोऽन्तः । सार्वाथ्यहेतुबलतश्च न वस्तुतोऽन्त- स्तस्मादनन्तमिति मे निजरूपमास्स्व ॥ २६॥ एवं निरन्तरसमाधिवशान्निराधि- र्ज्ञानाग्निदग्धसहकारणजन्मबीजः । आविर्भवन्निजसुखानुभवैकतृप्तो ब्रह्मैव नूनमिह सम्भवसि ध्रुवं त्वम् ॥ २७॥ इत्थं गिरा विमलया परसौख्यदात्र्या वाचा गुरोर्विमथिताखिलसंशयौघः । शिष्यः समाधिपरिशीलनतीक्ष्णदिव्य- ज्ञानासिखण्डितभवाख्यविषद्रुमोऽभूत् ॥ २८॥ स्वानन्दमप्रतिहतं परिभुज्य हर्षा- दश्रुप्रपूर्णनयनः पुलकाङ्गिताङ्गः । शिष्यः सगद्गदमुवाच गुरुं घृणाब्धिं नत्वा तदङ्घ्रियुगलं विनयोपयुक्तः ॥ २९॥ स्वामिन्भवद्वचनदिव्यसुधाभिषिक्त- स्वानन्दमञ्जुनगरे विहरामि नित्ये । अज्ञानदुर्हृदमतीव शितेन सम्य- ग्ज्ञानासिना परिविलूय सहानुजातम् ॥ ३०॥ गच्छामि कुत्र किमहं करवाणि किं वा गृह्णामि किं परिजहामि मयि प्रपूर्णे । निर्व्याजसौख्यजलधौ परिदृश्यमानं फेनादिकं जगदिति स्थिरनिश्चयो मे ॥ ३१॥ मायाभिधो जलधरो जगदाख्यमम्बु वर्षत्वनेन मम चिद्वपुषः क्षतिः का । लाभोऽपि वा क इति सन्ततमात्मरूपं सञ्चिन्तयन्स्थिरमतिर्विहरामि नित्ये ॥ ३२॥ वाक्कायमानसभवं सकलं हि कर्म प्रोक्तं शुभाशुभमयं न ततोऽस्ति भिन्नम् । वागादिसाक्षिणि कथं मयि निर्मले स्या- त्कर्मद्वयं तदुदितं जननादिकं वा ॥ ३३॥ व्यावृत्तरूपमिदमेव जगद्विभिन्नं ज्ञानं त्वभिन्नमनुवृत्ततयाखिलेषु । ज्ञानं च भिन्नमिति चेज्जडतादिदोष- प्राप्तिर्भवेच्छ्रुतिशिरांसि न तं सहन्ते ॥ ३४॥ नैवेन्द्रियाणि विषयेषु नियोजयामि प्राग्वासनावशत एव हि तानि यान्ति । स्वान्गोचरान्प्रति ममास्ति न साक्षितापि सा साक्ष्यभेदकलिता खलु सोऽप्यसत्यः ॥ ३५॥ भेदोऽपि साक्ष्यगत एव न साक्षिणो मे भेदस्य साक्षिणि कथं प्रभवेत्स भेदः । भेदो न सुप्तिसमयेऽनुपलम्भनाच्च सन्नास्तिता न इह दृष्टतया न वाच्या ॥ ३६॥ विश्वं सदेतदिति कार्यकरत्वहेतो- र्यद्यस्य सत्त्वमिह साधयितुं यतेथाः । तर्ह्यत्र रज्जुभुजगाद्यपि सद्बलात्स्या- त्सत्यत्वहेतुरिदमाहुरबाधितत्वम् ॥ ३७॥ कीदृग्विधं जगदये वद सत्त्वचित्त्या- द्याकारहीनमिति पृष्टवतेऽस्ति मह्यम् । प्रत्युत्तरं किमिति ते तव मौनमेव प्रत्युत्तरं भवति मां प्रति गच्छ जाल्म ॥ ३८॥ ज्ञानाग्निदग्धमपि भाति जगद्विचित्रं यच्च ध्वनिभ्रमवतः सविशेषबोधात् । तस्मिन्भ्रमे विमथितेऽपि तथैव भाति दिग्वत्यथो मम च तद्वदतो न सत्तत् ॥ ३९॥ भूमिं जले तदपि तेजसि तच्च वायौ तं व्योम्नि तत्त्रिगुणया सह मय्यनन्ते । पूर्णे विलाप्य परिशिष्टमखण्डसंवि- त्स्वानन्दरूपमनुभूय रमेऽहमद्य ॥ ४०॥ अज्ञानतन्निरसने मयि बोधरूपे स्यातां कथं तिमिरतद्विरती इवार्के । बन्धश्च मोक्ष इति कल्पनमप्यसत्यं भ्रान्त्यैव भात्यखिलसाक्षिणि नित्यमुक्ते ॥ ४१॥ आरब्धकर्मणि च भोगत एव नष्टे प्राणादयोऽपि मम नोत्क्रमितुं समर्थाः । तप्ताग्निनिष्ठजतुवन्मथि पूर्णबोधे लीना भवन्ति न पुनर्जननादिकं स्यात् ॥ ४२॥ आम्नायमस्तकसुसंस्कृतवैभवोऽहं व्योम्नोऽपि पूर्णतममूर्तिरहं स्थितोऽहम् । सर्वालयोऽहमहमाद्यवभासकोऽहं वागाद्यगोचरसदोदितसौख्यकोऽहम् ॥ ४३॥ इति श्रीसदाशिवेन्द्रसरस्वत्या विरचितः आत्मविद्याविलासः (२) सम्पूर्णः ॥ Proofread by Sunder Hattangadi
% Text title            : Atma-Vidya-Vilasa 2
% File name             : AtmavidyAvilAsaH2.itx
% itxtitle              : AtmavidyAvilAsaH 2 (sadAshivendravirachitaH yatpAdapadmamakarandajuShAM narANAM)
% engtitle              : AtmavidyAvilAsaH 2
% Category              : major_works, sadAshivabrahmendra
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : Sadashivendra Sarasvati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi
% Indexextra            : (Scan)
% Latest update         : December 2, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org