॥ नाट्यशास्त्रम् अध्याय १२ गतिप्रचार ॥

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ द्वादशोऽध्यायः गतिप्रचार एवं व्यायामसंयोगे कार्यं मण्डलकल्पनम् । अतः परं प्रवक्ष्यामि गतीस्तु प्रकृतिस्थिताः ॥ १॥ तत्रोपवहनं कृत्वा भाण्डवाद्यपुरस्कृतम् । यथामार्गरसोपेतं प्रकृतीनां प्रवेशने ॥ २॥ ध्रुवायां सम्प्रयुक्तायां पटे चैवापकर्षिते । कार्यः प्रवेशः पात्राणां नानार्थरससम्भवः ॥ ३॥ स्थानं तु वैष्णवं कृत्वा ह्युत्तमे मध्यमे तथा । समुन्नतं समं चैव चतुरस्रमुरस्तथा ॥ ४॥ बाहुशीर्षे प्रसन्ने च नात्युत्क्षिप्ते च कारयेत् । ग्रीवाप्रदेशः कर्तव्यो मयूराञ्चितमस्तकः ॥ ५॥ कर्णादष्टाङ्गुलस्थे च बाहुशीर्षे प्रयोजयेत् । उरसश्चापि चिबुकं चतुरङ्गुलसंस्थितम् ॥ ६॥ हस्तौ तथैव कर्तव्यौ कटीनाभितटस्थितौ । दक्षिणो नाभिसंस्थस्तु वामः कटितटस्थितः ॥ ७॥ पादयोरन्तरं कार्यं द्वौ तालावर्धमेव च । पादोत्क्षेपस्तु कर्तव्यः स्वप्रमाणविनिर्मितः ॥ ८॥ चतुस्तालो द्वितालश्चाप्येकतालस्तथैव च । चतुस्तालस्तु देवानां पार्थिवानां तथैव च ॥ ९॥ द्वितालश्चैव मध्यानां तालः स्त्रीनीचलिङ्गिनाम् । चतुष्कलोऽथ द्विकलस्तथा ह्येककलः स्मृतः ॥ १०॥ चतुष्कलो ह्युत्तमानां मध्यानां द्विकलो भवेत् । तथा चैककलः पादो नीचानां सम्प्रकीर्तितः ॥ ११॥ स्थितं मध्यं द्रुतं चैव समवेक्ष्य लयत्रयम् । यथाप्रकृतिनाट्यज्ञो गतिमेवं प्रयोजयेत् ॥ १२॥ धैर्योपपन्ना गतिरुत्तमानां मध्या गतिर्मध्यमसम्मतानाम् । द्रुता गतिश्च प्रचुराधमानां लयत्रयं सत्त्ववशेन योज्यम् ॥ १३॥ एष एव तु विज्ञेयः कलाताललये विधिः । पुनर्गतिप्रचारस्य प्रयोगं श्रुणुतानघाः ॥ १४॥ स्वभावात्तूत्तमगतौ कार्यं जानुकटीसमम् । युद्धचारीप्रयोगेषु जानुस्तनसमं न्यसेत् ॥ १५॥ पार्श्वक्रान्तैः सललितैः पादैर्वाद्यान्वितैरथ । रङ्गकोणोन्मुखं गच्छेत् सम्यक् पञ्चपदानि च ॥ १६॥ वामवेधं ततः कुर्याद्विक्षेपं दक्षिणेन तु । परिवृत्य द्वितीयं तु गच्छेत् कोणं ततः परम् ॥ १७॥ तत्रापि वामवेधस्तु विक्षेपो दक्षिणेन च । ततो भाण्डोन्मुखो गच्छेत् तान्येव तु पदानि च ॥ १८॥ एवं गतागतैः कृत्वा पदानामिह विंशतिम् । वामवेधं ततः कुर्यात् विक्षेपं दक्षिणस्य च ॥ १९॥ रङ्गे विकृष्टे भरतेन कार्यो गतागतैः पादगतिप्रचारः । त्र्यश्रस्त्रिकोणे चतुरस्ररङ्गे गतिप्रचारश्चतुरस्र एव ॥ २०॥ यः समैः संहितो गच्छेत्तत्र कार्यो लयाश्रयः । चतुष्कलोऽथ द्विकलस्तथैवैककलः पुनः ॥ २१॥ अथ मध्यमनीचैस्तु गच्छेद्यः परिवारितः । चतुष्कलमथार्धं च तथा चैककलं पुनः ॥ २२॥ दैत्यदानवयक्षाणां नृपपन्नगरक्षसाम् । चतुस्तालप्रमाणेन कर्तव्याथ गतिर्बुधैः ॥ २३॥ दिवौकसां तु सर्वेषां मध्यमा गतिरिष्यते । तत्रापि चोद्धता ये तु तेषां देवैः समा गतिः ॥ २४॥ ऋषय ऊचुः - यदा मनुष्या राजानस्तेषां देवगतिः कथम् । अत्रोच्यते कथं नैषा गती राज्ञां भविष्यति ॥ २५॥ इह प्रकृतयो दिव्या दिव्यमानुष्य एव च । मानुष्य इति विज्ञेया नाट्यनृत्तक्रियां प्रति ॥ २६॥ देवानां प्रकृतिर्दिव्या राज्ञां वै दिव्यमानुषी । या त्वन्या लोकविदिता मानुषी सा प्रकीर्तिता ॥ २७॥ देवांशजास्तु राजानो वेदाध्यात्मसु कीर्तिताः । एवं देवानुकरणे दोषो ह्यत्र न विद्यते ॥ २८॥ अयं विधिस्तु कर्तव्यः स्वच्छन्दगमनं प्रति । संभ्रमोत्पातरोषेषु प्रमाणं न विधीयते ॥ २९॥ सर्वासां प्रकृतीनां तु अवस्थान्तरसंश्रया । उत्तमाधममध्यानां गतिः कार्या प्रयोक्तृभिः ॥ ३०॥ चतुरर्धकलं वा स्यात् तदर्धकलमेव च । अवस्थान्तरमासाद्य कुर्याद् गतिविचेष्टितम् ॥ ३१॥ ज्येष्ठे चतुष्कलं ह्यत्र मध्यमे द्विकलं भवेत् । द्विकला चोत्तमे यत्र मध्ये त्वेककला भवेत् ॥ ३२॥ कलिकं मध्यमे यत्र नीचेष्वर्धकलं भवेत् । एवमर्धार्धहीनं तु जडानां सम्प्रयोजयेत् ॥ ३३॥ ज्वरार्ते च क्षुधार्ते च तपःश्रान्ते भयान्विते । विस्मिते चावहित्थे च तथौत्सुक्यसमन्विते ॥ ३४॥ शृङ्गारे चैव शोके च स्वच्छन्दगमने तथा । गतिः स्थितलया कार्याधिकलान्तरपातिता ॥ ३५॥ पुनश्चिन्तान्विते चैव गतिः कार्या चतुष्कला । अस्वस्थकामिते चैव भये वित्रासिते तथा ॥ ३६॥ आवेगे चैव हर्षे च कार्ये यच्च त्वरान्वितम् । अनिष्टश्रवणे चैव क्षेपे चाद्भुतदर्शने ॥ ३७॥ अपि चात्यायिके कार्ये दुःखिते शत्रुमार्गणे । अपराद्धानुसरणे श्वापदानुगतौ तथा ॥ ३८॥ एतेष्वेवं गतिं प्राज्ञो विकलां सम्प्रयोजयेत् । उत्तमानां गतिर्या तु न तां मध्येषु योजयेत् ॥ ३९॥ या गतिर्मध्यमानां तु न तां नीचेषु योजयेत् । गतिः शृङ्गारिणी कार्या स्वस्थकामितसम्भवा ॥ ४०॥ दूतीदर्शितमार्गस्तु प्रविशेद्रङ्गमण्डलम् । सूचया चाप्यभिनयं कुर्यादर्थसमाश्रयम् ॥ ४१॥ हृद्यैर्गन्धैस्तथा वस्त्रैरलङ्कारैश्च भूषितः । नानापुष्पसुगन्धाभिर्मालाभिः समलंकृतः ॥ ४२॥ गच्छेत् सललितैः पादैरतिक्रान्तस्थितैस्तथा । तथा सौष्ठवसंयुक्तैर्लयतालवशानुगैः ॥ ४३॥ पादयोरनुगौ हस्तौ नित्यं कार्यौ प्रयोक्तृभिः । उत्क्षिप्य हस्तं पातेन पादयोश्च विपर्ययात् ॥ ४४॥ प्रच्छन्नकामिते चैव गतिं भूयो निबोधत । विसर्जितजनः स्रस्तस्तथा दूतीसहायवान् ॥ ४५॥ निर्वाणदीपो नात्यर्थं भूषणैश्च विभूषितः । वेलासदृशवस्त्रश्च सह दूत्या शनैस्तथा ॥ ४६॥ व्रजेत् प्रच्छन्नकामस्तु पादैर्निश्शब्दमन्दगैः । शब्दशंक्युत्सुकश्च स्यादवलोकनतत्परः ॥ ४७॥ वेपमानशरीरश्च शंकितः प्रस्खलन् मुहुः । रसे रौद्रे तु वक्ष्यामि दैत्यरक्षोगणान् प्रति ॥ ४८॥ एक एव रसस्तेषां स्थायी रौद्रो द्विजोत्तमाः । नेपथ्यरौद्रो विज्ञेयस्त्वङ्गरौद्रस्तथैव च ॥ ४९॥ तथा स्वभावजश्चैव त्रिधा रौद्रः प्रकल्पितः । रुधिरक्लिन्नदेहो यो रुधिरार्द्रमुखस्तथा ॥ ५०॥ तथा पिशितहस्तश्च रौद्रो नेपथ्यजस्तु सः । बहुबाहुर्बहुमुखो नानाप्रहरणाकुलः ॥ ५१॥ स्थूलकायस्तथा प्रांशुरङ्गरौद्रः प्रकीर्तितः । रक्ताक्षः पिङ्गकेशश्च असितो विकृतस्वरः ॥ ५२॥ रूक्षो निर्भर्त्सनपरो रौद्रः सोऽयं स्वभावजः । चतुस्तालान्तरोत्क्षिप्तैः पादैस्त्वन्तरपातितैः ॥ ५३॥ गतिरेवं प्रकर्तव्या तेषां ये चापि तद्विधाः । अहृद्या तु मही यत्र श्मशानरणकश्मला ॥ ५४॥ गतिं तत्र प्रयुञ्जीत बीभत्साभिनयं प्रति । क्वचिदासन्नपतितैः विकृष्टपतितैः क्वचित् ॥ ५५॥ एलकाक्रीडितैः पादैरुपर्युपरि पातितैः । तेषामेवानुगैर्हस्तैर्बीभत्से गतिरिष्यते ॥ ५६॥ अथ वीरे च कर्त्तव्या पादविक्षेपसंयुता । द्रुतप्रचाराधिष्ठाना नानाचारीसमाकुला ॥ ५७॥ पार्श्वक्रान्तैद्रुताविद्धैः सूचीविद्धैस्तथैव च । कलाकालगतैः पादैरावेगे योजयेत् गतिम् ॥ ५८॥ उत्तमानामयं प्रायः प्रोक्तो गतिपरिक्रमः । मध्यानामधमानां च गतिं वक्ष्याम्यहं पुनः ॥ ५९॥ विस्मये चैव हर्षे च विक्षिप्तपदविक्रमान् । आसाद्य तु रसं हास्यमेतच्चान्यं च योजयेत् ॥ ६०॥ पुनश्च करुणे कार्या गतिः स्थिरपदैरथ । बाष्पाम्बुरुद्धनयनः सन्नगात्रस्तथैव च ॥ ६१॥ उत्क्षिप्तपातितकरस्तथा सस्वनरोदनः । गच्छेत्तथाध्यधिकया प्रत्यग्राप्रियसंश्रये ॥ ६२॥ एषा स्त्रीणां प्रयोक्तव्या नीचसत्त्वे तथैव च । उत्तमानां तु कर्तव्या सधैर्या बाष्पसङ्गता ॥ ६३॥ निःश्वासैरायतोत्सृष्टैस्तथैवोर्ध्वनिरीक्षितैः । न तत्र सौष्ठवं कार्यं न प्रमाणं तथाविधम् ॥ ६४॥ मध्यानामपि सत्त्वज्ञा गतिर्योज्या विधानतः । उरःपातहतोत्साहः शोकव्याकुलचेतनः ॥ ६५॥ नात्युत्क्षिप्तैः पदैर्गच्छेत् इष्टबन्धुनिपातने । गाढप्रहारे कार्या च शिथिलाङ्गभुजाश्रया ॥ ६६॥ विघूणितशरीरा च गतिश्चूर्णपदैरथ । शीतेन चाभिभूतस्य वर्षेणाभिद्रुतस्य च ॥ ६७॥ गतिः प्रयोक्तृभिः कार्या स्त्रीनीचप्रकृतावथ । पिण्डीकृत्य तु गात्राणि तेषां चैव प्रकम्पनम् ॥ ६८॥ करौ वक्षसि निक्षिप्य कुब्जीभूतस्तथैव च । दन्तोष्ठस्फुरणं चैव चिबुकस्य प्रकम्पनम् ॥ ६९॥ कार्यं शनैश्च कर्तव्यं शीताभिनयने गतौ । तथा भयानके चैव गतिः कार्या विचक्षणैः ॥ ७०॥ स्त्रीणां कापुरुषाणां च ये चान्ये सत्त्ववर्जिताः । विस्फारिते चले नेत्रे विधुतं च शिरस्तथा ॥ ७१॥ भयसंयुक्तया दृष्ट्या पार्श्वयोश्च विलोकनैः । द्रुतैश्चूर्णपदैश्चैव बद्ध्वा हस्तं कपोतकम् ॥ ७२॥ प्रवेपितशरीरश्च शुष्कोष्ठस्स्खलितं व्रजेत् । एषानुकरणे कार्या तर्जने त्रासने तथा ॥ ७३॥ सत्त्वं च विकृतं दृष्ट्वा श्रुत्वा च विकृतं स्वरम् । एषा स्त्रीणां प्रकर्त्तव्या नृणां चाक्षिप्तविक्रमा ॥ ७४॥ क्वचिदासन्नपतितैर्विकृष्टपतितैः क्वचित् । एलकाक्रीडितैः पादैरुपर्युपरि पातितैः ॥ ७५॥ एषामेवानुगैर्हस्तैर्गतिं भीतेषु योजयेत् । वणिजां सचिवानां च गतिः कार्या स्वभावजा ॥ ७६॥ कृत्वा नाभितटे हस्तमुत्तानखटकामुखम् । आद्यं चारालमुत्तानं कुर्यात्पार्श्वं स्तनान्तरे ॥ ७७॥ न निषण्णं न च स्तब्धं न चापि परिवाहितम् । कृत्वा गात्रं तथा गच्छेत्तेन चैव क्रमेण तु ॥ ७८॥ अतिक्रान्तैर्पदैर्विप्रा द्वितालान्तरगामिभिः । यतीनां श्रमणानां च ये चान्ये तपसि स्थिताः ॥ ७९॥ तेषां कार्या गतिर्ये तु नैष्ठिकं व्रतमाश्रिताः । आलोलचक्षुश्च भवेद्युगमात्रनिरीक्षणः ॥ ८०॥ उपस्थितस्मृतिश्चैव गात्रं सर्वं विधाय च । अचञ्चलमनाश्चैव यथावल्लिङ्गमाश्रितः ॥ ८१॥ विनीतवेषश्च भवेत् कषायवसनस्तथा । प्रथमं समपादेन स्थित्वा स्थानेन वै बुधः ॥ ८२॥ हस्तं च चतुरं कृत्वा तथा चैकं प्रसारयेत् । प्रसन्नं वदनं कृत्वा प्रयोगस्य वशानुगः ॥ ८३॥ अनिषण्णेन गात्रेण गतिं गच्छेद् व्यतिक्रमात् । उत्तमानां भवेदेषा लिङ्गिनां ये महाव्रताः ॥ ८४॥ एभिरेव विपर्यस्तैर्गुणैरन्येषु योजयेत् । तथा व्रतानुगावस्था ह्यन्येषां लिङ्गिनां गतिः ॥ ८५॥ विभ्रान्ता वाप्युदात्ता वा विभ्रान्तनिभृतापि वा । शकटास्यस्थितैः पादैरतिक्रान्तैस्तथैव च ॥ ८६॥ कार्या पाशुपतानां च गतिरुद्धतगामिनी । अन्धकारेऽथ याने च गतिः कार्या प्रयोक्तृभिः ॥ ८७॥ भूमौ विसर्पितैः पादैर्हस्तैर्मार्गप्रदर्शिभिः । रथस्थस्यापि कर्तव्या गतिश्चूर्णपदैरथ ॥ ८८॥ समपादं तथा स्थानं कृत्वा रथगतिं व्रजेत् । धनुर्गृहीत्वा चैकेन तथा चैकेन कूबरम् ॥ ८९॥ सूतश्चास्य भवेदेवं प्रतोदप्रग्रहाकुलः । वाहनानि विचित्राणि कर्तव्यानि विभागशः ॥ ९०॥ द्रुतैश्चूर्णपदैश्चैव गन्तव्यं रङ्गमण्डले । विमानस्थस्य कर्तव्या ह्येषैव स्यन्दिनी गतिः ॥ ९१॥ आरोढुमुद्वहेद् गात्रं किञ्चित् स्यादुन्मुखस्थितम् । अस्यैव वैपरीत्येन कुर्याच्चाप्यवरोहणम् ॥ ९२॥ अधोऽवलोकनैश्चैव मण्डलावर्तनेन च । आकाशगमने चैव कर्तव्या नाट्ययोक्तृभिः ॥ ९३॥ स्थानेन समपादेन तथा चूर्णपदैरपि । व्योम्नश्चावतरेद्यस्तु तस्यैतां कारयेत् गतिम् ॥ ९४॥ ऋज्वायतोन्नतनतैः कुटिलावर्तितैरथ । भ्रश्यतश्च तथाकाशादपविद्धभुजा गतिः ॥ ९५॥ विकीर्णवसना चैव तथा भूगतलोचना । प्रासादद्रुमशैलेषु नदीनिम्नोन्नतेषु च ॥ ९६॥ आरोहणावतरणं च कार्यमर्थवशाद्बुधैः । प्रासादारोहणं कार्यं अतिक्रान्तैः पदैरथ ॥ ९७॥ उद्वाह्य गात्रं पादं च सोपाने निक्षिपेन्नरः । तथावतरणं चैव गात्रमानम्य रेचयेत् ॥ ९८॥ प्रासादे यन्मया प्रोक्तः प्रतारः केवलो भवेत् । किञ्चिन्नताग्रकाया तु प्रतारे गतिरिष्यते ॥ ९९॥ जलप्रमाणापेक्षा तु जलमध्ये गतिर्भवेत् । तोयेऽल्पे वसनोत्कर्षः प्राज्ये पाणिविकर्षणैः ॥ १००॥ प्रसार्य बाहुमेकैकं मुहुर्बारिविकर्षणैः । तिर्यक् प्रसारिता चैव हियमाणा च वारिणा ॥ १०१॥ अशेषाङ्गाकुलाधूतवदना गतिरिष्यते । नौस्थस्यापि प्रयोक्तव्या द्रुतैश्चूर्णपदैर्गतिः ॥ १०२॥ अतिक्रान्तेन पादेन द्वितीयेनाञ्चितेन च । प्रासादारोहणे यत्तु तदेवाद्रिषु कारयेत् ॥ १०३॥ केवलमूर्ध्वनिक्षेपमद्रिष्वङ्गं भवेदथ । द्रुमे चारोहणं कार्यमतिक्रान्तैः स्थितैः पदैः ॥ १०४॥ सूचीविद्धैरपक्रान्तैः पार्श्वक्रान्तैस्तथैव च । एतदेवावतरणं सरित्स्वपि नियोजयेत् ॥ १०५॥ अनेनैव विधानेन कर्तव्यं गतिचेष्टितम् । संज्ञामात्रेण कर्तव्यान्येतानि विधिपूर्वकम् ॥ १०६॥ कस्मान्मृत इति प्रोक्ते किं कर्तव्यं प्रयोक्तृभिः । अङ्कुशग्रहणान्नागं खलीनग्रहणाद्धयम् ॥ १०७॥ प्रग्रहग्रहणाद्यानमेवमेवापरेष्वपि । अश्वयाने गतिः कार्या वैशाखस्थानकेन तु ॥ १०८॥ यथा चूर्णपदैश्चित्रैरुपर्युपरि पातितैः । पन्नगानां गतिः कार्या पादैः स्वस्तिकसंज्ञितैः ॥ १०९॥ पार्श्वक्रान्तं पदं कुर्यात् स्वस्तिकं रेचयेदिह । विटस्यापि तु कर्तव्या गतिर्ललितविक्रमा ॥ ११०॥ पादैराकुञ्चितैः किञ्चित् तालाभ्यन्तरपातितैः । स्वसौष्ठवसमायुक्तौ तथा हस्तौ पदानुगौ ॥ १११॥ खटकावर्धमानौ तु कृत्वा विटगतिं व्रजेत् । कञ्चुकीयस्य कर्तव्या वयोवस्थाविशेषतः ॥ ११२॥ अवृद्धस्य प्रयोगज्ञो गतिमेवं प्रयोजयेत् । अर्धतालोत्थितैः पादैर्विष्कम्भैः ऋजुभिस्तथा ॥ ११३॥ समुद्वहन्निवाङ्गानि पङ्कलग्न इव व्रजेत् । अथ वृद्धस्य कर्तव्या गतिः कम्पितदेहिका ॥ ११४॥ विष्कम्भनकृतप्राणा मन्दोत्क्षिप्तपदक्रमा । कृशस्याप्यभिनेया वै गतिर्मन्दपरिक्रमा ॥ ११५॥ व्याधिग्रस्ते ज्वरार्ते च तपःश्रान्ते क्षुधान्विते । विष्कम्भनकृतप्राणः कृशः क्षामोदरस्तथा ॥ ११६॥ क्षामस्वरकपोलश्च दीननेत्रस्तथैव च । शनैरुत्क्षेपणं चैव कर्तव्यं हस्तपादयोः ॥ ११७॥ कम्पनं चैव गात्राणां क्लेशनं च तथैव च । दूराध्वानं गतस्यापि गतिर्मन्दपदक्रमा ॥ ११८॥ विकूणनं च गात्रस्य जानुनोश्च विमर्दनम् । स्थूलस्यापि तु कर्तव्या गतिर्देहानुकर्षिणी ॥ ११९॥ समुद्वहनभूयिष्ठा मन्दोत्क्षिप्तपदक्रमा । विष्कम्भगामी च भवेन्निःश्वासबहुलस्तथा ॥ १२०॥ श्रमस्वेदाभिभूतश्च व्रजेच्चूर्णपदैस्तथा । मत्तानां तु गतिः कार्या मदे तरुणमध्यमे ॥ १२१॥ वामदक्षिणपादाभ्यां घूर्णमानापसर्पणैः । अवकृष्टे पदे चैव ह्यनवस्थितपादिका ॥ १२२॥ विघूर्णितशरीरा च करैः प्रस्खलितैस्तथा । उन्मत्तस्यापि कर्तव्या गतिस्त्वनियतक्रमा ॥ १२३॥ बहुचारीसमायुक्ता लोकानुकरणाश्रया । रूक्षस्फुटितकेशश्च रजोध्वस्ततनुस्तथा ॥ १२४॥ अनिमित्तप्रकथनो बहुभाषी विकारवान् । गायत्यकस्माद्धसति सङ्गे चापि न सज्जते ॥ १२५॥ नृत्यत्यपि च संहृष्टो वादयत्यपि वा पुनः । कदाचिद्धावति जवात् कदाचिदवतिष्ठते ॥ १२६॥ कदाचिदुपविष्टस्तु शयानः स्यात् कदाचन । नानाचीरधरश्चैव रथ्यास्वनियतालयः ॥ १२७॥ उन्मत्तो भवति ह्येवं तस्यैतां कारयेद् गतिम् । स्थित्वा नूपुरपादेन दण्डपादं प्रसारयेत् ॥ १२८॥ बद्धां चारीं तथा चैव कृत्वा स्वस्तिकमेव च । अनेन चारीयोगेन परिभ्राम्य तु मण्डलम् ॥ १२९॥ बाह्यभ्रमरकं चैव रङ्गकोणे प्रसारयेत् । त्रिकं सुललितं कृत्वा लताख्यं हस्तमेव च ॥ १३०॥ विपर्ययगतैर्हस्तैः पद्भ्यां सह गतिर्भवेत् । त्रिविधा तु गतिः कार्या खञ्जपङ्गुकवामनैः ॥ १३१॥ विकलाङ्गप्रयोगेण कुहकाभिनयं प्रति । एकः खञ्जगतौ नित्यं स्तब्धो वै चरणो भवेत् ॥ १३२॥ तथा द्वितीयः कार्यस्तु पादोऽग्रतलसञ्चरः । स्तब्धेनोत्थापनं कार्यमङ्गस्य चरणेन तु ॥ १३३॥ गमनेन निषण्णः स्यादन्येन चरणेन तु । इतरेण निषीदेच्च क्रमेणानेन वै व्रजेत् ॥ १३४॥ एषा खञ्जगतिः कार्या तलशल्यक्षतेषु च । पादेनाग्रतलस्थेन ह्यञ्चितेन व्रजेत्तथा ॥ १३५॥ निषण्णदेहा पङ्गोस्तु नतजङ्घा तथैव च । सर्वसङ्कुचिताङ्गा च वामने गतिरिष्यते ॥ १३६॥ न तस्य विक्रमः कार्यो विक्षेपश्चरणस्य च । सोद्वाहिता चूर्णपदा सा कार्या कुहनात्मिका ॥ १३७॥ विदूषकस्यापि गतिर्हास्यत्रयसमन्विता । अङ्गवाक्यकृतं हास्यं हास्यं नेपथ्यजं स्मृतम् ॥ १३८॥ दन्तुरः खलतिः कुब्जः खञ्जश्च विकृताननः । य ईदृशः प्रवेशः स्यादङ्गहास्यं तु तद्भवेत् ॥ १३९॥ यदा तु बकवद्गच्छेदुल्लोकितविलोकितैः । अन्यायतपदत्वाच्च अङ्गहास्यो भवेत्स तु ॥ १४०॥ कार्यहास्यं तु विज्ञेयमसंबद्धप्रभाषणात् । अनर्थकैर्विकारैश्च तथा चाश्लीलभाषितैः ॥ १४१॥ चीरचर्ममशीभस्मगैरिकाद्यैस्तु मण्डितः । यस्तादृशो भवेद्विप्रा हास्यो नेपथ्यजस्तु सः ॥ १४२॥ तस्मात्तु प्रकृतिं ज्ञात्वा भावः कार्यस्तु तत्त्वतः । गतिप्रचारं विभजेत् नानावस्थान्तरात्मकम् ॥ १४३॥ स्वभावजायां विन्यस्य कुटिलं वामके करे । तदा दक्षिणहस्ते च कुर्याच्चतुरकं पुनः ॥ १४४॥ पार्श्वमेकं शिरश्चैव हस्तोऽथ चरणस्तथा । पर्यायशः सन्नमयेल्लयतालवशानुगः ॥ १४५॥ स्वभावजा तु तस्यैषा गतिरन्या विकारजा । अलाभलाभात् मुक्तस्य स्तब्धा तस्य गतिर्भवेत् ॥ १४६॥ कार्या चैव हि नीचानां चेटादीनां परिक्रमात् । अधमा इति ये ख्याता नानाशीलाश्च ते पुनः ॥ १४७॥ पार्श्वसेकं शिरश्चैव करः सचरणस्तथा । शकारस्यापि कर्तव्या गतिश्चञ्चलदेहिका । गतौ नमेत चेटानां दृष्टिश्चार्धविचारिणी ॥ १४८॥ वस्त्राभरणसंस्पर्शैर्मुहुर्मुहुरवेक्षितैः । गात्रैर्विकारविक्षिप्तैः लम्बवस्त्रस्रजा तथा ॥ १४९॥ सगर्विता चूर्णपदा शकारस्य गतिर्भवेत् । जात्या नीचेषु योक्तव्या विलोकनपरा गतिः ॥ १५०॥ असंस्पर्शाच्च लोकस्य स्वाङ्गानि विनिगूह्य च । म्लेच्छानां जातयो यास्तु पुलिन्दशबरादयः ॥ १५१॥ तेषां देशानुसारेण कार्यं गतिविचेष्टितम् । पक्षिणां श्वापदानां च पशूनां च द्विजोत्तमाः ॥ १५२॥ स्वस्वजातिसमुत्थेन स्वभावेन गतिर्भवेत् । सिंहर्क्षवानराणां च गतिः कार्या प्रयोक्तृभिः ॥ १५३॥ या कृता नरसिंहेन विष्णुना प्रभविष्णुना । आलीढस्थानकं कृत्वा गात्रं तस्यैव चानुगम् ॥ १५४॥ जानूपरि करं ह्येकमपरं वक्षसि स्थितम् । अवलोक्य दिशः कृत्वा चिबुकं बाहुमस्तके ॥ १५५॥ गन्तव्यं विक्रमैर्विप्राः पञ्चतालान्तरोत्थितैः । नियुद्धसमये चैव रङ्गावतरणे तथा ॥ १५६॥ सिंहादीनां प्रयोक्तव्या गतिरेषा प्रयोक्तृभिः । शेषाणामर्थयोगेन गतिं स्थानं च योजयेत् ॥ १५७॥ वाहनार्थप्रयोगेषु रङ्गावतरणेषु च । एवमेताः प्रयोक्तव्या नराणां गतयो बुधैः ॥ १५८॥ नोक्ता या या मया ह्यत्र ग्राह्यास्तास्ताश्च लोकतः । अतः परं प्रवक्ष्यामि स्त्रीणां गतिविचेष्टितम् ॥ १५९॥ स्त्रीणां स्थानानि कार्याणि गतिष्वाभरणेषु च । आयतं चावहित्थं च अश्वक्रान्तमथापि च ॥ १६०॥ स्थानान्येतानि नारीणामथ लक्षणमुच्यते । वामः स्वभावतो यत्र पादो विरचितः समः ॥ १६१॥ तालमात्रान्तरे न्यस्तस्त्र्यश्रः पक्षस्थितोऽपरः । प्रसन्नमाननमुरः समं यत्र समुन्नतम् ॥ १६२॥ लतानितम्बगौ हस्तौ स्थानं ज्ञेयं तदायतम् । दक्षिणस्तु समः पादः त्र्यश्रः पक्षस्थितोऽपरः ॥ १६३॥ वामः समुन्नतकटिश्चायते स्थानके भवेत् । आवाहने विसर्गे च तथा निर्वर्णनेषु च ॥ १६४॥ चिन्तायां चावहित्थे च स्थानमेतत् प्रयोजयेत् । रङ्गावतरणारम्भः पुष्पाञ्जलिविसर्जनम् ॥ १६५॥ मन्मथेर्ष्योद्भवं कोपं तर्जन्यङ्गुलिमोटनम् । निषेधगर्वगाम्भीर्यमौनं मानावलम्बनम् ॥ १६६॥ स्थानेऽस्मिन् संविधातव्यं दिगन्तरनिरूपणम् । समो यत्र स्थितो वामस्त्र्यश्रः पक्षस्थितोऽपरः ॥ १६७॥ समुन्नतकटिर्वामस्त्ववहित्थं तु तद्भवेत् । पुरो विचलितस्त्र्यश्रस्तदन्योपसृतः समः ॥ १६८॥ पादस्तालान्तरन्यस्तस्त्रिकमीषत्समुन्नतम् । पाणिर्लताख्यो यत्रैकस्तदन्यस्तु नितम्बगः ॥ १६९॥ अवहित्थं समाख्यातं स्थानमागमभूषणैः । स्त्रीणामेतत् स्मृतं स्थानं संलापे तु स्वभावजे ॥ १७०॥ निश्चये परितोषे च वितर्के चिन्तने तथा । विलासलीलाविब्वोकशृंगारात्मनिरूपणे ॥ १७१॥ स्थानमेतत्प्रयोक्तव्यं भर्तुर्मार्गविलोकने । पादः समस्थितश्चैक एकश्चाग्रतलाञ्चितः ॥ १७२॥ सूचीविद्धमविद्धं वा तदश्वक्रान्तमुच्यते । स्खलितं घूर्णितं चैव गलिताम्बरधारणम् ॥ १७३॥ कुसुमस्तबकादानं परिरक्षणमेव च । वित्रासनं सललितं तरुशाखावलम्बनम् ॥ १७४॥ स्थानेऽस्मिन् संविधानीयं स्त्रीणामेतत्प्रयोक्तृभिः । शाखावलम्बने कार्यं स्तबकग्रहणे तथा ॥ १७५॥ विश्रामेष्वथ देवानां नराणां चार्थयोगतः । स्थानकं तावदेव स्याद्यावच्चेष्टा प्रवर्तते ॥ १७६॥ भग्नं च स्थानकं नृत्ते चारी चेत्समुपस्थिता । एवं स्थानविधिः कार्यः स्त्रीणां नृणामथापि च ॥ १७७॥ पुनश्चासां प्रवक्ष्यामि गतिं प्रकृतिसंस्थिताम् । कृत्वावहित्थं स्थानं तु वामं चाधोमुखं करम् ॥ १७८॥ नाभिप्रदेशे विन्यस्य सव्यं च खटकामुखम् । ततः सललितं पादं तालमात्रसमुत्थितम् ॥ १७९॥ दक्षिणं वामपादस्य बाह्यपार्श्वे विनिक्षिपेत् । तेनैव समकालं च लताख्यं वामकं भुजम् ॥ १८०॥ दक्षिणं विनमेत्पार्श्वं न्यसेन्नाभितटे ततः । नितम्बे दक्षिणं कृत्वा हस्तं चोद्वेष्ट्य वामकम् ॥ १८१॥ ततो वामपदं दद्यात् लताहस्तं च दक्षिणम् । लीलयोद्वाहितेनाथ शिरसानुगतेन च ॥ १८२॥ किञ्चिन्नतेन गात्रेण गच्छेत्पञ्चपदीं ततः । यो विधिः पुरुषाणां तु रङ्गपीठपरिक्रमे ॥ १८३॥ स एव प्रमदानां वै कर्तव्यो नाट्ययोक्तृभिः । षट्कलं तु न कर्तव्यं तथाष्टकलमेव च ॥ १८४॥ पादस्य पतनं तज्ज्ञैः खेदनं तद्भवेत्स्त्रियाः । सयौवनानां नारीणामेवं कार्या गतिर्बुधैः ॥ १८५॥ स्थवीयसीनामेतासां सम्प्रवक्ष्याम्यहं गतिम् । कृत्वापविद्धं स्थानन्तु वामं न्यस्य कटीतटे ॥ १८६॥ आद्यं चारालमुत्तानं कुर्यान्नाभिस्तनान्तरे । न निषण्णं न च स्तब्धं न चापि परिवाहितम् ॥ १८७॥ कृत्वा गात्रं ततो गच्छेत्तेनैवेह क्रमेण तु । प्रेष्याणामपि कर्तव्या गतिरुद्भ्रान्तगामिनी ॥ १८८॥ क्वचिदुन्नमितैर्गात्रैः आविद्धभुजविक्रमा । स्थानं कृत्वावहित्थं च वामं चाधोमुखं भुजम् ॥ १८९॥ नाभिप्रदेशे विन्यस्य सव्यं च खटकामुखम् । अर्धनारीगतिः कार्या स्त्रीपुंसाभ्यां विमिश्रिता ॥ १९०॥ उदात्तललितैर्गात्रैः पादैर्लीलासमन्वितैः । या पूर्वमेवाभिहिता ह्युत्तमानां गतिर्मया ॥ १९१॥ स्त्रीणां कापुरुषाणां च ततोऽर्धार्धं तु योजयेत् । मध्यमोत्तमनीचानां नृणां यद् गतिचेष्टितम् ॥ १९२॥ स्त्रीणां तदेव कर्तव्या ललितैः पदविक्रमैः । बालानामपि कर्तव्या स्वच्छन्दपदविक्रमा ॥ १९३॥ न तस्याः सौष्ठवं कार्यं न प्रमाणं प्रयोक्तृभिः । तृतीया प्रकृतिः कार्या नाम्ना चैव नपुंसका ॥ १९४॥ नरस्वभावमुत्सृज्य स्त्रीगतिं तत्र योजयेत् । विपर्ययः प्रयोक्तव्यः पुरुषस्त्रीनपुंसके ॥ १९५॥ स्वभावमात्मनस्त्यक्त्वा तद्भावगमनादिह । व्याजेन क्रीडया वापि तथा भूयं च वञ्चनात् ॥ १९६॥ स्त्री पुंसः प्रकृतिं कुर्यात् स्त्रीभावं पुरुषोऽपि च । धैर्योदार्येण सत्त्वेन बुद्ध्या तद्वच्च कर्मणा ॥ १९७॥ स्त्री पुमांसं त्वभिनयेत् वेषवाक्यविचेष्टितैः । स्त्रीवेषभाषितैर्युक्तं प्रेषिताप्रेषितैस्तथा ॥ १९८॥ मृदुसन्नगतिश्चैव पुमान् स्त्रीभावमाचरेत् । जातिहीनाश्च या नार्यः पुलिन्दशबराङ्गनाः ॥ १९९॥ याश्चापि तासां कर्तव्या तज्जातिसदृशी गतिः । व्रतस्थानां तपःस्थानां लिङ्गस्थानां तथैव च ॥ २००॥ खस्थानां चैव नारीणां समपादं प्रयोजयेत् । उद्धता येऽङ्गहाराः स्युः याश्चार्यो मण्डलानि च ॥ २०१॥ तानि नाट्यप्रयोगज्ञैर्न कर्तव्यानि योषिताम् । तथासनविधिः कार्यो नृणां स्त्रीणां विशेषतः ॥ २०२॥ नानाभावसमायुक्तस्तथा च शयनाश्रयः । विष्कम्भिताञ्चितौ पादौ त्रिकं किञ्चित्समुन्नतम् ॥ २०३॥ हस्तौ कट्यूरुविन्यस्तौ स्वस्थे स्यादुपवेशने । पादः प्रसारितः किञ्चिदेकश्चैवासनाश्रयः ॥ २०४॥ शिरः पार्श्वनतं चैव सचिन्त उपवेशने । चिबुकोपाश्रितौ हस्तौ बाहुशीर्षाश्रितं शिरः ॥ २०५॥ सम्प्रणष्टेन्द्रियमनाः शोकौत्सुक्योपवेशने । प्रसार्य बाहू शिथिलौ तथा श्रोपाश्रयाश्रितः ॥ २०६॥ मोहमूर्च्छामदग्लानिविषादेषूपवेशयेत् । सर्वपिण्डीकृताङ्गस्तु संयुक्तैः पादजानुभिः ॥ २०७॥ व्याधिव्रीडितनिद्रासु ध्याने चोपविशेन्नरः । तथा चोत्कटिकं स्थानं स्फिक्पार्ष्णीनां समागमः ॥ २०८॥ पित्र्ये निवापे जप्ये च सन्ध्यास्वाचमनेऽपि च । विष्कम्भितं पुनश्चैवं जानुं भूमौ निपातयेत् ॥ २०९॥ प्रियाप्रसादने कार्यं होमादिकरणेषु च । महीगताभ्यां जानुभ्यामधोमुखमवस्थितम् ॥ २१०॥ देवाभिगमने चैव रुषितानां प्रसादने । शोके चाक्रन्दने तीव्रे मृतानां चैव दर्शने ॥ २११॥ त्रासने च कुसत्त्वानां नीचानां चैव याचने । होमयज्ञक्रियायां च प्रेष्याणां चैव कारयेत् ॥ २१२॥ मुनीनां नियमेष्वेष भवेदासनजो विधिः । तथासनविधिः कार्यो विविधो नाटकाश्रयः ॥ २१३॥ स्त्रीणां च पुरुषाणां च बाह्यश्चाभ्यन्तरस्तथा । आभ्यन्तरस्तु नृपतेर्बाह्यो बाह्यगतस्य च ॥ २१४॥ देवानां नृपतीनां च दद्यात् सिंहासनं द्विजः । पुरोधसाममात्यानां भवेद्वेत्रासनं तथा ॥ २१५॥ मुण्डासनं च दातव्यं सेनानीयुवराजयोः । काष्ठासनं द्विजातीनां कुमाराणां कुथासनम् ॥ २१६॥ एवं राजसभां प्राप्य कार्यस्त्वासनजो विधिः । स्त्रीणां चाप्यासनविधिं सम्प्रवक्ष्याम्यहं पुनः ॥ २१७॥ सिंहासनं तु राज्ञीनां देवीनां मुण्डमासनम् । पुरोधोऽमात्यपत्नीनां दद्याद्वेत्रासनं तथा ॥ २१८॥ भोगिनीनां तथा चैव वस्त्रं चर्म कुथोऽपि वा । ब्राह्मणीतापसीनां च पट्टासनमथापि च ॥ २१९॥ वेश्यानां च प्रदातव्यमासनं च मयूरकम् । शेषाणां प्रमदानां तु भवेद् भूम्यासनं द्विजाः ॥ २२०॥ एवमाभ्यन्तरो ज्ञेयो बाह्यश्चासनजो विधिः । तथा स्वगृहवार्तासु च्छन्देनासनमिष्यते ॥ २२१॥ नियमस्थमुनीनां च भवेदासनजो विधिः । लिङ्गिनामासनविधिः कार्यो व्रतसमाश्रयः ॥ २२२॥ ब्रुषीमुण्डासनप्रायं वेत्रासनमथापि च । होमे यज्ञक्रियायां च पित्र्येऽर्थे च प्रयोजयेत् ॥ २२३॥ स्थानीया ये च पुरुषाः कुलविद्यासमन्विताः । तेषामासनसत्कारः कर्त्तव्य इह पार्थिवैः ॥ २२४॥ समे समासनं दद्यात् मध्ये मध्यममासनम् । अतिरिक्तेऽतिरिक्तं च हीने भूम्यासनं भवेत् ॥ २२५॥ उपाध्यायस्य नृपतेर्गुरूणामग्रतो बुधैः । भूम्यासनं तथा कार्यमथवा काष्ठमासनम् ॥ २२६॥ नौनागरथयानेषु भूमिकाष्ठासनेषु च । सहासनं न दुष्येत गुरूपाध्यायपार्थिवैः ॥ २२७॥ आकुञ्चितं समं चैव प्रसारितविवर्तने । उद्वाहितं नतं चैव शयने कर्म कीर्त्यते ॥ २२८॥ सर्वैराकुञ्चितैरङ्गैः शय्याविद्धे तु जानुनी । स्थानमाकुञ्चितं नाम शीतार्तानां प्रयोजयेत् ॥ २२९॥ उत्तानितमुखं चैव स्रस्तमुक्तकरं तथा । समं नाम प्रसुप्तस्य स्थानकं संविधीयते ॥ २३०॥ एकं भुजमुपाधाय सम्प्रसारितजानुकम् । स्थानं प्रसारितं नाम सुखसुप्तस्य कारयेत् ॥ २३१॥ अधोमुखस्थितं चैव विवर्तितमिति स्मृतम् । शस्त्रक्षतमृतोत्क्षिप्तमत्तोन्मत्तेषु कारयेत् ॥ २३२॥ अंसोपरि शिरः कृत्वा कर्पूरक्षोभमेव च । उद्वाहितं तु विज्ञेयं लीलया वेशने प्रभोः ॥ २३३॥ ईषत्प्रसारिते जङ्घे यत्र स्रस्तौ करावुभौ । आलस्यश्रमखेदेषु नतं स्थानं विधीयते ॥ २३४॥ गतिप्राचारस्तु मयोदितोऽयं नोक्तश्च यः सोऽर्थवशेन साध्यः । अतः परं रङ्गपरिक्रमस्य वक्ष्यामि कक्ष्यां प्रविभागयुक्ताम् ॥ २३५॥ ॥ इति भरतीये नाट्यशास्त्रे गतिप्रचारो नाम द्वादशोऽध्यायः ॥ Encoded by Sowmya Krishnapur krsowmya@yahoo at com

% Text title            : naaTyashaastra adhyaaya 12 gatiprachAra
% File name             : natya12.itx
% itxtitle              : nATyashAstram adhyAyaH 12 gatiprachAraH
% engtitle              : Natya Shastra Chapter 12 gatiprachAraH
% Category              : natyashastra
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Sage Bharata
% Language              : Sanskrit
% Subject               : philosophy/hinduism/culture/Dance/Drama
% Transliterated by     : Sowmya Krishnapur krsowmya at yahoo.com
% Proofread by          : Sowmya Krishnapur krsowmya at yahoo.com
% Latest update         : May 22, 2007
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP