नाट्यशास्त्रम् अध्यायः २
॥ श्रीरस्तु ॥
भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ भारतीये नाट्यशास्त्रे द्वितीयोऽध्यायः ।
भरतस्य वचः श्रुत्वा पप्रच्छुर्मुनयस्ततः ।
भगवन् श्रोतुमिच्छामो यजनं रङ्गसंश्रयम् ॥ १॥
अथ वा या क्रियास्तत्र लक्षणं यच्च पूजनम् ।
भविष्यद्भिर्नरैः कार्यं कथं तन्नाट्यवेश्मनि ॥ २॥
इहादिर्नाट्ययोगस्य नाट्यमण्डप एव हि ।
तस्मात्तस्यैव तावत्त्वं लक्षणं वक्तुमर्हसि ॥ ३॥
तेषां तु वचनं श्रुत्वा मुनीनां भरतोऽब्रवीत् ।
लक्षणं पूजनं चैव श्रूयतां नाट्यवेश्मनः ॥ ४॥
दिव्यानां मानसी सृष्टिर्गृहेषूपवनेषु च ।
(यथा भावाभिनिर्वर्त्याः सर्वे भावास्तु मानुषाः ॥)
नराणां यत्नतः कार्या लक्षणाभिहिता क्रिया ॥ ५॥
श्रूयतां तद्यथा यत्र कर्तव्यो नाट्यमण्डपः ।
तस्य वास्तु च पूजा च यथा योज्या प्रयत्नतः ॥ ६॥
इह प्रेक्ष्यागृहं दृष्ट्वा धीमता विश्वकर्मणा ।
त्रिविधः सन्निवेशश्च शास्त्रतः परिकल्पितः ॥ ७॥
विकृष्टश्चतुरश्रश्च त्र्यश्रश्चैव तु मण्डपः ।
तेषां त्रीणि प्रमाणानि ज्येष्ठं मध्यं तथाऽवरम् ॥ ८॥
प्रमाणमेषां निर्दिष्टं हस्तदण्डसमाश्रयम् ।
शतं चाष्टौ चतुःषष्टिर्हस्ता द्वात्रिंशदेव च ॥ ९॥
अष्टाधिकं शतं ज्येष्ठं चतुःषष्टिस्तु मध्यमम् ।
कनीयस्तु तथा वेश्म हस्ता द्वात्रिंशदिष्यते ॥ १०॥
देवानां तु भवेज्ज्येष्ठं नृपाणां मध्यमं भवेत् ।
शेषाणां प्रकृतीनां तु कनीयः संविधीयते ॥ ११॥
(प्रेक्षागृहाणां सर्वेषां प्रशस्तं मध्यमं स्मृतम् ।
तत्र पाठ्यं च गेयं च सुखश्राव्यतरं भवेत् ॥
प्रेक्षागृहाणां सर्वेषां त्रिप्रकारो विधिः स्मृतः ।
विकृष्टश्चतुरस्रश्च त्र्यस्रश्चैव प्रयोक्तृभिः ॥
कनीयस्तु स्मृतं त्र्यस्रं चतुरस्रं तु मध्यमम् ।
ज्येष्ठं विकृष्टं विज्ञेयं नाट्यवेदप्रयोक्तृभिः ॥)
प्रमाणं यच्च निर्दिष्टं लक्षणं विश्वकर्मणा ।
प्रेक्षागृहाणां सर्वेषां तच्चैव हि निबोधत ॥ १२॥
अणू रजश्च वालश्च लिक्षा यूका यवस्तथा ।
अङ्गुलं च तथा हस्तो दण्डश्चैव प्रकीर्तितः ॥ १३॥
अणवोऽष्टौ रजः प्रोक्तं तान्यष्टौ वाल उच्यते ।
वालास्त्वष्टौ भवेल्लिक्षा यूका लिक्षाष्टकं भवेत् ॥ १४॥
यूकास्त्वष्टौ यवो ज्ञेयो यवास्त्वष्टौ तथाङ्गुलम् ।
अङ्गुलानि तथा हस्तश्चतुर्विंशतिरुच्यते ॥ १५॥
चतुर्हस्तो भवेद्दण्डो निर्दिष्टस्तु प्रमाणतः ।
अनेनैव प्रमाणेन वक्ष्याम्येषां विनिर्णयम् ॥ १६॥
चतुःषष्टिकरान्कुर्याद्दीर्घत्वेन तु मण्डपम् ।
द्वात्रिंशतं च विस्तारन्मर्त्यानां यो भवेदिह ॥ १७॥
अत ऊर्ध्वं न कर्तव्यः कर्तृभिर्नाट्यमण्डपः ।
यस्मादव्यक्तभावं हि तत्र नाट्यं व्रजेदिति ॥ १८॥
मण्डपे विप्रकृष्टे तु पाठ्यमुच्चारितस्वरम् ।
अनिस्सरणधर्मत्वाद्विस्वरत्वं भृशं व्रजेत् ॥ १९॥
यश्चाप्यास्यगतो भावो नानादृष्टिसमन्वितः
स वेश्मनः प्रकृष्टत्वाद् व्रजेदव्यक्ततां पराम् ॥ २०॥
प्रेक्षागृहाणां सर्वेषां तस्मान्मध्यममिष्यते ।
यावत्पाठ्यं च गेयं च तत्र श्रव्यतरं भवेत् ॥ २१॥
[प्रेक्षागृहाणां सर्वेषां त्रिप्रकारो विधिः स्मृतः ।
विकृष्टश्चतुरस्रश्च त्र्यस्रश्चैव प्रयोक्तृभिः ॥)
कनीयस्तु स्मृतं त्र्यस्रं चतुरस्रं तु मध्यमम् ।
ज्येष्ठं विकृष्टं विज्ञेयं नाट्यवेदप्रयोक्तृभिः ]॥
देवानां मानसी सृष्टिर्गृहेषूपवनेषु च ।
यत्नभावाभिनिष्पन्नाः सर्वे भावा हि मानुषा ॥ २२॥
तस्माद्देवकृतैर्भावैर्न विस्पर्धेत मानुषः ।
मानुषस्य तु गेहस्य सम्प्रवक्ष्यामि लक्षणम् ॥ २३॥
भूमेर्विभागं पूर्वं तु परीक्षेत प्रयोजक ।
ततो वास्तु प्रमाणेन प्रारभेत शुभेच्छया ॥ २४॥
समा स्थिरा तु कठिना कृष्णा गौरी च या भवेत् ।
भूमिस्तत्रैव कर्तव्यः कर्तृभिर्नाट्यमण्डपः ॥ २५॥
प्रथमं शोधनं कृत्वा लाङ्गलेन समुत्कृषेत् ।
अस्थिकीलकपालानि तृणगुल्मांश्च शोधयेत् ॥ २६॥
शोधयित्वा वसुमतीं प्रमाणं निर्दिशेत्ततः ।
(त्रीण्युत्तराणि सौम्यं च विशाखापि च रेवती ।,
हस्तितिष्यानुराधाश्च प्रशस्ता नाट्यकर्मणि ।)
पुष्यनक्षत्रयोगेन शुक्लं सूत्रं प्रसारयेत् ॥ २७॥
कार्पासं बाल्बजं वापि मौञ्जं वाल्कलमेव च ।
सूत्रं बुधैस्तु कर्तव्यं यस्य च्छेदो न विद्यते ॥ २८॥
अर्धच्छिन्ने भवेत्सूत्रे स्वामिनो मरणं ध्रुवम् ।
त्रिभागच्छिन्नया रज्वा राष्ट्रकोपो विधीयते ॥ २९॥
छिन्नायां तु चतुर्भागे प्रयोक्तुर्नाश उच्यते ।
हस्तात्प्रभ्रष्टया वापि कश्चित्वपचयो भवेत् ॥ ३०॥
तस्मान्नित्यं प्रयत्नेन रज्जुग्रहणमिष्यते ।
कार्यं चैव प्रयत्नेन मानं नाट्यगृहस्य तु ॥ ३१॥
मुहूर्तेनानुकूलेन तिथ्या सुकरणेन च ।
ब्राह्मणांस्तर्पयित्वा तु पुण्याहं वाचयेत्ततः ॥ ३२॥
शान्तितोयं ततो दत्त्वा ततः सूत्रं प्रसारयेत् ।
चतुष्षष्टिकरान्कृत्वा द्विधा कुर्यात्पुनश्च तान् ॥ ३३॥
पृष्ठतो यो भवेद्भागो द्विधाभूतस्य तस्य तु ।
सममर्धविभागेन रङ्गशीर्षं प्रकल्पयेत् ॥ ३४॥
पश्चिमे च विभागेऽथ नेपथ्यगृहमादिशेत् ।
विभज्य भागान्विधिवद्ययथावदनुपूर्वशः ॥ ३५॥
शुभे नक्षत्रयोगे च मण्डपस्य निवेशनम् ।
शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गपणवादिभिः ॥ ३६॥
सर्वातोद्यैः प्रणुदितैः स्थापनं कार्यमेव तु ।
उत्सार्याणि त्वनिष्टानि पाषण्ड्याश्रमिणस्तथा ॥ ३७॥
काषायवसनाश्चैव विकलाश्चैअव ये नराः ।
निशायां च बलिः कार्या नानाभोजनसंयुतः ॥ ३८॥
गन्धपुष्पफलोपेता दिशो दश समाश्रितः ।
पूर्वेण शुक्लान्नयुतो नीलान्नो दक्षिणेन च ॥ ३९॥
पश्चिमेन बलिः पीतो रक्तश्चैवोत्तरेण तु ।
यादृशं दिशि यस्यां तु दैवतं परिकल्पितम् ॥ ४०॥
तादृशस्तत्र दातव्यो बलिर्मन्त्रपुरस्कृतः ।
स्थापने ब्राह्मणेभ्यश्च दातव्यं घृतपायसम् ॥ ४१॥
मधुपर्कस्तथा राज्ञे कर्तृभ्यश्च गुडौदनम् ।
नक्षत्रेण तु कर्तव्यं मूलेन स्थापनं बुधैः ॥ ४२॥
मुहूर्तेनानुकूलेन तिथ्या सुकरणेन च ।
एवं तु स्थापनं कृत्वा भित्तिकर्म प्रयोजयेत् ॥ ४३॥
भित्तिकर्मणि निर्वृत्ते स्तम्भानां स्थापनं ततः ।
तिथिनक्षत्रयोगेन शुभेन करणेन च ॥ ४४॥
स्तम्भानां स्थापनं कार्यं रोहिण्या श्रवणेन वा ।
आचार्येण सुयुक्तेन त्रिरात्रोपोषितेन च ॥ ४५॥
स्तम्भानां स्थापनं कार्यं प्राप्ते सूर्योदये शुभे ।
प्रथमे ब्राह्मणस्तम्भे सर्पिस्सर्षपसंस्कृतः ॥ ४६॥
सर्वशुक्लो विधिः कार्यो दद्यात्पायसमेव च ।
ततश्च क्षत्रियस्तम्भे वस्त्रमाल्यानुलेपनम् ॥ ४७॥
सर्व रक्तं प्रदातव्यं द्विजेभ्यश्च गुडौदनम् ।
वैश्यस्तम्भे विधिः कार्यो दिग्भागे पश्चिमोत्तरे ॥ ४८॥
सर्वं प्रीतं प्रदातव्यं द्विजेभ्यश्च घृतौदनम् ।
शूद्रस्तम्भे विधिः कार्यः सम्यक्पूर्वोत्तराश्रये ॥ ४९॥
नीलप्रायं प्रयत्नेन कूसरं च द्विजाशनम् ।
पूर्वोक्तब्राह्मणस्तम्भे शुक्लमाल्यानुलेपने ॥ ५०॥
निक्षिपेत्कनकं मूले कर्णाभरणसंश्रयम् ।
ताम्रं चाधः प्रदातव्यं स्तम्भे क्षत्रियसंज्ञके ॥ ५१॥
वैश्यस्तम्भस्य मूले तु रजतं सम्प्रदापयेत् ।
शूद्रस्तम्भस्य मूले तु दद्यादायसमेव च ॥ ५२॥
सर्वेष्वेव तु निक्षेप्यं स्तम्भमूलेषु काञ्चनम् ।
स्वस्तिपुण्याहघोषेण जयशब्देन चैव हि ॥ ५३॥
स्तम्भानां स्थापनं कार्यं पुष्पमालापुरस्कृतम् ।
रत्नदानैः सगोदानैर्वस्त्रदानैरनल्पकैः ॥ ५४॥
ब्राह्मणांस्तर्पयित्वा तु स्तम्भानुत्थापयेत्ततः ।
अचलं चाप्यकम्पञ्च तथैवावलितं पुनः ॥ ५५॥
स्तम्भस्योत्थापने सम्यग्दोषा ह्येते प्रकीर्तिताः ।
अवृष्टिरुक्ता चलने वलने मृत्युतो भयम् ॥ ५६॥
कम्पने परचक्रात्तु भयं भवति दारुणम् ।
दोषैरेतैर्विहीनं तु स्तम्भमुत्थापयेच्छिवम् ॥ ५७॥
पवित्रे ब्राह्मणस्तम्भे दातव्या दक्षिणा च गौः ।
शेषाणां भोजनं कार्यं स्थापने कर्तृसंश्रयम् ॥ ५८॥
मन्त्रपूतं च तद्देयं नाट्याचार्येण धीमता ।
पुरोहितं नृपं चैव भोजयेन्मधुपायसैः ॥ ५९॥
कर्तॄनापि तथा सर्वान्कृसरां लवणोत्तराम् ।
सर्वमेवं विधिं कृत्वा सर्वातोद्यैः प्रवादितैः ॥ ६०॥
अभिमन्त्र्य यथान्यायं स्तम्भानुत्थापयेच्छुचिः ।
'यथाऽचलो गिरिर्मेरुर्हिमवांश्च महाबलः ॥ ६१॥
जयावहो नरेन्द्रस्य तथा त्वमचलो भव ।'
स्तम्भद्वारं च भित्तिं च नेपथ्यगृहमेव च ॥ ६२॥
एवमुत्थापयेतज्ज्ञो विधिदृष्टेन कर्मणा ।
रङ्गपीठस्य पार्श्वे तु कर्तव्या मत्तवारणी ॥ ६३॥
चतुस्तम्भसमायुक्ता रङ्गपीठप्रमाणतः ।
अध्यर्धहस्तोत्सेधेन कर्तव्या मत्तवारणी ॥ ६४॥
उत्सेधेन तयोस्तुल्यं कर्तव्यं रङ्गमण्डपम् ।
तस्यां माल्यं च धूपं च गन्धं वस्त्रं तथैव च ॥ ६५॥
नानावर्णानि देयानि तथा भूतप्रियो बलिः ।
आयसं तत्र दातव्यं स्तम्भानां कुशैलैरधः ॥ ६६॥
भोजने कृसराश्चैव दातव्यं ब्राह्मणाशनम् ।
एवं विधिपुरस्कारैः कर्तव्या मत्तवारणी ॥ ६७॥
रङ्गपीठं ततः कार्यं विधिदृष्टेण कर्मणा ।
रङ्गशीर्षस्तु कर्तव्यं षड्दारुकसमन्वितम् ॥ ६८॥
कार्यं द्वारद्वयं चात्र नेपथ्यगृहकस्य तु ।
पूरणे मृत्तिका चात्र कृष्णा देया प्रयत्नतः ॥ ६९॥
लाङ्गलेन समुत्कृष्य निर्लोष्टतृणशर्करम् ।
लाङ्गले शुद्धवर्णो तु धुर्यो योज्यौ प्रयत्नतः ॥ ७०॥
कर्तारः पुरुषश्चात्र येऽङ्गदोषविविर्जिताः ।
अहीनाङ्गैश्च वोढव्या मृत्तिका पिटकैर्नवैः ॥ ७१॥
एवंविधैः प्रकर्तव्यं रङ्गशीर्षं प्रयत्नतः ।
कूर्मपृष्ठं न कर्तव्यं मत्स्यपृष्ठं तथैव च ॥ ७२॥
शुद्धादर्शतलाकारं रङ्गशीर्षं प्रशस्यते ।
रत्नानि चात्र देयानि पूर्वे वज्रं विचक्षणैः ॥ ७३॥
वैडूर्यं दक्षिणे पार्श्वे स्फटिकं पश्चिमे तथा ।
प्रवालमुत्तरे चैव मध्ये तु कनकं भवेत् ॥ ७४॥
एवं रङ्गशिरः कृत्वा दारुकर्म प्रयोजयेत् ।
ऊहप्रत्यूहसंयुक्तः नानाशिल्पप्रयोजितम् ॥ ७५॥
नानासञ्जवनोपेतं बहुव्यालोपशोभितम् ।
ससालभञ्जिकाभिश्च समन्तात्समलङ्कृतम् ॥ ७६॥
निर्व्यूहकुहरोपेतं नानाग्रथितवेदिकम् ।
नानाविन्याससंयुक्तं चित्रजालगवाक्षकम् ॥ ७७॥
सुपीठधारिणीयुक्तं कपोतालीसमाकुलम् ।
नानाकुट्टिमविन्यस्तैः स्तम्भैश्चाप्युपशोभितम् ॥ ७८॥
एवं काष्ठविधिं कृत्वा भित्तिकर्म प्रयोजयेत् ।
स्तम्भं वा नागदन्तं वा वातायनमथापि वा ॥ ७९॥
कोणं वा सप्रतिद्वारं द्वारविद्धं न कारयेत् ।
कार्यः शैलगुहाकारो द्विभूमिर्नाट्यमण्डपः ॥ ८०॥
मन्दवातायनोपेतो निर्वातो धीरशब्दवान् ।
तस्मान्निवातः कर्तव्यः कर्तृभिर्नाट्यमण्डपः ॥ ८१॥
गम्भीरस्वरता येन कुतपस्य भविष्यति ।
भित्तिकर्मविधिं कृत्वा भित्तिलेपं प्रदापयेत् ॥ ८२॥
सुधाकर्म बहिस्तस्य विधातव्यं प्रयत्नतः ।
भित्तिष्वथ विलिप्तासु परिमृष्टासु सर्वतः ॥ ८३॥
समासु जातशोभासु चित्रकर्म प्रयोजयेत् ।
चित्रकर्मणि चालेख्याः पुरुषाः स्रीजनास्तथा ॥ ८४॥
लताबन्धाश्च कर्तव्याश्चरितं चात्म्भोगजम् ।
एवं विकृष्टं कर्तव्यं नाट्यवेश्म प्रयोक्तृभिः ॥ ८५॥
पुनरेव हि वक्ष्यामि चतुरश्रस्य लक्षणम् ।
समन्ततश्च कर्तव्या हस्ता द्वात्रिंशदेव तु ॥ ८६॥
शुभभूमिविभागस्थो नाट्यज्ञैर्नाट्यमण्डपः ।
यो विधिः पूर्वमुक्तस्तु लक्षणं मङ्गलानि च ॥ ८७॥
विकृष्टे तान्यशेषाणि चतुरश्रेऽपि कारयेत् ।
चतुरश्रं समं कृत्वा सूत्रेण प्रविभज्य च ॥ ८८॥
बाह्यतः सर्वतः कार्या भित्तिः श्लिष्टेष्टका दृढा ।
तत्राभ्यन्तरतः कार्या रङ्गपीठोपरि स्थिताः ॥ ८९॥
दश प्रयोक्तृभिः स्तम्भाः शक्ता मण्डपधारणे ।
स्तम्भानां बाह्यतश्चापि सोपानाकृति पीठकम् ॥ ९०॥
इष्टकादारुभिः कार्यं प्रेक्षकाणां निवेशनम् ।
हस्तप्रमाणैरुत्सेधैर्भूमिभागसमुत्थितैः ॥ ९१॥
रङ्गपीठावलोक्यं तु कुर्यादासनजं विधिम् ।
षडन्यानन्तरे चैव पुनः स्तम्भान्यथादिशम् ॥ ९२॥
विधिना स्थापयेतज्ञो दृढान्मण्डपधारणे ।
अष्टौ स्तम्भान्पुनश्चैव तेषामुपरि कल्पयेत् ॥ ९३॥
स्थाप्यं चैव ततः पीठमष्टहस्तप्रमाणतः ।
विद्धास्यमष्टहस्तं च पीठं तेषु ततो न्यसेत् ॥ ९४॥
तत्र स्तम्भाः प्रदातव्यास्तज्ञैर्मण्डपधारणे ।
धारणीधारणास्ते च शालस्त्रीभिरलङ्कृताः ॥ ९५॥
नेपथ्यगृहकं चैव ततः कार्यं प्रयत्नतः ।
द्वारं चैकं भवेत्तत्र रङ्गपीठप्रवेशनम् ॥ ९६॥
जनप्रवेशनं चान्यदाभिमुख्येन कारयेत् ।
रङ्गस्याभिमुखं कार्यं द्वितीयं द्वारमेव तु ॥ ९७॥
अष्टहस्तं तु कर्तव्यं रङ्गपीठं प्रमाणतः ।
चतुरश्रं समतलं वेदिकासमलङ्कृतम् ॥ ९८॥
पूर्वप्रमाणनिर्दिष्टा कर्तव्या मत्तवारणी ।
चतुःस्तम्भसमायुक्ता वेदिकायास्तु पार्श्वतः ॥ ९९॥
समुन्नतं समं चैव रङ्गशीर्षं तु कारयेत् ।
विकृष्टे तून्नतं कार्यं चतुरश्रे समं तथा ॥ १००॥
एवमेतेन विधिना चतुरश्रं गृहं भवेत् ।
अतः परं प्रवक्ष्यामि त्र्यश्रगेहस्य लक्षणम् ॥ १०१॥
त्र्यश्रं त्रिकोणं कर्तव्यं नाट्यवेश्मप्रयोक्तृभिः ।
मध्ये त्रिकोणमेवास्य रङ्गपीठं तु कारयेत् ॥ १०२॥
द्वारं तैनैव कोणेन कर्तव्यं तस्य वेश्मनः ।
द्वितीयं चैव कर्तव्यं रङ्गपीठस्य पृष्ठतः ॥ १०३॥
विधिर्यश्चतुरश्रस्य भित्तिस्तम्भसमाश्रयः ।
स तु सर्वः प्रयोक्तव्यस्त्र्यश्रस्यापि प्रयोक्तृभिः ॥ १०४॥
एवमेतेन विधिना कार्या नाट्यगृहा बुधैः ।
पुनरेषां प्रवक्ष्यामि पूजामेवं यथाविधिः ॥ १०५॥
इति भारतीये नाट्यशास्त्रे मण्डपविधानो नाम द्वितीयोऽध्यायः ॥
Encoded by Padmakar Dadegaonkar dadegaonkar@yahoo.com