प्रपञ्चसारतन्त्रः

प्रपञ्चसारतन्त्रः

॥ श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतः प्रपञ्चसारतन्त्रः ॥

॥ प्रथमः पटलः ॥

अकचटतपयाद्यैः सप्तभिर्वर्णवर्गै- रिवरचितमुखबाहापादमध्याख्यहृत्का । सकलजगदधीशा शाश्वता विश्वयोनिर् इवतरतु परिशुद्धिं चेतसः शारदा वः ॥ १.१॥ अथाभवन्ब्रह्महरीश्वराख्याः पुरा प्रधानात्प्रलयावसाने । गुणप्रभिन्ना जगतोऽस्य सृष्टि- स्थितिक्षयस्पष्टनिविष्टचेष्टाः ॥ १.२॥ स्वनिष्पत्तिं च कृत्यं च ते विचिन्त्य समाविदन् । वक्तारमजमव्यक्तमरूपं मायिनं विभुम् ॥ १.३॥ मूत्र्याभासेन दुग्धाब्धौ झषशङ्खसमाकुले । मरुत्सङ्घट्टनोत्कीर्णलहरीकणशीतले ॥ १.४॥ उद्यदादित्यकिरणप्रशान्तशिशिरोदये । पूर्णचन्द्रकरामर्शप्रतिक्षुब्धजलाशये ॥ १.५॥ अनन्तभोगे विमले फणायुतविराजिते । शयितं शार्ङ्गिणं शर्वशौरिपद्मभुवस्तदा ॥ १.६॥ तुष्टुवुर्हृष्टमनसो विष्टरश्रवसं विभुम् । सूक्तिभिः स्तुतिभिः प्रीतः स्वमूर्ति स व्यदर्शयत् ॥ १.७॥ नीलोत्पलदलप्रख्यां नीलकुञ्चितमूर्धजाम् । अष्टमीचन्द्रविभ्राजल्ललाटामायतभ्रुवम् ॥ १.८॥ रक्तारविन्दनयनामुन्नसीमरुणाधराम् । मन्दस्मिताधरमुखीं लसन्मकरकुण्डलाम् ॥ १.९॥ कम्बुग्रीवां पृथुद्व्यंसविसरद्भुजमण्डलाम् । अनेकरत्नप्रत्युप्तवलयाङ्गदमुद्रिकाम् ॥ १.१०॥ हारतारावलीराजत्पृथूरोव्योममण्डलाम् । कौस्तुभोद्भासितोरस्कां श्रीवत्सद्युतिदीपिताम् ॥ १.११॥ लसदौदरिकाबन्धभास्वरां सम्भृतोदरीम् । गम्भीरनाभिं विपुलजघनां पीतवाससम् ॥ १.१२॥ पृथुवृत्तोरुमापूर्णजानुमण्डलबन्धुराम् । वृत्तजङ्घां गूढगुल्फां प्रपदाजितकच्छपाम् ॥ १.१३॥ तनुदीर्घाङ्गुलीभास्वन्नखराजिविराजिताम् । चक्रस्वस्तिकशङ्खाब्जध्वजाज्र्तिपदद्वयाम् ॥ १.१४॥ तां दृष्ट्वा तरलात्मानो विध्यधोक्षजशङ्कराः । अतिष्ठन्नितिकर्तव्यमूढास्तत्राब्रवीदजः ॥ १.१५॥ स्वामिन्प्रसीद विश्वेश के वयं केन भाविताः । किम्मूलाः किङ्क्रियाः सर्वमस्मभ्यं वक्तुमर्हसि ॥ १.१६॥ इति पृष्टः परं ज्योतिरुवाच प्रमिताक्षरम् । यूयमक्षरसम्भूताः सृष्टिस्थित्यन्तहेतवः ॥ १.१७॥ तैरेव विकृतिं यातास्तेषु वो जायते लयः । इति तस्य वचः श्रुत्वा तमपृच्छत्सरोजभूः ॥ १.१८॥ अक्षरं नाम किं नाथ कुतो जातं किमात्मकम् । इति पृष्टो हरिस्तेन सरोजोदरयोनिना ॥ १.१९॥ मूलार्णमर्णविकृतीर्विकृतेर्विकृतीरपि । तत्प्रभिन्नानि मन्त्राणि प्रयोगांश्च पृथग्विधान् ॥ १.२०॥ वैदिकांस्तान्त्रिकांश्चैव सर्वानित्थमुवाच ह । प्रकृतिः पुरुषश्चेति नित्यौ कालश्च सत्तम ॥ १.२१॥ अणोरणीयसी स्थूलत्स्थूला व्याप्तचराचरा । आदित्येन्द्वादितेजोमद्यद्यत्तत्तन्मयी विभुः ॥ १.२२॥ न श्वेतरक्तपीतादिवर्णैर्निर्धार्य सोच्यते । न गुणेषु न भूतेषु विशेषेण व्यवस्थिता ॥ १.२३॥ अन्तरान्तर्बहिश्चैव देहिनां देहपूरणी । स्वसंवेद्यस्वरूपा सा दृश्या देशिकर्दिशतैः ॥ १.२४॥ ययाकाशस्तमो वापि लब्धा या नोपलभ्यते । पुन्नपुंसकयोस्तुल्याप्यङ्गनासु विशिष्यते ॥ १.२५॥ प्रधानमिति यामाहुर्या शक्तिरिति कथ्यते । या युष्मानपि मां नित्यमवष्टभ्यातिवर्तते ॥ १.२६॥ साहं यूयं तथैवान्यद्यद्वेद्यं तत्तु सा स्मृता । प्रलये व्याप्यते तस्यां चराचरमिदं जगत् ॥ १.२७॥ सैव स्वां वेत्ति परमा तस्या नान्योऽस्ति वेदिता । सा तु कालात्मना सम्यङ्मयैव ज्ञायते सदा ॥ १.२८॥ लवादिप्रलयान्तोऽयं कालः प्रस्तूयते ह्यज । नलिनीपत्नसंहत्यां सूक्ष्मसूच्यभिवेधने ॥ १.२९॥ दले दले तु यः कालः स कालो लववाचकः । लवैस्त्रुटिः स्यात्त्रिंशद्भिः कलां तावत्त्रुटिं विदुः ॥ १.३०॥ काष्ठा तावत्कला ज्ञेया तावत्काष्ठो निमेषकः । सोऽङ्गुलिस्फोटतुल्यश्च मात्राष्टाभिस्तु तैः स्मृता ॥ १.३१॥ कालेन यावता स्वीयो हस्तः स्वं जानुमण्डलम् । पर्येति मात्रा सा तुल्या स्वयैकश्वासमात्रया ॥ १.३२॥ षष्ट्युत्तरैस्तु त्रिशतैर्निश्वासैर्नाडिका स्मृता । द्विनाडिका मुहूर्तः स्यात्त्रिंशद्भिस्तैरर्हिनशम् ॥ १.३३॥ त्रिंशद्भिरप्यहोरात्रैर्मासो द्वादशभिस्तु तैः । संवत्सरो मानुषोऽयमहोरात्रं दिवौकसाम् ॥ १.३४॥ तथा दिव्यैरहोरात्रैस्त्रिशतैः षष्टिसंयुतैः । दिव्यः संवत्सरो ज्ञेयो दिव्यैः संवत्सरैस्तु तैः ॥ १.३५॥ भवेद्वादशसाहस्रैर्भिन्नैरेकं चतुर्युगम् । तैः सहस्रैः शतानन्द तवैकं दिनमिष्यते ॥ १.३६॥ तावती तव रात्रिश्च कथिता कालवेदिभिः । तथाविधैरहोरात्रैंस्त्रिशद्भिर्मासमृच्छति ॥ १.३७॥ तथाविधैद्र्वादशभिर्मासैरब्दस्तव स्मृतः । तथाविधानामब्दानां शतं त्वमपि जीवसि ॥ १.३८॥ तवायुर्मम निःश्वासः कालेनैवं प्रचोद्यते । स जानाति विपाकांश्च तस्यां सम्यग्व्यवस्थितान् ॥ १.३९॥ सोऽन्वीक्ष्य त्वादृशामायुः परिपाकं प्रदास्यति । प्रकृतेश्च क्वचित्कालो विकृतिं प्रतिपादयेत् ॥ १.४०॥ सा तत्त्वसंज्ञा चिन्मात्रज्योतिषः सन्निधेस्तथा । विचिकीर्षुर्घनीभूत्वा क्वचिदभ्येति बिन्दुताम् ॥ १.४१॥ कालेन भिद्यमानस्तु स बिन्दुर्भवति त्रिधा । स्थूलसूक्ष्मपरत्वेन तस्य त्रैविध्यमिष्यते ॥ १.४२॥ स बिन्दुनादबीजत्वभेदेन च निगद्यते । बिन्दोस्तस्माद्भिद्यमानाद्रवोऽव्यक्तात्मको भवेत् ॥ १.४३॥ स रवः श्रुतिसम्पन्नैः शब्दब्रह्मेति कथ्यते । तद्विस्तारप्रकारोऽयं यथा वक्ष्यामि साम्प्रतम् ॥ १.४४॥ अव्यक्तादन्तरुदितविभेदगहनात्मकम् । महन्नाम भवेत्तत्त्वं महतोऽहङ्कृतिस्तथा ॥ १.४५॥ भूतादिकवैकारिकतैजसभेदक्रमादहङ्कारात् । कालप्रेरितया गुणघोषयुजा शब्दसृष्टिरथ शक्त्या ॥ १.४६॥ शब्दाद्व्योम स्पर्शतस्तेन वायु- स्ताभ्यां रूपाद्वह्निरेतै रसाच्च । आपस्त्वेभिर्गन्धतोऽभूद्धराद्या भूताः पञ्च स्युर्गुणानां क्रमेण ॥ १.४७॥ खमपि सुषिरचिह्नमीरणः स्या- च्चलनपरः परिपाकवान्कृशानुः । जलमपि रसवद्घना धरा ते सितशितिपाटलशुभ्रपीतभासः ॥ १.४८॥ वृत्तं व्योम्नो बिन्दुषट्काञ्चितं तद्- वायोरग्नेः स्वस्तिकोद्यत्त्रिकोणम् । अब्जोपेतार्धेन्दुमद्बिम्बमाप्यं स्याद्यज्ञोद्यच्चातुरश्रं धरायाः ॥ १.४९॥ निवृत्तिसंज्ञा च तथा प्रतिष्ठा विद्याह्वया शान्तिसशान्त्यतीते । स्युः शक्तयः पञ्च धरादिभूत- प्रोत्थाः क्रमान्नादकलादिभूताः ॥ १.५०॥ पुटयोरुभयोश्च दण्डसंस्था पृथिवी तोयमधः कृशानुरूध्र्वम् । पवनस्त्वथ पाश्र्वगोऽपि मध्ये गगनं भूतगतिस्तनूद्भवेयम् ॥ १.५१॥ व्योम्नि मरुदत्र दहनस्तत्रापस्तासु संस्थिता पृथिवी । सचराचरात्मकानि च तस्यां जातानि सर्वभूतानि ॥ १.५२॥ श्रोत्रत्वगक्षिजिह्वाघ्राणान्यपि चेन्द्रियाणि बुद्धेः स्युः । वाक्पाणिपादपायूपस्थानि च कर्मसंज्ञानि तथा ॥ १.५३॥ वचनादाने सगती सविसर्गानन्दकौ च सम्प्रोक्ताः । वागाद्यर्थाः समना बुद्धिरहज्ररश्चित्तमपि करणम् ॥ १.५४॥ भूतेन्द्रियेन्द्रियार्थैरुद्दिष्टस्तत्त्वपञ्चविंशतिकः । व्यानन्दकैश्च तैरपि तत्त्वचतुर्विंशतिस्तथा प्रोक्ताः ॥ १.५५॥ करणोपेतैरेतैस्तत्त्वान्युक्तानि रहितवचनाद्यैः । भूतानीन्द्रियदशकं समनः प्रोक्तो विकारषोडशकः ॥ १.५६॥ अव्यक्तमदहङ्कृतिभूतानि प्रकृतयः स्युरष्टौ च । तन्मात्राहङ्काराः समहान्तः प्रकृतिविकृतयः सप्त ॥ १.५७॥ सत्त्वं रजस्तम इति सम्प्रोक्ताश्च त्रयोगुणास्तस्याः । तत्सम्बन्धाद्विकृतैर्भेदत्रितयैस्ततं जगत्सकलम् ॥ १.५८॥ देवाः सश्रुतयः स्वराः समरुतो लोकाश्च वैश्वानराः कालाः शक्तियुतास्त्रिवर्गसहितास्तिस्रस्तथा वृत्तयः । नाड्योऽन्यच्च जगत्त्रयेऽत्र नियतं यद्वस्तु सम्बध्यते विश्वेषां स्थितये चरन्त्यविरतं सूर्येन्दुवैश्वानराः ॥ १.५९॥ एष सर्गः समुत्पन्न इत्थं विश्वं प्रतीयते । विश्वप्रतीतौ हि यतः प्रपञ्चस्त्ववगम्यते ॥ १.६०॥ शब्दब्रह्मेति यत्प्रोक्तं तदुद्देशः प्रवत्र्यते । अतः परमवाच्यं हि स्वसंवेद्यस्वरूपतः ॥ १.६१॥ शब्दब्रह्मेति शब्दावगम्यमर्थं विदुर्बुधाः । स्वतोऽर्थानवबोधत्वात्प्रोक्तो नैतादृशो रवः ॥ १.६२॥ स तु सर्वत्र संस्यूतो जाते भूताकरे पुनः । आविर्भवति देहेषु प्राणिनामर्थविस्मृतः ॥ १.६३॥ प्रकृतौ कालनुन्नायां गुणान्तःकरणात्मनि । देहश्चतुर्विधो ज्ञेयो जन्तोरुत्पत्तिभेदतः ॥ १.६४॥ औद्भिदः स्वेदजोऽण्डोत्थश्चतुर्थस्तु जरायुजः । उद्भिद्य भूमिमुद्गच्छत्यौद्भिदः स्थावरस्तु सः ॥ १.६५॥ निर्दष्टस्कन्धविटपपत्रपुष्पफलादिभिः । पञ्चभूतात्मकः सर्वः क्ष्मामधिष्ठाय जायते ॥ १.६६॥ अम्बुयोन्यग्निपवननभसां समवायतः । स्वेदजः स्विद्यमानेभ्यो भूवह्न्यद्भ्यः प्रजायते ॥ १.६७॥ यूकमत्कुणकीटाणुस्त्रुट्याद्याः क्षणभङ्गुराः । अण्डजो वर्तुलीभूताच्छुक्लशोणितसम्पुटात् ॥ १.६८॥ कालेन भिन्नात्पूर्णात्मा निर्गच्छन्प्रक्रमिष्यति । अहिगोधावयोभेदशिंशुमारादिकश्च सः ॥ १.६९॥ जरायुजस्तु ग्राम्यातः क्रियातः स्त्र्यतिसम्भवः । स जायते चतुर्विंशत्तत्त्वसंयुक्तदेहवान् ॥ १.७०॥ स्वस्थानतश्च्युताच्छुक्लाद्बिन्दुमादाय मारुतः । गर्भाशयं प्रविशति यदा तुल्यं तदापरः ॥ १.७१॥ आर्तवात्परमं बीजमादायास्याश्च मूलतः । यदा गर्भाशयं नेष्यत्यथ सम्मिश्रयेन्मरुत् ॥ १.७२॥ मायीयं नाम योषोत्थं पौरुषं कार्मणं मलम् । आणवं नाम सम्पृक्तं मिलितं तन्मलद्वयम्।७३॥ सूक्ष्मरूपाणि तत्त्वानि चतुर्विंशन्मलद्वये । तत्र युक्तिनयत्याशु ततस्तद्गर्भमारुतः ॥ १.७४॥ सङ्क्षोभ्य संवर्धयति तन्मलं शोणिताधिकम् । स्त्री स्याच्छुक्लाधिकं ना स्यात्समभागं नपुंसकम् ॥ १.७५॥ स्वर्गाभिर्मरुदग्न्यद्भिः क्लेद्यते क्वाथ्यते च तत् । सान्द्रीभूतं तदह्नैव मातुरङ्गुष्ठसम्मितम् ॥ १.७६॥ आयामि बुद्बुदाकारं परेऽहनि विजृम्भते । पक्षेण चतुरश्रं स्यान्मातुर्भुक्तरसात्मवत् ॥ १.७७॥ मिलितादपि तस्मात्तु पृथगेव मलद्वयात् । किट्टभूतद्वयं पूर्वं बीजयुग्मं समुन्नमेत् ॥ १.७८॥ ऊध्र्वं तु मरुता नुन्नं तस्मादपि फलद्वयात् । उभयात्मिक्यधोवृत्ता नाडी दीर्घा भवदृजुः ॥ १.७९॥ अवाङ्मुखी सा तस्याश्च भवेत्पक्षद्वये द्वयम् । नाड्योस्तत्सन्धिबन्धाः स्युः सप्तान्या नाडयो मताः ॥ १.८०॥ ततो या प्रथमा नाडी सा सुषुम्नेति कथ्यते । या वामेडेति सा ज्ञेया दक्षिणा पिङ्गला स्मृता ॥ १.८१॥ या वाममुष्कसम्बन्धा सा श्लिष्यन्ती सुषुम्नया । दक्षिणं वृक्कमाश्रित्य धनुर्वक्रा हृदि स्थिता ॥ १.८२॥ वामांसजत्र्वन्तरगा दक्षिणां नाडिकामियात् । तथा दक्षिणमुष्कोत्था नाडी या वामरन्ध्रगा ॥ १.८३॥ अन्या धमन्यो याः प्रोक्ता गान्धारीहस्तिजिह्विका । सपूषालम्बुषा चैव यशस्विन्यपि शङ्खिनी ॥ १.८४॥ कुहूरिति च विद्वद्भिः प्रधाना व्यापिकास्तनौ । काचिन्नाडी बहिर्वक्त्रा या मातुर्हृदि बध्यते ॥ १.८५॥ यथा तत्पुष्टिमाप्नोति केदार इव कुल्यया । मातुराहाररसजैर्धातुभिः पुष्यते क्रमात् ॥ १.८६॥ क्रमवृद्धौ परञ्ज्योतिष्कला क्षेत्रज्ञतामियात् । सक्षेत्रज्ञं मलं तत्तु सभूतं सगुणं पुनः ॥ १.८७॥ सदोषं दूष्यसम्पन्नं जन्तुरित्यभिधीयते । फलकोशद्वयं तत्तु व्यक्तं पुंसो न तु स्त्रियः ॥ १.८८॥ नपुंसकस्य किञ्चित्तु व्यक्तिरत्रोपलक्ष्यते । मध्यस्थायाः सुषुम्नायाः पर्वपञ्चकसम्भवाः ॥ १.८९॥ शाखोपशाखतां प्राप्ताः सिरालक्षत्रयात्परम् । अर्धलक्षमिति प्राहुः शरीरार्थविशारदाः ॥ १.९०॥ तद्भेदांश्च बहूनाहुस्ताभिः सर्वाभिरेव च । व्याप्नोति सर्वतो वायुर्येन देहः प्रवत्र्यते ॥ १.९१॥ देहेऽपि मूलाधारे तु समुदेति समीरणः । नाडीभ्यामस्तमभ्येति घ्राणतो द्विषडङ्गुले ॥ १.९२॥ अहोरात्रमिनेन्दुभ्यमूध्र्वाधोवृत्तिरुच्यते । वामदक्षिणनाडीभ्यां स्यादुदग्दक्षिणायनम् ॥ १.९३॥ अत्रापि चेतनायतोरागतिं बहुधा विदुः । रेतःशोणितजं प्राहुरेकेऽन्ये मातुराहृतात् ॥ १.९४॥ आहाराद्रसजं प्राहुः केचित्कर्मफलं विदुः । कश्चिदस्य परं धाम्नो व्याप्तिमेव विवक्षति ॥ १.९५॥ कश्चित्कर्मप्रकारज्ञः पितुर्देहात्मनासकृत् । सम्बध्य मथनोद्रेकविधिना शुक्लधातुतः ॥ १.९६॥ तत्परन्धाम सौजस्कं सङ्क्रान्तं मारुतेन तु । ब्रूते रक्तव्यतिकृताद्दीपाद्दीपान्तरं यथा ॥ १.९७॥ कश्चित्तु भौतिकव्याप्ते जन्मकाले वपुष्यथ । कुतश्चिदेत्य जीवात्मा निष्पन्न इति शंसति ॥ १.९८॥ बहुना किं पुनः पुंसः सान्निध्यात्प्रविजृम्भिता । प्रकृतिर्गुणसम्भिन्ना त्रिदोषात्मा महीयसी ॥ १.९९॥ पञ्चभूतमयी सप्तधातुभिन्ना च भौतिकैः । पञ्चभिश्च गुणैर्युक्ता पञ्चेन्द्रियविचारिणी ॥ १.१००॥ पञ्चेन्द्रियार्थगा भूयः पञ्चबुद्धिप्रभाविनी । पञ्चकर्मेन्द्रियगता पञ्चत्वादाप्रवर्तते ॥ १.१०१॥ परेण धाम्ना समनुप्रबद्धा मनस्तदा सा तु महाप्रभावा । यदा तु सङ्कल्पविकल्पकृत्या यदा पुर्निनश्चिनुते तदा सा ॥ १.१०२॥ स्याद्बुद्धिसंज्ञा च यदा प्रवेत्ति ज्ञातारमात्मानमहङ्कृतिः स्यात् । तदा यदा सा त्वभिलीयतेऽन्त- श्चित्तं च निर्धारितमर्थमेषा ॥ १.१०३॥ यदा स्वयं व्यञ्जयितुं यतेत महीयसी सा करणैः क्रमेण । तदा तु बिन्दुस्फुटनोद्भवस्य रवस्य सम्यक्प्रविजृम्भितं स्यात् ॥ १.१०४॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे प्रथमः पटलः ॥

॥ द्वितीयः पटलः ॥

अथ व्यवस्थिते त्वेवं मासात्पक्षाद्दिनादपि । मुहूर्तान्नाडिकायाश्च क्षणादपि च वर्धते ॥ २.१॥ जन्तुः षडङ्गी पूर्वे स्याच्छिरः पादौ करावपि । अन्तराधिश्चेति पुनः षडङ्गेषु प्रवर्तते ॥ २.२॥ अक्षिनासास्यकर्णभ्रूकपोलचिबुकादिकम् । प्रकोष्ठकोर्परांसाद्यं कट्यूरूप्रपदादिकम् ॥ २.३॥ उरः कुक्षिस्तनाद्यं च ततः सर्वाङ्गवान्विभुः । कालेन जन्तुर्भवति दोषास्त्वनुगुणा यदि ॥ २.४॥ प्रसूतिसमये सोऽथ जनित्रीं क्लेशयन्मुहुः । संवृतास्यसुषुम्नाख्योऽवाङ्मुखोऽनिलचोदितः ॥ २.५॥ तस्यां ग्रहिण्यां शकृतिमग्नवक्त्राक्षिनासिकः । पुराकृतानां पापानामयुतं संस्मरन्मुहुः ॥ २.६॥ तस्याः कायाग्निना दग्धः क्लेदैः क्लिन्नाङ्गबन्धनः । प्रत्युद्गारपरीतश्च तत्पायुद्वारगोचरः ॥ २.७॥ तदा प्रक्षुभितैः स्वीयवायुभिर्दशतां गतैः । सम्पिण्डितशरीरस्तु मोक्षमेव किलेच्छति ॥ २.८॥ प्राणाद्या वायवस्तत्र पूर्वमेव कृतास्पदाः । परस्परमपानश्च प्राणश्च प्रतिबध्यते ॥ २.९॥ प्रयात्यूध्र्वं यदा प्राणस्तदापानोप्यधस्तथा । यदा समानः कायाग्नि सन्धुक्षयति पाचितुम् ॥ २.१०॥ तदा तत्पाकमुक्तं तु रसमादाय धावति । व्यानो जन्तोस्तु तद्देहमापादतलमस्तकम् ॥ २.११॥ उदानः प्राणसहितो निमेषोन्मेषकारकः । उद्गारकारको नाग उन्मीलयति कूर्मकः ॥ २.१२॥ क्षुत्कृत्कृकलो देवदत्तो जृम्भणकर्मकृत् । धनञ्जयाख्यो देहऽस्मिन्कुर्याद्बहुविधान्रवान् ॥ २.१३॥ स तु लौकिकवायुत्वान्मृतं च न विमुञ्चति । इत्यमी मारुताः प्रोक्ता दश देहाधिगामिनः ॥ २.१४॥ वह्नयश्च दशान्ये स्युस्तेषां सप्त तु धातुगाः । त्रयस्त्रिदोषगाः प्रोक्ताः स्वेदक्लेदान्त्रगाश्च ते ॥ २.१५॥ त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्लानि धातवः । ते दूष्याः कफपित्तेरा दोषास्तत्प्रेरको मरुत् ॥ २.१६॥ समवायी स विश्वात्मा विश्वगो विश्वकर्मकृत् । स दोषो वा स वा दूष्यः क्रियातः सम्प्रधार्यते ॥ २.१७॥ बुभुक्षा च पिपासा च शोकमोहौ जरामृती । षडूर्मयः प्राणबुद्धिदेहधर्मे व्यवस्थिताः ॥ २.१८॥ मज्जास्थिस्नायवः शुक्लाद्रक्तात्त्वङ्मांसशोणिताः । इति षाट्कौशिकं नाम देहे भवति देहिनाम् ॥ २.१९॥ रसादितः क्रमात्पाकः शुक्लान्तेषु तु धातुषु । शुक्लपाकात्स्वयं भिद्येदोजो नामाष्टमी दशा ॥ २.२०॥ क्षेत्रज्ञस्य तदोजस्तु केवलाश्रयमिष्यते । यथा स्नेहः प्रदीपस्य यथाभ्रम्रशनित्विषः ॥ २.२१॥ बहुद्वारेण कुम्भेन संवृतस्य हविर्भुजः । यथा तेजः प्रसरति समीपालोकशक्तिमत् ॥ २.२२॥ तथादेहावृतस्यापि क्षेत्रज्ञस्य महात्विपः । इन्द्रियैः सम्प्रवर्तन्ते स्वं स्वमर्थग्रहं प्रति ॥ २.२३॥ नभः श्रोत्रेऽनिलश्चर्मण्यग्निश्चक्षुष्यथो रसः । जिह्वायामवनिघ्र्राण इत्थमर्थप्रवर्तनम् ॥ २.२४॥ यदा पित्तं मरुन्नुन्नं विलीनं प्रविलापयेत् । धातूंस्तदा क्रमाद्रक्तं लसिकां द्रावयेत्क्षणात् ॥ २.२५॥ द्रुता सा तु लसीकाह्वा रोमकूपैः प्रवर्तते । बहिः सर्वत्र कणशस्तदा स्वेदः प्रतीयते ॥ २.२६॥ यदा कफो मरुत्पित्तं नुन्नोमीन प्रवर्तते । ऊध्र्वीभूतं दृढो बाष्पं प्रसेकं च प्रवर्तयेत् ॥ २.२७॥ कफात्मिकास्तु विकृतीः कर्णशष्कुलिपूर्विकाः । गण्डमालादिका वापि कुर्याज्जन्तोस्तु कर्मजाः ॥ २.२८॥ ग्रहणी नाम सा पात्री प्रसृताञ्जलिसन्निभा । अधस्तस्याः प्रधानाग्निः स समानेन नुद्यते ॥ २.२९॥ तस्याधस्तात्त्रिकोणाभं ज्योतिराधारमुत्तमम् । विद्यते स्थानमेतद्धि मूलाधारं विदुर्बुधाः ॥ २.३०॥ अथाहृतं षड्रसं वाप्याहारं कण्ठमार्गगम् । श्लेष्मणानुगतं तस्य प्रभावान्मधुरीभवेत् ॥ २.३१॥ तत्र स्वाद्वम्ललवणतिक्तोषणकषायकाः । षड्रसाः कथिता भूतविकृत्या द्रव्यमाश्रिताः ॥ २.३२॥ तथैवामाशयगतं पश्चात्पित्ताशयं व्रजेत् । तदा तस्यानुगमनात्कटुकत्वं प्रपद्यते ॥ २.३३॥ तत्रान्त्रान्तरसंश्लिष्टं पच्यते पित्तवारिणा । पच्यमानाद्रसं भिन्नं वायू रक्तादिकां नयेत्।३४॥ तत्र किट्टं पृथग्भिन्नं ग्रहण्यां चिनुतेऽनिलः । तच्चीयमानं विण्णाम ग्रहणीं पूरयेन्मुहुः ॥ २.३५॥ सा तेन शकृता पूर्णा वलिता प्रतिमुञ्चति । पुरीषं पायुमार्गेण तत्पाकेऽच्छाम्भसा ततः ॥ २.३६॥ अङ्गं स्वेदवदभ्यन्तव्र्याप्तैः सूक्ष्मैः सिरामुखैः । वस्तिमापूरयेद्वायुः पूर्णे मुञ्चति धारया ॥ २.३७॥ मूत्राशयो धनुर्वक्रो वस्तिरित्यभिधीयते । मूत्रमित्याहुरुदकं वस्तेर्मेहननिर्गतम् ॥ २.३८॥ अपथ्यभाजामनयोर्मार्गयोर्दोषदुष्टयोः । प्रमेहमूत्रकृच्छ्रादेग्र्रहण्यादेश्च सम्भवः ॥ २.३९॥ इत्थम्भूतः स जन्तुस्तु जरायुच्छन्नगात्रवान् । अपत्यवत्र्म सङ्गम्य सज्यते वायुना मुहुः ॥ २.४०॥ जायतेऽधिकसंविग्नो जृम्भतेऽङ्गैः प्रकम्पितैः । मूत्र्योद्बणं न श्वसिति भीत्या च परिरोदिति ॥ २.४१॥ अथ पापकृतां शरीरभाजा- मुदरान्निष्क्रमितुं महान्प्रयासः । नलिनोद्भवधीविचित्रवृत्ता नितरां कर्मगतिस्तु मानुषाणाम् ॥ २.४२॥ जायते पुनरसौ निजङ्गकै- र्जृम्भते जनितभीति कम्पते । उल्बणं श्वसिति रोदिति ज्वरा- त्प्रागनेकशतदुःखभावितः ॥ २.४३॥ मूलाधारात्प्रथममुदितो यस्तु भावः पराख्यः पश्चात्पश्यन्त्यथ हृदयगो बुद्धियुङ्मध्यमाख्यः । वक्त्रे वैखर्यथ रुरुदिषोरस्य जन्तोः सुषुम्ना बद्धस्तस्माद्भवति पवनप्रेरितो वर्णसङ्घः ॥ २.४४॥ स्रोतोमार्गस्याविभक्तत्वहेतो- स्तत्रार्णानां जायते न प्रकाशः । तावद्यावत्कण्ठमूर्धादिभेदो वर्णव्यक्तिस्थानसंस्था यतोऽतः ॥ २.४५॥ ज्ञातास्मीति यदा भावा मनोऽहङ्कारबुद्धिमान् । जातश्चित्पूर्वको जन्तोः स भावः क्रमर्विधतः ॥ २.४६॥ बध्नाति मातापित्रोस्तु पूर्वं बन्धुषु च क्रमात् । स पीत्वा बहुशः स्तन्यं मातरं स्तन्यदायिनीम् ॥ २.४७॥ इच्छन्नोदिति तां वीक्ष्य तत्र स्यादितरेतरम् । बन्धस्तत्राधिकर्तारमतिस्निग्धमनन्यगम् ॥ २.४८॥ पितरं वीक्ष्य तत्रापि तथा भ्रातरमेव च । पितृव्यमातुलादींश्च समुद्वीक्ष्य प्रमोदते ॥ २.४९॥ एवं सम्बन्धसंसारबान्धवो विस्मरिष्यति । पूर्वकर्म च गर्भस्थित्युद्भूतक्लेशमेव च ॥ २.५०॥ अथ स्वमुत्तारयितुमाह्वयेज्जननीं मुहुः । अवैशद्यान्मुखस्रोतो मार्गस्याविशदाक्षरम् ॥ २.५१। अप्यव्यक्तं प्रलपति यदा कुण्डलिनी तदा । मूलाधाराद्विसरति सुषुम्ना वेष्टनी मुहुः ॥ २.५२॥ त्रिचतुःपञ्चषट्सप्ताष्टमो दशम एव च । तथा द्वादशपञ्चाशद्भेदेन गुणयेत्क्रमात् ॥ २.५३॥ यदा त्रिंशोऽथ गुणयेत्तदा त्रिगुणिता विभुः । शक्तिः कामाग्निनादात्मा गूढमूर्तिः प्रतीयते ॥ २.५४॥ तदा तां तारमित्याहुरोमात्मेति बहुश्रुताः । तामेव शक्तिं ब्रुवते हरेरात्मेति चापरे ॥ २.५५॥ त्रिगुणा सा त्रिदोषा सा त्रिवर्णा सा त्रयी च सा । त्रिलोका सा त्रिमूर्तिः सा त्रिरेखा सा विशिष्यते ॥ २.५६॥ एतेषां तारणात्तारः शक्तिस्तद्धृतशक्तितः । यदा चतुर्धा गुणिता सूक्ष्मादिस्थानवाचिका ॥ २.५७॥ वाचिका जाग्रदादीनां करणानां च सा तदा । यदा सा पञ्चगुणिता पञ्चपञ्चविभेदिनी ॥ २.५८॥ पञ्चानामक्षराणां च वर्णानां मरुतां तथा । गुणिता सा यदा षोढा कोशोर्मिरसभेदिनी ॥ २.५९॥ तदा षड्गुणिताख्यस्य यन्त्रस्य च विभेदिनी । यदा सा सप्तगुणिता तारहृल्लेखयोस्तदा ॥ २.६०॥ भेदैरहाद्यैः शान्तान्तैर्भिद्यते सप्तभिः पृथक् । अकारश्चाप्युकारश्च मकारो बिन्दुरेव च ॥ २.६१॥ नादः शक्तिश्च शान्तश्च तारभेदाः समीरिताः । हकाररेफमायाश्च बिन्दुनादौ तथैव च ॥ २.६२॥ शक्तिशान्तौ च सम्प्रोक्ताः शक्तेर्भेदाश्च सप्तधा । अङ्गेभ्योऽस्यास्तु सप्तभ्यः सप्तधा भिद्यते जगत् ॥ २.६३॥ लोकाद्रिद्वीपपातालसिन्धुग्रहमुनिस्वरैः । धात्वादिभिस्तथान्यैश्च सप्तसङ्ख्याप्रभेदकैः ॥ २.६४॥ यदाष्टधा सा गुणिता तदा प्रकृतिभेदिनी । अष्टाक्षरा हि वस्वाशा मातृका मूर्तिभेदिनी ॥ २.६५॥ दशधा गुणिता नाडी मर्माशादिविभेदिनी । द्वादशात्मिक्यपि यदा तदा राश्यर्कमूर्तियुक् ॥ २.६६॥ मन्त्रं च द्वादशार्णाख्यमभिधत्ते स्वरानपि । तत्सङ्ख्यं च तदा यन्त्रं शक्तेस्तद्गुणितात्मकम् ॥ २.६७॥ पञ्चाशदंशगुणिताथ यदा भवेत्सा देवी तदात्मविनिवेशितदिव्यभावा । सौषुम्नवत्र्मसुषिरोदितनादसङ्गा- त्पञ्चाशदीरयति पङ्क्तिश एव वर्णान् ॥ २.६८॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे द्वितीयः पटलः ॥

॥ तृतीयः पटलः ॥

अथोभयात्मका वर्णाः स्युरग्नीर्षोमात्मभेदतः । त एव स्युस्त्रिधा भूयः सोमेनाग्निविभागशः ॥ ३.१॥ स्वराख्याः षोडश प्रोक्ताः स्पर्शाह्वाः पञ्चविंशतिः । व्यापकाश्च दशैते स्युः सोमेनाग्न्यात्मकाः क्रमात् ॥ ३.२॥ एषु स्वरा ह्रस्वदीर्घभेदेन द्विविधा मताः । पूर्वो ह्रस्वः परो दीर्घो बिन्दुसर्गान्तिकौ च तौ ॥ ३.३॥ आद्यन्तस्वरषट्कस्य मध्यगं यच्चतुष्टयम् । वर्णानामागमधनैस्तन्नपुंसकमीरितम् ॥ ३.४॥ तच्चतुष्कं सुषुम्नास्थे कुर्यात्प्राणेऽयनस्थितिम् । दक्षोत्तरस्थे प्राणाख्ये स्यातां दक्षोत्तरायणे ॥ ३.५॥ दक्षः सुव्यवस्थिते ह्रस्वदीर्घाः पञ्चोदयन्ति च । भूतभूतकलाभिस्तदुदयः प्रागुदीरितः ॥ ३.६॥ बिन्दुसर्गौ तु यौ प्रोक्तौ तौ सूर्यशशिनौ क्रमात् । तयोर्विकारविस्तारः परस्तात्सम्प्रवक्ष्यते ॥ ३.७॥ स्पर्शाख्या अपि ये वर्णाः पञ्चपञ्चविभेदतः । भवन्ति पञ्चवर्गास्तदन्त्य आत्मा रविः स्मृतः ॥ ३.८॥ चतुर्विंशतितत्त्वस्थास्तस्माद्वर्णाः परे क्रमात् । तेन स्पर्शाह्वयाः सौराः प्राणाग्नीळाम्बुखात्मकाः ॥ ३.९॥ व्यापकाश्च द्विवर्गाः स्युस्तथा पञ्चविभेदतः । शशीनाग्न्युत्थिता यस्मात्स्वरस्पृग्व्यापकाक्षराः ॥ ३.१०॥ तत्त्रिभेदसमुद्भूता अष्टत्रिंशत्कलाः स्मृताः । स्वरैः सौम्याः स्पर्शयुग्मैः सौरा याद्यैश्च वह्निजाः ॥ ३.११॥ षोडशद्वादशदशसङ्ख्याः स्युः क्रमशः कलाः । वर्णेभ्य एव तारस्य पञ्चभेदैस्तु भूतगैः ॥ ३.१२॥ सर्वगाश्च समुत्पन्नाः पञ्चाशत्सङ्ख्यकाः कलाः । ताभ्य एव तु तावत्यः शक्तिभिर्विष्णुमूर्तयः ॥ ३.१३॥ तावत्यो मातृभिः सार्धं तेभ्यः स्यू रुद्रमूर्तयः । तेभ्य एव तु पञ्चाशत्स्युरोषधय ईरिताः ॥ ३.१४॥ याभिस्तु मन्त्रिणः सिद्धिं प्राप्नुयुर्वाञ्छितार्थदाम् । अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः ॥ ३.१५॥ शशिनी चन्द्रिका कान्तिज्र्योत्स्ना श्रीः प्रीतिरङ्गना । पूर्णापूर्णामृताकामदायिन्यः सस्वराः कलाः ॥ ३.१६॥ तपिनी तापिनी धूम्रा मरीची ज्वालिनी रुचिः । सुषुम्नाभोगदाविश्वाबोधिनीधारिणीक्षमाः ॥ ३.१७॥ कामाद्या वसुदाः सौराः षडान्ता द्वादशेरिताः । धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विष्फुलिङ्गिनी ॥ ३.१८॥ सुश्रीः सुरूपा कपिला हव्यकव्यवहे अपि । याद्यर्णयुक्ता वह्न्युत्था दश धर्मप्रदाः कलाः ॥ ३.१९॥ सृष्टि ऋद्धिः स्मृतिर्मेधा कान्तिर्लक्ष्मीद्र्युतिः स्थिरा । स्थितिः सिद्धिरकारोत्थाः कला दश समीरिताः ॥ ३.२०॥ अकारप्रभवा ब्रह्मजाताः स्युः सृष्टये कलाः । जरा च पालिनी शान्तिरैश्वरी रतिकामिके ॥ ३.२१॥ वरदा ह्लादिनी प्रीतिर्दीर्घा चोकारजाः कलाः । उकारप्रभवा विष्णुजाताः स्युः स्थितये कलाः ॥ ३.२२॥ तीक्ष्णा रौद्री भया निद्रा तन्द्री क्षुत्क्रोधिनी क्रिया । उत्कारी चैव मृत्युश्च मकाराक्षरजाः कलाः ॥ ३.२३॥ मकारप्रभवा रुद्रजाताः संहृतये कलाः । बिन्दोरपि चतस्रः स्युः पीतश्वेतारुणाः सिताः ॥ ३.२४॥ निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च । इन्धिका दीपिका चैव रेचिका गोचिका परा ॥ ३.२५॥ सूक्ष्मा सूक्ष्मामृता ज्ञानामृता चाप्यायिनी तथा । व्यापिनी व्योमरूपा चेत्यनन्ता नादसम्भवाः ॥ ३.२६॥ नादजाः षोडश प्रोक्ता भुक्तिमुक्तिप्रदायकाः । केशवनारायणमाधवगोविन्दविष्णवः ॥ ३.२७॥ मधुसूदनसंज्ञश्च सप्तमः स्यात्त्रिविक्रमः । वामनः श्रीधरश्चैव हृषीकेशस्त्वनन्तरः ॥ ३.२८॥ पद्मनाभस्तथा दामोदराह्वो वासुदेवयुक् । सङ्कर्षणश्च प्रद्युम्नः सानिरुद्धः स्वरोद्भवाः ॥ ३.२९॥ ततश्चक्री गदी शाङ्र्गी खड्गी शङ्खी हली तथा । मुसली शूलिसंज्ञश्च भूयः पाशी च साज्रुशी ॥ ३.३०॥ मुकुन्दो नन्दजो नन्दी नरो नरकजिद्धरिः । कृष्णः सत्यः सात्वतश्च शौरिः शूरो जनार्दनः ॥ ३.३१॥ भूधरो विश्वमूर्तिश्च वैकुण्ठः पुरुषोत्तमः । बली बलानुजो बालो वृषघ्नश्च वृषस्तथा ॥ ३.३२॥ हंसो वराहो विमलो नृसिंहो मूर्तयो हलाम् । कीर्तिः कान्तिस्तुष्टिपुष्टी धृतिः क्षान्तिः क्रिया दया ॥ ३.३३॥ मेधा च हर्षा श्रद्धाह्वा लज्जा लक्ष्मीः सरस्वती । प्रीती रतिश्च सम्प्रोक्ताः क्रमेण स्वरशक्तयः ॥ ३.३४॥ जया दुर्गा प्रभा सत्या चण्डा वाणी विलासिनी । विजया विरजा विश्वा विनदा सुनदा स्मृतिः ॥ ३.३५॥ ऋद्धिः समृद्धिः शुद्धिश्च बुद्धिर्भक्तिर्मतिः क्षमा । रमोमा क्लेदिनी क्लिन्ना वसुदा वसुधापरा ॥ ३.३६॥ परा परायणा सूक्ष्मा सन्ध्या प्रज्ञा प्रभा निशा । अमोघा विद्युता चेति मूत्र्याद्याः सर्वकामदाः ॥ ३.३७॥ एकपञ्चाशदुद्दिष्टा नमोऽन्ता वर्णपूर्विकाः । सधातुप्राणशक्त्यात्मयुक्ता यादिषु मूर्तयः ॥ ३.३८॥ श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिरमरेश्वरः । अर्घीशो भारभूतिश्च स्थितीशः स्थाणुको हरः ॥ ३.३९॥ झण्डीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः । अक्रूरश्च महासेनः स्युरेताः स्वरमूर्तयः ॥ ३.४०॥ ततः क्रोधीशचण्डीशपञ्चान्तकशिवोत्तमाः । तथैकरुद्रकूर्मैकनेत्राह्वचतुराननाः ॥ ३.४१॥ अजेशशर्वसोमेशास्तथा लाङ्गलिदारुकौ । अर्धनारीश्वरश्चोमाकान्तश्चाषाढिदण्डिनौ ॥ ३.४२॥ अत्रिर्मीनश्च मेषश्च लोहितश्च शिखी तथा । छगलण्डद्विरण्डौ च समहाकालचालिनौ ॥ ३.४३॥ भुजङ्गेशः पिनाकी च खड्गीशश्च बकस्तथा । श्वेतो भृगुश्च लकुलिः शिवः संवर्तकः स्मृतः ॥ ३.४४॥ पूर्णोदरी च विरजा तृतीया शाल्मली तथा । लोलाक्षी वर्तुलाक्षी च दीर्घघोणा तथैव च ॥ ३.४५॥ सुदीर्घमुखिगोमुख्यौ नवमी दीर्घजिह्विका । कुण्डोदर्यूध्र्वकेशी च मुखी विकृतपूर्विका ॥ ३.४६॥ सज्वालोल्कश्रियाविद्यामुख्यः स्युः स्वरशक्तयः । महाकालीसरस्वत्यौ सर्वसिद्धिसमन्विता ॥ ३.४७॥ गौरी त्रैलोक्यविद्या च तथा मन्त्रार्णशक्तिका । भूतमाता लम्बोदरी द्राविणी नागरी तथा।४८॥ खेचरी मञ्जरी चैव रूपिणी वीरिणी तथा । कोदरी पूतना भद्रकालीयोगिन्य एव च ॥ ३.४९॥ शङ्खिनी र्गिजनी कालरात्री कुर्दिन्य एव च । कर्पिदनी तथा वङ्काआ जया च सुमुखेश्वरी ॥ ३.५०॥ रेवती माधवी चैव वारुणी वायवी तथा । रक्षोऽवधारिणी चान्या तथैव सहजाह्वया ॥ ३.५१॥ लक्ष्मीश्च व्यापिनी मायेत्याख्याता वर्णशक्तयः । इत्युक्तस्त्रिविधो न्यासः क्रमात्सर्वसमृद्धिदः ॥ ३.५२॥ चन्दनकुचन्दनागरुकर्पूरोशीररोगजलघुसृणाः । तक्कोलजातिमांसीमुरचोरग्रन्धिरोचनापत्राः ॥ ३.५३॥ पिप्पलबिल्वगुहारुणतृणकलवज्रह्वकुम्भिवन्दिन्यः । सौदुम्बरीकाष्मरिकास्थिराब्जदरपुष्पिकामयूरशिखाः ॥ ३.५४॥ प्लक्षाग्निमन्थसिह्मीकुशाह्वदर्भाश्च कृष्णदरपुष्पी । रोहिणडुण्डुमबृहतीपाटलचित्रातुलस्यपामार्गाः ॥ ३.५५॥ शतमखलताद्विरेफो विष्णुक्रान्ती मुसल्यथाञ्जलिनी । दूर्वा श्रीदेविसहे तथैव लक्ष्मी सदाभद्रे ॥ ३.५६॥ आदीनामिति कथिता वर्णानां क्रमवशादथौषधयः । गुलिकाकषायभस्मप्रभेदतो निखिलसिद्धिदायिन्यः ॥ ३.५७॥ यथा भवन्ति देहान्तरमी पञ्चाशदक्षराः । येन येन प्रकारेण तथा वक्ष्यामि तत्त्वतः ॥ ३.५८॥ समीरितः समीरेण सुषुम्नारन्ध्रनिर्गताः । व्यक्तिं प्रयान्ति वदने कण्ठादिस्थानघट्टिताः ॥ ३.५९॥ उच्चैरुन्मार्गगो वायुरुदात्तं कुरुते स्वरम् । नीचैर्गतोऽनुदात्तं च तिर्यक् स्वरितविस्तृतिः ॥ ३.६०॥ अर्धैकद्वित्रिसङ्ख्याभिर्मात्राभिर्लिपयः क्रमात् । सव्यञ्जना ह्रस्वदीर्घप्लुतसंज्ञा भवन्ति ताः ॥ ३.६१॥ अकारेकारयोर्योगादेकारो वर्ण इष्यते । तस्यैवैकारयोगेन स्यादैकाराक्षरस्तथा ॥ ३.६२॥ उकारयोगात्तस्यैव स्यादोकाराह्वयोऽक्षरः । तस्यैवौकारयोगेन स्यादौकाराक्षरस्तथा ॥ ३.६३॥ सन्ध्यक्षराः स्युश्चत्वारो मन्त्राः सर्वार्थसाधकाः । ऌवर्णर्वर्णयोव्र्यक्तिर्लरोः सम्यक् प्रदृश्यते ॥ ३.६४॥ बिन्दुसर्गात्मनोव्र्यक्तिममसोरजपा वदेत् । कण्ठात्तु निःसरन्सर्गः प्रायोऽचामेकतः परः ॥ ३.६५॥ नश्वरः सर्ग एव स्यात्सोष्मा सप्राणकस्तु हः । स सर्गः श्लेषितः कण्ठे वायुनाकादिमीरयेत् ॥ ३.६६॥ सर्गस्पर्शनमात्रेण कं खरस्पर्शनात्तु खम् । स्तोकगम्भीरसंस्पर्शाद्गघौ ङश्च बहिर्गतः ॥ ३.६७॥ ससर्गस्तालुगः सौष्म्यः श च वर्गं च यं तथा । ऋटुरेफषकारांश्च मूर्धगो दन्तगस्तथा ॥ ३.६८॥ ऌतवर्गलसानोष्ठादुपूपध्मानसंज्ञकान् । दन्तोष्ठाभ्यां च वं तत्तत्स्थानगोऽर्णान्समीरयेत् ॥ ३.६९॥ ह्रस्वाः पञ्च परे सन्धिविकृताः पञ्चाथ बिन्द्वन्तिकाः काद्याः प्राणहुताशभूकखमया याद्याश्च शार्णान्तिकाः । हान्ताः षक्षळसाः क्रमेण कथिता भूतात्मकास्ते पृथ- क्तैस्तैः पञ्चभिरेव वर्णदशकैः स्युः स्तम्भनाद्याः क्रिया ॥ ३.७०॥ ऊदद्गादिलळाः कोर्णसौ चतुर्थार्णकावसौवारः । दृष्ट्यैव द्वितीयरक्षा वह्नेरद्वन्द्वयोनिकादिवर्षाः ॥ ३.७१॥ मरुतः कपोलबिन्दुकपञ्चमवर्णाः शहौ तथा व्योम्नः । मनुषु परेष्वपि मन्त्री करोतु कर्माणि तस्य संसिध्यै ॥ ३.७२॥ स्तम्भनाद्यमथ पार्थिवैरपामक्षरैश्च परिवर्षणादिकम् । दाहशोषणसशून्यतादिकान्वह्निवायुवियदुत्थितैश्चरेत् ॥ ३.७३॥ दशभिर्दशभिरमीभिर्नमोऽन्तिकैद्र्वन्द्वशश्च बिन्दुयुतैः । योनेर्मध्ये कोणत्रितये मध्ये च संयजेन्मन्त्री ॥ ३.७४॥ पूर्वोक्ताद्विन्दुमात्रात्स्वयमथ रवतन्मात्रतामभ्युपैता- कारादीन्द्व्यष्टकादीनपि तदनुगतान्पञ्चविंशत्तथैव । यादीन्संयुक्तधातूनपि गुणसहितैः पञ्चभूतैश्च ताभि- स्तन्मात्राभिव्र्यतीत्य प्रकृतिरथ हसंज्ञा भवेद्व्याप्य विश्वम् ॥ ३.७५॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे तृतीयः पटलः ॥

॥ चतुर्थः पटलः ॥

अथ व्यवस्थिते त्वेवमस्य शक्तित्वमिष्यते । कृतकृत्यस्य जगति सततं रूढसंस्थितेः ॥ ४.१॥ प्राणात्मकं हकाराख्यं बीजं तेन तदुद्भवाः । षडूर्मयः स्यू रेफोत्था गुणाश्चत्वार एव च ॥ ४.२॥ पवनाद्याः पृथिव्यन्ताः स्पर्शाद्यैश्च गुणैः सह । करणान्यपि चत्वारि सङ्घातश्चेतनेति च ॥ ४.३॥ ईकारस्य गुणाः प्रोक्ताः षडिति क्रमतो बुधैः । ऊकारान्तास्त्वकाराद्याः षड्वर्णाः षड्भ्य एव तु ॥ ४.४॥ प्रभेदेभ्यः समुत्पन्ना हकारस्य महात्मनः । ऋकाराद्यास्तु चत्वारो रेफोत्था ऌपराः स्मृताः ॥ ४.५॥ एकारादिविसर्गान्तं वर्णानां षट्कमुद्गतम् । ईकारस्य षडङ्गेभ्य इतीदं षोडशांशवत् ॥ ४.६॥ येभ्यः सञ्जज्ञिरींशेभ्यः स्वराः षोडश सर्वगाः । तेभ्यो वर्णान्तराः सर्वे ततो मूलमिदं विदुः ॥ ४.७॥ गतो वो बीजतामेष प्राणिष्वेव व्यवस्थितः । ब्रह्माण्डं ग्रस्तमेतेन व्याप्तस्थावरजङ्गमम् ॥ ४.८॥ नादः प्राणश्च जीवश्च घोषश्चेत्यादि कथ्यते । एष पुंस्त्रीनियमितैर्लिङ्गैश्च सनपुंसकैः ॥ ४.९॥ रेफो मायाबीजमिति त्रिधा समभिधीयते । शक्तिः श्रीः सन्नतिः कान्तिर्लक्ष्मीर्मेधा सरस्वती ॥ ४.१०॥ क्षान्तिः पुष्टिः स्मृतिः शान्तिरित्याद्यैः स्वार्थवाचकैः । नानाविकारतां प्राप्तैः स्वैः स्वैर्भावैर्विकल्पितैः ॥ ४.११॥ तामेनां कुण्डलीत्येते सन्तो हृदयगां विदुः । सा रौति सततं देवी भृङ्गी सङ्गीतकध्वनिः ॥ ४.१२॥ आकृतिं स्वेन भावेन पिण्डितां बहुधा विदुः । कुण्डली सर्वथा ज्ञेया सुषुम्नानुगतैव सा ॥ ४.१३॥ चराचरस्य जगतो बीजत्वान्मूलमेव तत् । मूलस्य बिन्दुयोगेन शतानन्द त्वदुद्भवः ॥ ४.१४॥ रेफान्वितेकाराकारयोगादुत्पत्तिरेतयोः । हङ्काराख्यो भवांस्तेन हरिरित्येष शब्द्यते ॥ ४.१५॥ हरत्वमस्य तेनैव सर्वात्मत्वं ममापि च । अस्य बिन्दोः समुद्भूत्या तदन्तो हं स उच्यते ॥ ४.१६॥ स हङ्कारः पुमान्प्रोक्तः स इति प्रकृतिः स्मृता । अजपेयं मता शक्तिस्तथा दक्षिणवामगा ॥ ४.१७॥ बिन्दुर्दक्षिणभागस्तु वामभागौ विसर्गकः । तेन दक्षिणवामाख्यौ भानौ पुंस्त्रीविशेषितौ ॥ ४.१८॥ बिन्दुः पुरुष इत्युक्तो विसर्गः प्रकृतिर्मता । पुम्प्रकृत्यात्मको हंसस्तदात्मकमिदं जगत् ॥ ४.१९॥ पुंरूपं सा विदित्वा स्वं सोऽहम्भावमुपागता । स एष परमात्माख्यो मनुरस्य महामनोः ॥ ४.२०॥ सकारं च हकारं च लोपयित्वा प्रयोजयेत् । सन्धिं वै पूर्वरूपाख्यं ततोऽसौ प्रणवो भवेत् ॥ ४.२१॥ ताराद्विभक्ताच्चरमांशतः स्यु- र्भूतानि खादीन्यथ मध्यमांशात् । इनादितेजांसि च पूर्वभागा- च्छब्दाः समस्ताः प्रभवन्ति लोके ॥ ४.२२॥ एवमेषा जगत्सूतिः सवितेत्यभिधीयते । यदा तदैति स्वैस्तत्त्वैश्चतुर्विंशतिधा भिदाम् ॥ ४.२३॥ तद्वर्णभिन्ना गायत्री गायकत्राणनाद्भवेत् । सप्तग्रहात्मिका प्रोक्ता यदेयं सप्तभेदिनी ॥ ४.२४॥ तदा स्वरेशः सूर्योऽयं कवर्गेशस्तु लोहितः । चवर्गप्रभवः काव्यष्टवर्गाद्बुधसम्भवः ॥ ४.२५॥ तवर्गोत्थः सुरगुरुः पवर्गोत्थः शनैश्चरः । यवर्गजोऽयं शीतांशुरिति सप्तगुणा त्वियम् ॥ ४.२६॥ यथा स्वरेभ्यो नान्ये स्युर्वर्णाः षड्वर्गभेदिताः । तथा सवित्रनुस्यूतं गृहषट्कं न संशयः ॥ ४.२७॥ इति संलीनसूर्यांशे वर्गषट्के तु षड्गुणाः । हृल्लेखेयं तथा यन्त्रं स्मर्यते स्मृतिकोविदैः ॥ ४.२८॥ सर्वव्याप्ता हि सा शक्तिः शश्वद्भास्कररूपिणी । स्वभासा क्रमते यत्र तत्रास्या स्थितिरिष्यते ॥ ४.२९॥ अस्यास्तु रजसा चैव तमसा च दिवानिशम् । सत्त्वावष्टब्धबिन्द्वात्मा मेरुं चरति भास्करः ॥ ४.३०॥ अस्या विकाराद्वर्णेभ्यो जाता द्वादशराशयः । लवादिकालोपचितैस्तैः स्याच्चक्रगतिस्त्रिधा ॥ ४.३१॥ ऋक्षराश्यादियुतया चक्रगत्या जगत्स्थितिः । वक्ष्यामि चक्ररूपं च प्रबन्धं राशिभिर्यथा ॥ ४.३२॥ अन्तर्बहिर्विभागेन रचयेद्राशिमण्डलम् । भूचक्र एष मेषादिः प्रविज्ञेयोऽथ मानुषः ॥ ४.३३॥ आद्यैर्मेषाह्वयो राशिरीकारान्तैः प्रजायते । ऋकारान्तैरुकाराद्यैवृषो युग्मं ततस्त्रिभिः ॥ ४.३४॥ एदैतोः कर्कटो राशिरोदौतोः सिंहसम्भवः । अमः शवर्गलेभ्यश्च सञ्जाता कन्यका मता ॥ ४.३५॥ षड्भ्यः कचटतेभ्यश्च पयाभ्यां च प्रजज्ञिरे । वणिगाद्यास्तु मीनान्ता राशयः शक्तिजृम्भणात् ॥ ४.३६॥ चतुर्भिर्यादिभिः सार्धं स्यात्क्षकारस्तु मीनगः । स्यातामर्धाधिके पञ्चनाडिकौ चापकर्कटौ ॥ ४.३७॥ पादाधिका मकरयुक्सिंहवृश्चिकसंज्ञकाः । पादोनौ कुम्भवृषभौ वाणिक्कन्ये च पञ्चके ॥ ४.३८॥ त्रिपादोनौ मीनमेषौ सङ्ख्योक्ता राशिसंश्रिता । चापनीरजयुक्कन्याः पीताः स्युरुभयास्त्वमी ॥ ४.३९॥ वणिङ्मकरमेषाह्वकुलीरा रक्तरोचिषः । चरावशिष्टाश्चत्वारः स्थिराः श्वेताः पृथङ्मताः ॥ ४.४०॥ स्युः कर्कटो वृश्चिकमीनराशी विप्रा नृपाः सिंहकधन्वमेषाः । तुला सकुम्भा मिथुनं च वैश्याः कन्या वृषोऽथो मकरश्च शूद्राः ॥ ४.४१॥ अङ्गारावजवृश्चिकौ वृषतुले शुक्रस्य युक्कन्यके बोधै कर्कटकाह्वयो हिमरुचः सिंहस्तथा गोपतेः । चापाब्जावपि धैषणौ मकरकुम्भाख्यौ च मान्दौ ग्रहाः प्रोक्ता राश्यधिपा बलौ च कलशे सोऽयं क्रमो र्दिशतः ॥ ४.४२॥ लग्नो धनभ्रातृबन्धुपुत्रशत्रुकलत्रकाः । मरणं धर्मकर्मायव्यया द्वादशराशयः ॥ ४.४३॥ ततस्तदूध्र्वभागस्थो भुवश्चक्रः समस्तथा । स तु सिंहादिको यस्मिन्पैतृकी नियता गतिः ॥ ४.४४॥ तदूध्र्वभागसंस्थः स्यात्स्वश्चक्रश्चापि तादृशः । स तु चापादिको दैवश्चक्रस्त्रैनाभिकस्त्वयम् ॥ ४.४५॥ धनुस्तु देवलग्नत्वात्समासाल्लग्नमुच्यते । वेध्या धनुर्मेषसिंहमकरर्षभकन्यकाः ॥ ४.४६॥ सकुम्भयुग्मवणिजो मीनकर्कटवृश्चिकाः । अयं तु राशिवेधः स्यादतो वेधस्तु भात्मकः ॥ ४.४७॥ मूलाश्विनीमघज्येष्ठारेवत्याश्लेषकास्तथा । याम्यपूर्वानुपूर्वाहिर्बुध्निपुष्यानुराधकाः ॥ ४.४८॥ स्वातीशतभिषाद्र्रा च श्रोणारोहिणिहस्तकाः । पादं पादत्रये बुध्याद्योजयेदर्धमर्धकैः ॥ ४.४९॥ चरस्थिरोभयात्मानश्चातुर्वण्र्यगुणात्मकाः । राशिं राश्यधिपास्त्वेवं बुध्युर्वेधविधानतः ॥ ४.५०॥ एभ्य एव तु राशिभ्यो नक्षत्राणां च सम्भवः । स चाप्यक्षरभेदेन सप्तविंशतिधा भवेत् ॥ ४.५१॥ आभ्यामश्वयुगेर्जाता भरणी कृत्तिका पुनः । लिपित्रयाद्रोहिणी च तत्परस्ताच्चतुष्टयात् ॥ ४.५२॥ एदैतोर्मृगशीर्षाद्र्रे तदन्ताभ्यां पुनर्वसू । अमसोः केवलो योगो रेवत्यर्थं पृथग्गतः ॥ ४.५३॥ कतस्तिष्यस्तथाश्लेषा खगयोर्घङयोर्मघाः । चतः पूर्वाथ छजयोरुत्तरा झञयोस्तथा ॥ ४.५४॥ हस्तश्चित्रा च टठयोः स्वाती डादक्षरादभूत् । विशाखास्तु ढणोद्भूतास्तथा देऽभ्योऽनुराधकाः ॥ ४.५५॥ ज्येष्ठा धकारान्मूलाख्यो नपफेभ्यो बतस्तथा । पूर्वाषाढा भतोऽन्या च सञ्जाता श्रवणो मतः ॥ ४.५६॥ श्रविष्ठा चापि यरयोस्तथा शतभिषग्लतः । वशयोः प्रोष्ठपात्संज्ञा षसहेभ्यः परा स्मृता ॥ ४.५७॥ ताभ्याममोभ्यां लार्णोऽयं यदा वै सह वत्स्यते । तदेन्दुसूर्ययोर्योगादमावास्या प्रतीयते ॥ ४.५८॥ कषतो भुवनं मत्तः कषयोः सङ्गमो भवेत् । ततः क्षकारः सञ्जातो नृसिंहस्तस्य देवता ॥ ४.५९॥ स पुनः षसहैः सार्धं परप्रोष्ठपदं गतः । कारस्कराख्यामलकोदुम्बरो जम्बुसंज्ञकः ॥ ४.६०॥ खदिरः कृष्णवंशौ च पिप्पलो नागरोहिणौ । पलाशः प्लक्षकाम्बष्ठबिल्वार्जुनविकज्र्ताः ॥ ४.६१॥ वकुलः शबरः सर्जो वञ्जुलः पनसार्ककौ । शमीकदम्बनिम्बाम्रौ मधूकान्ता दिनाङ्घ्रिपाः ॥ ४.६२॥ आयुष्कामः स्वकं वृक्षं छेदयेन्न कदाचन । सेचयेद्वर्धयेच्चापि पूजयेत्प्रणमेदपि ॥ ४.६३॥ तिथिनक्षत्रवारेषु स्वेषु मन्त्रजपो वरः । तस्मादेषां दिनादीनां वक्ष्यन्ते देवता अपि ॥ ४.६४॥ अश्वियमानलधाता शशिरुद्रादितिसुरेड्यसर्पाश्च पित्रर्यमभगदिनकृत्त्वष्टारो मारुतस्तथेन्द्राग्नी । मित्रेन्द्रौ नित्र्र+तिर्जाले विश्वे देवा हरिस्तथा वसवः वारुणोऽजैकपादहिर्बुध्निः पूषा च देवता भानाम् ॥ ४.६५॥ अश्वेभाजभुजङ्गसर्पसरमा मार्जारकाजा बिली मूषा मूषिकरुद्रयानमहिषी व्याघ्रो यमारोहणम् । व्याघ्र्यैणी हरिणी श्ववानपरपशुः शाखामृगी स्त्री हयो मत्र्यो गौः करिणीति साधु कथिता नक्षत्रयोन्यः क्रमात् ॥ ४.६६॥ एभ्योऽमावास्यान्ता वर्तन्ते प्रतिपदादिकास्तिथयः । राशिभ्योऽथ तिथीनामध्यर्धयुगं तु राशिरेकं स्यात् ॥ ४.६७॥ तेन त्रिंशत्तिथयो द्वादशधा वर्णतो भिन्नाः । ता एव स्युर्द्विविधाः पुनरपि पूर्वान्त्यपक्षभेदेन ॥ ४.६८॥ पक्षः पञ्चदशाहः स्यात्पूर्वः प्रतिपदादिकः शुक्लः । तद्वज्ज्ञेयोऽप्यपरः कृष्णः प्रतिपदादिकः प्रोक्तः ॥ ४.६९॥ संज्ञासाम्ये सत्यपि सौम्यात्तु ह्रासवृद्धितस्तिथयः । न समाः पक्षद्वितये त्रिंशद्भेदास्तथा हि सम्प्रोक्ताः ॥ ४.७०॥ अग्न्यश्व्युमा सविघ्ना नागा गुहसवितृमातरो दुर्गा । ककुभो धनपतिविष्णू यमहरचन्द्राः क्रमेण तिथ्यधिपाः ॥ ४.७१॥ राशिभ्यः सदिनेभ्यः सतिथिभ्यः शक्तिजृम्भणसमुत्थानात् । अक्षरभेदविकारात्करणान्यपि सप्तभेदकान्यभवन् ॥ ४.७२॥ सिंहव्याघ्रवराहाः खरगजवृषकुक्कुटाः प्रतिपदर्धात् । अन्त्यां तिथ्यर्धेऽर्धे तिष्ठन्त्याः कृष्णगोश्चतुर्दश्याः ॥ ४.७३॥ एवं सङ्ग्रहराशिक दिनतिथिकरणप्रभेदकाः कथिताः । अस्मात्पञ्चविभेदाद्विज्ञेया पञ्चवर्णनिष्पत्तिः ॥ ४.७४॥ वर्णः पीतश्वेतारुणासितश्यामकास्तथा क्वाद्याः । इति मूलाक्षरविकृतिं कथितमिदं वर्णविकृतिबाहुल्यम् ॥ ४.७५॥ सचराचरस्य जगतो मूलत्वान्मूलतास्य बीजस्य ॥ ४.७६॥ यां ज्ञात्वा सकलमपास्य कर्मबन्धं तद्विष्णोः परमपदं प्रयाति लोकः । तामेनां त्रिजगति जन्तुजीवभूतां हृल्लेखां जपत च नित्यमर्चयीत ॥ ४.७७॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे चतुर्थः पटलः ॥

॥ पञ्चमः पटलः ॥

अथ प्रवक्ष्ये विधिवन्मनूनां दीक्षाविधानं जगतो हिताय । येनोपलब्धेन समाप्नुवन्ति सिद्धिं परत्रेह च साधकेशाः ॥ ५.१॥ दद्याच्च दिव्यभावं क्षिणुयाद्दुरितान्यतो भवेद्दीक्षा । मननात्तत्त्वपदस्य त्रायत इति मन्त्र उच्यते भयतः ॥ ५.२॥ दैवादिकस्याप्यथ मानुषादेः पैत्रादिकस्याप्यथ वत्सरस्य । आदिं समारभ्य समग्रसम्पद्यतेन दीक्षाविधिमारभेत ॥ ५.३॥ शुभकर्मणि दीक्षायां मण्टपकरणे गृहादिविधिषु तथा । विहितो वास्तुबलिः स्याद्रक्षाविघ्नोपशान्तिसम्पद्भ्यः ॥ ५.४॥ अभवत्पुराथ किलवास्तुपुमानिति विश्रुतो जगदुपद्रवकृत् । चतुरश्रसंस्थितिरसौ निहितो निहतः क्षितौ सुरगणैर्दितिजः ॥ ५.५॥ तद्देहसंस्थिता ये देवास्ते विश्रुतास्त्रिपञ्चाशत् । मण्डलमध्याद्यच्र्या यथा तथोक्तक्रमेण कथ्यन्ते ॥ ५.६॥ कृत्वावनिं समतलां चतुरश्रसंस्था- मष्टाष्टकोद्यतपदां च सकोणसूत्राम् । तस्या चतुष्पदसमन्वितमध्यकोष्ठे ब्रह्मातु साधकवरेण समर्चनीयः ॥ ५.७॥ प्राग्याम्यवारुणोदग्दिक्कोष्ठचतुष्पदेषु समभियजेत् । आर्याख्यं सविवस्वत्संज्ञं मित्रं महीधरं क्रमशः ॥ ५.८॥ कोणद्वयार्धकोष्ठेष्वच्र्याः सावित्रसवितृशक्राह्वाः । सेन्द्रजयरुद्रतज्जयसापश्च तथापवत्सकोऽग्न्याद्याः ॥ ५.९॥ अश्रेः पाश्र्वोत्थपदद्वन्द्वे शर्वं गुहार्यमणौ च तथा । जम्भकपिलिपिञ्छाख्यौ चरकिविदार्यौ च पूतनाः प्रोक्ताः ॥ ५.१०॥ अर्घपदाद्यन्तासु च चतसृषु दिक्षु क्रमेण बहिरच्र्याः । वासवयमजलशशिनामष्टावष्टौ च मन्त्रिणा विधिना ॥ ५.११॥ ईशानाख्यः स पर्जन्यो जयन्तः शक्रभास्करौ । सत्यो वृषान्तरिक्षौ च देवताः प्रागुदीरिताः ॥ ५.१२॥ अग्निः पूषा च वितथो यमश्च ग्रहरक्षकः । गन्धर्वो भृङ्गराजश्च मृगो दक्षदिगाश्रिताः ॥ ५.१३॥ नित्र्र+तिदौवारिकश्चैव सुग्रीवो वरुणस्तथा । पुष्पदन्तासुरौ शोषरोगौ प्रत्यग्दिगाश्रिताः ॥ ५.१४॥ वायुर्नागश्च मुख्यश्च सोमो भल्लाट एव च । अर्गलाख्योऽदितिस्तद्वद्दितिः सौम्यदिगाश्रिताः ॥ ५.१५॥ इतीरितानामपि देवतानां चित्राणि कृत्वा रजसा पदानि । पयोऽन्धसा साधुबलिर्विधेयो द्रव्यैश्च वा तन्त्रविशेषसिद्धैः ॥ ५.१६॥ भूयो भूमितले समे विरहिते लोमास्थिलोष्टादिभिः कर्तव्यं नवसप्तपञ्चकमितैर्हस्तैः परीणाहतः । युक्तं द्वारचतुष्ककल्पितपयोभूरुट् चतुस्तोरणं दर्भस्रक्परिवीतमुज्ज्वलतलं स्यात्संवृतं मण्डपम् ॥ ५.१७॥ सप्ताहतो वा नवरात्रतो वा प्रागेव दीक्षादिवसाद्यथावत् । सपालिकापञ्चमुखीशरावचतुष्टये बीजनिवापमुक्तम् ॥ ५.१८॥ अन्यस्मिन्भवने सुसंवृततरे शुद्धे स्थले मण्डलं कुर्यात्प्राग्वरुणायतं पदचतुष्कोपेतभानूदरम् । पीतारक्तसितासितं प्रतिपदं वह्व्यादिशर्वान्तिकं याम्योदीच्यसमायतं प्रणिगदन्त्यन्ये च तन्मन्त्रिणः ॥ ५.१९॥ वैष्णव्यस्त्वथ पालिका अपि चतुर्विंशाङ्गुलोच्छ्रायकाः वैरिञ्च्यो घटिकास्तु पञ्चवदना द्व्यष्टाङ्गुलोच्छ्रायकाः । शैवाः स्युर्द्विषडङ्गुला अपि शरावाह्वा जलक्षालिताः सूत्रैश्च प्रकलय्य पङ्क्तिषु च ताः प्रोक्तक्रमाद्विन्यसेत् ॥ ५.२०॥ पृथगपि शालीतण्डुलपूर्णासु सदभबद्धकूर्चासु । मृद्वालुकाकरीषैः क्रमेण पूर्णानि तानि पात्राणि ॥ ५.२१॥ शालीकङ्गुश्यामातिलसर्षपमुद्गमाषनिष्पावाः । खल्वाढकीसमेता बीजानि विदुः प्ररोहयोग्यानि ॥ ५.२२॥ प्रक्षाल्य तानि निवपेदभिमन्त्र्य मूल- बीजेन साधकवरस्त्वपि पात्रकेषु । विप्राशिषा च विधिवत्प्रतिपाद्यमान- शङ्खादिमुख्यतरपञ्चमहास्वनैश्च ॥ ५.२३॥ हारिद्राद्भिः सम्यगभ्युक्ष्य वस्त्रै- राच्छाद्याद्भिः सिञ्चतां पञ्चघोषैः । सायम्प्रातः शर्वरीषु प्रदद्या- दुक्तौद्र्रव्यैस्तद्बलिं साधकेशः ॥ ५.२४॥ भूतपितृयक्षनागब्रह्मशिवा देवताश्च विष्ण्वन्ताः । ताभ्यः क्रमेण रात्रिषु सप्तसु वा नवसु बलिर्देयः ॥ ५.२५॥ लाजतिलनक्तरजो दधिसक्त्वन्नानि भूतकूराख्यम् । पित्र्यं तिलतण्डुलकं सोडुम्बिकधानलाजकं याक्षम् ॥ ५.२६॥ केरोदसक्तुपिष्टं नागं पद्माक्षतं च वैरिञ्च्यम् । अन्नापूपं शैवं गुलोदनं वैष्णवं च दुग्धान्नम् ॥ ५.२७॥ कृसरं च वैष्णवेयं यदि नवरात्रं क्रमेण बलिरुक्तः । तारादिकैर्नमोऽन्तैः स्वैः स्वैरपिनामभिश्च बलिमन्त्रः ॥ ५.२८॥ पात्राणि त्रिविधान्यपि परितः पुनरष्टादिक्षु बलिकॢप्तिः । बीजारोपणकर्म प्रथितमिदं सार्वकामिकं भवति ॥ ५.२९॥ प्रागेव लक्षणयुतानि च मण्टपेऽस्मि- न्कुण्डानि कारयतु सम्यगथो दिशासु । आखण्डलार्कभववारिपभाधिपानां दोर्मात्रकाणि विलसद्गुणमेखलानि ॥ ५.३०॥ चतुरश्रमर्धशशिबिम्बविलसितमथ त्रिकोणम् । पद्मदलरुचिरवृत्तमिति ब्रुवते सुधाविधिषु कुण्डलक्षणम् ॥ ५.३१॥ विंशद्भिश्चतुरधिकाभिरङ्गुलीभिः सूत्रेणाप्यथ परिसूत्र्य भूमिभागम् । ताभिश्च प्रखनतु तावतीभिरेकां त्यक्त्वा चाङ्गुलिमपि मेखलाश्च कार्याः ॥ ५.३२॥ सत्त्वपूर्विकगुणान्विताः क्रमाद्- द्वादशाष्टाचतुरङ्गुलोच्छ्रिताः । सर्वतोऽङ्गुलिचतुष्कविस्तृता मेखलाः सकलसिद्धिदा मताः ॥ ५.३३॥ योनिस्तत्पश्चिमस्यामथ दिशि चतुरश्रस्थलारब्धनाळा तन्मध्योल्लासि रन्ध्रोपरिपरि वितताश्वत्थपत्रानुकारा । उत्सेधायामकाभ्यां प्रकृतिविकृतिसंज्ञाङ्गुलाष्टाङ्गुला स्या- द्विस्तृत्या द्वादशार्धाङ्गुलमितनमिताग्रा निविष्टेव कुण्डे ॥ ५.३४॥ अथवा दिशि कुण्डमुत्तरस्यां प्रविदध्याच्चतुरश्रमेकमेव । गदितैरपि लक्षणैः समेतापघनं दृष्टिमनोहरं च कान्त्या ॥ ५.३५॥ ततो मण्टपमध्ये तु स्थण्डिलं गोमयाम्बुना । उपलिप्य यथान्यायं तस्य मध्ये निधापयेत् ॥ ५.३६॥ सूत्रं प्राक् प्रत्यगात्ताग्रं विप्राशीर्वचनैः सह । गुणितेनाभितो मत्स्यौ मध्यादारभ्य विन्यसेत् ॥ ५.३७॥ तन्मध्यस्थितयाम्योदगग्रं सूत्रं निधापयेत् । ततो मध्यात्सपद्धस्तमानेन च दिशं प्रति ॥ ५.३८॥ सूत्रेषु मकरान्न्यस्येत्स्पष्टानन्योन्यतः समात् । सूत्राग्रमकरेभ्यस्तु न्यसेत्कोणेषु मत्स्यकान् ॥ ५.३९॥ कोणमत्स्यस्थिताग्राणि दिक्षु सूत्राणि पातयेत् । ततो भवेच्चतुष्कोष्ठं चतुरश्रं च मण्डलम् ॥ ५.४०॥ तत्राग्निमारुतं सूत्रं नैत्र्र+तेशं निपातयेत् । प्राग्याम्यवारुणोदीच्यसूत्राग्रमकरेषु च ॥ ५.४१॥ निहिताग्रयुगं सूत्रं चतुष्कं प्रतिपातयेत् । कृत एवं भवेयुस्ते कोणकोष्ठेषु मत्स्यकाः ॥ ५.४२॥ एषु प्राग्वारुणात्सूत्रान्याम्योदीच्यां निपातयेत् । षट्पञ्चाशत्पदानि स्युरधिकानि शतद्वयात् ॥ ५.४३॥ यदा तदाजो विभजेत्पदानि क्रमशः सुधीः । पदैः षोडशभिर्मध्ये पद्मं वृत्तत्रयान्वितम् ॥ ५.४४॥ तैरष्टचत्वारिंशद्भी राशिः स्याद्वीथ्यशीतिभिः । सद्वादशैः शतपदैः शोभायुग्द्वारकोणकम् ॥ ५.४५॥ द्वाराणि पदषट्काणि शोभाख्याः स्युश्चतुष्पदाः । चतुष्पदाश्चोपशोभाः षट्पदं कोणकं भवेत् ॥ ५.४६॥ वृत्तवीथ्योरारचयेन्मध्ये सूत्रचतुष्टयम् । प्राग्याम्यवारुणोदीच्यसूत्राग्रमकरेषु च ॥ ५.४७॥ निहिताग्रयुगं सूत्रं तद्भवेद्राशिमण्डलम् । र्किणकायाः केसराणां दलसन्धेर्दलस्य च ॥ ५.४८॥ दलाग्रवृत्तिराशीनां वीथ्याः शोभोपशोभयोः । वृत्तानि चतुरश्राणि व्यक्तास्थानानि कल्पयेत् ॥ ५.४९॥ भवेन्मण्डलमध्यार्धे र्किणका चतुरङ्गुला । त्र्यङ्गुलाः केसराश्च स्युः सन्धिश्च चतुरङ्गुला ॥ ५.५०॥ तथा दलानां मानं तदग्रद्व्यङ्गुलकं भवेत् । अन्तरालं पृथग्वृत्तत्रयस्य द्व्यङ्गुलं भवेत् ॥ ५.५१॥ ततश्च राशिचक्रं स्यात्स्वं स्वं वर्णविभूषितम् । राशिमङ्गुलकैः कुर्यात्षड्भिर्नवभिरेव वा ॥ ५.५२॥ द्वात्रिंशदङ्गुलं ह्येतत्परस्तात्तावदिष्यते । वृत्तचक्रमुशन्त्येके चतुरश्रं च तद्विदः ॥ ५.५३॥ यदि वा वर्तुलमराः स्युश्च द्वादशराशयः । ते स्युः पिपीलिकामध्या मातुलङ्गनिभा अपि ॥ ५.५४॥ चक्रं च चतुरश्रं च त्र्यश्रा द्वादशराशयः । भवेयुः पज्र्जदलनिभा वा कथिता बुधैः ॥ ५.५५॥ तद्वही रुचिरान्कुर्याच्चतुरान्कल्पशाखिनः । ललितान्रूढकुसुमान्फलपल्लवशोभितान् ॥ ५.५६॥ जलजैः स्थलजैर्वापि सुमनोभिः समन्वितान् । हंससारसकारण्डशुकभ्रमरकोकिलैः ॥ ५.५७॥ मयूरचक्रवाकाद्यैरारूढविटपानतान् । सर्वर्तुनिष्कृतिकरान्विलोचनमनोहरान् ॥ ५.५८॥ तद्बहिः पार्थिवं कुर्यान्मण्डलं कृष्णकोणकम् । मण्डलानि तु तत्त्वज्ञो राश्यन्तान्येव कारयेत् ॥ ५.५९॥ राशेरन्यत्र रचयेत्प्रमोहादन्यमण्डलम् । आवाह्य देवतामन्यामर्चयेदन्यदेवताम् ॥ ५.६०॥ उभाभ्यां लभते शापं मन्त्री तरलदुर्मतिः । कालात्मकस्य देवस्य राशिव्याप्तिमजानता ॥ ५.६१॥ कृतं समस्तं व्यर्थं स्यादज्ञेन ज्ञानमानिना । तस्मात्सर्वप्रयत्नेन राशीन्साधिपतीन्क्रमात् ॥ ५.६२॥ अवगम्यानुरूपाणि मण्डलानि च मान्यधीः । उपक्रमेदर्चयितुं होतुं वा सर्वदेवताः ॥ ५.६३॥ रजांसि पञ्चवर्णानि पञ्चद्रव्यात्मकानि च । पीतशुक्लारुणशितिश्यामान्येतानि भूतशः ॥ ५.६४॥ हारिद्रं स्याद्रजः पीतं तण्डुलं च सितं भवेत् । तथा दोषा रजःक्षारसंयुक्तं रक्तमुच्यते ॥ ५.६५॥ कृष्णं दग्धपुलाकोत्थं श्यामं बिल्वदलादिजम् । सितेन रजसा कार्याः सीमा रेखा विपश्चिता ॥ ५.६६॥ अङ्गुलोत्सेधविस्ताराः सर्वमण्डलकर्मसु । पीताः स्यात्र्किणका रक्तशुक्लपीताश्च केसराः ॥ ५.६७॥ दलान्यच्छान्यन्तरालं श्यामचूर्णेन पूरयेत् । सितरक्तासितैर्वर्णैर्वृत्तत्रयमुदीरितम् ॥ ५.६८॥ नानावर्णविचित्रा स्युश्चित्राकाराश्च वीथयः । द्वारशोभोपशोभाश्राः सितरक्तनिशासिताः ॥ ५.६९॥ राशिचक्रावशिष्टानि कोणानि श‍ृणु यानि वै । पीठपादानि तानि स्युररुणान्यपि तानि वा । तत्तत्पादोक्तवर्णानि तत्तदाकारवन्ति वा ॥ ५.७०॥ अथवारुणानि च दलानि तथा दलसन्धिरप्यसितरुग्भवति । असितारुणाच्छरजसा विहितान्यपि वर्तुलानि कथयन्त्यपरे ॥ ५.७१॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे पञ्चमः पटलः ॥

॥ षष्ठः पटलः ॥

अथ पुनराचम्य गुरुः प्राग्वदनो विष्टपरोपविष्टः सन् । प्राणायामं सलिपिन्यास कृत्वा न्यसेत्तदृष्यादीन् ॥ ६.१॥ ऋषिर्गुरुत्वाच्छिरसैव धार्यश्छन्दोऽक्षरत्वाद्रसनागत स्यात् । धियावगन्तव्यतया सदैव हृदि प्रदिष्टा मनुदेवता च ॥ ६.२॥ ऋषिवर्णादिकौ धातू स्तो गत्या प्रापणेन च । यात्याभ्यां यत्स्वरूपं स गुरुः स्यादृषिवाचकः ॥ ६.३॥ इच्छादानार्थकौ धातू स्तश्छदाद्यश्चदादिकः । तयोरिच्छां ददातीति छन्दो मन्त्रार्णवाचकम् ॥ ६.४॥ आत्मनो देवताभावप्रधानाद्देवतेति च । पदं समस्तमन्त्रेषु विद्वद्भिः समुदीरितम् ॥ ६.५॥ हृदयशिरसोः शिखायां कवचाक्ष्यस्त्रेषु सह चतुर्थीषु । नत्याहुत्या च वषड्ढुं वौषट्फट्पदैः षडङ्गविधिः ॥ ६.६॥ हृदयं बुद्धिगम्यत्वात्प्रणामः स्यान्नमःपदम् । क्रियते हृदयेनातो बुद्धिगम्यनमस्क्रिया ॥ ६.७॥ तुड्गार्थत्वाच्छिरः स्वे स्वे विषयाहरणे द्विठः । शिरोमन्त्रेण चोत्तुङ्गविषयाहृतिरीरिता ॥ ६.८॥ शिखादेशसमुद्दिष्टा वषडित्यङ्गमुच्यते । तत्तेजोऽस्य तनुः प्रोक्ता शिखामन्त्रेण मन्त्रिणः ॥ ६.९॥ कचग्रहण इत्यस्माद्धातोः कवचसम्भवः । हुन्तेजस्तेजसां देहो गृह्यते कवचं ततः ॥ ६.१०॥ नेत्रदृष्टिः समुद्दिष्टा वौषड् दर्शनमुच्यते । दर्शनं दृशि येन स्यात्तत्तेजो नेत्रवाचकम् ॥ ६.११॥ असुत्रसादिकौ धातू स्तः क्षेपचलनार्थकौ । ताभ्यामनिष्टमाक्षिप्य चालयेत्फट्पदाग्निना ॥ ६.१२॥ प्रोक्तानीत्यङ्गमन्त्राणि सर्वमन्त्रेषु सूरिभिः । पञ्चैव यस्य मन्त्रस्य भवन्त्यङ्गानि मन्त्रिणः ॥ ६.१३॥ सर्वेष्वपि च मन्त्रेषु नेत्रलोपो विधीयते । अङ्गुलीषु क्रमादङ्गैरङ्गुष्ठादिषु विन्यसेत् ॥ ६.१४॥ कनिष्ठान्तासु तद्बाह्यतलयोः करयोः सुधीः । अस्त्रेण तालत्रितयं कृत्वा तेनैव बन्धयेत् ॥ ६.१५॥ दिशो दश क्रमादङ्गषट्कं वा पञ्चकं न्यसेत् । जपारम्भे मनूनां तु सामान्येयं प्रकल्पना ॥ ६.१६॥ शङ्खसुगन्धपुष्पाक्षततोयं वामतः प्रविन्यस्य । साङ्गमन्त्रं पूजामूर्तेन्र्यस्येद्गुरूपदेशेन ॥ ६.१७॥ न्यस्येच्च दक्षभागे सुमनःपात्रं तथाभितो दीपान् । अन्यत्साधनमखिलं पुरतो गन्धाक्षतादिकं मन्त्री ॥ ६.१८॥ प्रथमं निजसव्यतो यथावत्प्रयजेद्देवमयान्महागुरून्स्वान् । गणनाथमन्यतश्च पाशाज्रुशदन्ताभयहस्तमुज्ज्वलाङ्गम् ॥ ६.१९॥ रक्तं धर्मं वृषतनुमथाग्नौ हिंर श्यामवर्णं ज्ञानं रक्षो दिशि मरुति पीतं च वैराग्यसंज्ञम् । भूताकारं द्विरदतनुमैश्वर्यमीशे च कृष्णं नञ्पूर्वैस्तैर्यजतु दिशि चित्राणि गात्राणि पीठे ॥ ६.२०॥ मध्येऽनन्तं पद्ममिंस्मश्च सूर्यं सोमं वह्निं तारवर्णैविभक्तैः । सत्त्वादींश्च त्रीन्गुणानात्मयुक्ता- ञ्शक्तिः किञ्जल्केषु मध्ये यजेच्च ॥ ६.२१॥ श्वेता कृष्णा रक्ता पीता श्यामानलोपमा शुक्ला । अञ्जनजपासमाने तेजोरूपाश्च शक्तयः प्रोक्ताः ॥ ६.२२॥ विन्यस्य र्किणकोपरि शालीस्तदुपरि च तण्डुलानि तथा । तेषामुपरि च दर्भान्पूर्वोपरि कूर्चमक्षतोपेतम् ॥ ६.२३॥ त्रिगुणेन च तन्तुरूपभाजा परितोऽसौ परिवेष्टितं यथावत् । लघुनालघुधूपितं च कूर्चो परिकुम्भं निदधातु तारजापी ॥ ६.२४॥ न्यस्य दर्भमयं कूर्चमक्षताद्यायुतं सनवरत्नकं घटे । पूरयेत्सह कषादिकान्तगैरक्षरौषधिविपाचितैर्जलैः ॥ ६.२५॥ अथवा दशमूलपुष्पदुग्धाङ्घ्रिपचर्मोत्क्वथितैः कषायतोयैः । स्तनजद्रुमचर्मसाधितैर्वा सलिलैः सयतधीः शुभोदकैर्वा ॥ ६.२६॥ शङ्खे कषायोदकपूरिते च विलोड्य सम्यग्विधिना सगन्धम् । कलाः समावाह्य विनिक्षिपेत्तत्क्वाथोदकापूर्णमुखे च कुम्भे ॥ ६.२७॥ त्रिविधं गन्धाष्टकमपि शाक्तेयं वैष्णवं च शैवमिति । गन्धाष्टकेन शक्तिः स्यात्कलशे मन्त्रिणा कृतेऽनन्ता ॥ ६.२८॥ चन्दनकर्पूरागरुकुज्रुमकपिमांसिरोचनाचोराः । गन्धाष्टकमपि शक्तेः सान्निध्यकरं च लोकरञ्जनकृत् ॥ ६.२९॥ चन्दनह्लीबेरागरुकुष्ठासृगुशीरमांसिमुरमपरम् । चन्दनकर्पूरागरुदलरुधिरकुशीतरोगजलमपरम् ॥ ६.३०॥ अष्टत्रिंशत्प्रभेदेन याः कलाः प्रागुदीरिताः । गुरूपदेशक्रमतस्ता विद्वान्विनियोजयेत् ॥ ६.३१॥ याः पञ्चाशत्कलास्तारपञ्चभेदसमुत्थिताः । पञ्चपञ्चकसम्भिन्ना विदुस्तास्तत्त्ववेदिनः ॥ ६.३२॥ सप्तात्मकस्य तारस्य परौ द्वौ तु वरौ यतः । ततस्तु शक्तिशान्ताख्यौ न पठ्येते परैः सह ॥ ६.३३॥ प्रथमप्रकृतेर्हंसः प्रतद्विष्णुरनन्तरः । त्रियम्बकस्तृतीयः स्याच्चतुर्थस्तत्पदादिकः ॥ ६.३४॥ विष्णुर्योनिमथेत्यादिः पञ्चमः कल्प्यतां मनुः । चतुर्नवतिमन्त्रात्मदेवमावाह्य पूर्यताम् ॥ ६.३५॥ अत्र याः पञ्च सम्प्रोक्ता ऋचस्तारस्य पञ्चभिः । कलाप्रभेदैश्च मिथो युज्यन्ते ताः पृथक्क्रमात् ॥ ६.३६॥ कुर्यात्प्राणप्रतिष्ठां च तत्र तत्र समाहितः । प्राणप्रतिष्ठामन्त्रेण पुनस्तोयं कलात्मकम् । उच्चारयन्मूलमन्त्रं कलशे सन्निधापयेत् ॥ ६.३७॥ अश्वत्थचूतपनसस्तबकैः सुत्रामवल्लरीयुक्तैः । सुरतरुधिया पिधाय कुम्भमुखं वेष्टयीत वासोभ्याम् ॥ ६.३८॥ पुनस्तोयगतं देव साध्यमन्त्रानुरूपतः । सकलीकृत्य च गुरुरुपचारान्समाचरेत् ॥ ६.३९॥ आसनस्वागते साघ्र्यपाद्ये साचमनीयके । मधुपर्काचमस्नानवसनाभरणानि च ॥ ६.४०॥ सुगन्धसुमनोधूपदीपनैवेद्यवन्दनान् । प्रयोजयेदर्चनायामुपचारांस्तु षोडश ॥ ६.४१॥ अघ्र्यपाद्याचमनकमधुपर्काचमान्यपि । गन्धादयो निवेद्यान्ता उपचारा दश क्रमात् ॥ ६.४२॥ गन्धादयो निवेद्यान्ता पूजा पञ्चोपचारिकी । सपर्यास्त्रिविधाः प्रोक्तास्तासामेकां समाश्रयेत् ॥ ६.४३॥ गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपाः । दूर्वा चेति क्रमादघ्र्यद्रव्याष्टकमुदीरितम् ॥ ६.४४॥ पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरुच्यते । जातीलवङ्गतक्कोलैर्मतमाचमनीयकम् ॥ ६.४५॥ मधुपर्कं च सक्षौद्रं दधि प्रोक्तं मनीषिभिः । शुद्धाभिरद्भिर्विहितं पुनराचमनीयकम् ॥ ६.४६॥ चन्दनागरुकर्पूरपज्र्ं गन्धमिहोच्यते । अथवा लघुकाश्मीरपटीरमृगनाभिजम् ॥ ६.४७॥ तुलस्यौ पज्र्जे जात्यौ केतक्यौ करवीरकौ । शस्तानि दश पुष्पाणि तथा रक्तोत्पलानि च ॥ ६.४८॥ उत्पलानि च नीलानि कुमुदानि च मालती । मल्लिकाकुन्दमन्दारनन्द्यावर्तादिकानि च ॥ ६.४९॥ पलाशपाटलीपार्थपारन्त्यावर्तकानि च । चम्पकानि सनागानि रक्तमन्दारकानि च ॥ ६.५०॥ अशोकोद्भवबिल्वाब्जर्किणकारोद्भवानि च । सुगन्धीनि सुरूपाणि स्वागमोक्तानि यानि वै ॥ ६.५१॥ मुकुलैः पतितैम्र्लानैर्जीर्णैर्वा जन्तुदूषितैः । आघ्रातैरङ्गसंस्पृष्टैरुषितैश्चापि नार्चयेत् ॥ ६.५२॥ सगुग्गुल्वगरूशीरसिताज्यमधुचन्दनैः । साराङ्गारविनिक्षिप्तैर्मन्त्री नीचैः प्रधूपयेत् ॥ ६.५३॥ गोर्सिपषा वा तैलेन वत्र्या च लघुगर्भया । दीपितं सुरभिं शुद्धं दीपमुच्चैः प्रदापयेत् ॥ ६.५४॥ सुसितेन सुशुद्धेन पायसेन सुर्सिपषा । सितोपदंशकदलीदध्याद्यैश्च निवेदयेत् ॥ ६.५५॥ वर्णैर्मनुप्रपुटितैः क्रमशः शतार्धै- न्र्यासक्रमादभियजेत्सकलासु मन्त्री । गन्धादिभिः प्रथमतो मनुदेवतासु त्रैलोक्यमोहनमिति प्रथितः प्रयोगः ॥ ६.५६॥ हृदयं सशिरस्तथा शिखाथो कवचं चेत्यनलादिकाश्रिषु । पुरतो नयनं दिशां क्रमात्स्यात्पुनरस्त्रं च समर्पयेत्क्रमात् ॥ ६.५७॥ हारस्फटिककलायाञ्जनपिङ्गलवह्निरोचिषो ललनाः । अभयवरोद्यतहस्ताः प्रधानतनवोऽङ्गदेवताः कथिताः ॥ ६.५८॥ आदावङ्गावरणं सकलविधानेषु पूजनीयं स्यात् । अन्ते च लोकपालावृतिरथ कुलिशादिकान्तं वा ॥ ६.५९॥ इन्द्राग्नियमनिशाचरवरुणानिलशशिशिवाहिपतिविधयः । जात्यधिपहेतिवाहनपरिवारान्ताः क्रमेण यष्टव्याः ॥ ६.६०॥ पीतः पिङ्गः कृष्णो धूमः शुक्लश्च धूम्रसितशुक्लाः । काशारुणाम्बुजाभा लोकेशा वासवादयः प्रोक्ताः ॥ ६.६१॥ वङ्काः सशक्तिदण्डः खड्गः पाशाज्रुशौ गदाशूले । रथचरणनलिनसंज्ञे प्रोक्तान्यस्त्राणि लोकपालानाम् ॥ ६.६२॥ पीतहिमजलदगगनाचिरप्रभारक्तकुन्दनीलरुचः । करविन्दारुणवर्णाः प्रोक्ताः स्युर्वर्णतोऽपि वङ्काआद्याः ॥ ६.६३॥ कृते निवेद्ये च ततो मण्डलं परितः क्रमात् । मङ्गलाज्रुरपत्राणि स्थापनीयानि मन्त्रिणा ॥ ६.६४॥ उपलिप्य कुण्डमत्र स्वचरणयोग्या विलिख्य रेखाश्च । अभ्युक्ष्य प्रणवजपेन प्रकल्पयेद्योगविष्टरं मन्त्री ॥ ६.६५॥ अथवा षट्कोणावृतत्रिकोणके गुरुजनोपदेशेन । प्राणाग्निहोत्रविधिनाप्यावसीथयाह्वयेऽनलस्थाने ॥ ६.६६॥ तत्राथो सदृतुमतीमथेन्द्रियाभां स्मृत्वा तां सकलजगन्मयीं च शक्तिम् । तद्योनौ मणिभवमारणेयकं वा तारेण क्षिपतु गृहोत्थमेव वाग्निम् ॥ ६.६७॥ चित्पिङ्गलपदमुक्त्वा हनदहपचयुग्मकानि सर्वज्ञम् । आज्ञापयाग्निजाये प्रभाष्य मनुनानलं ज्वलयेत् ॥ ६.६८॥ अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् । सुवर्णवर्णमनलं समिद्धं विश्वतोमुखम् ॥ ६.६९॥ अनेन ज्वलितं मन्त्रेणोपतिष्ठेद्धुताशनम् । ततः प्रविन्यसेद्देहे जिह्वामन्त्रैर्विभावसोः ॥ ६.७०॥ सलिङ्गगुदमूर्धास्यनासानेत्रेषु च क्रमात् । सर्वाङ्गेषु च जिह्वाश्च वक्ष्यन्ते त्रिविधात्मकाः ॥ ६.७१॥ हिरण्या गगना रक्ता कृष्णा चैव तु सुप्रभा । बहुरूपातिरक्ता च जिह्वाः सप्तेति सात्त्विकाः ॥ ६.७२॥ पद्मरागा सुवर्णा च तृतीया भद्रलोहिता । लोहिताख्या तथा श्वेता धूम्रिणी सकरालिका ॥ ६.७३॥ राजस्यः कथिता ह्येताः क्रमात्कल्याणरेतसः । विश्वमूर्तिस्फुलिङ्गिन्यौ धूम्रवर्णा मनोजवा ॥ ६.७४॥ लोहिता च करालाख्या काली तामसजिह्विका । अनलेरार्घिबिन्द्वन्तसादिवान्ताक्षरान्विताः ॥ ६.७५॥ सात्त्विक्यो दिव्यपूजासु राजस्यः काम्यकर्मसु । तामस्यः क्रूरकार्येषु प्रयोक्तव्या विपश्चिता ॥ ६.७६॥ सुराः सपितृगन्धर्वयक्षनागपिशाचिकाः । राक्षसाश्च क्रमादग्नेराश्रिता रसनास्वमी ॥ ६.७७॥ जिह्वासु त्रिदशादीनां तत्तत्कार्यसमाप्तये । जुहुयाद्वाञ्छितां सिद्धिं दद्युस्ता देवतामयाः ॥ ६.७८॥ स्वनामसदृशाकाराः प्रायो जिह्वा हविर्भुजः । मन्त्री प्रविन्यसेद्भूयो वह्नेरङ्गानि वै क्रमात् ॥ ६.७९॥ सहस्रार्चिः स्वस्तिपूर्ण उत्तिष्ठपुरुषस्तथा । धूमव्यापी सप्तजिह्वो धनुर्धर इतीरिताः ॥ ६.८०॥ अङ्गमन्त्राः क्रमादष्टमूर्तिश्चाथ प्रविन्यसेत् । मूर्धां सपाश्र्वकट्यन्धुकटिपाश्र्वांसकेषु च ॥ ६.८१॥ प्रादक्षिण्येन विन्यस्येद्यथावद्देशिकोत्तमः । जातवेदाः सप्तजिह्वो हव्यवाहन एव च ॥ ६.८२॥ अश्वोदरजसज्ञश्च स वैश्वानर एव च । कौमारतेजाश्च तथा विश्वेदेवमुखाह्वयौ ॥ ६.८३॥ स्युरष्टमूर्तयो वह्नेरग्नये पदपूर्विकाः । प्रणवादिनमोऽन्ताश्च पुनर्दर्भचतुष्टयैः ॥ ६.८४॥ दिक्क्रमात्सम्परिस्तीर्य सम्यग्गन्धादिभिर्यजेत् । मध्ये च कोणषट्के च जिह्वाभिः केसरेषु च ॥ ६.८५॥ अङ्गमन्त्रैस्ततो बाह्ये अष्टाभिर्मूर्तिभिः क्रमात् । ततोऽग्निमनुनानेन मन्त्री मध्ये च संयजेत् ॥ ६.८६॥ वैश्वानरं जातवेदमुक्त्वा चेहावहेति च । लोहिताक्षपदं सर्वकर्माणीति समीरयेत् । ब्रूयाच्च साधयेत्यन्ते वह्निजायान्तिको मनुः ॥ ६.८७॥ त्रिणयनमरुणप्ताबद्धमौलिं सुशुक्लां- शुकमरुणमनेकाकल्पमम्भोजसंस्थम् । अभिमतवरशक्तिस्वस्तिकाभीतिहस्तं नमत कनकमालालङ्कृतांसं कृशानुम् ॥ ६.८८॥ जिह्वा ज्वालारुचः प्रोक्ता वराभययुतानि च । अङ्गानि मूर्तयः शक्तिस्वस्तिकोद्यतदोद्र्वयाः ॥ ६.८९॥ संस्कृतेन घृतेनाभिद्योतनोद्योतितेन च । व्याहृत्यनन्तरं तेन जुहुयान्मनुना त्रिशः ॥ ६.९०॥ गर्भाधानादिका वह्नेः समुद्वाहावसानिकाः । क्रियास्तारेण वै कुर्यादाज्याहुत्यष्टकैः पृथक् ॥ ६.९१॥ जिह्वाङ्गमूर्तिमनुभिरेकावृत्या हुनेत्तथा । जिह्वायां मध्यसंस्थायां मन्त्री ज्वालावली तनौ ॥ ६.९२॥ ताराद्यैर्दशभिर्भिएदैः पूर्वैः पूर्वैः समन्वितः । मनुना गाणपत्येन हुनेत्पूर्वं दशाहुतीः ॥ ६.९३॥ जुहुयाच्च चतुर्वारं समस्तेनैव तेन तु । आज्येन सन्ध्यमनुना पञ्चविंशतिसङ्ख्यकम् ॥ ६.९४॥ जुहुयात्सर्वहोमेषु सुधीरनलतृप्तये । तान्त्रिकाणामयं न्यायो हुतानां समुदीरितः ॥ ६.९५॥ पुनः साध्येन मनुना हुनेदष्टसहस्रकम् । अथवाष्टशतं र्सिपः संयुक्तेन पयोन्धसा ॥ ६.९६॥ द्रव्यैर्विधानप्रोक्तैर्वा महाव्याहृतिपश्चिमम् । पुनः समापयेद्धोमं परिषेकावसानिकम् ॥ ६.९७॥ भूभुर्वःस्वर्भूर्भुवस्वःपूर्वं स्वाहान्तमेव च । अग्नये च पृथिव्यै च महते च समन्वितम् ॥ ६.९८॥ वायवे चान्तरिक्षाय महते च समन्वितम् । आदित्याय च दिवे च महते च समन्वितम् ॥ ६.९९॥ चन्द्रमसे च दिग्भ्यश्च महते च समन्वितम् । महाव्याहृतयस्त्वेताः सर्वशो देवतामयाः ॥ ६.१००॥ ब्रह्मार्पणाख्यमनुना पुनरष्टावथाहुतिः । जुहुयान्मन्त्रवर्येण कर्मबन्धविमुक्तये ॥ ६.१०१॥ इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारतः । जाग्रत्स्वप्नसुषुप्तीनामन्तेऽवस्थास्वितीरयेत् ॥ ६.१०२॥ ततश्च मनसा वाचा कर्मणेति प्रभाषयेत् । हस्ताभ्यां च तथा पद्भ्यामुदरेण तु भाषयेत् ॥ ६.१०३॥ शिश्ना च यत्कृतं प्रोक्त्वा यदुक्तं यत्स्मृतं तथा । तत्सर्वमिति सम्भाष्य ब्रह्मार्पणपदं वदेत् ॥ ६.१०४॥ भवत्वन्ते द्विठश्चायं ब्रह्मार्पणमनुर्मतः । हुते तु देशिकः पश्चान्मण्डले बलिमारभेत् ॥ ६.१०५॥ नक्षत्राणां सराशीनां सवाराणां यथाक्रमम् । दद्याद्बलिं गन्धपुष्पधूपपूर्वकमादरात् ॥ ६.१०६॥ ताराणामश्विनादीनां राशीः पादाधिकद्वयम् । मेषादिमुक्त्वा नक्षत्रसंज्ञां पूर्वमनन्तरम् ॥ ६.१०७॥ देवताभ्यः पदं प्रोक्त्वा दिवानक्तपदं तथा । चारिभ्यश्चाथ सर्वेभ्यो भूतेभ्यश्च नमो वदेत् ॥ ६.१०८॥ एवं राशो तु सम्पूर्णे तिंस्मस्तद्वत्प्रयोजयेत् । तथा राश्यधिपानां च ग्रहाणां तत्र तत्र तु ॥ ६.१०९॥ सप्तानां करणानां च दद्यान्मीनाह्वमेषयोः । अन्तराले बलिस्त्वेवं सम्प्रोक्तः कलशात्मकः ॥ ६.११०॥ पुर्निनवेद्यमुद्धृत्य पुरोवत्परिपूज्य च । मुखवासादिकं दत्त्वा स्तुत्या तद्युक्तया पुनः । स्तुत्वा यथावत्प्रणमेद्भक्तियुक्तस्तु साधकः ॥ ६.१११॥ दोभ्र्यां पदाभ्यां जानुभ्यामुरसा शिरसा दृशा । वचसा मनसा चेति प्रणामोऽष्टाङ्ग ईरितः ॥ ६.११२॥ बाहुभ्यां च सजानुभ्यां शिरसा वचसा धिया । पञ्चाङ्गकःप्प्रणामः स्यात्पूजासु प्रवराविमौ ॥ ६.११३॥ गुर्वाद्यास्तारादिका यागमन्त्रा लोकेशान्तास्ते चतुर्थीनमोऽन्ताः । पूजायामप्यग्निकार्ये द्विठान्ता बीजैः पूजा स्याद्विभक्त्या वियुक्तैः ॥ ६.११४॥ वाससी च पुनरङ्गुलिभूषां होमकृत्सु मुखजप्रवरेषु । ईश्वरार्पणमिति प्रतिदत्त्वा र्विधतो द्विजमुखेरितवाग्भिः ॥ ६.११५॥ नत्त्वा ततस्तनुभृते परमात्मने स्वं द्रव्यार्धमेव गुरवे चतुरंशकं वा । दत्त्वा दशांशमथवापि च वित्तशाठ्यं हित्वार्पयेन्निजतनुं तदधीनचेताः ॥ ६.११६॥ अथ पटुरवमुख्यवाद्यघोषै- रिद्वजमुखनिष्पतदाशिषां रवेण । सुनियतमपि सुस्थितं च शिष्यं कलशजलैरभिषेचयेद्यथावत् ॥ ६.११७॥ यथा पुरा पूरितमक्षरैर्घटैः सुधामयैः शिष्यतनौ तथैव तैः । प्रपूरयन्मन्त्रिवरोऽभिषेचये- दवाप्तये मूङ्क्षु यथेष्टसम्पदाम् ॥ ६.११८॥ विमले परिधाय वाससी पुनराचम्य गुरुं प्रणम्य च । निकटे समुपासतो वदेदथ शिष्यस्य मनुं त्रिशो गुरुः ॥ ६.११९॥ गुरुणा समनुगृहीतं मन्त्रं सद्यो जपेच्छतावृत्त्या । गुरुदेवतामनूनामैक्यं सम्भावयन्धिया शिष्यः ॥ ६.१२०॥ मन्त्रे मन्त्रगुरावपि मन्त्री मन्त्रस्य देवतायां च । त्रिषु विहितसततभक्तिः प्रेत्येह निजेप्सितं फलं लभते ॥ ६.१२१॥ सङ्क्षेपादिति गदिता हिताय दीक्षा जप्तृणां प्रवरफलप्रदा चिराय । प्राप्यैनां जपविधिरादरेण कार्यो विद्वद्भिः सहुतविधिं निजेष्टसिद्ध्यै ॥ ६.१२२॥ प्रोक्तेनैवं कलशविधिनैकेन वानेककुम्भै- र्भक्त्या यो वा सुमतिरभिषिञ्चेन्नरो मन्त्रजापी । कामान्प्राप्नोत्ययमिह परत्रापि किं तत्र चित्रं लोकैश्चिन्त्यो न खलु मणिमन्त्रौषधीनां प्रभावः ॥ ६.१२३॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे षष्ठः पटलः ॥

॥ सप्तमः पटलः ॥

अथाक्षराणामधिदेवतायाः समस्तबोधस्थितिदीपिकायाः । अशेषदुःखप्रशमाय नृणां वक्ष्येऽजपादेः प्रवरं विधानम् ॥ ७.१॥ ब्रह्मा स्यादृषिरीरितः सुमतिभिर्गायत्रमुक्तं च त- च्छन्दस्त्वेऽपि सरस्वती निगदिता तन्त्रेषु तद्देवता । आद्यन्तस्वरषट्कलघ्वपरयोरन्तस्थितैः कादिभि- र्वर्गैर्यान्तगतैः क्रमेण कथितान्यस्याः षडङ्गानि च ॥ ७.२॥ पञ्चाशद्वर्णभेदैः विहितवदनदोः पादयुक् कुक्षिवक्षो- देशां भास्वत्कपर्दाकलितशशिकलामिन्दुकुन्दावदाताम् । अक्षस्रक्कुम्भचिन्तालिखितवरकरां त्रीक्षणां पद्मसंस्था- मच्छाकल्पामतुच्छस्तनजघनभरां भारतीं तां नमामि ॥ ७.३॥ काननवृत्तद्व्यक्षि श्रुतिनोगण्डोष्ठदन्तमूर्धास्ये । दोः पत्सन्ध्यग्रेषु च पाश्र्वद्वयपृष्ठनाभिजठरेषु ॥ ७.४॥ हृद्दोर्मूलापरगलकक्षेषु हृदादिपाणिपादयुगे । जठराननयोव्र्यापकसंज्ञा न्यस्येदथाक्षरान्क्रमशः ॥ ७.५॥ सन्दीक्षितो विमलधीर्गुरुणानुशिष्टो लक्षं न्यसेत्सुनियतः प्रजपेच्च तावत् । अन्ते हुतं प्रतिहुनेन्मधुरत्रयाक्तैः शुद्धैस्तिलैरभिजयेद्दिनशोऽक्षरेशीम् ॥ ७.६॥ व्योमाविः स चतुर्दशस्वरविसर्गार्णस्फुरत्र्किणकं किञ्जल्कालिखितस्वरं प्रतिदलप्रारब्धवर्गाष्टकम् । क्ष्माबिम्बेन च सप्तमार्णवयुजाश्राशासु संवेष्टितं वर्णाब्जं शिरसि स्मृतं विषगदप्रध्वंसि मृत्युञ्जयम् ॥ ७.७॥ प्रविधाय पद्ममिति पीठमथो कथितक्रमेण विधिनाभियजेत् । नवभिश्च शक्तिभिरमुत्र समावरणैः समर्चयतु वर्णतनुम् ॥ ७.८॥ मेधा प्रज्ञा प्रभा विद्या धीर्धृतिस्मृतिबुद्धयः । विद्येश्वरीति सम्प्रोक्ता भारत्या नव शक्तयः ॥ ७.९॥ अङ्गान्यादौ तदनु च कलायुग्मशश्चाष्टवर्गा- न्ब्रह्माण्यादीञ्छतमखमुखानप्यथो लोकपालान् । मुख्यैग्र्रन्थैः प्रवरकुसुमैर्धूपदीर्पैनिवेद्यै- र्वर्णाञ्जापी यजतु दिनशो भारतीं भक्तिनम्रः ॥ ७.१०॥ ब्रह्माणी माहेशी कौमारी वैष्णवी च वाराही । इन्द्राणी चामुण्डी समहालक्ष्मीति मातरः प्रोक्ताः ॥ ७.११॥ वर्गस्वरयाद्यंशाः क्रमेण कलधौतरजतताम्राः स्युः । इति रचितं रुचकमिदं साधकसर्वार्थदायि सततं स्यात् ॥ ७.१२॥ त्रिवारमम्भः परिजप्तमेतया पिबेद्दिनादावपि विद्यया सुधीः । अनेडमूकोऽपि कवित्वर्गिवतः परां च कीर्ति लभतेऽर्कमासतः ॥ ७.१३॥ कमलोद्भवौषधिरसेव च या पयसा च पक्वमथ र्सिपरपि । अयुताभिजप्तममुना दिनशो लिहतां कविर्भवति वत्सरतः ॥ ७.१४॥ वर्णौषध्याश्रिताभिः कलशममलधीरद्भिरापूरयित्वा प्रातस्तेनाभिषिञ्चेद्दशशतपरिजप्तेन यं वापि मासम् । स स्यान्मेधेन्दिरायुःप्रशमकवियशो विश्वसंवादयुक्तो नारी वन्ध्यापि नानागुणगणनिलयं पुत्रवर्यं प्रसूते ॥ ७.१५॥ आधारोद्यच्छक्तिबिन्दूत्थिताया वक्त्रे मूर्धेन्दुग्रसन्त्याः प्रभायाः । क्षाद्यान्तार्णान्पातयेद्वह्निसोमप्रोतान्मन्त्री मुच्यते रोगजातैः ॥ ७.१६॥ विन्यासैरथ सजपैर्हुताशनाद्यै ध्र्यानैश्च प्रभजति भारतीं नरो यः । स श्रीमान्भवति च मङ्क्षु काव्यकर्ता क्ष्वेलादीञ्जयति जरापमृत्युरोगान् ॥ ७.१७॥ कलाः कलानादभवा वदन्त्यजाः कचादिवर्णानुभवाष्टतादिकान् । पयादिकान्माक्षरजाश्च बिन्दुजाः क्रमादनन्तावधिकास्तु षादिकान् ॥ ७.१८॥ कुर्यात्कलाभिराभिर्मन्त्री दिनशस्तनौ तथा न्यासम् । सान्निध्यकृत्समर्थः प्रतिमाकलशादिषु प्रविज्ञेयः ॥ ७.१९॥ मन्त्रोद्धारविधाने वर्णव्यत्यासकॢप्तिरुद्दिष्टा । आभिः श्रीकण्ठादिप्रोक्तैर्वा नामभिः विशेषज्ञैः ॥ ७.२०॥ अष्टाक्षरोक्तमनुवर्यविशिष्टमूर्ति संस्मृत्य विष्णुमपि मन्त्रितमो यथावत् । वर्णैन्र्यसेदपि पुरैव च केशवादि- मूत्र्या युतैर्वपुषि भक्तिभरावनम्रः ॥ ७.२१॥ रुद्रादीञ्छक्तियुतान्न्यस्येद्याद्यांस्त्वगादिधातुयुगान् । श्रीकण्ठादौ विद्वान्वर्णान्प्राग्बीजसंयुतान्वापि ॥ ७.२२॥ सिन्दूरकाञ्चनसमोभयभागमर्ध- नारीश्वरं गिरिसुताहरभूषचिह्नम् । पाशाभयाक्षवलयेष्टदहस्तमेवं स्मृत्वा न्यसेत्सकलवाञ्छितवस्तुसिद्ध्यै ॥ ७.२३॥ शक्त्या शक्तिश्रीभ्यां शक्तिश्रीक्लीभिरन्वितैर्वर्णैः । श्रीशक्तियुगशराद्यैरथवाभिहितः समृद्धये न्यासः ॥ ७.२४॥ अथानया पञ्चविभेदभिन्नया प्रपञ्चयागस्य विधिः प्रवक्ष्यते । कृते तु यस्मिन्निह साधकोत्तमाः प्रयान्ति निर्वाणपदं तदव्ययम् ॥ ७.२५॥ पूर्वं महागणपतिं स्वविधानसिद्ध- रूपं च साङ्गमपि सावरणं विचिन्त्य । बीजेन संयुतमृचा प्रजपेत माला- मन्त्रं निजेष्टविधयेऽवहितो यथावत् ॥ ७.२६॥ स चतुश्चत्वारिंशद्वारं बीजं तथैकवारमृचम् । प्रजपेच्चतुरावृत्त्या मालापूर्वं मनुं च मन्त्रितमः ॥ ७.२७॥ स मुनिश्छन्दोदैवतमपि साङ्गं मातृकां च विन्यस्येत् । प्रागभिहितेन विधिना वारत्रितयं गृहांश्च सप्त तथा ॥ ७.२८॥ वदने च बाहुपादद्वितये जठरे च वक्षसि यथावत् । अर्काद्यान्विन्यस्येत्क्रमेण मन्त्री स्वरादिवर्गेशान् ॥ ७.२९॥ तारश्च शक्तिरजपा परमात्मबीजं वह्नेःप्रिया च गदिता इति पञ्चमन्त्राः । एभिस्त्रितीयलिपिभिः कथितः प्रपञ्च- यागाह्वयो हुतविधिः सकलार्थदायी ॥ ७.३०॥ ब्रह्मा स्यादृषिरस्य च्छन्दः परमान्विता च गायत्री । सकलपदार्थसदर्थं परिपूर्णं देवता परञ्ज्योतिः ॥ ७.३१॥ जायाग्नेर्हृदयमथो शिरश्च सोऽहं हंसात्मा त्वथ च शिखा स्वयं च वर्म । ताराख्यं स्वमुदितमीक्षणं तथास्त्रं प्रोक्तं स्याद्धरिहरवर्णमङ्गमेवम् ॥ ७.३२॥ अत्राकारहकाराद्यावाद्यौ शान्तान्त्यकौ मनू । हकारश्चाप्यकारश्च बिन्दुः सर्गी च साक्षरः ॥ ७.३३॥ साकारश्चात्ममन्त्रः षडिन्द्रियात्मक उच्यते । सकारौकारहकारा बिन्दुः पञ्चार्णको मनुः ॥ ७.३४॥ करणात्मसमायुक्तः परमात्माह्वयो मनुः । स्वाकारैर्हदीर्घाभ्यां वह्निजायामनुर्मतः । वागादीन्द्रियसम्भिन्नः सोऽयं पञ्चाक्षरात्मकः ॥ ७.३५॥ ब्रह्मा बृहत्तया स्यात्परमपदेन प्रकाशितः प्रवरः । गायकसन्त्राणनतो गायत्रं समुनिनिगदितं छन्दः ॥ ७.३६॥ परमन्यदतिशयं वा ज्योतिस्तेजो निरूपितेऽन्यद्यत् । अतिशायि च नितरामिति कथितैवं देवता परञ्ज्योतिः।३७॥ स्वेति स्वर्गः स्वेति चात्मा समुक्तो हेत्याहुतिर्हेति विद्याद्गतिं च । स्वर्गात्मावध्यातता धामशाखा वह्नेर्जाया यत्र हूयेत सर्वम् ॥ ७.३८॥ स इति परततं परं तु तेज- स्त्वहमिति मय्युदिते मनोऽस्य यत्र । तदिति सकलचित्प्रकाशरूपं कथितमिदं शिरसेऽपि मन्त्रमेवम् ॥ ७.३९॥ हमिति प्रकाशितोऽहं स इति च सकलप्रकाशनिर्वाणम् । अतुलमनुष्णमशीतं यत्तदितीत्थं प्रकाशितेह शिखा ॥ ७.४०॥ प्रतिमथ्य गुणत्रयानुबद्धं सकलं स्थावरजङ्गमाभिपूर्णम् । स्वगुरुणैः निजबिन्दुसन्ततात्माखिललोकस्थितिवर्ममन्त्रमुक्तम् ॥ ७.४१॥ आद्यैस्त्रिभेदैस्तपनान्तिकैर्यत्सृजत्यजस्रं जगतोऽस्य भावम् । तेजस्तदेतन्मनुवर्यकस्य नेत्रत्रयं सन्त उदाहरन्ति ॥ ७.४२॥ हृज्रराख्या धातुर्हरणार्थे साधकानभीष्टानि । संहरतीह यदेतत्तेजोरूपं तदस्त्रमन्त्रं स्यात् ॥ ७.४३॥ यदा लिपिविहीनोऽयं तदात्माष्टक्षरः स्मृतः । एतत्सर्वप्रपञ्चस्य मूलमष्टाक्षरं स्मृतम् ॥ ७.४४॥ प्रपञ्चयागस्त्वमुना कृतो न्यासविधिः स्मृतः । वर्णैर्देहेऽनले द्रव्यैः कुर्याद्धुतविधिं द्विधा ॥ ७.४५॥ मातृकान्यासवत्सार्थं लिपिनाष्टाक्षरेण तु । नित्यं न्यसेत्संयतात्मा पञ्चाशद्वारमुत्तमम् ॥ ७.४६॥ पञ्चज्ञानेन्द्रियाबद्धाः सर्वास्तु लिपयो मताः । ताभिरारात्तनं सर्वं तत्तदिन्द्रियगोचरम् ॥ ७.४७॥ स्मर्तव्याशेषलोकान्तर्र्वित यत्तेज ऐश्वरम् । ब्रह्माग्नौ जुहुयात्तस्मिन्सदा सर्वत्र र्वितनि ॥ ७.४८॥ ब्रह्मात्मभिर्महामन्त्रैब्र्रह्मविद्भिः समाहितैः । ब्रह्माग्नौ ब्रह्महविषा हुतं ब्रह्मार्पणं स्मृतम् ॥ ७.४९॥ एवं वर्णविभेदभिन्नमदृढं मांसान्त्रमज्जावृतं देहं तत्क्षरमक्षरे सुविशदे सर्वत्र र्वितन्यथ । हुत्वा ब्रह्महुताशने विमलधीस्तेजःस्वरूपी स्वयं भूत्वा सर्वमनुं जपेदभियजेद्ध्यायेत्तथा तर्पयेत् ॥ ७.५०॥ शुद्धश्चापि सबिन्दुकस्त्वथ कलायुक्केशवाद्यस्तथा श्रीकण्ठादियुतश्च शक्तिकमलामारैस्तथैकैकशः । न्यासास्ते दशधा पृथङ् निगदिताः स्युब्र्रह्मयागान्तिकाः सर्वे साधकसिद्धिसाधनविधौ सङ्कल्पकल्पद्रुमाः ॥ ७.५१॥ प्रपञ्चयागस्तु विशेषतो विपत्प्रपञ्चसंसारविशेषयापकः । परश्च नित्यं भजतामयत्नतः परस्य चार्थस्य निवेदकस्तथा ॥ ७.५२॥ द्रव्यैर्यथा यैः क्रियते प्रपञ्च- यागक्रिया तानि तथैव सम्पत् । यास्वप्यवस्थासु च ताश्च कृत्वा प्राप्नोति यत्तत्कथयामि सर्वम् ॥ ७.५३॥ प्रोक्तक्रमेण विघ्नादिकमपि हुत्वा क्रमेण मन्त्रितमः । एकावृत्त्या जुहुयात्प्रपञ्चयागाह्वयं घृतेन ततः ॥ ७.५४॥ अश्वत्थोदुम्बरजाः प्लक्षन्यग्रोधसम्भवाः समिधः । तिलसर्षपदौग्धघृतान्यष्ट द्रव्याणि सम्प्रदिष्टानि ॥ ७.५५॥ एतैर्जुहोति नियुताधिकलक्षसङ्ख्यं मन्त्री ततोऽर्धमथवापि तदर्धकं यः । स त्वैहिकीं सकलसिद्धिमवाप्य वाञ्छा- योग्यां पुनः परतरां च परत्र याति ॥ ७.५६॥ एकद्विकत्रिकचतुष्कशताभिवृत्त्या तांस्तान्समीक्ष्य विकृतिं प्रजुहोतु मन्त्री । क्षुद्रग्रहारिविषमज्वरभूतयक्ष- रक्षःपिशाचजनिते महति प्रकोपे ॥ ७.५७॥ द्वादशसहस्रमथवा तद्विगुणं वा चतुर्गुणं वाथ । जुहुयात्क्षुद्रग्रहरिपुविषमज्वरभूतसम्भवे कोपे ॥ ७.५८॥ अयथाप्रतिपत्तिमन्त्रकाणां प्रजपात्स्यादिह विस्मृतिर्नराणाम् । शमयेदचिरात्सहस्रवृत्त्या मतिमान्वस्तुभिरेभिरेव जुह्वन् ॥ ७.५९॥ एतैः सहस्रद्वितयाभिवृत्त्या जुहोति यस्तु क्रमशो यथाभवत् । जयेत्क्षणेनैव स विस्मृतीश्च सापस्मृतीः शापभवांश्च दोषान् ॥ ७.६०॥ मधुरत्रयावसिक्तैरेतैर्लक्षं जुहोति यो मन्त्री । तस्य सुराधिपविभवो महदृद्ध्या तृणलवायते नचिरात् ॥ ७.६१॥ लक्षं तदर्धकं वा मधुरत्रयसंयुतैर्हुनेदेतैः । अब्दत्रयादथार्वाक्त्रिभुवनमखिलं वशे कुरुते ॥ ७.६२॥ वश्यादीन्यपि कर्माण्यभिकाङ्क्षन्नेभिरेव सद्द्रव्यैः । जुहुयात्कार्ये गुरुतालाघवमभिवीक्ष्य योग्यपरिमाणम् ॥ ७.६३॥ लक्षं तिलानां जुहुयाद्यवानां शान्त्यै श्रियेऽथो नलिनैश्च तावत् । दौग्ध्येन पुष्ट्यै यशसे घृतेन वश्याय जातीकुसुमैश्च लोणैः ॥ ७.६४॥ शालीतण्डुलचूर्णकैस्त्रिमधुरासिक्तैः स्वसाध्याकृतिं कृत्वाष्टोध्र्वशताख्यमस्य शितधीः प्राणान्प्रतिष्ठाप्य च । न्यासोक्तक्रमतो निशासु जुहुयात्तां सप्तरात्रं नरो नारीं वा वशमेति मुङ्क्षु विधिना तेनैव लोणेन वा ॥ ७.६५॥ पञ्चाशदौषधिविपाचितपञ्चगव्य- जाते घृतेन शतवृत्ति हुनेद्घटाग्नौ । तावत्प्रजप्य विधिनाभिसमच्र्य सिद्धं भस्माददीत सकलाभ्युदयावहं तत् ॥ ७.६६॥ अनुदिनमनुलिम्म्पेत्तेन किञ्चित्समद्या- त्तिलकमपि विदध्यादुत्तमाङ्गे क्षिपेच्च । अनुततदुरितापस्मारभूतापमृत्यु- ग्रहिविषरहितः स्यात्प्रीयते च प्रजाभिः ॥ ७.६७॥ एकादशार्धकणिकां वरकाञ्चनस्य दद्यात्तदैव गुरवेऽथ सहस्रहोमे । अर्धोध्र्वपञ्चकणिका द्विकणा च सार्धा स्याद्दक्षिणेह कथिता मुनिभिस्त्रिधैव ॥ ७.६८॥ निजेप्सितं दिव्यजनैः सुरद्रुमा- त्समस्तमेव प्रतिलभ्यते यथा । प्रपञ्चयागादपि साधकैस्तथा करप्रचेयाः सकलार्थसम्पदः ॥ ७.६९॥ अथ हितविधये विदुषां वक्ष्ये प्राणाग्निहोत्रविहितविधिम् । बद्ध्वा पद्मासनमृजुकायो मन्त्री विशेत्पुरोवदनः ॥ ७.७०॥ शक्तेः सत्त्वनिबद्धमध्यमथ तन्मायारजोवेष्टितं प्राग्रक्षोऽनिलदिग्गताश्रजठरं मध्ये च नाभेरधः । मध्यप्राग्वरुणेन्द्रयाम्यलसितैः कुण्डैज्र्वलद्वह्निभिः मूलाधारमनारतं समतलं योगी स्मरेत्सिद्धये ॥ ७.७१॥ मध्येन्द्रवरुणशशियमदिग्गतानि क्रमेण कुण्डानि । आवसथजसभ्याहवनीयान्वाहार्यगार्हपत्यानि ॥ ७.७२॥ चिद्रूपात्सकलप्रभाप्रभवकान्मूलप्रकृत्यात्मनः कल्पार्कात्प्रतिलोमतोऽमृतमयीं ज्योतीरुचाच्छां धिया । स्पृष्टामक्षरमालिकां तु जुहुयात्कुण्डेषु तेषु क्रमा- त्कल्पान्ताग्निशिखास्फुरत्कुहरकेष्वास्रावितां वर्णशः ॥ ७.७३॥ क्षाद्यास्ते सप्तवर्गा मरकतपशुमेदाह्वनीलाभवर्णा भूयः स्युर्विद्रुमाभाः कुलिशसमरुचः पुष्यवैडूर्यभासः । सर्वे ते पञ्चशोभी स्रवदमृतमया व्यापकाः स्पर्शसंज्ञा मुक्तामाणिक्यरूपाः सुमतिभिरुदिताश्चाष्टशः स्युः स्वराख्यः।७४। एतानि केतोरमृताकरारेर्मन्दस्य रक्तस्य च भार्गवस्य । गुरुज्ञसोमांशुमतां क्रमेण नवानि रत्नानि विदुर्नवानाम् ॥ ७.७५॥ इत्येवं हुतविधिमन्वहं दिनादौ ये सम्यग्विदधति मन्त्रिणः शतार्घम् । ते रत्नैरपि कनकांशुकैः सधान्यैः सम्पन्नाः सकलजगत्प्रिया भवन्ति ॥ ७.७६॥ अन्त्यशवर्गान्त्यासे वामश्रवणान्यथावसथजाते । असितपवर्गचतुर्थां सूक्ष्माः सभ्याह्वये च सश्रोत्राः ॥ ७.७७॥ हलयुतवर्गतृतीयौ पराः सशान्तीश्च पश्चिमे वह्नौ । भृगुरेफफादिपञ्चकसद्यातिथिलोचनानि सव्येऽग्नौ ॥ ७.७८॥ मज्जात्वग्वर्गादिकभौतिकभाराह्वयप्रतिष्ठांश्च । गार्हपत्ये जुहुयादित्युक्तं होमकर्मवर्णानाम् ॥ ७.७९॥ व्योम्ना मध्ये स्थितेऽग्नावखिलमविरतं शब्दमैन्द्रेऽनिलेन स्पर्शं स्वेनैव रूपं पुनरपरभवे सौम्यजेऽद्भी रसं च । याम्ये गन्धं पृथिव्योभयरुचिरुचिरैरक्षरौघैर्हुनेद्यो मन्त्री स्यात्सर्ववेद्यप्रतिमथनसमुद्भासितप्रत्यगात्मा ॥ ७.८०॥ सतारशक्त्याद्यजपान्तमेवं हुत्वा महात्माथ शतार्धसङ्ख्यम् । विन्यस्य तावच्च तथैव सूत्रमात्राकृतिः नित्यतनुश्च भूयात् ॥ ७.८१॥ कल्पादित्यमुखस्वमूलविलसत्कल्पानलान्तस्फुर- च्चन्द्रार्कग्रहकालभूतभुवनब्रह्मेशविष्ण्वादिकः । अव्यक्तोऽक्षरसंज्ञकोऽमृतमयस्तेजोद्वयोद्यत्प्रभो नित्यानन्दमयस्त्वनादिनिधनो यः स्यात्स हंसात्मकः ॥ ७.८२॥ अनुदिनममुना भजतां विधिनाहारक्रियासु मन्त्रविदां । प्राणाद्याः स्युर्मरुतो गार्हपत्यादिकानि कुण्डानि ॥ ७.८३॥ सप्तम्यन्तां च कुण्डाख्यामाख्यां च मरुतामपि । हिरण्या गगना रक्ता कृष्णाभिर्वर्णमीरयेत् ॥ ७.८४॥ ससुप्रभाभिः सहिताः शुचयः पावका इति । अग्निं विहृत्य चेत्येवमात्मानमुपचर्य च ॥ ७.८५॥ ऊध्र्वाधस्तिर्यगुध्र्वाधस्तिर्यक्सममथो वदेत् । गच्छतूक्त्वा ठयुग्मं च पञ्चाग्नीन्संस्मरेत्ततः ॥ ७.८६॥ हुताहुतिसमुद्दीप्तशिखासंयुक्तरोचिषः । गार्हपत्यादिकं भूय उपचर्यान्तमेव च ॥ ७.८७॥ मन्त्रं सर्वमनुक्रम्य जिह्वाः संस्मृत्य सर्वशः । बहुरूपां तु सङ्कल्प्य पञ्चानलशिखायुताम् ॥ ७.८८॥ अहं वैश्वानरो भूत्वा जुहोम्यन्नं चतुर्विधम् । पचाम्येवं विधानेनेत्यापूर्णं संयतेन्द्रियः ॥ ७.८९॥ तूष्णीं हुत्वा पिधायाद्भिरुपस्पृश्य विधानतः । आरभ्य मूलाधारं स्वमामस्तकमनुस्मरेत् ॥ ७.९०॥ क्षेत्रज्ञसंज्ञकममुं प्रकृतिस्थमाद्यं व्याप्तद्विसप्तभुवनान्तमनन्तमेकम् । पञ्चाननाग्निरसनापरिदत्तशुद्ध- सान्नाय्यर्तिपतमतर्कितमात्मरूपम् ॥ ७.९१॥ सञ्चिन्त्य क्षरितामृताक्षरशतार्धाम्भोऽवसिक्तं हवि- स्तैर्जप्त्वा कुटिलान्तराधिरधिकं सन्दीप्तपञ्चानलः । सायम्प्रातरनेन होमविधिना भोज्यानि नित्यं भज- न्प्राणी न प्रमदोदरं प्रविशति प्राणाग्निहोत्री पुनः ॥ ७.९२॥ इति तव सषडङ्गवेदशास्त्राद्युपहितसर्वविकारसङ्घमाहुः । तनुरियमुदिता विरिञ्चविश्वस्थितिलयसृष्टिकरीह वर्णमाला ॥ ७.९३॥ इति जगदनुषक्तां तामिमां वर्णमालां न्यसत जपत भक्त्या जुह्वताभ्यर्चयीत । निरुपमकवितायुःकीर्तिकान्तीन्दिराप्त्यै सकलदुरितरोगोच्छित्तये मुक्तये च ॥ ७.९४॥ इतीरिता सकलजगत्प्रभाविनी क्रमोत्क्रमक्रमगुणितार्णमालिका । अभीष्टसाधनविधये च मन्त्रिणां भवेन्मनुप्रतिपुटिताक्षमालिका ॥ ७.९५॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे सप्तमः पटलः ॥

॥ अष्टमः पटलः ॥

अथ प्रवक्ष्यामि सुदुर्लभास्यै विद्यां विशिष्टां त्रिपुराभिधानाम् । धात्रीप्रभेदापि जगत्यवाप्तत्रिंशत्प्रकारा त्रिदशाभिवन्द्या ॥ ८.१॥ त्रिमूर्तिसर्गाच्च पुराभवत्वात्त्रयीमयत्वाच्च पुरैव देव्याः । लये त्रिलोक्या अपि पूरणत्वात्प्रायोऽम्बिकायास्त्रिपुरेति नाम ॥ ८.२॥ व्योमेन्दुवह्न्यधरबिन्दुभिरेकमन्य- द्रक्ताच्छकेन्द्रशिखिभिः सरमार्धचन्द्रैः । अन्यद्यु शीतकरपावकमन्वमन्तै- र्बीजैरमीभिरुदिता त्रिपुरेति विद्या ॥ ८.३॥ वागैश्वर्यातिशयदतया वाग्भवं बीजमुक्तं त्रैलोक्यक्षोभणवशताकृष्टिदं कामराजम् । शाक्तं क्ष्वेलापहरणकविताकारकं मन्त्रमेत- त्प्रोक्तं धर्मद्रविणसुखमोक्षप्रदं साधकानाम् ॥ ८.४॥ नाभेरथाचरणमाहृदयाच्च नाभिं मूध्र्नस्तथा हृदयमित्यमुना क्रमेण । बीजैस्त्रिभिन्र्यसतु हस्ततले च सव्ये दक्षाह्वये द्वितीयमप्युभये तृतीयम् ॥ ८.५॥ मूर्धनि गुह्यहृदोरपि नेत्रत्रितये च कर्णयोरास्ये । अंसद्वये च पृष्ठे कूर्परयोर्नाभिमण्डले न्यस्येत् ॥ ८.६॥ वाग्भवेन पुनरङ्गुलीष्वथो विन्यसेच्च पुनरुक्तमार्गतः । अङ्गषट्कममुना विधाय तद्देवतां विशदधीर्विचिन्तयेत् ॥ ८.७॥ आताम्रार्कायुताभां कलितशशिकलारञ्जितप्तां त्रिणेत्रां देवीं पूर्णेन्दुवक्त्रां विधृतजपपटीपुस्तकाभीत्यभीष्टाम् । पीनोत्तुङ्गस्तनार्तां वलिलसितविलग्नामसृक्पज्र्राज- न्मुण्डस्रङ्मण्डिताङ्गीमरुणतरदुकूलानुलेपां नमामि ॥ ८.८॥ दीक्षां प्राप्य विशिष्टलक्षणयुजः सत्सम्प्रदायाद्गुरो- र्लब्ध्वा मन्त्रममुं जपेत्सुनियतस्तत्त्वार्धलक्षावधि । स्वाद्वक्तैश्च नवैः पलाशकुसुमैः सम्यक् समिद्धेऽनले मन्त्री भानुसहस्रकं प्रति हुनेदश्वारिसूनैरपि ॥ ८.९॥ प्राणायामैः पवित्रीकृततनुरथ मन्त्री निजाधारराज- द्योनिस्थां दिव्यरूपां प्रमुदितमनसाभ्यर्चयित्वोपचारैः । आबद्ध्वा योनिमुद्रामपि निजगुदलिङ्गान्तरस्थां प्रदीप्तां भूयो द्रव्यैः सुशुद्धैररुणरुचिभिरित्यारभेद्बाह्यपूजाम् ॥ ८.१०॥ वामादिशक्तिसहितं परिपूज्य पीठं तत्र प्रकल्प्य विधिवन्नवयोनिचक्रम् । योनौ निधाय कलशं त्वथ मध्यगाथा- मावाह्य तां भगवतीं प्रयजेत्क्रमेण ॥ ८.११॥ वह्नेः पुरद्वितयवासवयोनिमध्य- सम्बद्धवह्निवरुणेशसमाश्रिताश्री । देव्यर्चनाय विहितं मुनिभिः पुरैव लोके सुदर्लभमिदं नवयोनिचक्रम् ॥ ८.१२॥ वामा ज्येष्ठा रौद्रिका साम्बिकेच्छा- ज्ञानाभिख्या सक्रिया कुब्जिकाह्वा । बह्वी चान्या स्याद्विषघ्नी च दूत- र्याह्वा सर्वानन्दका शक्तयः स्युः ॥ ८.१३॥ प्राङ्मध्ययोन्योः पुनरन्तराले सम्पूजयेत्प्राग्गुरुपादपङ्क्तिम् । पराभिधानामपराह्वयां च परापराख्यामपि वाग्भवादिम् ॥ ८.१४॥ तेनैव चाङ्गानि विदिग्दिशासु मन्त्री यथोक्तक्रमतः प्रपूज्य । तन्मध्ययोनेरभितः शरांश्च सम्पूज्येत्पञ्चममग्रभागे ॥ ८.१५॥ सुभगा भगा भगान्ते र्सिपणी भगमालिनी अनङ्गाह्वा । तत्पूर्वकुसुमसंज्ञा तदादिके चाथ मेखलामदने ॥ ८.१६॥ सम्पूज्य योनिषु च मातृगणं सचण्डि- कान्तर्दलेष्वभियजेदसिताङ्गकाद्यैः । तैर्भैरवैः सह सुगन्धसुपुष्पधूप- दीपादिकैर्भगवतीं प्रवरैः निवैद्यैः ॥ ८.१७॥ असिताङ्गाख्यो रुरुरपि चण्डः क्रोधाह्वयस्तथोन्मत्तः । सकपालिभीषणाख्यः संहारश्चाष्टभैरवाः कथिताः ॥ ८.१८॥ इति क्रमाप्त्या विहिताभिषेकः सम्प्रीणयित्वा द्रविणैर्गुरुं च । जप्त्वार्चयित्वोक्ततयाथ हुत्वा युञ्जीत योगांश्च गुरूपदिष्टान् ॥ ८.१९॥ अच्छाभः स्वच्छवेषो धरणिमयगृहे वाग्भवं लक्षमेकं यो जप्यात्तद्दशांशं विहितहुतविधिर्मन्त्रजप्ताञ्जनादिः । काव्यैर्नानार्थवृत्तैस्त्रिभुवनमखिलं पूरयेन्मन्त्रजापी मारात्र्या विह्वलाभिः पुनरयमनिशं सेव्यते सुन्दरीभिः ॥ ८.२०॥ रक्ताकल्पोऽरुणतरदुकूलार्तवालेपनाढ्यो मौनी भूसद्मनि सुखनिविष्टो जपेल्लक्षमेकम् । बीजं मन्त्री रतिपतिमयं प्रोक्तहोमावसाने योऽसौ लोके स सुरमनुजैः पूज्यते सेव्यते च ॥ ८.२१॥ ससुरासुरसिद्धयक्षविद्याधरगन्धर्वभुजङ्गचारणानाम् । प्रमदामदवेगतो विकीर्णाभरणाः स्रस्तुदुकूलकेशजालाः ॥ ८.२२॥ अतिदुःसहमन्मथव्यथाभिः प्रथितान्तःपरितापवेपिताङ्ग्यः । घनधर्मजतोयबिन्दुमुक्ताफलसक्तोरुकुचान्तबाहुमूलाः ॥ ८.२३॥ रोमाञ्चकञ्चुकितगात्रलताघनोद्य- दुत्तुङ्गपीनकुचकुम्भनिपीडिताङ्ग्यः । औत्सुक्यभारपृथुवेपथुखेदसन्न- पादारविन्दचलनस्खलनाभियाताः ॥ ८.२४॥ मारसायकनिपातदारिता रागसागरनिमग्नमूर्तयः । श्वासमारुततरङ्गिताधरा बाष्पपूरभरविह्वलेक्षणाः ॥ ८.२५॥ मस्तकारचितदोद्र्वयाञ्जलिप्राभृता हरिणशाबलोचनाः । वाञ्छितार्थकरणोद्यताश्च तद्दृष्टिपातमभि सन्नमन्ति ताः ॥ ८.२६॥ धरापवरके तथा जपतु लक्षमन्यं मनुं सुशुक्लकुसुमांशुकाभरणलेपनाढ्यो वशी । अमुष्य वदनादनारततयोच्चरेद्भारती विचित्रपदपद्धतिर्भवति चास्य लोको वशे ॥ ८.२७॥ पलाशपुष्पैर्मधुरत्रयाक्तैर्होमं विदध्यादयुतावधिं यः । सरस्वतीमन्दिरमाशु भूयात्सौभाग्यलक्ष्म्योश्च स मन्त्रजापी ॥ ८.२८॥ राजीकरञ्जाह्वशमीवटोत्थैः समिद्वरैः बिल्वभवैः प्रसूनैः । त्रिस्वादुयुक्तैर्हवनक्रियाशु नरेन्द्रनारीनररञ्जनी स्यात् ॥ ८.२९॥ मालतीवकुलजैर्दलैर्दलैश्चन्दनाम्भसि घने निमज्जितैः । श्रीकरीकुसुमकैर्हुतक्रिया सैव चासु कविताकरी मता ॥ ८.३०॥ अनुलोमविलोममन्त्रमध्यस्थितसाध्याह्वयुतं प्रजप्य मन्त्री । पटुसंयुतया जुहोतु राज्या नरनारीनरपान्वशे विधातुम् ॥ ८.३१॥ मधुरत्रयेण सह विल्वजैः फलै- र्हवनक्रियाशु जनतानुरञ्जनी । अपि सैव साधकसमृद्धिदायिनी दिनशो विशिष्टकमलाकरी मता ॥ ८.३२॥ खण्डैः सुधालतोत्थैस्त्रिमधुरयुक्तैर्जुहोतु मन्त्रितमः । सकलोपद्रवशान्त्यै जरापमृत्युप्रणोदनाय वशी ॥ ८.३३॥ फुल्लैर्बिल्वप्रसूनैस्तदभिनवदलैरुक्तवाराहिपुष्पैः प्रत्यग्रैर्बन्धुजीवैररुणसरसिजैरुत्पलैः कैरवाह्वैः । नन्द्यावर्तैः सकुन्दैर्नृपतरुकुसुमैः पाटलीनागपुष्पैः स्वाद्वक्तैरिन्दिराप्त्यै जुहुत च दिनशः र्सिपषा पायसेन ॥ ८.३४॥ मूलाधारात्स्फुरन्तीं शिखिपुरपुटवीतां प्रभां विद्युदाभा- मार्कात्तन्मध्यगेन्दोः स्रवदमृतमुचा धारया मन्त्रमय्या । सद्यः सम्पूर्यमाणां त्रिभुवनमखिलं तन्मयत्वेन मन्त्री ध्यायन्मुच्येत वैरूप्यकदुरितजरारोगदारिद्र्यदोषैः ॥ ८.३५॥ वह्वेर्बिम्बद्वयपरिवृताधारसंस्थं समुद्य- द्वालार्काभं स्वरगणसमावेष्टितं वाग्भवाख्यम् । वाण्या स्वीयाद्वदनकुहरात्सन्ततं निःसरन्त्या ध्यायेन्मन्त्री प्रततकिरणप्रावृतं दुःखशान्त्यै ॥ ८.३६॥ हृत्पद्मस्थितभानुबिम्बविलसद्योन्यन्तरालोदितं मध्याह्नार्कसमप्रभं परिवृतं वर्णैः कभाद्यन्तगैः । ध्यायेन्मन्थराजबीजमखिलब्रह्माण्डविक्षोभकं राज्यैश्वर्यविनिन्दिनीमपि रमां दत्त्वा जगद्रञ्जयेत् ॥ ८.३७॥ मूध्र्नोऽथ द्वादशान्तोदितशशधरबिम्बस्थयोनौ स्फुरन्तं संवीतं व्यापकार्णैर्धवलरुचि मकारस्थितं बीजमन्त्यम् । ध्यात्वा सारस्वताच्छामृतजललुलितं दिव्यकाव्यादिकर्ता नित्यं क्ष्वेलापमृत्युग्रहदुरितविकारान्निहन्त्याशु मन्त्री ॥ ८.३८॥ योनेः परिभ्रमितकुण्डलिरूपिणीं तां रक्तामृतद्रवमुचा निजतेजसैव । व्योमस्थलं सकलमप्यभिपूर्य तस्मि- न्नावेश्य मङ्क्षु वशयेद्वनिता नरांश्च ॥ ८.३९॥ गुह्यस्थितं वा मदनस्य बीजं जपारुणं रक्तसुधाः स्रवन्तम् । विचिन्त्य तस्मिन्विनिवेश्य साध्यां वशीकरोत्येव विदग्धलोकम् ॥ ८.४०॥ अन्त्यं बीजमथेन्दुकुन्दधवलं सञ्चिन्त्य चित्ताम्बुजे तद्भूतां धृतपुस्तकाक्षवलयां देवीं मुहुस्तन्मुखात् । उद्यन्तं निखिलाक्षरं निजमुखे नानारसस्रोतसा निर्यान्तं च निरस्तसंहृतिभयो भूयात्स वाग्वल्लभः ॥ ८.४१॥ सङ्क्षेपतो निगदिता त्रिपुराभिधाना विद्या सजापहवना सविधानपूजा । सोपासना च सकलाभ्युदयप्रसिद्ध्यै वाणीरमाप्तिविधये जगतो हिताय ॥ ८.४२॥ विद्येशीं त्रिपुरामिति प्रतिजपन्यो वा भवेन्नित्यश- स्तद्वक्रादथ नूतनार्थविशदा वाणी सदा निःसरेत् । सम्पत्त्या नृपनन्दिनी ततयशःपूरा भवेदिन्दिरा तस्यासौ प्रतियाति सर्वमुनिभिः सम्प्रार्थनीयं पदम् ॥ ८.४३॥ मध्ये वद्यक्षरयोः सदवदवाग्वक्षरा निचन्द्रयुगे । प्रोक्ता दशाक्षरीयं कण्वविराजौ च वागृषिप्रभवाः ॥ ८.४४॥ कश्रोत्रनयननासावदनान्धुगुदेषु विन्यसेद्वर्णान् । स्वरपुटितैरथ हल्भिः कुर्यादङ्गानि षट् क्रमान्मन्त्री ॥ ८.४५॥ अमलकमलसंस्था लेखिनीपुस्तकोद्य- त्करयुगलसरोजा कुन्दमन्दारगौरा । धृतशशधरखण्डोल्लासिकोटीरचूडा भवतु भवभयानां भङ्गिनी भारती वः ॥ ८.४६॥ अक्षरलक्षजपान्ते जुहुयात्कमलैः सितैः पयोभ्यक्तैः । त्रिमधुरयुतैः सुशुद्धैरयुतं नियतात्मकस्तिलैरथ वा ॥ ८.४७॥ मातृकोक्तविधिनाक्षराम्बुजे शक्तिभिश्च विनियुज्य पूर्ववत् । पीठमन्त्रवचसा महेश्वरीं पूजयेत्प्रथममङ्गमन्त्रकैः ॥ ८.४८॥ योगा सत्या विमला ज्ञाना बुद्धिः स्मृतिस्तथा मेधा । प्रज्ञेत्याभिर्मातृभिरपि लोकेशैः प्रपूजयेत्क्रमशः ॥ ८.४९॥ इति सिद्धमनुर्मनोजदूरो नचिरादेव कविर्भवेन्मनस्वी । जपहोमरतः सदावगच्छेद्वनितां वागधिपेति गौरवेण ॥ ८.५०॥ न्यासान्वितो निशितधीः प्रजपेत्सहस्र- मह्नो मुखेऽनुदिवसं प्रपिबेत्तदापः । तन्मन्त्रिताः पुनरयत्नत एव वाचः सिद्धिर्भवेदभिमता परिवत्सरेण ॥ ८.५१॥ हृदयद्वयसे स्थितोऽथ तोये रविबिम्बे प्रतिपद्य वागधीशाम् । जपतस्त्रिसहस्रसङ्ख्यमर्वा- क्कविता मण्डलतो भवेत्प्रभूता ॥ ८.५२। पलाशबिल्वप्रसवैस्तयोश्च समिद्वरैः स्वादुयुतैश्च होमः । कवित्वसौभाग्यकरः समृद्धलक्ष्मीप्रदो रञ्जनकृच्चिराय ॥ ८.५३॥ चतुरङ्गुलजैः समित्प्रसूनैर्जुहुयाद्यो मधुरत्रयावसिक्तैः । मनुजः समवाप्य धीविलासानचिरात्काव्यकृतां भवेत्पुरोगः ॥ ८.५४॥ सुविमलनखदन्तपाणिपादो मुदितमनाः परदूषणेषु मौनी । हरिहरकमलोद्भवाङ्घ्रिभक्तो भवति चिराय सरस्वतीनिवासः ॥ ८.५५॥ आद्यन्तप्रणवगशक्तिमध्यसंस्था वाग्भूयो भवति सरस्वतीचडेन्ता । नत्यन्तो मनुरयमीशसङ्ख्यवर्णः सम्प्रोक्तो भुवि भजमानपारिजातः ॥ ८.५६॥ सुषुम्नाग्रे भूरयुगमध्ये नवके तथैव रन्ध्राणाम् । विन्यस्य मन्त्रवर्णान्कुर्यादङ्गानि षट्क्रमाद्वाचा ॥ ८.५७॥ हंसारूढा हरहसितहारेन्दुकुन्दावदाता वाणी मन्दस्मितयुतमुखी मौलिबद्धेन्दुलेखा । विद्या वीणामृतमयघटाक्षस्रगादीप्तहस्ता शुभ्राब्जस्था भवदभिमतप्राप्तये भारती स्यात् ॥ ८.५८॥ दिनकरलक्षं प्रजपेन्मन्त्रमिमं संयतेन्द्रियो मन्त्री । द्वादशसहस्रकमथो सितसरसिजनागचम्पकैर्जुहुयात् ॥ ८.५९॥ पूजायां पाश्र्वयुगे ससंस्कृता प्राकृता च वाग्देव्याः । केवलवाङ्मयरूपा सम्पूज्याङ्गैश्च शक्तिभिस्तदनु ॥ ८.६०॥ प्रज्ञा मेधा श्रुतिरपि शक्तिः स्मृत्याह्वया च वागीशी । सुमतिः स्वस्तिरिहाभिर्मातृभिराशेश्वरैः क्रमात्प्रयजेत् ॥ ८.६१॥ इति निगदितो वागीश्वर्याः सहोमजपार्चना- विधिरनुदिनं मन्त्री त्वेनां भजन्परिमुच्यते । सकलदुरितैर्मेधालक्ष्मीयशोभिरवाप्यते परमपरमां भक्तिं प्राप्योभयत्र च मोदते ॥ ८.६२॥ इति मातृकाविभेदान्प्रभजन्मन्त्रत्रयं च मन्त्रितमः । प्रजपेदेनां स्तुतिमपि दिनशो वाग्देव्यनुग्रहाय बुधः ॥ ८.६३॥ (वागीश्वरस्तुतिः) अमलकमलाधिवासिनि मनसो वैमल्यदायिनि मनोज्ञे । सुन्दरगात्रि सुशीले तव चरणाम्भोरुहं नमामि सदा ॥ ८.६४॥ अचलात्मजा च दुर्गा कमला त्रिपुरेति भेदिता जगति । या सा त्वमेव वाचामीश्वरि सर्वात्मना प्रसीद मम ॥ ८.६५॥ त्वच्चरणाम्भोरुहयोः प्रणामहीनः पुर्निद्वजातिरपि । भूयादनेडमूकस्त्वद्भक्तो भवति देवि सर्वज्ञः ॥ ८.६६॥ मूलाधारमुखोद्गतबिसतन्तुनिभप्रभाप्रभावतया । विधृतलिपिव्राताहितमुखकरचरणादिके प्रसीद मम ॥ ८.६७॥ वर्णतनोऽमृतवर्णे नियतमनिर्र्विणतेऽपि योगीन्द्रैः । निर्णीतिकरणदूरे वर्णयितुं देवि देहि सामथ्र्यम् ॥ ८.६८॥ ससुरासुरमौलिलसन्मणिप्रभादीपिताङ्घ्रियुगनलिने । सकलागमस्वरूपे सर्वेश्वरि सन्निधिं विधेहि मयि ॥ ८.६९॥ पुस्तकजपवटहस्ते वरदाभयचिह्नचारुबाहुलते । कर्पूरामलदेहे वागीश्वरि शोधयाशु मम चेतः ॥ ८.७०॥ क्षौमाम्बरपरिधाने मुक्तामणिभूषणे मुदावासे । स्मितचन्द्रिकाविकासितमुखेन्दुबिम्बेऽम्बिके प्रसीद मम ॥ ८.७१॥ विद्यारूपेऽविद्यानाशिनि विद्योतितेऽन्तरात्मविदाम् । गद्यैः सपद्यजातैराद्यैर्मुनिभिः स्तुते प्रसीद मम ॥ ८.७२॥ त्रिमुखि त्रयीस्वरूपे त्रिपुरे त्रिदशाभिवन्दिताङ्घ्रियुगे । त्रीक्षणविलसितवक्त्रे त्रिमूर्तिमूलात्मिके प्रसीद मम ॥ ८.७३॥ वेदात्मिके निरुक्तज्योतिव्र्याकरणकल्पशिक्षाभिः । सच्छन्दोभिः सन्ततकॢप्तषडङ्गेन्द्रिये प्रसीद मम ॥ ८.७४॥ त्वच्चरणसरसिजन्मस्थितिमहितधियां न लिप्यते दोषः । भगवति भक्तिमतस्त्वयि परमां परमेश्वरि प्रसीद मम ॥ ८.७५॥ बोधात्मिके बुधानां हृदयाम्बुजचारुरङ्गनटनपरे । भगवति भवभङ्गकरीं भक्तिं भद्रार्थदे प्रसीद मम ॥ ८.२६॥ वागीशीस्तवमिति यो जपार्चनाहवनवृत्तिषु प्रजपेत् । स तु विमलचित्तवृत्तिर्देहापदि नित्यशुद्धमेति पदम् ॥ ८.७७॥ (इति वागीश्वरस्तुतिः) इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे अष्टमः पटलः ॥

॥ नवमः पटलः ॥

अथाभिवक्ष्ये सकलप्रपञ्चमूलात्मिकायाः प्रकृतेर्यथावत् । मन्त्रं तु साङ्गं सहुताभिषेकजपार्चनाद्यं सकलार्थसिद्ध्यै ॥ ९.१॥ घनवत्र्मकृष्णगतिशान्तिबिन्दुभिः कथितः परः प्रकृतिवाचको मनुः । दुरितापहोऽर्थसुखधर्ममोक्षदो भजतामशेषजनरञ्जनक्षमः ॥ ९.२॥ शक्तिः स्यादृषिरस्य तु गायत्री चोदिता मनोश्छन्दः । बोधस्वरूपवाची संवित्प्रोक्ता च देवता गुरुभिः ॥ ९.३॥ नेत्रकरणर्तुदिनकरभुवनविकारस्वराग्निबिन्दुयुजा । व्योम्नाङ्गषट्ककॢप्तिर्जातिविभिन्नेन चापि सम्प्रोक्ता ॥ ९.४॥ अग्नीन्दुयोगविकृता लिपयो हि सृष्टा- स्ताभिः प्रलोमपठिताभिरिदं शरीरम् । भूतात्मकं त्वगसृगादियुतं समस्तं संव्यापयेन्निशितधीर्विधिना यथावत् ॥ ९.५॥ अन्त्यावूष्मस्वमून्वादिषु खलिपिषु तांस्तांश्चतुर्वर्गवर्णे- ष्वेतानस्यम्यदस्तद्दति तदपि परेषु स्वरेषु क्रमेण । संहृत्य स्थानयुक्तं क्षपित सकलदेहो ललाटस्थितान्तः- प्राप्तिव्याप्तद्विसप्तादिकभुवनतलो यातु मद्भावमेव ॥ ९.६॥ मूलाधारात्स्फुरिततटिदाभा प्रभा सूक्ष्मरूपो- द्गच्छन्त्यामस्तकमणुतरा तेजसां मूलभूता । सौषुम्नाध्वाचरणनिपुणा सा सवित्रानुबद्धा ध्याता सद्योऽमृतमथ रवेः स्रावयेत्सार्धसोमात् ॥ ९.७॥ शिरसि निपतिता या बिन्दुधारा सुधाया भवति लिपिमयी सा ताभिरङ्गं मुखाद्यम् । विरचयतु समस्तं पातितान्तश्च तेज- स्यनल इव घृतस्योद्दीपयेदात्मतेजः ॥ ९.८॥ संहृत्य चोत्पाद्य शरीरमेवं तेजोमर्यं व्याप्तसमस्तलोकम् । सङ्कल्प्य शक्त्यात्मकमात्मरूपं तच्चिह्नमात्मन्यपि सन्दधीत ॥ ९.९॥ उद्यद्भास्वत्समाभां विजितनवजपामिन्दुखण्डावनद्ध- द्योतन्मौलिं त्रिणेत्रां विविधमणिलसत्कुण्डलां पद्मगां च । हारग्रैवेयकाञ्चीगुणमणिवलयाद्यैर्विचित्राम्बराढ्या- मम्बां पाशाज्रुशेष्टाभयकरकमलामम्बिकां तां नमामि ॥ ९.१०॥ धातू द्वौ स्तो रक्षणव्यापकार्थौ पाद्योऽशाद्यस्तत्प्रभावात्तयोश्च । सर्वं संरक्ष्याथ सर्वात्मना यो व्याप्नोत्यंशं स्यादसौ पाशवाची ॥ ९.११॥ अं स्यादात्मा कुर्धरा कुस्तनुर्वा भागार्थः स्याच्छोऽथ वा वृत्तिवाची । भूश्चेद्भूतान्यन्यथा चेच्छरीरा- ण्याकृष्यात्मन्याहरेदज्रुशाख्यः ॥ ९.१२॥ स्मृते यथा संसृतिचक्रचङ्क्रमोद्भवाद्धनापायसमुत्थितादपि । वियोजयत्यात्मतनुं नरं भयात्तथाभयस्याभयसंज्ञिता विभोः ॥ ९.१३॥ मुख्यार्थवाची वरशब्द उक्तः स्याद्वाञ्छितार्थश्च वराभिधानम् । मुख्यं त्वभीष्टं स्मृतिमात्रकेण ददाति योऽसौ वरदोऽवगम्यः ॥ ९.१४॥ दीक्षाकॢप्त्यै पुरोक्ते रचयतु विधिवन्मण्डलं मण्डपे त- द्व्यक्तं युक्तं च कान्त्या त्रिगुणितविलसत्र्किणकं वर्णकीर्णम् । आपीतं केसरेष्वारचितहरिहराणैश्च मध्ये समायै- स्तैरग्रे माययाढ्यं कमलमथ बहिः प्रोक्तचिह्नैरुपेतम् ॥ ९.१५॥ शक्त्याविः साध्यमिन्द्रानिलनिऋतिगबीजाभिबद्धं पुरोऽग्रे- स्तत्कोणोल्लासिमायं हरिहरविलसद्गण्डमेभिः समायैः । वर्णैश्चावेष्टितं तत्त्रिगुणितमिति विख्यातमेतत्सुयन्त्रं स्यादायुष्यं च वश्यं धनकरममितश्रीपदं कीर्त्तिदं च ॥ ९.१६॥ हृल्लेखाख्यां गगनां रक्तां च करालिकां महोच्छुष्माम् । मूर्धनि वदने गुह्ये पदयोन्र्यस्येत्तदङ्गैश्च ॥ ९.१७॥ गायत्रीं न्यसतु गले स्तनेऽथ सव्ये सावित्रीं पुनरपरे सरस्वतीं च । सव्येंसे सरसिजसम्भवं मुकुन्दं हृद्देशे पुनरपरांसके शिवं च ॥ ९.१८॥ अलिकांसपाश्र्वकुक्षिषु पाश्र्वांसापरगलहृत्सु च क्रमशः । ब्रह्माण्याद्या विधिवन्न्स्तव्या मातरोऽष्ट मन्त्रितमैः ॥ ९.१९॥ सजया विजया च तथाजिताह्वया चापराजिता नित्या । तदनु विलासिनिदोग्ध्र्यौ साघोरा मङ्गला नव प्रोक्ताः ॥ ९.२०॥ एवं सम्पूज्य पीठं तदनु नव घटान्पञ्चवा र्किणकायां पत्राग्रेषु न्यसेत्काञ्चनरजतताम्रोद्भवान्मार्त्तिकान्वा । एकं वा र्किणकायां सुमतिरथ विनिक्षिप्य कुम्भं यथाव- त्सम्पूर्यावाहयेत्त्रिष्वपि विधिषु पुनर्वक्ष्यमाणक्रमेण ॥ ९.२१॥ मधुनाथ महारवैश्च साकं विधिना मध्यगतं प्रपूर्य कुम्भम् । अभिवाह्य कलाः प्रवेष्टयीत प्रवराभ्यामथ तन्नवांशुकाभ्याम् ॥ ९.२२॥ ऐन्द्रं घृतेन यमदिक्प्रभवं च दध्ना क्षीरेण वारुणमथो तिलजेन सौम्यम् । क्षीरद्रुचर्मदशमूलकपुष्पसिद्ध- क्वाथेन कोणनिलयानपि पूरयेच्च ॥ ९.२३॥ मूत्रेणैन्द्रं गोमयेनापि याम्यं क्षीरेणाप्यं सौम्यजं चैव दध्ना । मध्यप्रोक्तं र्सिपषा पञ्च कुम्भा- न्संस्थाप्यापः पूरणीयाः क्रमेण ॥ ९.२४॥ गोमूत्रगोमयोदकपयोदधिधृतांशकाः क्रमात्प्रोक्ताः । एकार्धधातुसत्त्वाद्येके सर्वाणि वा समानि स्युः ॥ ९.२५॥ तारभवाभिरथग्र्भिः क्रमेण संयोजयेच्च गव्यानि । आत्माष्टाक्षरमन्त्रैरथ वा योज्यानि पञ्चभिः पञ्च ॥ ९.२६॥ यद्येककलशकॢप्तौ विधिरपि पञ्चाशदोषधिक्वाथैः । पूरयतु पञ्चभिर्वा गव्यैस्तोयात्मकेऽष्टगन्धाप्तिः ॥ ९.२७॥ अत्रोत्तरस्यां दिशि पज्र्जे च पलाशचर्मोत्क्वथितैः पयोभिः । सम्पूरणीयः कलशो यथावत्सुवर्णवस्त्रादियुतः सुशुद्धः ॥ ९.२८॥ द्वारेषु मण्डपस्य द्वौ द्वौ कलशौ सुशुद्धजलपूर्णौ । संस्थाप्य च वसनाद्यैः प्रवेष्टयित्वाभिपूजनीयाः स्युः ॥ ९.२९॥ ऊध्र्वेन्द्रयाम्यसौम्यप्रत्यक्षु च भूतवर्णकाः क्रमशः । हृल्लेखाद्यास्तदनु च पूर्ववदङ्गानि पूजनीयानि ॥ ९.३०॥ गायत्रीं शतमखजे निशाचरोत्थे सावित्रीं पवनगते सरस्वतीं च । ब्रह्माणं हुतभुजि वारुणे च विष्णुं बीजेऽग्रे समभियजेदथेशमैशे ॥ ९.३१॥ रक्ता रक्ताकल्पा चतुर्मुखी कुण्डिकाक्षमालेऽब्जे । दधती प्राग्बीजस्य गायत्री तादृशोऽग्निगो ब्रह्मा ॥ ९.३२॥ अरिदरगदाब्जहस्ता किरीटकेयूरहारसम्भिन्ना । निशिचरबीजसमुत्था सावित्री वरुणगस्तथा विष्णुः ॥ ९.३३॥ टज्रक्षाल्यभयवरान्धती च त्रीक्षणेन्दुकलितजटा । वाणी वायव्यस्था विशदाकल्पा तथेश्वरस्त्वैशे ॥ ९.३४॥ ब्रह्माण्याद्यास्तद्बहिरनन्तरं वासवादिकाशेशाः । पूज्याः पूर्वोक्तैरुपचारैः सम्यङ्निजेष्टाप्त्यै ॥ ९.३५॥ यदि नवकलशास्तेष्वथ सम्पूज्या मातरोऽष्टदिक्क्रमशः । हृल्लेखाद्याः पूज्या मध्यादिषु पञ्च चेद्भवन्ति घटाः ॥ ९.३६॥ प्रथमं घृतजं ततः कषायं दधि पश्चात्क्वथितं पयः कषायम् । अथ तैलकषायकामधूत्थं द्विजवृक्षोत्क्वथितं ततोऽभिषिञ्चेत् ॥ ९.३७॥ द्वारगकुम्भघृतैरथ सलिलैः पुनरन्तरासेकम् । कुर्यान्मुखकरचरणक्षालनमपि साचमादिकं मन्त्री ॥ ९.३८॥ विधिवत्कृताभिषेको द्वात्रिंशल्लक्षमथ जपेन्मन्त्रम् । निजकरदत्ताघ्र्यामृतजलपोषितभानुमत्प्रभोऽनुदिनम् ॥ ९.३९॥ भूत्वा शक्तिः स्वयमथ दिनेशेन्दुवैश्वानराणा- मैक्यं कुर्वन्प्रणवमनुना शक्तिबीजेन भूयः । आकृष्यान्तर्बहिरपि समाधाय बुद्ध्यैव तेजो जप्यान्मन्त्री ज्वलनहुतशिष्टान्नभुक्प्रोक्तसङ्ख्यम् ॥ ९.४०॥ अथ तु हविष्यप्राशी नक्ताशी वा जपेन्मनुं त्वेवम् । परिपूर्णायां नियमितजपसङ्ख्यायां समारभेद्धोमम् ॥ ९.४१॥ जपाद्दशांशं जुहुयादथाष्टद्रव्यैर्गुडक्षौद्रघृतावसिक्तैः । वर्णौषधीसिद्धजलाभिषेकं कृत्वा द्विजानभ्यवहारयेच्च ॥ ९.४२॥ ततोऽस्य प्रत्ययास्त्वेवं जायन्ते जपतोऽमुना । अधिष्ठितं निश्यदीपं निस्तमिस्रं गृहं भवेत् ॥ ९.४३॥ ततः कृत्वा जपह्रासं समुपासीत शक्तितः । युक्तात्मा नित्यत्योगेन प्रागुक्तविधिनार्चयेत् ॥ ९.४४॥ अश्वत्थविप्राङ्घ्रिपबिल्वनाम्नां तर्कारिकप्लक्षकसेव्यकानाम् । प्रसारिणीकाष्मरिरोहिणानामुदुम्बरीपाटलडुण्डुकानाम् ॥ ९.४५॥ पलं पलार्धं त्वथ कषमर्धं तेषां तु भागः कथितः क्रमेण । एतैः श्रितेनाथ जलेन वासौ सम्पूरणीयः कलशो यथावत् ॥ ९.४६॥ प्रत्यब्दसेकाद्भफ़िवता शतायुर्मेधेन्दिरावात्रहितश्च रोगैः । मासेषु जन्मस्वभिषेकतः स्यादुर्वीपतिर्मङ्क्षु महापृथिव्याः ॥ ९.४७॥ अर्काभस्तेजसासौ भवति नलिनजा सन्ततं किङ्करी स्या- द्रोगा नश्यन्ति दृष्ट्वा तमथ च धनधान्याकुलं तत्समीपम् । देवानित्यं नमोऽस्मै विदधति फणिनो नैव दंशन्ति पुत्राः सम्पन्नाः स्युः सपुत्रास्तनुविपदि परं धाम विष्णोः स भूयात्।४८। शक्तिप्रग्रस्तसाध्यं हरशरकलमायावृतं वह्निगेह- द्वन्द्वाश्रिप्राप्तमायं प्रतिविवरलसच्छक्तिबद्धं बहिश्च । कोणोद्यद्दण्डदण्डि त्रिलिपि हरिहराबद्धगण्डं विलोमा- र्णावीतं कोर्युगाष्टोदरनरहरिचिन्तात्मकं षड्गुणाख्यम् ॥ ९.४९॥ षडङ्गुलप्रमाणेन वर्तुलं कर्तुरालिखेत् । षडङ्गुलावकाशेन तद्बहिश्च प्रवर्तयेत् ॥ ९.५०॥ वर्तुलं तावता भूयस्तद्बहिश्च तृतीयकम् । मध्यवर्तुलमध्ये तु हृल्लेखाबीजमालिखेत् ॥ ९.५१॥ द्वितीयवतुलाश्लिष्टमीषच्छिलष्टषडश्रकम् । पुटितं मण्डलं वह्नेरस्पृशन्मध्यवर्तुलम् ॥ ९.५२॥ इन्द्राग्निरक्षोवरुणवाय्वीशान्ताश्रकं लिखेत् । षट्सु कोणान्तरालेषु हृल्लेखाषट्कमालिखेत् ॥ ९.५३॥ एकैकान्तरितास्तास्तु सम्बध्युरितरेतरम् । शिखाभिरान्तराभिस्तु बाह्याबाह्याभिरान्तराः ॥ ९.५४॥ मध्यवर्तुलसंस्थाया हृल्लेखायाः कपोलयोः । अधरे साध्यनामार्णं साधकस्योत्तरे लिखेत् ॥ ९.५५॥ अन्तराग्निश्रियोः कर्म साधकांशे समालिखेत् । हरमायाः पञ्चकृत्वः स्युर्बहिर्गर्भवर्तुलम् ॥ ९.५६॥ तद्बहिः शरमायाश्च कलमायाश्च तद्बहिः । लिखेन्मायां बिन्दुमतीं वह्नेः कोणेषु षट्स्वपि ॥ ९.५७॥ वह्नेः कोणत्रये श्रीमत्पक्षीये त्रितयं लिखेत् । शक्तिश्रीकामबीजानां सदण्डं साधकार्णवत् ॥ ९.५८॥ वह्निस्तु वह्निपक्षीये तान्येवादण्डवन्ति च । संसाध्य नामवर्णानि स्पष्टनिष्टानभाञ्जि च ॥ ९.५९॥ बाह्यरेखामन्तरा स्युर्वर्णाः क्रमगताः शुभाः । तद्बहिः प्रतिलोमाश्च ताः स्युर्लेखकपाटवात् ॥ ९.६०॥ ततो विर्दिभतं भूमेर्मण्डलद्वयमालिखेत् । महादिक्स्थनृसिंहार्णं चिन्तारत्नाश्रिताश्रकम् ॥ ९.६१॥ बहिः षोडशशूलाज्र्ं शोभनं व्यक्तवर्णवत् । एतद्यन्त्रं समालिख्य पद्मारचयेत्ततः ॥ ९.६२॥ रुचिरद्वादशदलं षट्त्रिंशत्केसरोज्ज्वलम् । पूर्वोक्तलक्षणोपेतं शुभं दृष्टिमनोहरम् ॥ ९.६३॥ अभ्यच्र्य पीठं नवशक्तिकान्त- मङ्गानि बीजेषु च षट्सु भूयः । गायत्रिसावित्रिसरस्वतीश्च यजेदथ श्रीरतिपुष्टिसंज्ञाः ॥ ९.६४॥ ब्रह्माणमथ च विष्णुं महेश्वरं धनदमदनगणनाथान् । अभ्यर्चयेच्च षट्स्वपि वह्नेः कोणेषु तद्बहिः क्रमशः ॥ ९.६५॥ रक्तामनङ्गकुसुमां कुसुमातुरां च नित्यामनङ्गमदनां मदनातुरां च । गौरीं तथैव गगनां गगनस्य रेखां पद्मां भवप्रमथिनीं शशिशेखरां च ॥ ९.६६॥ एता द्विषट् प्रतिदलं प्रतिपूज्य शक्ती- स्तद्बाह्यतो यजतु मातृगणं क्रमेण । इन्द्रादिकान्बहिरतश्च तदायुधानि सम्पूज्य पूर्वविधिनामुमथाभिषिञ्चेत् ॥ ९.६७॥ योऽमुमर्चयति मुख्यविधानं सिद्धशक्तिरपि सञ्जपहोमैः । स श्रियो निलयनं त्रिदशानां वन्द्यतां व्रजति विष्णुसमानः ॥ ९.६८॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे नवमः पटलः ॥

॥ दशमः पटलः ॥

अथ वक्ष्ये सङ्ग्रहतो द्वादशगुणिताख्यमद्य यन्त्रवरम् । सम्पूज्य येन शक्तिं भुक्तेर्मुक्तेव्र्रजेन्नरोऽनुभवम् ॥ १०.१॥ व्याहृत्यावीतशक्तिज्वलनपुरयुगद्वन्द्वसन्ध्युत्थशक्त्या- वीतं कोणात्तदुर्बीजकमनु च कपोलात्तगायत्रिमन्त्रम् । आग्नेयावीतमर्णैर्वृतमनुविगतैर्भूपुराभ्यां च रन्ध्रे क्षौं चिन्तारत्नकं द्वादशगुणितमिदं यन्त्रमिष्टार्थदायि ॥ १०.२॥ पूर्वोक्तमानक्लृप्त्या मन्त्री त्रितयं विलिख्य वृत्तानाम् । विलिखेदन्तर्वर्तुलमनुशक्तिं स्पष्टबिन्दुनिष्ठानाम् ॥ १०.३॥ द्वादशमध्यमवर्तुलरेखा बहिरालिखेच्च शक्तीनाम् । हरियमवरुणधनाधिपदिक्षु द्वे द्वे च ताः क्रमेण स्युः ॥ १०.४॥ ईशाग्निऋतिमरुतां दिक्ष्वेकैकं विलिख्य भूयश्च । बीजान्तरालनिर्गतशूलाज्र्तिकोणषट्कयुगमग्नेः ॥ १०.५॥ मण्डलयुगयुगलं स्यादस्पृशदान्तरितवर्तुलं विशदम् । शक्तिं प्रवेष्टयेच्च प्रतिलोमव्याहृतीभिरन्तःस्थाम् ॥ १०.६॥ रविकोणेषु दुरन्तां मायां विलिखेदथाग्रबिन्दुमतीम् । एकैकान्तरितास्ताः परस्परं शक्तयश्च सम्बध्युः ॥ १०.७॥ गायत्रीं प्रतिलोमतः प्रविलिखेदग्नेः कपोलं बहि- द्र्वे द्वे चैव लिपी बहिश्च रचयेद्भूयस्तथा त्रिष्टुभम् । वर्णान्प्रानुगतांश्च भूपुरयुगे सिंहाख्यचिन्तामणिं लिख्याद्यन्त्रमशेषदुःखशमनायोक्तं पुरा देशिकैः ॥ १०.८॥ बहिरपि षोडशपत्रं वृत्तविचित्रं च राशिवीथियुतम् । रचयेन्मण्डलमेवं पुनर्यथोक्तं निधापयेत्कलशम् ॥ १०.९॥ आदावङ्गावरणमनु हृल्लेखिकाद्याश्चतस्रो ब्रह्माण्याद्याः षोडशविकृतिद्वन्द्वसङ्ख्याक्रमेण । सार्धं भूयश्चतसृभिरथो षष्टिभिर्लोकपालै- र्वङ्काआद्यैरष्टममपि समभ्यर्चयेद्भक्तिनम्रः ॥ १०.१०॥ कराली विकराली च उमा देवी सरस्वती । दुर्र्गा शची उषा लक्ष्मीः श्रुतिः स्मृतिधृती तथा ॥ १०.११॥ श्रद्धा मेधा मतिः कान्तिरार्या षोडश शक्तयः । विद्याह्रीपुष्टयः प्रज्ञा सिनीवाली कुहूस्तथा ॥ १०.१२॥ रुद्रवीर्या प्रभानन्दा पोषणी ऋद्धिदा शुभा । कालरात्री महारात्री भद्रकाली कपालिनी ॥ १०.१३॥ विकृतिर्दण्डिमुण्डिन्यौ सेन्दुखण्डा शिखण्डिनी । निशुम्भशुम्भमथनी महिषासुरर्मिदनी ॥ १०.१४॥ इन्द्राणी चैव रुद्राणी शङ्करार्धशरीरिणी । नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ॥ १०.१५॥ अम्बिका ह्लादिनी चैव द्वात्रिंशच्छक्तयो मताः । पिङ्गलाक्षी विशालाक्षी समृद्धिर्वृद्धिरेव च ॥ १०.१६॥ श्रद्धा स्वाहा स्वधाख्या च मायाभिख्या वसुन्धरा । त्रिलोकधात्री गायत्री सावित्री त्रिदशेश्वरी ॥ १०.१७॥ सुरूपा बहुरूपा च स्कन्दमाताच्युतप्रिया । विमला सामला चैव अरुणी वारुणी तथा ॥ १०.१८॥ प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च । सन्ध्या माता सती हंसा र्मिदका वङ्किआका परा ॥ १०.१९॥ देवतामा भगवती देवकी कमलासना । त्रिमुखीसप्तमुख्यौ च सुरासुरविर्मिदनी ॥ १०.२०॥ सलम्बोष्ठ्यूध्र्वकेश्यौ च बहुशिश्ना वृकोदरी । रथरेखाह्वया चैव शशिरेखा तथापरा ॥ १०.२१॥ पुनर्गगनवेगाख्या वेगा च पवनादिका । भूयो भुवनवेगाख्या तथैव मदनातुरा ॥ १०.२२॥ अनङ्गानङ्गमदना भूयश्चानङ्गमेखला । अनङ्गकुसुमा विश्वरूपासुरभयङ्करी ॥ १०.२३॥ अक्षोभ्यासत्यवादिन्यौ वङ्कारूपा शुचिव्रता । वरदा चैव वागीशी चतुःषष्टिः प्रकीर्तिताः ॥ १०.२४॥ इष्ट्वा यथोक्तमिति तं कलशं निजं वा पुत्रं तथाप्तमपि शिष्यमथाभिषिञ्चेत् । आस्तिक्ययुक्तमथ सत्यरतं वदान्यं विप्रप्रियं कुलकरं च नृपोत्तमं वा ॥ १०.२५॥ विधानमेतत्सकलार्थसिद्धिकरं परं पावनमिन्दिराढ्यम् । आयुष्करं वश्यकरं रिपूणां प्रध्वंसनं मुक्तिफलप्रदं च ॥ १०.२६॥ पाशाज्रुशमध्यगया शक्त्याथ जपार्चनाहुतादियुतम् । वक्ष्ये यन्त्रविधानं त्रैलोक्यप्राभृतायमानमिदम् ॥ १०.२७॥ अष्टाशात्तार्गलाविर्हगलयवरगाच्यपूर्वपाश्चात्त्यषट्कं कोष्ठोद्यत्साङ्गसाष्टाक्षरयुगयुगलाष्टाक्षराख्यं बहिश्च । मायोपेतात्मयुग्मस्वरमिलितलसत्केसरं साष्टपत्रं पद्यं तन्मध्यर्वितत्रितयपरिलसत्पाशशक्त्यज्रुशार्णम् ॥ १०.२८॥ पाशाज्रुशावृतमनुप्रतिलोमगैश्च वर्णैः सरोजपुटितेन घटेन चापि । आवीतमिष्टफलभद्रघटं तदेत- द्यन्त्रोत्तमं भुवि घटार्गलनामधेयम् ॥ १०.२९॥ प्राक्प्रत्यगर्गले हलमथ पुनराग्नेयमारुते च हयम् । दक्षोत्तरे हवार्णं नैत्र्र+तशैवे हरं द्विपङ्क्तिं लिखेत् ॥ १०.३०॥ विलिखेच्च र्किणकायां पाशाज्रुशसाध्यसंयुतां शक्तिम् । अभ्यन्तराष्टकोष्ठेष्वङ्गान्यवशेषितेषु चाष्टार्णौ ॥ १०.३१॥ कोष्ठेषु षोडशस्वथ षोडशवर्णं तथा मनुं मन्त्री । पद्मस्य केसरेष्वथ युगस्वरात्मान्वितां तथा मायाम् ॥ १०.३२॥ एकैकेषु दलेषु त्रिशस्त्रिशः र्किणकागतान्वर्णान्र् । पाशाज्रुशबीजाभ्यां प्रवेष्टयेद्बाह्यतश्च नलिनस्य ॥ १०.३३॥ अनुलोमविलोमगतैः प्रवेष्टयेदक्षरैश्च तद्बाह्ये । तदनु घटेन सरोजस्थितेन तद्वक्त्रकेऽम्बुजं च लिखेत् ॥ १०.३४॥ बिन्द्वन्तिका प्रतिष्ठा सन्दिष्टा पाशबीजमिति मुनिभिः । निजभूर्दहनाप्यायिनिशशधरखण्डान्वितोऽज्रुशो भवति ॥ १०.३५॥ पाशश्रीशक्तिस्वरमन्मथशक्तीन्दिराज्रुशाश्चेति । एकं कामिनिरञ्जिनि ठद्वयमपरं त्विहाष्टवर्णं स्यात् ॥ १०.३६॥ अथ गौरि रुद्रदयिते योगेश्वरि सकवचास्त्रठद्वितयैः । बीजादिकमिदमुक्तं शाक्तेयं षोडशाक्षरं मन्त्रम् ॥ १०.३७॥ इति कृतदलसुविभूषितमतिरुचिरं लोकनयनचित्तहरम् । कृतोज्ज्वलं मण्डलमपि पीठाद्यं पुरेव परिपूज्य ॥ १०.३८॥ पूर्वप्रोक्तैः क्वाथैरेकेनापूर्य पूरयेत्कलशम् । हृल्लेखाद्यङ्गाख्यौ मात्रसुरेशादिकौ च कुलिशादिम् ॥ १०.३९॥ एवं सम्पूज्य देवीं कलशमनुशुभैर्गन्धपुष्पादिकैस्ता- न्दध्याज्यक्षौद्रसिक्तैस्त्रिशतमथ पृथग्दुग्धवीरुत्समिद्भिः । हुत्वा दत्वा सुवर्णांशुकपशुधरणीर्दक्षिणार्थं द्विजेभ्यः सम्पूज्याचार्यवर्यं वसुभिरमलधीः संयतात्माभिषिञ्चेत् ॥ १०.४०॥ इति कृतकलशोऽयं सिच्यते येन पुंसा स भवति कविरेनं नित्यमालिङ्गति श्रीः । धनदिनरजनीशैस्तुल्यतेजा महिम्ना निरुपमचरितोऽसौ देहिनां स्यात्पुरोगः ॥ १०.४१॥ जपेच्चतुर्विंशतिलक्षमेवं सुयन्त्रितो मन्त्रवरं यथावत् । हविष्यभोजी परिपूर्णसङ्ख्ये जपे पुनर्होमविधिर्विधेयः ॥ १०.४२॥ पयोद्रुमाणां च समित्सहस्रषट्कैर्दधिक्षौद्रघृतावसिक्तैः । तिलैश्च तावज्जुहुयात्पयोक्तैद्र्विजोत्तमानभ्यवहारयेच्च ॥ १०.४३॥ गुरुमपि परिपूज्य काञ्चनाद्यै- र्जपति च मन्त्रमथो सहस्रमात्रम् । भजति च दिनशोऽमुमर्चनायां विधिविहितं विधिमादरेण भूयः ॥ १०.४४॥ सङ्क्षेपतो निगदितो विधिरर्चनायाः शक्तेरमुं भजतु संसृतिमोचनाय । कान्त्यै श्रियै च यशसे जनरञ्जनाय सिद्ध्यै प्रसिद्धमहसोऽस्य परस्य धाम्नः ॥ १०.४५॥ गजमृगमदकाश्मीरैर्मन्त्रितमः सुरभिरोचनोपेतैः । विलिखेदलक्तकरसालुलितैर्यन्त्राणि सकलकार्यार्थी ॥ १०.४६॥ राज्या पटुसंयुतया सपाशशक्त्यज्रुशेन मन्त्रेण । स्वाद्वक्तयाभिजुह्वन्निश्युर्वीशांस्तथोर्वशीं वशयेत् ॥ १०.४७॥ एभिर्विधानैर्भुवनेश्वरीं तां समर्चयित्वाथ जपंश्च मन्त्री । स्तुत्यानयाभिष्टुवतां समग्र प्रीत्यै समस्तार्तिविभञ्जिकायाः ॥ १०.४८॥ (भुवनेश्वरीस्तुतिः) प्रसीद प्रपञ्चस्वरूपे प्रधाने प्रकृत्यात्मिके प्राणिनां प्राणसंज्ञे । प्रणोतुं प्रभो प्रारभे प्राञ्जलिस्त्वां प्रकृत्याप्रतक्र्ये प्रकामप्रवृत्ते ॥ १०.४९॥ स्तुतिर्वाक्यबद्धा पदात्मैव वाक्यं पदं त्वक्षरात्माक्षरस्त्वं महेशि । ध्रुवं त्वां त्वमेवाक्षरैस्त्वन्मयैस्तो- ष्यसि त्वन्मयी वाक्प्रवृत्तिर्यतः स्यात् ॥ १०.५०॥ अजाधोक्षजत्रीक्षणाश्चापि रूपं परं नाभिजानन्ति मायामयं ते । स्तुवन्तीशि तां त्वाममी स्थूलरूपां तदेतावदम्बेह युक्तं ममापि ॥ १०.५१॥ नमस्ते समस्तेशि बिन्दुस्वरूपे नमस्ते रवत्वेन तत्त्वाभिधाने । नमस्ते महत्त्वं प्रपन्ने प्रधाने नमस्ते त्वहङ्कारतत्त्वस्वरूपे ॥ १०.५२॥ नमः शब्दरूपे नमो व्योमरूपे नमः स्पर्शरूपे नमो वायुरूपे । नमो रूपतेजोरसाम्भःस्वरूपे नमस्तेऽस्तु गन्धात्मिके भूस्वरूपे ॥ १०.५३॥ नमः श्रोत्रचर्माक्षिजिह्वाख्यनासा- सवाक्पाणिपत्यायुसोपस्थरूपे । मनोबुद्ध्यहङ्कारचित्तस्वरूपे विरूपे नमस्ते विभो विश्वरूपे ॥ १०.५४॥ रवित्वेन भूत्वान्तरात्मा दधासि प्रजाश्चन्द्रमस्त्वेन पुष्णासि भूयः । दहस्यग्निमूर्ति वहन्त्याहृतं वा महादेवि तेजस्त्रयं त्वत्त एव ॥ १०.५५॥ चतुर्वक्त्रयुक्ता लसद्धंसवाहा रजः संश्रिता ब्रह्मसंज्ञां दधाना । जगत्सृष्टिकार्यं जगन्मातृभूते परं तत्पदं ध्यायसीशि त्वमेव ॥ १०.५६॥ विराजत्किरीटा लसच्चक्रशङ्खा वहन्ती च नारायणाख्यां जगत्सु । गुणं सत्त्वमास्थाय विश्वस्थितिं यः करोतीह सोंशोऽपि देवि त्वमेव ॥ १०.५७॥ जटाबद्धचन्द्राहिगङ्गा त्रिणेत्रा जगत्संहरन्ती च कल्पावसाने । तमः संश्रिता रुद्रसंज्ञां दधाना वहन्ती परश्वक्षमाले विभासि ॥ १०.५८॥ सचिन्ताक्षमाला सुधाकुम्भलेखा- धरा त्रीक्षणार्धेन्दुराजत्कपर्दा । सुशुक्लांशुकाकल्पदेहा सरस्व- त्यपि त्वन्मयैवेशि वाचामधीशा ॥ १०.५९॥ लसच्चक्रशङ्खा चलत्खड्गभीमा नदिन्त्सहवाहा ज्वलत्तुङ्गमौलिः । द्रवद्दैत्यवर्गा स्तुवत्सिद्धसङ्घा त्वमेवेशि दुर्गा विसर्गाविहीने ॥ १०.६०॥ पुरारातिदेहार्धभागो भवानी गिरीन्द्रात्मजात्वेन यैषा विभासि । महायोगिवन्द्यां महेशासुनाथा महेश्यम्बिका तत्त्वतस्त्वन्मयैव ॥ १०.६१॥ लसत्कौस्तुभोद्भासिते व्योमनीले वसन्ती च वक्षःस्थले कैटभारेः । जगद्वल्लभां सर्वलोकैकनाथां श्रियं तां महादेव्यहं त्वामवैमि ॥ १०.६२॥ अजाद्रीगुहाब्जाक्षपोत्रीन्द्रकाणां महाभैरवस्यापि चिह्नं वहन्त्यः । विभो मातरः सप्ततद्रूपरूपाः स्फुरन्त्यस्त्वदंशा महादेवि ताश्च ॥ १०.६३॥ समुद्यद्दिवाकृत्सहस्रप्रभासा सदा सन्तताशेषविश्वावकाशे । लसन्मौलिबद्धेन्दुरेखे सपाशा- ज्रुशाभीत्यभीष्टात्तहस्ते नमस्ते ॥ १०.६४॥ प्रभाकीर्त्तिकान्तीन्दिरारात्रिसन्ध्या- क्रियाशातमिस्राक्षुधाबुद्धिमेधाः । स्तुतिर्वाङ् मतिः सन्नतिः श्रीश्च शक्ति- स्त्वमेवेशि येऽन्ये च शक्तिप्रभेदाः।६५॥ हरे बिन्दुनादैः सशक्त्याख्यशान्तै- र्नमस्तेऽस्तु भेदैः प्रभिन्नैरभिन्ने । सदा सप्तपाताललोकाचलाब्धि- ग्रहद्वीपधातुस्वरादिस्वरूपे ॥ १०.६६॥ नमस्ते नमस्ते समस्तस्वरूपे समस्तेषु वस्तुष्वनुस्यूतशक्ते । अतिस्थूलसूक्ष्मस्वरूपे महेशि स्मृते बोधरूपेऽप्यबोधस्वरूपे ॥ १०.६७॥ मनोवृत्तिरस्तु स्मृतिस्ते समस्ता तथा वाक्प्रवृत्तिः स्तुतिः स्यान्महेशि । शरीरप्रवृत्तिः प्रणामक्रिया स्या- त्प्रसीद क्षमस्व प्रभो सन्ततं मे ॥ १०.६८॥ (इति भुवनेश्वरस्तुतिः) हृल्लेखाजपविधिमर्चनाविशेषा- नेतांस्तां स्तुतिमपि नित्यमादरेण । योऽभ्यस्येत्स खलु परां श्रियं च गत्वा शुद्धं तद्व्रजति पदं परस्य धाम्नः ॥ १०.६९॥ इति हृल्लेखाविहितो विधिरुक्तः सङ्ग्रहेण सकलोऽयम् । अस्मिन्निष्णातमना मन्त्री योगी स एव भोगी च ॥ १०.७०॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे दशमः पटलः ॥ -ङङङङङङङङङङङ-

॥ एकादशः पटलः ॥

अथ श्रियो मन्त्रविधिः समासतो जगद्धिताय प्रतिवक्ष्यतेऽधुना । सहाङ्गभेदैः सजपार्चनाहुत- क्रमैः समभ्युद्धरणाय दुर्गतेः ॥ ११.१॥ वियत्तुरीयस्तु विलोमतोऽनल- प्रदीपितो वामविलोचनाञ्चितः । सचन्द्रखण्डः कथितो रमामनु- र्मनोरथावाप्तिमहासुरद्रुमः ॥ ११.२॥ ऋषिर्भृगुश्छन्दसि चोदिता निचृत्समीरिता श्रीरपि देवता पुनः । दृगक्षिकर्णेनमनुस्वरानलान्वितेन चास्थ्ना विहितं षडङ्गकम् ॥ ११.३॥ भूयाद्भूयो द्विपद्माभयवरदकरा तप्तकार्तस्वराभा शुभ्राभ्राभेभयुग्मद्वयधृतकरकुम्भाद्भिरासिच्यमाना । रत्नौघाबद्धमौलिर्विमलतरदुकूलार्तवालेपनाढ्या पद्माक्षी पद्मनाभोरसि कृतवसतिः पद्मगा श्रीः श्रिये वः ॥ ११.४॥ सन्दीक्षितोऽथ गुरुणा मनुवर्यमेनं सम्यग्जपेन्निशितधीर्दिनननाथलक्षम् । अभ्यर्चयन्नहरहः श्रियमादरेण मन्त्री सुशुद्धचरितो रहितो वधूभिः ॥ ११.५॥ जपावसाने दिनकृत्सहस्रसङ्ख्यैः सरोजैर्मधुरत्रयाक्तैः । हुनेत्तिलैर्वा विधिनाथ बैल्वैः समिद्वरर्मन्त्रिवरस्त्रिभिर्वा ॥ ११.६॥ रुचिराष्टपत्रमथ वारिरुहं गुणवृत्तराशिचतुरश्रयुतम् । प्रविधाय पीठमपि तत्र यजेन्नवशक्तिभिः सह रमां तु ततः ॥ ११.७॥ विभूतिरुन्नतिः कान्तिर्हृष्टिः कीर्त्तिश्च सन्नतिः । पुष्टिराकृष्टित्र्र+द्धिश्च रमाया नव शक्तयः ॥ ११.८॥ आवाह्यसम्यक्कलशे यथावत्समर्चनीया विधिना रमासौ । जप्त्वा यथाशक्ति पुनर्गुरुस्तु संसेचयेत्संयतमात्मशिष्यम् ॥ ११.९॥ अङ्गैः प्रथमावृतिरपि मूर्तीभचतुष्कनिधियुगैरपरा । शक्त्यष्टकेन चान्या चरमा ककुबीश्वरैः समभ्यच्र्या ॥ ११.१०॥ वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः । दमकः शललश्चैव गुग्गुलश्च कुरण्डकः ॥ ११.११॥ बलाकी विमला चैव कमला वनमालिका । विभीषिका द्राविका च शाङ्करी वसुमालिका ॥ ११.१२॥ अयनैव च पूर्वसेवया परितुष्टा कमला प्रसीदति । धनधान्यसमृद्धिसङ्कुलामचिरादेव च मन्त्रिणे श्रियम् ॥ ११.१३॥ अम्भस्युरोजद्वयसे हि तिष्ठंस्त्रिलक्षमेनं प्रजपेच्च मन्त्री । श्रियं विचिन्त्यार्कगतां यथावद्दरिद्रताया भवति प्रमुक्तः ॥ ११.१४॥ वसतावुपविश्य कैटभारेः कमलावृक्षतलेऽथ वा त्रिलक्षम् । जपतोऽपि भवेच्च काङ्क्षितार्थादधिकं वत्सरतो वसुप्रपञ्चः ॥ ११.१५॥ जुहुयादशोकदहने सघृतैरपि तण्डुलैः सकलवश्यतमम् । खदिरानले त्रिमधुरैरपि तैर्धनदं च राजकुलवश्यमपि ॥ ११.१६॥ रसमधुरनलिनानां लक्षहोमादलक्ष्मी- परिगतमपि जन्तुं प्राप्नुयाच्छ्रीः समग्रा । घनविभवसमृद्ध्या नित्यमाह्लादयन्ती त्यजति न करुणाद्र्रा तस्य सा सन्ततिं च ॥ ११.१७॥ बिल्वं श्रीसूक्तजापी निजभुवि मुखजो वर्धयित्वास्य पूर्वं पत्रैस्त्रिस्वादुयुक्तैः कुसुमफलसमिद्भिस्ततस्कन्धभैदैः । तन्मूलैर्मण्डलात्प्राक्सुनियतचरितोऽसौ हुतान्निर्मलात्मा रूपं पश्येद्रमायाः कथमपि न पुनस्तत्कुले स्यादलक्ष्मीः ॥ ११.१८॥ हृदयेकमलवर्णतः परस्ता- दमृतनन्तयुगं ततश्च सिन्यै । हुतवहदयितेत्यसौ रमायाः प्रवरधनार्थिभिरर्थितो हि मन्त्रः ॥ ११.१९॥ दक्षोऽस्य स्यादृषिश्छन्दसि सुमतिभिरुक्तो विराड्देवता च श्रीदेवीपद्मिनीभ्यां हृदयकशिरसी विष्णुपत्न्या शिखा च । मेदोरेफाह्वदार्णैरपि च कमलरूपाक्षरैवर्मसास्रां ताराद्याभिर्नमोन्ताभिरिति निगदितं जातियुक्ताभिरङ्गम् ॥ ११.२०॥ पद्मस्था पद्मनेत्रा कमलयुगवराभीतियुग्दोःसरोजा देहोत्थाभिः प्रभाभिस्त्रिभुवनमखिलं भासुरा भासयन्ती । मुक्ताहाराभिरामोन्नतकुचकलशा रत्नमञ्जीरकाञ्ची- ग्रैवेयोम्र्यङ्गदाढ्या धृतमणिमकुटा श्रेयसे श्रीर्भवेदः ॥ ११.२१॥ ध्यात्वैवं श्रियमपि पूर्वकॢप्तपीठे पद्मादौ प्रथममथर्चयेत्तदङ्गैः । अष्टाभिर्दलमनुशक्तिभिस्तदन्ते लोकेशैरिति विधिनार्चयेत्समृद्ध्यै ॥ ११.२२॥ दीक्षातो जपतु रमारमेशभक्तो लक्षणां दशकममुं मनुं नियत्या । स श्रीमान्बहुधनधान्यसङ्कुलः स- न्मेधावी भवति च वत्सरेण मन्त्री ॥ ११.२३॥ इति मन्त्रजपादृतधीर्मधुरत्रितयैरयुतं जुहुयात्कमलैः । परिशुद्धमना नचिरात्स पुनर्लभते निजवाञ्छितमर्थचयम् ॥ ११.२४॥ समुद्रगायामवतीर्य नद्यां स्वकण्ठमात्रे पयसि स्थितः सन् । त्रिलक्षजाप्याढ्यतमोऽब्दमात्रान्मन्त्री भवेन्नात्र विचारणीयम् ॥ ११.२५॥ नन्द्यावर्तैर्जुहुत भगभेऽभ्यच्र्य लक्ष्मीं सहस्रं तावद्बैल्वैस्त्रिमधुरयुतैर्वा फलैः पौर्णमास्याम् । पञ्चम्यां वा सितसरसिजैः शुक्रवारेऽच्छपुष्पै- रन्यैर्मासं प्रतिहुतविधिर्वत्सरैः स्याद्धनाढ्यः ॥ ११.२६॥ ताररमामायाश्रीः कमले कमलालये प्रसीदयुगम् । बीजानि तानि पुनरपि समहालक्ष्मीहृदिन्दिरामन्त्रः ॥ ११.२७॥ त्रिभिस्तु वर्णैर्हृदयं शिरोभिः स्यात्पञ्चभिश्चाथ शिखा त्रिवर्णा । त्रिभिस्तथा वर्म चतुर्भिरस्त्रं पृथक् त्रिबीजापुटितैस्तदङ्गम् ॥ ११.२८॥ हस्तोद्यद्वसुपात्रपज्र्जयुगादर्शा स्फुरन्नूपुर- ग्रैवेयाङ्गदहारकज्र्णमहामौलिज्वलत्कुण्डला । पद्मस्था परिचारिकापरिवृता शुक्लाङ्गरागांशुका देवी दिव्यगणानता भवदघप्रध्वंसिनी स्याद्रमा ॥ ११.२९॥ लक्षं जपेन्मनुमिमं मधुरत्रयाक्तै- र्बैल्वैः फलैः प्रतिहुनेदयुतं तदन्ते । आराधयेदनुदिनं प्रतिवक्ष्यमाण- मार्गेण दुर्गतिभयाद्रहितो भवेत्सः ॥ ११.३०॥ श्रीधरश्च हृषीकेशो वैकुण्ठो विश्वरूपकः । वासुदेवादयश्चाङ्गावरणात्समनन्तरम् ॥ ११.३१॥ भारतीपार्वतीचान्द्रीशचीभिरपि संयुता । दमकादिस्तृतीयानुरागाद्यैश्च चतुथ्र्यपि ॥ ११.३२॥ अनुरागो विसंवादो विजयो वल्लभो मदः । हर्षो बलश्च तेजश्चेत्यष्टौ बाणा महाश्रियः ॥ ११.३३॥ अनन्तब्रह्मपर्यन्तैः पञ्चमीन्द्रादिभिर्मता । चक्रपद्मान्तिकैः षष्ठीवङ्काआद्यैरावृतिः श्रियः ॥ ११.३४॥ सम्पूज्यैवं श्रियमनुदिनं यो जपेन्मन्त्रमेनं प्रोक्तां सङ्ख्यां सहुतविधिमप्युच्छ्रितां प्राप्य लक्ष्मीम् । द्वित्रादर्वाग्भवति पशुपुत्रादिभोगैः समृद्धो वर्षाद्देहापदि च पदमभ्येति नित्यं स विष्णोः ॥ ११.३५॥ श्रीमन्त्रेष्विति गदितेषु भक्तियुक्तः श्रीसूक्तान्यपि च जपेद्यजेद्धुनेच्च । सूक्ते तु प्रथमतरे स्वयं मुनिः स्या- दन्येषां मुनय इमे भवन्ति भूयः ॥ ११.३६॥ आनन्दः कर्दमश्चैव चिल्कीतश्चेन्दिरासुतः । ऋचामथो तदन्यासामृषयः समुदीरिताः ॥ ११.३७॥ आद्ये सूक्तत्रये च्छन्दोऽनुष्टुप्कांसे बृहत्यपि । तदन्त्ययोस्त्रिष्टुबाख्यां परस्तादष्टके पुनः ॥ ११.३८॥ अनुष्टुबन्त्ये प्रस्तारपङ्क्तिश्छन्दांसि वै क्रमात् । श्र्यग्नी स्यातां देवते च न्यासाङ्गविधिरुच्यते ॥ ११.३९॥ मूर्धाक्षिकर्णनासामुखगलदोर्हृदयनाभिगुह्येषु । पायूरुजानुजङ्घाचरणेषु न्यसतु सूक्तकैः क्रमशः ॥ ११.४०॥ सहिरण्मयी च चन्द्रारजतहिरण्यस्रजे हिरण्याख्या । अङ्गानि जातियुञ्ज्यथ हिरण्यवर्णाह्वया तथास्त्रं स्यात् ॥ ११.४१॥ अरुणकमलसंस्था तद्रजःपुञ्जवर्णा करकमलधृतेष्टाभीतियुग्माम्बुजा च । मणिमकुटविचित्रालङ्कृताकल्पाजातै- र्भवतु भुवनमाता सन्ततं श्रीः श्रिये वः ॥ ११.४२॥ प्रारभ्याच्छां प्रतिपदमथ प्राप्तदीक्षो वियुक्त- स्तन्वङ्गीभिस्तनुविमलवासाः सुधौतद्विजाद्यः । एकादश्यामपि परिसमाप्यार्कसाहस्रिकान्तं जापं मन्त्री प्रयजतु रमां प्राक्तनप्रोक्तपीठे ॥ ११.४३॥ पद्मा सपद्मवर्णा पद्मस्थाद्र्रा च तर्पयन्त्यभिधा । तृप्ता ज्वलन्त्यभिख्या स्वर्णप्राकारसंज्ञका चेति ॥ ११.४४॥ मध्ये दिशाधिपाङ्गावृत्योरेतास्ततश्च वङ्काआदीन् । प्रयजेच्चतुरावरणं निगदितमिति सूक्तकल्पितविधानम् ॥ ११.४५॥ अन्नघृताभ्यां जुहुयादर्चास्वष्टोत्तरं शतं मन्त्री । आवाहनासनाघ्र्यकपाद्याचमनमधुपर्कसेकानि ॥ ११.४६॥ वासोभूषणगन्धान्सुमनोयुतधूपदीपभोज्यानि । सोद्वासनानि कुर्याद्भक्तियुतः पञ्चदशभिरथ मनुभिः ॥ ११.४७॥ व्यस्तैरपि च समस्तैः पूजायां संयतात्मकः सिद्ध्यै । पक्वैर्बिल्वसमिद्भिः पयोन्धसा र्सिपषा क्रमाज्जुहुयात् ॥ ११.४८॥ एकैकं त्रित्रिशतं द्वादश्यां भोजयीत विप्रांश्च । मन्दारकुन्दकुमुदकनन्द्यावर्ताह्वमालतीजात्यः ॥ ११.४९॥ कह्लारपद्मरक्तोत्पलकेतकचम्पकादयो ग्राह्याः । परिषिञ्चेत्त्रिशो नित्यं सूक्तैस्तैः स्नानकर्मणि ॥ ११.५०॥ आदित्याभिमुखो जप्यात्तावत्तावच्च तर्पयेत् । अर्चयेद्विधिना तेन दिनशो जुहुयात्त्रिशः ॥ ११.५१॥ एवं करोति षण्मासं योऽसौ स्यादिन्दिरापतिः । उद्बुद्धमात्रे नलिने नवनीतं विनिक्षिपेत् ॥ ११.५२॥ सर्किणके सकिञ्जल्कोदरे पत्रान्तरालके । पुनः पद्मं तदुद्धृत्य समिद्धे तु हुताशने ॥ ११.५३॥ जुहुयादन्त्ययाथर्चा शतमष्टोत्तरं जपेत् । चत्वारिंशच्छुक्रवारैर्महाश्रीस्तस्य जायते ॥ ११.५४॥ कांसोऽस्मीत्यनया सम्यगेकादश घृताहुतीः । षण्मासं जुह्वतो नित्यं भूयात्प्रायो महेन्दिरा ॥ ११.५५॥ सूक्तैरेतैर्जुहुत जपताभ्यर्चयीतावगाहे- त्सिञ्चेद्वक्त्रे दिनमनु तथा संयतस्तर्पयीत । संशुद्धात्मा विविधधनधान्याकुलाभ्यन्तरोऽसौ मन्त्री सर्वैर्भुवि बहुमतः श्रीमतां स्यात्पुरोगः ॥ ११.५६॥ श्रीलक्ष्मीर्वरदा विष्णुपत्नी च सवसुप्रदा । हिरण्यरूपा सस्वर्णमालिनी रजतस्रजा ॥ ११.५७॥ ससुवर्णप्रभा स्वर्णप्राकारा पद्मवासिनी । पद्महस्ता पद्मपूर्वप्रिया मुक्तापदादिका ॥ ११.५८॥ अलङ्कारा तथा सूर्या चन्द्रा बिल्वप्रियेश्वरी । भुक्तिः प्रपूर्वा मुक्तिश्च विभूत्यृद्धिसमृद्धयः ॥ ११.५९॥ तुष्टिः पुष्टिश्च धनदा तथान्या तु धनेश्वरी । श्रद्धा सभोगीनी भोगदात्री धातृविधातृके ॥ ११.६०॥ द्वात्रिंशदेताः श्रीदेव्या ये मन्त्राः समुदीरिताः । तारादिका नमोन्ताश्च तैरर्चासु बलिं हरेत् । तर्पयेच्च महादेवीं दिनादौ मन्त्रवित्तमः ॥ ११.६१॥ नाभ्यक्तोऽद्यान्न नग्नः सलिलमवतरेन्न स्वपेद्वाशुचिः स- न्नाभ्यज्यान्नैव चाद्यात्तिलरुहलवणे केवले नैव दोषम् । वक्त्रे लिम्पेद्वदेन्नानृतमपि मलिनः स्यान्न बिम्बाम्बुजन्म- द्रोणान्नो धारयेत्के भुवमपि न वृथैवालिखेदिन्दिरार्थी ॥ ११.६२॥ सुविमलचरितः स्याच्छुद्धमाल्यानुलेपा- भरणवसनदेहो मुख्यगन्धोत्तमाङ्गः । सुविशदनखदन्तः शुद्धधीर्विष्णुभक्तो विमलरुचिरशय्यः स्याच्चिरायेन्दिरार्थी ॥ ११.६३॥ दुष्टां कष्टान्ववायां कलहकलुषितां मार्गदृष्टामनिष्टा- मन्यासक्तामसक्तामतिविपुलकृशाङ्गीमतिह्रस्वदीर्घाम् । रोगार्तां भोगलोलां प्रतिपुरुषचलां राजकान्तामकान्तां काकाक्षीमेकचारां ग्रहकुसुमयुतां च स्पृशेदिन्दिरार्थी ॥ ११.६४॥ शान्तः शश्वत्स्मितमधुरपूर्वाभिभाषी दयाद्र्रो देवाचार्यातिथिदहनपूजारतः पुण्यशीलः । नित्यस्नायी नियमनिरतः प्रत्यगाशामुखाशी मन्त्री वर्णाश्रमदृढरतिः स्याच्चिरायेन्दिरार्थी ॥ ११.६५॥ श्रीमन्त्रभक्तः श्रितविष्णुदीक्षः श्रीसूक्तजापी शितधीः सुशीलः । स्वदारतुष्टो मितभाषणाशी लोकप्रियः स्याच्चिरमिन्दिरार्थी ॥ ११.६६॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे एकादशः पटलः ॥

॥ द्वादशः पटलः ॥

अथ रमाभुवनेशिमनोभवैस्त्रिपुटसंज्ञकमन्त्रमुदीरितम् । सकलवर्गफलाप्तियशस्करं जगति रञ्जनकृत्कविताकरम् ॥ १२.१॥ बीजैस्त्रिभिर्द्विरुक्तैः कुर्यादङ्गानि साधकः सिद्ध्यै । पूर्वतरेरितयोर्वा द्वयोरथैकं तदङ्गयोः प्रभजेत् ॥ १२.२॥ नवकनकभासुरोर्वीविरचितमणिकुट्टिमे सकल्पतरौ । रत्नवरबद्धसिंहासननिहितसरोरुहे समासीनाम् ॥ १२.३॥ आबद्धरत्नमकुटां मणिकुण्डलोद्य त्केयूरकोर्भिरशनाह्वयनूपुराढ्याम् । ध्यायेद्धृताब्जयुगपाशकशाज्रुरेक्षु- चापां सपुष्पविशिखां नवहेमवर्णाम् ॥ १२.४॥ चामरमुकुरसमुद्गकताम्बूलकरज्र्वाहिनीभिश्च । दूतीभिः समभिवृतां पश्यन्तीं साधकं प्रसन्नदृशा ॥ १२.५॥ योगेश्वरीमिति विचिन्त्य जपेच्च मन्त्र- मादित्यलक्षमथ मन्त्रितमो जपान्ते । श्रीराजवृक्षसमिधां सजपार्तवानां तावत्सहस्रसमितं मधुरैर्जुहोतु ॥ १२.६॥ अङ्गैर्लक्ष्मीहरिगिरिसुताशर्वरत्यङ्गजातैः षट्कोणस्थैर्निधियुगयुतैस्तद्बहिर्मातृभिश्च । योषिद्रूपैर्बहिरपि यजेल्लोकपालैस्तदेत- त्प्रोक्तं देव्या अपि सुरगणैः पूजनीयं विधानम् ॥ १२.७॥ लक्ष्मीगौरीमनसिशयबीजानि कृत्वा कलायां तां वा बिन्दौ तमपि गगने तच्च सिन्दूरवर्णम् । स्मृत्वा बुद्ध्या भुवनमखिलं तन्मयत्वेन मन्त्री देवान्वश्यानपि वितनुते किं पुनर्मत्र्यजातीन् ॥ १२.८॥ य इमं भजते मनुं मनस्वी विधिना वा पुनरर्चयेद्विधानम् । स तु सम्यगवाप्य दृष्टभोगान्परतस्तत्पदमैशमेति धाम ॥ १२.९॥ सहृदयभगवत्यै दान्तरण्यै धरार्णाः सणिधरशिवधार्णारे द्विठान्ता ध्रुवाद्याः । गदितमिति धराया मन्त्रमुत्कृष्टधात्री- सुखसुतधनधान्यप्राप्तिदं कीर्त्तिदं च ॥ १२.१०॥ ऋषिरपि वराह उक्तश्छन्दो निचृदस्य देवता धरणी । मनुनामुनैव च पदैः षोढा भिन्नेन निगदितोऽङ्गविधिः ॥ १२.११॥ मुख्याम्भोजे निविष्टारुणचरणतला श्यामलाङ्गी मनोज्ञा चञ्चच्छाल्यग्रचुम्बच्छुकलसितकरो प्राप्तनीलोत्पला च । रत्नाकल्पाभिरामा मणिमयमकुटा चित्रवस्त्रा प्रसन्ना दिश्याद्विश्वम्भरा वः सततमभिमतं वल्लभा कैटभारैः ॥ १२.१२॥ लक्षायता च सदशांशहुतावसाना प्रोक्ता धराहृदयमन्त्रजपक्रिया स्यात् । र्सिपष्मता सुविमलेन पयोन्धसास्य होमो विधिः सकलसिद्धिकरः किलायम् ॥ १२.१३॥ पीठे विष्णोः पूजयेत्पूर्वमन्त्रै- र्भूवह्न्यम्बुप्राणसंज्ञैश्च भूतैः । शान्त्यन्ताभिः शक्तिभिः साकमाशा- पालैः पृथ्वीं संयतात्मोपचारैः ॥ १२.१४॥ पुष्पैः प्रियङ्गोर्मधुरत्रयाक्तै- नीलोत्पलैर्वापि तथारुणैस्तैः । सहस्रमानं प्रतिजुह्वतः स्या- द्गौर्गोमती सस्यकुलाकुला च ॥ १२.१५॥ पिङ्गलां पृथुलशालिञ्जरीं यो जुहोति मधुरत्रयोक्षिताम् । नित्यशः शतमथास्य मण्डला- द्धस्तगा भवति विस्तृता मही ॥ १२.१६॥ भृगोस्तु वारे निजसाध्यभूभृ- द्विलोलिताम्भःपरिपक्वमन्धः । पयोघृताक्तं जुहुयात्सहस्रं दुग्धेन वा तेन दिनावतारे ॥ १२.१७॥ षण्मासादनुभृगुवारमेष होमः सम्पन्नान्समुपनयेद्धराप्रदेशान् । पुत्रान्वा पशुमहिषेष्टजुष्टपुष्टा- मिष्टामप्यनुदिनमिन्दिरां समग्राम् ॥ १२.१८॥ सङ्क्षेपतो हृदयमन्त्रविधिर्धरायाः प्रोक्तो हिताय जगतां रहितक्षमाणाम् । एनं भजन्निति धराकमलासमृद्धः स्यादत्र सिद्धिमपरत्र परां प्रयाति ॥ १२.१९॥ अथ पुरुषार्थचतुष्टयसिद्धिकरी मन्त्रजापनिरतानाम् । त्वरिताख्येयं विद्या निगद्यते जपहुतार्चनाविधिभिः ॥ १२.२०॥ भक्तियुतानां त्वरया सिद्धिकरी चेति मन्त्रिणां सततम् । देव्यास्त्वरिताख्या स्यात्त्वरितं क्ष्वेलग्रहादिहरणतया ॥ १२.२१॥ वर्मद्ध्र्ये च तदन्त्यः शिवयुक्चरमेऽङ्गनाद्युसाधिलवम् । अन्त्यः स योनिरस्त्रान्तिकः सतारो मनुर्दशार्णयुतः ॥ १२.२२॥ तारान्तेऽस्त्रादावपि मायाबीजं प्रयोजयेन्मन्त्री । तेन हि काङ्क्षितसिद्धिर्भूयादचिरेण मन्त्रविदाम् ॥ १२.२३॥ कूर्मादिभ्यां द्वाभ्यां द्वाभ्यामपि पूर्वपूर्वहीनाभ्याम् । कुर्यात्सप्तभिरर्णैरङ्गानि च षट् क्रमेण मन्त्रज्ञः ॥ १२.२४॥ कालिकगलहृन्नाभिकगुह्योरुषु जानुजङ्घयोः पदयोः । देहे न्यासं कुर्यान्मन्त्रेण व्यापकं समस्तेन ॥ १२.२५॥ श्यामतनुमरुणपज्र्जचरणतलां वृषलनागमञ्जीराम् । स्वर्णांशुकपरिधानां वैश्याहिद्वन्द्वमेखलाकलिताम् ॥ १२.२६॥ तनुमध्यलतां पृथुलस्तनयुगलां करविराजदभयवराम् । शिखिपिञ्छनालवलयां गुञ्जाफलगुणितभूषणारुणिताम् ॥ १२.२७॥ नृपफणिकेयूरां तां गलविलसद्विविधमणियुताभरणाम् । द्विजनागविहितकुण्डलमण्डितगण्डद्वयीमुकुरशोभाम् ॥ १२.२८॥ शोणतराधरपल्लवविद्रुममणिभासुरां प्रसन्नां च । पूर्णशशिबिम्बवदनामरुणायतलोचनत्रयीनलिनाम् ॥ १२.२९॥ कुञ्चितकुन्तलविलसन्मकुटाघटिताहिवैरिपिञ्छयुताम् । कैरातीं वनकुसुमोज्ज्वलां मयूरातपत्रकेतनिकाम् ॥ १२.३०॥ सुरुचिरसिंहासनगां विभ्रमसमुदायमन्दिरां तरुणीम् । तामेनां त्वरिताख्यां ध्यात्वा कुयौज्जपार्चनाहोमान् ॥ १२.३१॥ दीक्षां प्राप्य गुरोरथ लक्षं जप्याद्दशांशकं जुहुयात् । बिल्वसमिद्भिस्त्रिमधुरयुक्ताभिः साधकः सुसंयतधीः ॥ १२.३२॥ अष्टहरिविधृतसिंहासने समावाह्य सरसिजे देवीम् । अङ्गैः सह प्रणीतां गायत्रीं पूजयेद्दिशां क्रमतः ॥ १२.३३॥ हुज्रराख्या खेचरि चण्डेसच्छेदनी तथा क्षपणी । भूयः स्त्रियाह्वया हुङ्कारीसक्षेमकारिकाः पूज्याः ॥ १२.३४॥ सश्रीबीजा लोकेशायुधभूषान्विता दलाग्रेषु । फट्कारी चाप्यग्रे शरासशरधारिणी च तद्बाह्ये ॥ १२.३५॥ सस्वर्णवेत्रयष्ट्यौ द्वाःस्थे पूज्ये पुनर्जयाविजये । कृष्णो बर्बरकेशो लगुडधरः किङ्करश्च तत्पुरतः ॥ १२.३६॥ अरुणैश्चन्दनकुसुमैर्वनजैरपि धूपदीपनैवेद्यैः । प्रवरैश्च नृत्तगीतैः समर्चयेद्भक्तिभारनम्रतनुः ॥ १२.३७॥ जपहुतपूजाभेदैरिति सिद्धे मन्त्रजापिनो मन्त्रे । नारीनरनरपतयः कुर्वन्तिसदा नमस्क्रियामस्मै ॥ १२.३८॥ विद्याधर्यो यक्ष्यः ससुरासुरसिद्धचारणप्रमदाः । अप्सरसश्च विशिष्टाः साधकसक्तेन चेतसाकुलिताः ॥ १२.३९॥ स्मरशरविह्वलिताङ्ग्यो रोमाञ्चितगात्रवल्लरीललिताः । घनघर्मबिन्दुमौक्तिकविलत्कुचगण्डमण्डलद्वितयाः ॥ १२.४०॥ विस्पष्टजघनवक्षोरुहदोर्मूलाः स्खलत्पदन्यासाः । मुकुलितनयनसरोजाः प्रस्पन्दितदशनवसनसम्भिन्नाः ॥ १२.४१॥ श्लथमानांशुकचिकुरा मदविवशस्खलितमन्दभाषिण्यः । मृदुतरमस्तकविरचितनत्यञ्जलयः प्रसादकाङ्क्षिण्यः ॥ १२.४२॥ वीक्षस्व देहि वाचं परिरम्भणपरमसौख्यमस्माकम् । एहि सुरोद्यानादिषु रंस्यामः स्वेच्छया निरातज्र्म् ॥ १२.४३॥ इत्यादि वाणिनीभिर्विलोभ्यमानो यदा न विक्रियते । मन्त्री तदेत्य वाञ्छितमखिलं तस्मै ददाति सा देवी ॥ १२.४४॥ योनिं कुण्डस्यान्तः प्रकल्प्य तत्रानलं समाधाय । सम्पूज्य पूर्वविधिना जुहुयात्सर्वार्थसिद्धये मन्त्री ॥ १२.४५॥ इक्षुशकलैः समृद्ध्यै दूर्वाभिः स्वायुषे श्रिये धान्यैः । धान्याय यवैः पुष्ट्यै गोधूमैत्र्र+द्धये तिलैर्जुहुयात् ॥ १२.४६॥ जम्बूभिः स्वर्णाप्त्यै राजीभिः शत्रुशान्तयेऽक्षतकैः । अक्षयसिद्ध्यै वकुलैः कीत्त्र्यै कुन्दैर्महोदयाय तथा ॥ १२.४७॥ अरुणोत्पलैश्च पुष्ट्यै मधूकजैरिष्टसिद्धयेऽशोकैः । पुत्राप्त्यै पाटलजैः स्त्रीसिद्ध्यै निम्बजैश्च विद्विष्ट्यै ॥ १२.४८॥ नीलोत्पलकैस्तुष्ट्यै चम्पकजैः कनकसिद्धये पद्मैः । सह किंशुकैश्च सर्वोपद्रवशान्त्यै स साधको जुहुयात् ॥ १२.४९॥ हुतसङ्ख्यासाहस्री नियुता वाथायुतान्तिकी भवति । यावत्सङ्ख्यो होमस्तावज्जप्यश्च मन्त्रिणा मन्त्रः ॥ १२.५०॥ अनुमन्त्रितैश्च वारिभिरासेकः क्ष्वेलशान्तिकृद्भवति । तज्जप्तयष्टिघातो मन्त्रितचुलुकोदकाहतिश्च तथा ॥ १२.५१॥ तत्कर्णरन्ध्रजापात्सद्यो नश्युर्विषग्रहादिरुजः । तद्यन्त्रस्थापनमपि विषभूतादिप्रशान्तिकृद्भवति ॥ १२.५२॥ आख्यां मध्ये सतारे मनुमथ शतसंयुक्तविंशत्पुटेषु प्रादक्षिण्येन शर्वादिकमनुविलिखेद्वादशावृत्ति मन्त्री । विंशद्वन्द्वाष्टशूलाकलितविरचितं यन्त्रमेतत्सुजप्तं बद्धं क्ष्वेलग्रहार्ति हरति विजयलक्ष्मीप्रदं कीर्त्तिदं च ॥ १२.५३॥ आख्यां मध्यगतानले लिखतु दिक्पङ्क्तिष्वथ स्युः सहूं क्ष्रूं च्रूं छ्रूं करणद्विषष्टिपदके शैवादि कालीमनुम् । नैत्र्र+त्यादि तथा क्रमाक्रमवृतं बाह्येऽनलैरावृतं प्रोक्तं निग्रहचक्रमन्तकपुरप्राप्तिप्रदं वैरिणाम् ॥ १२.५४॥ कालीमाररमालीका लीनमोक्षक्षमोनली । मामोदेततदेमोमा रक्षतत्वत्वतक्षरः ॥ १२.५५॥ यमापाटटपामाय माटमोटटमोटया । वामो भूरिरिभूमोवा टररीस्त्वस्त्वरीरट ॥ १२.५६॥ वह्नेर्विण्णिम्बनिर्यासकविषमषिभिः सीसपट्टेंशुके वा शावे पाषाणके वा विलिखतु मतिमान्काकपत्रेण यन्त्रम् । वल्मीके चत्वरे वा क्षततरुविवरे वा निदध्यादराति- र्मृत्युं प्राप्नोति भूयादवयवविकलो व्याधितः पातितो वा ॥ १२.५७॥ चक्रे चाष्टाष्टपदे कालीशिवयातुधानखण्डाद्यम् । यमदहनानिलवीतं विलिख्य विषदण्डिमर्कटीलिप्तम् ॥ १२.५८॥ जप्तमधोमुखमेतद्यत्र तु देशे विनिक्षिपेन्मन्त्री । तत्रोपद्रवमखिलं दिनशः सर्वात्मना भवति ॥ १२.५९॥ खण्डेष्वेकाशीतिषु मध्येन्दुगसाध्यं जुंसः पूर्वं दिक्स्थचतुष्पङ्क्तिषु शैखम् । लिख्याल्लक्ष्मीं शिष्टचतुःषष्ठिषु विद्वा- नीशाद्यं कन्यादि च बाह्ये त्वरिताख्याम् ॥ १२.६०॥ दिग्दिक्संस्थामस्त्रपदाभिर्वषडन्तां मेदोमालावेष्टितबिम्बं घटवीतम् । पद्मस्थं तत्पज्र्जराजद्वदनान्तं प्रोक्तं चक्रं सम्यगिहानुग्रहसंज्ञम् ॥ १२.६१॥ श्रीसामायायामासाश्री सानोयाज्ञेज्ञेयानोसा । मायालीलालीयामा याज्ञेलालीलीलाज्ञेया ॥ १२.६२॥ लाक्षाभिः कुज्रुमैर्वा विलिखतु धवले वांशुके स्वर्णपट्टे लेखिन्या स्वर्णमय्या दृढमपि गुलिकीकृत्य सन्धारयेद्यः । कृत्याभ्यो मृत्युतो वा ग्रहविषदुरितेभ्यो विमुक्तः स धन्यो जीवेत्स्वैः पुत्रपौत्रैरपरिमितमहासम्पदा दीर्घकालम् ॥ १२.६३॥ चतुःषष्ट्यंशे वा क्रमविदथ लक्ष्मीमनुममुं शिवाद्यं नैत्र्र+त्यादिकमपि चतुर्णामृतवृतम् । बहिः स्वच्छे पट्टे कनकविहिते पूर्वविधिना लिखित्वा जप्त्वा निक्षिपतु शितधीर्यत्र तदिदम् ॥ १२.६४॥ चक्रमनुग्रहसंज्ञं मन्त्री देशेऽत्र सम्पदो विरतम् । शुभतरफलदायिन्यो भवन्ति सस्र्यिद्धकालवृष्ट्याद्याः ॥ १२.६५॥ हुङ्कारे साध्यसंज्ञां विलिखतु तदधः र्किणकायां च शिष्टा- नष्टौ वर्णान्दलेष्वारचयतु हरमायां त्रिशो वेष्टयित्वा । कुम्भस्थं यन्त्रमेतत्सरसिजपुटितं सर्वरक्षाप्रसिद्ध्यै कॢप्तं सर्वोपसर्गप्रशमनफलदं श्रीकरं वश्यकारि ॥ १२.६६॥ इति निगदितकॢप्त्या पूजयेत्तोतलायां मनुमनुदिनमेनं मानयन्मानवो यः । स तु जगति समग्रां सम्पदं प्राप्य देहा- पदि मुदिततरात्मा युक्तधीर्मुक्तिमेति ॥ १२.६७॥ स्मरदीर्घैधरकाग्न्योन्दीर्घाभ्यक्ष्वेलदद्रलान्तशिवाः । अभितः शक्तिनिरुद्धो द्वादशवर्णोऽयमीरितो मन्त्रः ॥ १२.६८॥ द्वाभ्यां वा चैकेन द्वाभ्यां द्वाभ्यां तथा पुनद्र्वाभ्याम् । मन्त्राक्षरैर्विदध्यादङ्गविधिं जातिसंयुतैर्मन्त्री ॥ १२.६९॥ इन्दुकलाकलितोज्ज्वलमौलिर्मारमदाकुलितायुगनेत्रा । शोणितसिन्धुतरङ्गितपोतद्योतितभानुदलाम्बुजसंस्था ॥ १२.७०॥ दोर्धृतदाडिमसायकपाशा साज्रुशचापकपालसमेता । शोणदुकूलविलेपनमाल्या शोणतरा भवतोऽवतु देवी ॥ १२.७१॥ स्मृत्वा नित्यां देवीमेवं प्रजपेन्मनुं शतसहस्रम् । अयुतं जुहुयादन्ते नृपतरुसमिधां घृतेन वा सिद्ध्यै ॥ १२.७२॥ शाक्त पीठे पूज्या देवी कुसुमानुलेपनैररुणैः । स्वयमप्यलङ्कृताङ्गः सधूपदीपैर्निवेद्यताम्बूलैः ॥ १२.७३॥ हृल्लेखा क्लेदनी नन्दा क्षोभणी मदनातुरा । निरञ्जना रागवती तथान्या मदनावती ॥ १२.७४॥ मेखला द्राविणी चैव भूयोऽन्या वेगवत्यपि । सस्मारा द्वादश प्रोक्ताः शक्तयः पत्रसंस्थिताः ॥ १२.७५॥ अङ्गैः शक्तिभिराभिर्मातृभिराशाधिपैः क्रमात्पूज्या । भक्तिभरानतवपुषा भवभयभङ्गाय मन्त्रिणाहरहः ॥ १२.७६॥ दारिद्र्यरोगदुःखैर्दौर्भाग्यजरापमृत्युदोषैश्च । अस्पृष्टो निरपायो जीवति मन्त्रं भजन्नमुं मनुजः ॥ १२.७७॥ इतीरिता लोकहिताय वङ्का- प्रस्तारिणी मन्दिरमिन्दिरायाः । या सर्वनारीनरराजवर्ग- सम्मोहनी मोहनबाणभूता ॥ १२.७८॥ निद्रयोरन्तरा त्यक्लिन्नै मदाः स्युश्च वेशिरः । मायादिकस्तया वर्णद्वन्द्वैश्चाङ्गविधिः स्मृतः ॥ १२.७९॥ रक्तारक्तांशुककुसुमविलेपादिका सेन्दुमौलिः स्विद्यद्वक्त्रा मदविवशसमाघूर्णितत्रीक्षणा च । दोःसत्पाशाज्रुशयुतकपालाभया पद्मसंस्था देवी पायादमितफलदा नित्यशः पार्वती वः ॥ १२.८०॥ दीक्षितः प्रजपेल्लक्षं मनुमेनं हुनेत्ततः । मधूकपुष्पैः स्वाद्वक्तैरयुतं हविषा तथा ॥ १२.८१॥ पीठीं पूर्ववदभ्यच्र्य तत्रावाह्यापि पूजयेत् । अङ्गैश्च शक्तिभिर्लोकपालैर्देवीं समाहितः ॥ १२.८२॥ नित्या निरञ्जना क्लिन्ना क्लेदिनी मदनातुरा । मदद्रवा द्राविणी च द्रविणा शक्तयो मताः ॥ १२.८३॥ प्रजपेत्यप्रमदां विचिन्त्य यां वा शयनस्थो मनुवित्सहस्रमानम् । निशि मारशिलीमुखाहताङ्गी नचिरात्सा मदविह्वला समेति ॥ १२.८४॥ नित्याभिः सदृशतरा न सन्ति लोके लक्ष्मीदा जगदनुरञ्जनाश्च मन्त्राः । तस्मात्ताञ्शुभमतयो भजन्तु नित्यं जापार्चाहुतसमुपासनाविशेषैः ॥ १२.८५॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे द्वादशः पटलः ॥

॥ त्रयोदशः पटलः ॥

अथ वक्ष्यामि दुर्गाया मन्त्रान्साङ्गान्सदेवतान् । सजपार्चाहुतविधीन्प्रीत्यर्थं मन्त्रजापिनाम् ॥ १३.१॥ तारो मायामरेशोऽत्रिपीठो बिन्दुसमन्वितः । स एव च विसर्गान्तो गायै नत्यन्तिको मनुः ॥ १३.२॥ दुर्गास्य देवता च्छन्दो गायत्रं नारदो मुनिः । तारो माया च दुर्गायै ह्रामाद्यन्ताङ्गकल्पना ॥ १३.३॥ शङ्खारिचापशरभिन्नकरां त्रिणेत्रां तिग्मेतरांशुकलया विलसत्किरीटाम् । सिंहस्थितां ससुरसिद्धनुतां च दुर्गां दूर्वानिभां दुरितवर्गहरीं नमामि ॥ १३.४॥ कृताभिषेकदीक्षस्तु वसुलक्षं जपेन्मनुम् । तदन्ते जुहुयात्र्सिपःसंयुक्तेन पयोन्धसा ॥ १३.५॥ अष्टसाहस्रसङ्ख्यैस्तु तिलैर्वा मधुराप्लुतैः । पीठार्चायां प्रयष्टव्याः क्रमात्तच्छक्तयो नव ॥ १३.६॥ प्रभा माया जया सूक्ष्मा विशुद्धा नन्दिनी तथा । सुप्रभा विजया सर्वसिद्धिदा नवमी तथा ॥ १३.७॥ अच्र्या ह्रस्वत्रयक्लीबरहितैश्च स्वरैरिमाः । तारान्ते वङ्कामाभाष्य नखदंष्ट्रायुधानि च ॥ १३.८॥ महासिंहाय चेत्युक्त्वा वर्मास्त्रनतयः क्रमात् । सिंहमन्त्रोऽयमित्येवं सम्प्रोक्ता पीठकल्पना ॥ १३.९॥ अङ्गैः स्यादावृतिः पूर्वा द्वितीया शक्तिभिः स्मृता । अष्टायुधैस्तृतीया स्याल्लोकपालैश्चतुथ्र्यपि ॥ १३.१०॥ तदायुधैः पञ्चमी च दुर्गायजनमीदृशम् । जया च विजया कीर्त्तिः प्रीतिश्चाथ प्रभाह्वया ॥ १३.११॥ श्रद्धा मेधा श्रुतिरपि शक्तयः स्वाक्षरादिकाः । चक्रशङ्खगदाखड्गपाशाज्रुशशरा धनुः ॥ १३.१२॥ क्रमादष्टायुधाः प्रोक्ता दौर्गा दुर्गतिहारिणः । इत्थं दुर्गामनौ जापहुतार्चाभिः प्रसाधिते ॥ १३.१३॥ मन्त्रीन्दिरावान्भवति दीर्घायुर्दुरिताञ्जयेत् । यान्यानिच्छति कामान्स्वांस्तांस्तान्प्राप्नोति यत्नतः ॥ १३.१४॥ विधाय विधिनानेन कलशं चाभिषेचयेत् । यमसौ भूतवेतालपिशाचाद्यैर्विमुच्यते । राजाभिषिक्तो विधिना सपत्नानमुना यजेत् ॥ १३.१५॥ अमुना विधिना कृताभिषेका ललना पुत्रमवाप्नुयाद्विनीतम् । हवनात्तिलसर्षपैः सहस्रद्वितयैराशु भवेच्च गर्भरक्षा ॥ १३.१६॥ अनयैव जपाभिषेकहोम- क्रियया स्यादनुरञ्जनं जनानाम् । भजतां सकलार्थसाधनार्थं मुनिवर्यैः परिकल्पितोऽयमादौ ॥ १३.१७॥ उत्तिष्ठपदं प्रथमं पुरुषि ततः किम्पदं स्वपिषियुक्तम् । भयमपि मेऽन्ते समुपस्थितमित्युच्चार्य यदिपदं प्रवदेत् ॥ १३.१८॥ शक्यमशक्यं वोक्त्वा तन्मे भगवति निगद्य शमयपदम् । प्रोक्त्वा ठद्वितययुतं सप्तत्रिंशाक्षरो मनुः प्रोक्तः ॥ १३.१९॥ आरण्यकोऽत्यनुष्टुब्वनदुर्गाख्याः क्रमेण भगवत्याः । ऋष्यादिकाः स्वमनुना विहितान्यङ्गानि वाक्यभिन्नेन ॥ १३.२०॥ षड्भिश्चतुर्भिरष्टभिरष्टार्णैः षड्भिरपि च पञ्चार्णैः । जातियुतैश्च विदध्यादङ्गानि च षट् क्रमेण विशदमतिः ॥ १३.२१॥ पद्वयसन्धिगुदान्ध्वाधारोदरपाश्र्वहृत्स्तनेषु गले । दोःसन्धिवदनानासाकपोलदृक्कर्णयुग्भ्रुके न्यस्येत् ॥ १३.२२॥ हेमप्रख्यामिन्दुखण्डात्तमौलिं शङ्खारिष्टाभीतिहस्तां त्रिणेत्राम् । हेमाब्जस्थां पीतवस्त्रां प्रसन्नां देवीं दुर्गां दिव्यरूपां नमामि ॥ १३.२३॥ अरिशङ्खकृपाणखेटबाणान्सधनुःशूलकर्तिजनीर्दधाना । भवतां महिषोत्तमाङ्गसंस्था नवदूर्वासदृशी श्रियेऽस्तु दुर्गा ॥ १३.२४॥ चक्रदरखड्गखेटकशरकार्मुकशूलसंज्ञककपालैः । ऋष्टिमुसलकुन्तनन्दकवलयगदाभिण्डिपालशक्त्याख्यैः ॥ १३.२५॥ उद्यद्विकृतिभुजाढ्या महिषाङ्गे सजलजलदसङ्काशा । सिंहस्था वाग्निनिभा पद्मस्था वाथ मरकतप्रख्या ॥ १३.२६॥ व्याघ्रत्वक्परिधाना सर्वाभरणान्विता त्रिणेत्रा च । अहिकलितनीलकुञ्चितकुन्तलविलसत्किरीटशशिशकला ॥ १३.२७॥ सर्पमयवलयनूपुरकाञ्चीकेयूरहारसम्पन्ना । सुरदितिजाभयभयदा ध्येया कात्यायनी प्रयोगविधौ ॥ १३.२८॥ संयतचित्तो लक्षचतुष्कं जप्त्वा हुनेद्दशांशेन । व्रीहितिलाज्यहविर्भिः सम्यक्सञ्चिन्त्य भगवतीमनले ॥ १३.२९॥ पीठे पूर्वप्रोक्ते पूज्याङ्गैः शक्तिभिस्तथाष्टाभिः । अष्टायुधैश्च मातृभिराशेशैः क्रमश एव दुर्गेयम् ॥ १३.३०॥ आर्या दुर्गा भद्रा सभद्रकाली तथाम्बिकाख्या च । क्षेम्या सवेदगर्भा क्षेमकरी चेति शक्तयः प्रोक्ताः ॥ १३.३१॥ अरिदरकृपाणखेटकबाणधनुःशूलसंयुतकपालाः । अष्टायुधाः क्रमोक्ताः पूर्वविधानवदथोदितं शेषम् ॥ १३.३२॥ इत्थं जपार्चनाहुतसिद्धमनोर्मन्त्रिणः प्रयोगविधिः । विहितो जपः प्रतिदिनं निजरक्षायै शतं सहस्रं वा ॥ १३.३३॥ उद्दिश्य यद्यदेनं मनुं जपेदथ सहस्रमयुतं वा । तत्तन्मन्त्री लभ्येदचिरात्तदनुग्रहादसाध्यमपि ॥ १३.३४॥ स्नात्वार्काभिमुखः सन्नाभिद्वयसेऽम्भसि स्थितो मन्त्री । अष्टोध्र्वशतं प्रजपेन्निजवाञ्छितसिद्धये च लक्ष्म्यै च ॥ १३.३५॥ ध्यात्वा त्रिशूलहस्तां ज्वरसर्पग्रहविपत्सु जन्तूनाम् । संस्पृश्य शिरसि जप्यात्तज्जन्योपद्रवं शमयेत् ॥ १३.३६॥ अयुतं तिलैर्वनोत्थै राजीभिर्वा हुनेत्समिद्भिर्वा । मायूरिकीभिरचिरात्सोऽपस्मारादिकांश्च नाशयति ॥ १३.३७॥ जुहुयाद्रोहिणसमिधामयुतं मन्त्री पुनः सशुङ्गानाम् । सर्वापदां विमुक्त्यै सर्वसमृद्ध्यै ग्रहादिशान्त्यै च ॥ १३.३८॥ आर्कैः समित्सहस्रैः प्रतिजुहुयादर्कवारमारभ्य । दशदिनतोऽर्वाग्वाञ्छितसिद्धिर्देव्याः प्रसादतो भवति ॥ १३.३९॥ शुद्धैः सारैरिध्मैस्त्रिदिनं वा सप्तरात्रकं वापि । प्रतिशकलं प्रतिजुहुयान्मनुना निजवाञ्छिताप्तये मन्त्री ॥ १३.४०॥ विशिखानां त्रिंशत्कं पुरो निधायाथ तीक्ष्णतैलेन । जुहुयात्सहस्रकं वायुतमपि सङ्ख्यासु पूरितासु पुनः ॥ १३.४१॥ सम्पातिततैलेन च शरान्समभ्यज्य पूर्ववज्जप्यात् । तानथ शूरो धन्वी शुद्धाचारः प्रवेधयेद्बाणान् ॥ १३.४२॥ प्रतिसेनाया मध्ये सा धावति सद्य एव सम्भ्रान्ता । भूयो गुरुं धनैरपि धान्यैः परिपूजयेच्च कारयिता ॥ १३.४३॥ अष्टोत्तरशतजप्तं यच्छिरसि प्रक्षिपेच्चिताभस्म । स तु विद्विष्टो लोकैर्देशाद्देशान्तरं परिभ्रमति ॥ १३.४४॥ कारस्करस्य पत्रैरष्टसहस्रैर्निपातितैर्मरुता । जुहुयात्सपादपांसुभिरुच्चाटकरं भवेद्रिपोः सद्यः ॥ १३.४५॥ सेनां संस्तम्भयितुं विषतरुसुमनःसहस्रकं जुहुयात् । तावद्भिस्तत्पत्रैर्जुहुयान्मन्त्री च तां निवर्तयितुम् ॥ १३.४६॥ विषतरुमयीं च शत्रोः प्रतिकृतिमसकृत्प्रतिष्ठितप्राणाम् । छित्त्वा च्छित्त्वा काकोलूकवसाक्तैः सहस्रमष्टौ च ॥ १३.४७॥ असितचतुर्दश्यां तद्गात्रैर्जुहुयादरण्यकेऽर्धनिशि । त्रिचतुर्दशीप्रयोगादर्वाङ् म्रियते रिपुर्न सन्देहः ॥ १३.४८॥ स्ववसारक्तोपेतैर्जुहुयात्पत्रैरुलूकवायसयोः । म्रियतेऽरातिर्मत्तस्तून्मत्तसमित्सहस्रहोमेन ॥ १३.४९॥ संस्थापितानिलां तां प्रतिकृतिमुष्णोदके विनिक्षिप्य । प्रजपेदुन्मादः स्याच्छत्रोर्दुग्धाभिषेकतः शान्तिः ॥ १३.५०॥ रविबिम्बगतामरुणां करयुगपरिकॢप्तशूलतर्जनिकाम् । ध्यात्वायुतं प्रजप्यान्मारयितुं सद्य एव रिपुनिवहम् ॥ १३.५१॥ असिखेटकरार्कस्था क्रुद्धा मारयति सैव जपविधिना । सिंहस्था बाणधनुष्करा समुच्चाटयेदरीनचिरात् ॥ १३.५२॥ विषतरुसमिदयुतहुतादथ करिणो रोगिणो भवन्त्यचिरात् । तत्पर्णैश्च विनाशस्तेषामुच्चाटनं च तत्पुष्पैः ॥ १३.५३॥ आनित्यसमिद्धोमाद्रोगा नश्यन्ति दन्तिनामचिरात् । तत्पुष्पैर्मुधराक्तैर्होमाच्च वशीभवन्ति मातङ्गाः ॥ १३.५४॥ त्रिमधुरयुतैरनित्यकपत्रैर्मत्ता भवन्ति ते सद्यः । रक्षाकरस्तु करिणां तज्जापितपञ्चगव्यलेपः स्यात् ॥ १३.५५॥ आज्यतिलराज्यनित्यकदुग्धोदकपञ्चगव्यतण्डुलकैः । सघृतैश्च प्रत्येकं सहस्रहवनं गजाश्वर्धनकृत ॥ १३.५६॥ द्विजभूरुहं महान्तं छित्त्वा निर्भिद्य पञ्चधा भूयः । आशाक्रमेण पञ्चायुधा विधेयाश्च साधुशिल्पविदा ॥ १३.५७॥ शङ्खः सनन्दकोऽरिः शाङ्र्गः कौमोदकी दिशाक्रमतः । पञ्चेति पञ्चगव्ये निधाय जप्याच्च पञ्चसाहस्रम् ॥ १३.५८॥ तावद्धृतेन जुहुयात्तेष्वथ सम्पात्य साधु सम्पातम् । पुनरपि तावज्जप्त्वा मध्याद्यवटेषु पञ्चगव्ययुतम् ॥ १३.५९॥ संस्थाप्य समीकृत्य च बलिं हरेत्तत्र तत्र तन्मन्त्रैः । पुरराष्ट्रग्रामाणां कार्या रक्षैवमेव मन्त्रविदा ॥ १३.६०॥ यस्मिन्देशे विहिता रक्षेयं तत्र वर्धते महालक्ष्मीः । धनधान्यसमृद्धिः स्याद्रिपुचोराद्याश्च नैव बाधन्ते ॥ १३.६१॥ पद्मोत्पलकुमुदहुतैर्नृपपत्नीब्राह्मणान्वशीकुरुते । कह्लारलोणहोमैर्विट्छूद्राञ्जातिभिस्तथा ग्रामम् ॥ १३.६२॥ अथवारिदरगदाम्बुजकरं मुकुन्दं विचिन्त्य रविबिम्बे । व्यत्यस्तपुरुषभगवतिपदं मनुं जपतु सर्वसिद्धिकरम् ॥ १३.६३॥ साध्याख्याक्षरर्गिभतं मनुममुं पत्रे लिखित्वा च त- च्चक्रीहस्तमृदा कृतप्रतिकृतेर्विन्यस्य मन्त्री हृदि । सप्ताहं त्वथ पुत्तलीमभिमुखे संस्थाप्य सन्ध्यात्रये जप्यादष्टशतं चिराय वशतां गच्छत्यसौ निश्चयः ॥ १३.६४॥ व्रीहीणां जुहुयान्नरोऽष्टशतकं संवत्सराद्ब्रीहिमा- न्गोदुग्धैः पशुमान्धृतैः कनकवान्दध्ना च सर्र्विद्धमान् । अन्नैरन्नसमृद्धिमांश्च मधुभिः स्याद्रत्नवान्दूर्वया- प्यायुष्मान्प्रतिपद्धुतेन महतीं सद्यः श्रियं प्राप्नुयात् ॥ १३.६५॥ छान्तं मरुत्तुरीयवर्णयुतं सवाद्यं संवीपस्य शूलिनिपदं च सदुष्टशब्दम् । पञ्चान्तकं सदहनं परिभाष्य हान्तं हुम्फड्द्विठान्तमिति शूलिनिमन्त्रमेतत् ॥ १३.६६॥ ऋषिर्दीर्घतमाश्छन्दः ककुब्दुर्गा च देवता । दुर्गा हृद्वरदा शीर्षं शिखा स्याद्विन्ध्यवासिनी ॥ १३.६७॥ वर्म चासुरर्मिदन्या युद्धपूर्वप्रिये तथा । त्रासयद्वितयं चास्त्रं देवसिद्धसुपूजिते ॥ १३.६८॥ नन्दिन्यन्ते रक्षयुगं महायोगेश्वरीति च । शूलिन्याद्यं तु पञ्चाङ्गं हुम्फडन्तमितीरितम् । अङ्गकर्मैव रक्षाकृत्प्रोक्तं ग्रहनिवारणम् ॥ १३.६९॥ बिभ्राणा शूलबाणास्यरिसदरगदाचापपाशान्कराब्जै- र्मेघश्यामा किरीटोल्लिखितजलधरा भीषणा भूषणाढ्या । सिंहस्कन्धाधिरूढा चतसृभिरसिखेटाआन्विताभिः परीता कन्याभिर्भिन्नदैत्या भवतु भवभयध्वंसिनी शूलिनी वः ॥ १३.७०॥ एवं विचिन्त्य पुनरक्षरलक्षमेनं मन्त्री जपेत्प्रतिजुहोतु दशांशतोऽन्ते । आज्येन साज्यहविषा प्रयजेच्च देवी- मङ्गाष्टशक्तिनिजहेतिदिशाधिनाथैः ॥ १३.७१॥ दुर्गा च वरदा विन्ध्यवासिन्यसुरर्मिदनी । युद्धप्रिया देवसिद्धपूजिता नन्दिनी तथा ॥ १३.७२॥ महायोगेश्वरी चाष्टशक्तयः समुदीरिताः । रथाङ्गशङ्खासिगदाबाणकार्मुकसंज्ञिताः ॥ १३.७३॥ सशूलपाशा यष्टव्या दिक्क्रमादष्ट हेतयः । दीक्षाजपहुतार्चाभिः सिद्धिः कर्म समाचरेत् । आमयोन्मादभूतापस्मारक्ष्वेलशमादिकम् ॥ १३.७४॥ उद्घूर्णैः प्रहरणकैरुदीर्णवेगैः शूलाद्यैर्निजमथ शूलिनीं विचिन्त्य । आविश्य क्षणमिव जप्यमानमन्त्र- स्यावृत्त्या द्रुतमपयान्ति भूतसङ्घाः ॥ १३.७५॥ अन्तराथ पुनरात्मरोगिणामम्बिकामपि निजायुधाकुलाम् । संविचिन्त्य जपतोऽरिमुद्रया विद्रवन्त्यवशविग्रहा ग्रहाः ॥ १३.७६॥ अहिमूषिकवृश्चिकादिजं वा बहुपात्कुक्कुरलूतिकोद्भवं वा । विषमाशु विनाशयेन्नराणां प्रतिपत्त्यैव च विन्ध्यवासिनी सा ॥ १३.७७॥ आधाय बाणे निशितेऽथ देवीं क्षेमङ्करीं मन्त्रमिमं जपित्वा । तद्वेधनादेव विपक्षसेना दिशो दशाधावति नष्टसंज्ञा ॥ १३.७८॥ आत्मानमार्यां प्रतिपद्य शूल- पाशान्वितां वैरिबलं प्रविश्य । मन्त्रं जपन्नाशु परायुधानि गृह्णाति मुष्णाति च बोधमेषाम् ॥ १३.७९॥ तिलसिद्धार्थैर्जुहुयाल्लक्षं मन्त्री सपत्नामयुतम् । स तु रोगाभिहतात्मा मृतिमेति न तत्र सन्देहः ॥ १३.८०॥ त्रिमधुरयुक्तैश्च तिलैरष्टसहस्रं जुहोति योऽनुदिनम् । अप्रतिहतास्य शक्तिर्भूयात्प्रागेव वत्सरतः ॥ १३.८१॥ र्सिपषाष्टशतहोमतोऽमुना वाञ्छितं सकलमब्दतो भवेत् । दूर्वया त्रिकयुजेप्सितं लभेत्सम्यगष्टशतसङ्ख्यया हुतात् ॥ १३.८२॥ क्षुरिकाकृपाणनखरा मन्त्रेणानेन साधु सञ्जप्ताः । सम्पाताज्यसुसिक्ता अप्रतिहतशक्तयो भवन्ति युधि ॥ १३.८३॥ गोमयविहिताङ्गुलिकां जुहुयाच्छतमष्टपूर्वकं मन्त्री । दिवसैः सप्तभिरिष्टौ द्विष्टौ च मिथो वियोगिनौ भवतः ॥ १३.८४॥ अस्पृष्टकुं गोमयमन्तरिक्षे सङ्गृह्य जप्त्वा त्रिसहस्रमानम् । धियासतां वै निखनेन्नराणां संस्तम्भनं द्वारि चमूमुखे च ॥ १३.८५॥ पानीयान्धःपाणिमार्यां प्रसन्नां ध्यात्वा ग्रामं वा पुरं वापि गच्छन् । जप्त्वा मन्त्रं तर्पयित्वा प्रविष्टो मृष्टं भोज्यं प्राप्नुयाद्भृत्यवर्गैः ॥ १३.८६॥ आर्कैर्मन्त्री त्रिमधुरयुतैरर्कसाहस्रमिध्मै- राश्वत्थैर्वा त्वतिविशदचेतास्तिलैर्वा जुहोतु । यानुद्दिश्यावहितमनसा तन्मये सम्यगग्नौ ते वश्याः स्युर्विधुरितधियो नात्र कार्यो विचारः ॥ १३.८७॥ कुर्यात्प्रयोगानपि दावदुर्गाकल्पोदितान्वै मनुनामुना च । मन्त्री जपार्चाहुतितर्पणाद्यान्नाल्पो हि मन्वोरनयोर्विशेषः ॥ १३.८८॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे त्रयोदशः पटलः ॥

॥ चतुर्दशः पटलः ॥

अथ कथिष्ये मन्त्रं चतुरक्षरसंज्ञकं समासेन । प्रणवो भुवनाधीशो दण्डिखमस्यादिको विसर्गान्तः ॥ १४.१॥ ऋषिरस्याजश्छन्दो गायत्रं देवता च भुवनेशी । अङ्गानि षट् क्रमेण प्रोक्तानि प्रणवशक्तिबीजाभ्याम् ॥ १४.२॥ भास्वद्रत्नौघमौलिस्फुरदमृतरुचो रञ्जयच्चारु रेखां सम्यक्सन्तप्तकार्तस्वरकमलनजपाभासुराभिः प्रभाभिः । विश्वाकाशावकाशं ज्वलयदशिशिरं धर्तृ पाशाज्रुशेष्टा- भीतीनां भङ्गितुङ्गस्तनमवतु जगन्मातुरार्कं वपुर्वः ॥ १४.३॥ सन्दीक्षितोऽथ प्रजपेच्च मन्त्रं मन्त्री पुनर्लक्षचतुष्कमेनम् । पुष्पैस्तदन्ते द्विजवृक्षजातैः स्वादुप्लुतैर्वा जुहुयात्सरोजैः ॥ १४.४॥ मनोरथार्कात्मतया त्वनेन प्रवत्र्यतेऽघ्र्येपहिता प्रपूजा । समे सुमृष्टे रचयेद्विविक्ते शुद्धे तले स्थण्डिलमङ्गणस्य ॥ १४.५॥ प्रजयेदथ प्रभूतां विमलां साराह्वयां समाराध्याम् । परमसुखामग्न्यादिष्वश्रिषु मध्ये च पीठकॢप्तेः प्राक् ॥ १४.६॥ ह्रस्वत्रयक्लीबवियोजिताभिः क्रमात्कृशान्विन्दुयुताभिरज्भिः । सहाभिपूज्या नव शक्तयः स्युः प्रोद्योतनाः प्राज्यतरप्रभावाः ॥ १४.७॥ दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा । अमोघा विद्युता चैव नवमी सर्वतोमुखी ॥ १४.८॥ ब्रह्माविष्णुशिवात्मकं समीर्य सौराय योगपीठाय । प्रोक्त्वेति नतिमपि पुनः समापयेत्पीठमन्त्रमहिमरुचेः ॥ १४.९॥ आवाह्य हाल्र्लेखिकमर्कमघ्र्यपाद्याचमाद्यैर्मधुपर्कयुक्तैः । प्रपूजयेदावरणैः समस्तसम्पत्त्यवाप्त्यै तदधीनचेताः ॥ १४.१०॥ हृल्लेखाद्याः पञ्च च यष्ट्वाङ्गैस्तदनु मातृभिः पश्चात् । ओङ्काराद्यैराशापालैरभ्यर्चयेत्क्रमान्मन्त्री ॥ १४.११॥ प्रतिपूज्य शक्तिमिति तत्र पुरः प्रणिधाय ताम्ररचितं चषकम् । प्रजपन्मनुं प्रतिगतक्रमतः प्रतिपूरयेत्सुविमलैः सलिलैः ॥ १४.१२॥ अक्षतकुशयवदूर्वातिलसर्षपकुसुमचन्दनोपेतैः । प्रस्थग्राह्यच्छिद्रं स्वैक्यं सम्भावयन्समाहितधीः ॥ १४.१३॥ इष्ट्वा दिनेशमथ पीठगतं तथैव व्योमस्थितं परिवृतावरणं विलोक्य । अष्टोत्तरं शतमथ प्रजपेन्मनुं तं पूर्वोत्तरं निजकरेण पिधाय पात्रम् ॥ १४.१४॥ भूयोऽभ्यच्र्य सुधामयं जलमथो तद्गन्धपुष्पादिभि- र्जानुभ्यामवनिं गतश्चषकमप्यामस्तकं प्रोद्धरन् । दद्यान्मण्डलबद्धदृष्टिहृदयो भक्त्याघ्र्यमोजोबल- ज्योतिर्दीप्तियशोधृतिस्मृतिकरं लक्ष्मीप्रदं भास्वते ॥ १४.१५॥ अथ कृतपुष्पाञ्जलिरपि पुनरष्टशतं जपेन्मनुं मन्त्री । यावद्रश्मिषु भानोव्र्याप्नोत्यम्भः सुधामयं तदपि ॥ १४.१६॥ अमृतमयजलावसिक्तगात्रो दिनपतिरप्यमृतत्वमातनोति । धनविभवसुदारमित्रपुत्रं पशुगणजुष्टमनन्तभोगयोगि ॥ १४.१७॥ तस्मादिनाय दिनशो ददताद्दिनादौ दैन्यापनोदितनवे दिनवल्लभाय । अघ्र्यं समग्रविभवस्त्वथ वार्कवारे पारं स गच्छति भवाह्वयवारिराशेः ॥ १४.१८॥ अनुदिनमर्चयितव्यः पुंसा विधिनामुनाथ वा रवये । दद्यादघ्र्यद्वयमपि कुर्याद्वा वाञ्छितार्थसमवाप्त्यै ॥ १४.१९॥ एकीकृत्य समस्तवस्त्वनुगतानादित्यचन्द्रानला- न्वेदाद्येन गुणात्मकेन सगुणानाकृष्य हृल्लेखया । सर्वं तत्प्रतिमथ्य तावपि समावष्टभ्य हंसात्मना नित्यं शुद्धमनन्यमक्षरपदं मन्त्रंई भवेद्योगतः ॥ १४.२०॥ अथ वदाम्यजपामनुमुत्तमं सकलसंसृतियापनसाधनम् । दुरितरोगविषापहरं नृणामिह परत्र च वाञ्छितसिद्धिदम् ॥ १४.२१॥ विष्णुपदं ससुधाकरखण्डं चन्द्रयुगावधिकं वतुरीयम् । क्षेत्रविदो मनुरेष समुक्तो यं प्रजपत्यपि सन्ततमात्मा ॥ १४.२२॥ ऋष्याद्या ब्रह्मदैव्यादिगायत्रीपरमात्मकः । हंसाक्लीबकलादीर्घयुजाङ्गानि समाचरेत् ॥ १४.२३॥ अरुणकनकवर्णं पद्मसंस्थं च गोरी- हरनियमितचिह्नं सौम्य तानूनपातम् । भवतु भवदभीष्टावाप्तये पाशटज्र- भयवरदविचित्रं रूपमर्धाम्बिकेशम् ॥ १४.२४॥ प्रजपेद्वादशलक्षं मनुमिमाज्यान्वितैश्च दौग्धान्नैः । तावत्सहस्रमानं जुहुयात्सौरे समर्चनापीठे ॥ १४.२५॥ निक्षिप्य कलमस्मिन्पूर्वोक्तानामपामथैकेन । आपूर्य चोपचर्य च विद्वानङ्गैः प्रपूजयेत्पूर्वम् ॥ १४.२६॥ ऋतवसुरनरसंज्ञास्तथर्तवो बद्रिपूर्विकाजान्ताः । आशोपाशास्थेयास्ततो दिशापास्ततश्च वङ्काआद्याः ॥ १४.२७॥ इति परिपूज्य च कलशं पुनरभिषिच्याथ नियमितोऽघ्र्यमपि । दद्यादिनाय चैहिक- पारत्रिकसिद्धये चिरं मन्त्री ॥ १४.२८॥ इन्दुद्वयोदितसुधारसपूर्णसार्ण- सम्बद्धबिन्दुसुसमेधितमादिबीजम् । सञ्चिन्त्य यो मनुमिमं भजते मनस्वी स्वात्मैक्यतोऽथ दुरितैः परिमुच्यतेऽसौ ॥ १४.२९॥ व्योमानुगेन च सुधाम्बुमुचा सुदामा प्रद्योतमानसविनिःसृतशीतरुग्भ्याम् । आबाधिता दहनचन्द्रलसन्महोभ्यां रोगापमृत्युविषदाहरुजः प्रयान्ति ॥ १४.३०॥ हंसाण्डाकाररूपं स्रुतपरमसुधं मूर्ध्नि चन्द्रं ज्वलन्तं नीत्वा सौषुम्नमार्गं निशितमतिरथ व्याप्तदेहोपगात्रम् । स्मृत्वा सञ्जप्य मन्त्रं पलितविषशिरोरुग्ज्वरोन्मादभूता- पस्मारादींश्च मन्त्री हरति दुरितदौर्भाग्यदारिद्र्यदोषैः ॥ १४.३१॥ विधाय लिपिपज्र्जं मनुयुतोल्लसत्र्किणकं निधाय घटमत्र पूरयतु वारिणा तन्मुखम् । विधाय शशिनात्ममन्त्रयुतवामदोष्णा पुनः सुधायितरसैः स्वसाध्यमभिषेचयेत्तज्जलैः ॥ १४.३२॥ नारी नरो वा विधिनाभिषिक्तो मन्त्रेण तेनेति विषद्वयोढैः । रोगैस्तदाधिप्रभवैर्वियुक्त- श्चिराय जीवेत्करणैः सुशुद्धैः ॥ १४.३३॥ करेण तेनैव जलाभिपूर्णं प्रजप्य मन्त्री करकं पिधाय । सुधायितैस्तैर्विषिणं निषिञ्चेद्विषं निहन्यादपि कालकूटम् ॥ १४.३४॥ गदितं निजपाणितलं विषिणः शिरसि प्रविधाय जलैः शितधीः । अचिरात्प्रतिमोचयते विषतो मतिमानथ तक्षकदष्टमपि ॥ १४.३५॥ इत्यजपामन्त्रविधिः सम्प्रोक्तः सङ्ग्रहेण मन्त्रिवराः । यं प्राप्य सकलवसुसुखधर्मयशोभुक्तिमुक्तिभाजः स्युः ॥ १४.३६॥ अरुणा शिखिदीर्घयुता हृल्लेखा श्वेत्तया युतानन्ता । प्रोक्तः प्रयाजनानां तिलकस्तु यथार्थवाचको मन्त्रः ॥ १४.३७॥ गुहयादाचरणतलं कण्ठादागुह्यमागलं कान्तान् । विन्यस्य मन्त्रबीजान्क्रमेण मन्त्री करोतु चाङ्गानि ॥ १४.३८॥ मन्त्रस्य मध्यमनुना दीर्घयुजाङ्गानि चेह कथितानि । ध्यायेत्पुनरहिमकरं मन्त्री निजवाञ्छितार्थलाभाय ॥ १४.३९॥ अरुणसरोरुहसंस्थस्त्रिदृगरुणोऽरुणसरोजयुगलधरः । कलिताभयवरदो द्युतिबिम्बोऽमितभूषणस्त्विनोऽवतु वः ॥ १४.४०॥ कृतसन्दीक्षो मन्त्री दिनकरलक्षं जपेन्मनुं जुहुयात् । तावत्सहस्रमन्नैः सघृतैर्मधुराप्लुतैस्तिलैरथ वा ॥ १४.४१॥ प्रागभिहितेन विधिना पीठाद्यं प्रतिविधाय तत्र पुनः । विन्यस्य कलशमस्मिन्प्रपूजयेत्तरणिमपि च सावरणम् ॥ १४.४२॥ अङ्गैः प्रथमावरणं ग्रहैर्द्वितीयं तृतीयमाशेशैः । मुख्यतरगन्धसुमनोधूपाद्यैरात्तभक्तिनम्रमनाः ॥ १४.४३॥ प्रागादिदिशासंस्थाः शशिबुधगुरुभार्गवाः क्रमेण स्युः । आग्नेयादिष्वश्रिषु धरणिजमन्दाहिकेतवः पूज्याः ॥ १४.४४॥ शुभ्रसितपीतशुक्ला रक्तासितधूम्रकृष्णकाः क्रमशः । चन्द्राद्याः केत्वन्ता वामोरुन्यस्तवामकरलसिताः ॥ १४.४५॥ अपरकराभयमुद्राविकृतमुखोऽहिः कराहिताञ्जलियुक् । दंष्ट्रोग्रास्यो मन्दः सुवर्णसदृशांशुकादिभूषश्च ॥ १४.४६॥ सम्पूज्यैवं विधिना विधिवद्गोरोचनादिभिद्र्रव्यैः । दद्यादघ्र्यं रवये मन्त्री निजवाञ्छितार्थलाभाय ॥ १४.४७॥ गोरोचनास्रतिलवैणवराजिरक्त- शीताख्यशालिकरवीरजपाकुशाग्रान् । श्यामाकतण्डुलयुतांश्च यथाप्रलाभा- न्संयोज्य भक्तिभरतोऽघ्र्यविधिर्विधेयः ॥ १४.४८॥ कृत्वा मण्डलमष्टपत्रलसितं तत्र्किणकायां तथा पत्राग्रेषु निधाय कुम्भनवकं तत्पूरयित्वा जलैः । आवाह्य क्रमशो ग्रहान्नव समाराध्याभिषेकक्रियां कुर्याद्यो ग्रहवैकृतादि विलयं यान्त्यस्य लक्ष्मीर्भवेत् ॥ १४.४९॥ गृहपरिमितमिष्ट्वा पूर्वकॢप्त्या दिनेशं प्रतिजुहुत निजक्र्षे वैकृते वा ग्रहाणाम् । शुभमतिरुपरागे चन्द्रभान्वोः स्वभे वा रिपुनृपजभये वा घोररूपे गदे वा ॥ १४.५०॥ अर्कद्विजाङ्घ्रिपमयूरकपिप्पलाश्च सोदुम्बराः खदिरशम्यभिधाः सदूर्वाः । दर्भाह्वयाश्च समिधोऽष्टशतं क्रमेण सव्याहृतीनि घृतहव्यघृतानि होमः ॥ १४.५१॥ सोमादीनां दिशि दिशि समाधाय वह्निं यथाव- द्धोमे सम्यक्कृतवति मुदं यान्ति सर्वे ग्रहाश्च । युद्धे सम्यग्जयमपि रुजः शान्तिमायुश्च दीर्घं कृत्वा शान्तिं व्रजति पुनेरकत्र वा सर्वहोमः ॥ १४.५२॥ अमुना विधिना हुतार्चनाद्यैः प्रभजेद्यो दिनशो नरो दिनेशम् । मणिभिः स धनैश्च धान्यवर्यैः परिपूर्णावसथो भवेच्चिराय ॥ १४.५३॥ त्यद्यन्त आर्यसूर्यर्णा मेधारेचिकया गुणः । व्यत्ययोऽष्टाक्षरः प्रोक्तः सौरः सर्वार्थसाधकः ॥ १४.५४॥ देवभाग ऋषिः प्रोक्तो गायत्री च्छन्द उच्यते । आदित्यो देवता चास्य कथ्यन्तेऽङ्गान्यतो मनोः ॥ १४.५५॥ सत्यब्रह्माविष्णुरुद्रैः साग्निभिः सर्वसंयुतैः । तेजोज्वालामणिं हुम्फट्स्वाहान्तैरङ्गमाचरेत् ॥ १४.५६॥ आदित्यं रविभानू भास्करसूर्यौ न्यसेत्स्वरैर्लघुभिः । सशिरोमुखहृद्गुह्यकचरणेषु क्रमश एव मन्त्रितमः ॥ १४.५७॥ सशिरोमुखगलहृदयोदरनाभिशिवाङघ्रिषु प्रविन्यस्येत् । प्रणवाद्यैरष्टार्णैः क्रमेण सोऽयं तदक्षरन्यासः ॥ १४.५८॥ अरुणोरुणपज्र्जे निषण्णः कमलेऽभीतिवरौ करैर्दधानः । स्वरुचाहितमण्डलस्त्रिणेत्रो रविराकल्पशताकुलोऽवताद्वः ॥ १४.५९॥ सन्दीक्षितस्तु मन्त्री मन्त्रं प्रजपेत्तु वर्णलक्षं तम् । जुहुयात्त्रिमधुरसिक्तैर्दुग्धतरुसमिद्वरैर्वसुसहस्रम् ॥ १४.६०॥ अथ वा सघृतैरन्नैः समर्चयेन्नित्यशोऽघ्र्यमपि दद्यात् । पूर्वोक्त एव पीठे कुम्भं प्रणिधाय साधु सम्पूर्य ॥ १४.६१॥ शुद्धाद्भिररुणवासोयुगेन संवेष्ट्य पूजयेत्क्रमशः । अङ्गावृतैः परस्तादादित्याद्यैरुषादिशक्तियुतैः ॥ १४.६२॥ मातृभिररुणान्ताभिग्र्रहैः सुरैश्चान्तसूर्यपरिषद्भिः । सोषा सप्रज्ञा च प्रभा च सन्ध्या च शक्तयः प्रोक्ताः ॥ १४.६३॥ सम्पूज्यैवं दिनेशं पटुमतिरथ जप्त्वा च हुत्वाभिषेकं कृत्वा दत्तेन सङ्ख्यां वसुमपि गुरवे सांशुकं भोजयेच्च । विप्रानादित्यसङ्ख्यानिति विदितमनुं नित्यशोऽघ्र्यं च दद्या- द्वारे वा भास्करीये शुभतरचरितो वल्लभाय ग्रहाणाम् ॥ १४.६४॥ इतीह दिनकृन्मनुं भजति नित्यशो भक्तिमा- न्य एष निचितेन्दिरो भवति नीरुजो वत्सरात् । समस्तदुरितापमृत्युरिपुभूतपीडादिका- नपास्य सुसुखी च जीवति परं च भूयात्पदम् ॥ १४.६५॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे चतुर्दशः पटलः ॥

॥ पञ्चदशः पटलः ॥

अथ चन्द्रमनुं वक्ष्ये सजपार्चाहुतादिकम् । हिताय मन्त्रिणां साघ्र्यविधानं च समासतः ॥ १५.१॥ भृगुः ससद्यः सार्धेन्दुर्बिन्दुहीनः पुनश्च सः । विषानन्तौ मान्तनती मन्त्रोऽयं सोमदैवतः ॥ १५.२॥ दीर्घभाजा स्वबीजेन कुर्यादङ्गानि वै क्रमात् । विचिन्तयेत्पुनर्मन्त्री यथावन्मन्त्रदेवताम् ॥ १५.३॥ अमलकमलसंस्थः सुप्रसन्नाननेन्दु- र्वरदकुमुदहस्तश्चारुहारादिभूषः । स्फटिकरजतवर्णो वाञ्छितप्राप्तये वो भवतु भवदभीष्टोद्योतिताज्र्ः शशाज्र्ः ॥ १५.४॥ दीक्षितः प्रजपेन्मन्त्री रसलक्षं मनुं वशी । पञ्चमीदशमीपञ्चदशीषु तु विशेषतः ॥ १५.५॥ अयुतं प्रजपेन्मन्त्री सायाह्नेऽभ्यच्र्य भाधिपम् । पयोन्नेनहुनेद्भूयः सघृतेन सहस्रकम् ॥ १५.६॥ सर्सिपषा पायसेन षट्सहस्रं हुनेत्ततः । पीठकॢप्तौ तु सोमान्तं परिपूज्यार्चयेद्विधुम् ॥ १५.७॥ केसरेष्वङ्गपूजा स्याच्छक्तीस्तद्बहिरर्चयेत् । रोहिणीं कृत्तिकाख्यां च रेवतीं भरणीं तथा ॥ १५.८॥ रात्रिमाद्र्राह्वयां ज्योत्स्नां कलां च क्रमतोऽर्चयेत् । दलाग्रेषु ग्रहानष्टौ दिशानाथाननन्तरम् ॥ १५.९॥ सुसितैर्गन्धकुसुमैः पात्रै रूप्यमयैस्तथा । शक्तयः फुल्लकुन्दाभास्तारहारविभूषणाः ॥ १५.१०॥ सितमाल्याम्बरालेपा रचिताञ्जलयो मताः । इति सिद्धमनुर्मन्त्री शशिनं मूर्ध्नि चिन्तयेत् ॥ १५.११॥ त्रिसहस्रं जपेद्रात्रौ मासान्मृत्युञ्जयो भवेत् । हृदयाम्भोजसंस्थं तं भावयन्प्रजपन्मनुम् ॥ १५.१२॥ राज्यैश्वर्यं वत्सरेण प्राप्नुयादप्यकिञ्चनः । आहाराचारनिरतो जपेल्लक्षचतुष्टयम् ॥ १५.१३॥ असंशयतरं तेन निधानमुपलभ्यते । घोरा ज्वरा गराः शीर्षरोगाः कृत्याश्च कामिलाः ॥ १५.१४॥ तन्मन्त्रायुतजापेन नश्यन्ति सकलापदः । नित्यशः प्रजपेन्मन्त्रं पूर्णासु विजितेन्द्रियः ॥ १५.१५॥ जपेन्मनुं यथाशक्ति लक्ष्मीसौभाग्यसिद्धये । त्रितयं मण्डलानां तु कृत्वा पाश्चात्त्यपौर्विकम् ॥ १५.१६॥ आसीनः पश्चिमे मध्ये संस्थे द्रव्याणि विन्यसेत् । पूर्वस्मिन्पज्र्जोपेते पूर्ववत्सोममर्चयेत् ॥ १५.१७॥ राकायामुदये राज्ञो निजकार्यं विचिन्तयेत् । संस्थाप्य राजतं तत्र चषकं परिपूरयेत् ॥ १५.१८॥ गव्येन शुद्धपयसा स्पृष्टपात्रो जपेन्मनुम् । अष्टोत्तरशतावृत्त्या दद्यादघ्र्यमथेन्दवे ॥ १५.१९॥ विद्यामन्त्रेण मन्त्रज्ञो यथावत्तद्गतात्मना । विद्याविद्यापदे प्रोक्त्वा मालिनीति च चन्द्रिणी ॥ १५.२०॥ चन्द्रमुख्यनिजायां च निगदेत्प्रणवादिकम् । प्रतिमासं च षण्मासात्सिद्धिमेष्यति काङ्क्षितम् ॥ १५.२१॥ इष्टाय दीयते कन्या कन्यां विन्देन्निजेप्सिताम् । अमितां श्रियमाप्नोति कान्तिं पुत्रान्यशः पशून् । सोमाघ्र्यदाता लभते दीर्घमायुश्च विन्दति ॥ १५.२२॥ इति सोममन्त्रसिद्धिं प्रणिगदितः सङ्ग्रहेण मन्त्रविदाम् । उपकृतयेऽमितलक्ष्म्यै मेधायै प्रेत्य चेह सम्पत्त्यै ॥ १५.२३॥ अथाग्निमन्त्रान्सकलार्थसिद्धि- करान्प्रवक्ष्ये जगतो हिताय । सष्र्यादिकॢप्तीनपि साङ्गभेदा- न्सार्चाविशेषान्सजपादिकांश्च ॥ १५.२४॥ वियतो दशमोर्ऽइघसर्गयुक्तो भुवसर्गौ भृगुलान्तषोडशाचः । हुतभुग्दयिता ध्रुवादिकोऽयं मनुरुक्तः सुसमृद्धिदः कृशानोः ॥ १५.२५॥ भृगुरपि तदृषिश्छन्दो गायत्री देवताग्निरुद्दिष्टः । प्राक्प्रोक्तान्यङ्गानि विशः समुक्तैश्च मन्त्रवाक्यैर्वा ॥ १५.२६॥ शक्तिस्वस्तिकपाशान्साज्रुशवरदाभयान्दधात्त्रिमुखः । मकुटादिविविधभूषोऽवताच्चिरं पावकः प्रसन्नो वः ॥ १५.२७॥ जपेदिमं मनुमृतुलक्षमादरा- द्दशांशतः प्रतिजुहुयात्पयोन्धसा । सर्सिपषाप्यसिततरैश्च षाष्टिकैः समर्चयेदथ विधिवद्विभावसुम् ॥ १५.२८॥ पीता श्वेतारुणा कृष्णा धूम्रा तीव्रा स्फुलिङ्गिनी । रुचिरा कालिनी चेति कृशानोर्नव शक्तयः ॥ १५.२९॥ पीठे तनूनपातः प्रागङ्गैरष्टमूर्तिभिस्तदनु । भूयश्च शतमखाद्यैर्विधिनाथ हिरण्यरेतसं प्रयजेत् ॥ १५.३०॥ आज्यैरष्टाध्र्वशतं प्रतिपदमारभ्य मन्त्रविद्दिनशः । चतुरो मासाञ्जुहुयाल्लक्ष्मीरत्यायता भवेत्तस्य ॥ १५.३१॥ शुद्धाभिः शालीभिर्दिनमनुजुहुयात्तथाब्दमात्रेण । शालीशालि गृहं स्याद्गोमहिषाद्यैश्च सङ्कुलं तस्य ॥ १५.३२॥ शुद्धान्नैर्घृतसिक्तैः प्रतिदिनमग्नौ समेधिते जुहुयात् । अन्नसमृद्धिर्महती स्यादस्य निकेतनेऽब्दमात्रेण ॥ १५.३३॥ जुहुयात्तिलैः सुशुद्धैः षण्मासाज्जायते महालक्ष्मीः । कुमुदैः कह्लारैरपि जातीकुसुमैश्च जायते सिद्धिः ॥ १५.३४॥ पालाशैः पुनरिध्मकैः सरसिजैर्बिल्वैश्च रक्तोत्पलै- र्दुग्धोर्वीरुहसम्भवैः खदिरजैव्र्याघातवृक्षोद्भवैः । दूर्वाख्यैश्च शमीविकज्र्तभवैरष्टोध्र्वयुक्तं शतं नित्यं वा जुहुयात्प्रतिप्रतिपदं मन्त्री महासिद्धये ॥ १५.३५॥ तारं व्याहृतयश्चाग्निर्जातवेद इहावह । सर्वकर्माणि चेत्युक्त्वा साधयाग्निवधूर्मनः ॥ १५.३६॥ ऋष्याद्याः पूर्वोक्ता मन्त्रेणाङ्गानि वर्णभिन्नेन । भूतर्तुकरणसेन्द्रियगुणयुग्मैर्जातिभेदितैस्तदपि ॥ १५.३७॥ अथ वा शक्तिस्वस्तिकदर्भाक्षस्रक्स्रुवस्रुगभयवरान् । दधदमिताकल्पो यो वसुरवतात्कनकमालिकालसितः ॥ १५.३८॥ वत्सरादेश्चतुर्दश्यां दिनादावेव दीक्षितः । मन्त्रं द्वादशसाहस्रं जपेत्सम्यगुपोषितः ॥ १५.३९॥ अर्चयेदङ्गमूर्तीश्च लोकेशकुलिशादिभिः । समिदाद्यममावास्यां परिशोध्य यथाविधि ॥ १५.४०॥ ब्राह्मणान्भोजयित्वा च स्वयं भुक्त्वा समाहितः । परेऽह्नि प्रतिपद्येतैर्जुहुयार्दिचतेऽनले ॥ १५.४१॥ मन्त्री वटसमिद्व्रीहितिलराजिहविर्घृतैः । अष्टोत्तरशतावृत्त्या हुनेदेकैकशः क्रमात् ॥ १५.४२॥ दशाहमेवं कृत्वा तु पुनरेकादशीतिथौ । शक्त्या प्रतप्र्य विप्रांश्च प्रदद्याद्गुरुदक्षिणाम् ॥ १५.४३॥ सुवर्णवासोधान्यानि शोणां गां च सतर्णकाम् । पुनरष्टोत्तरं मन्त्री सहस्रं दिनशो जपेत् ॥ १५.४४॥ विधिनेति विधातुरग्निपूजामचिरेणैव भवेन्महासमृद्धिः । धनधान्यसुवर्णरत्नपूर्णा धरणी गोवृषपुत्रमित्रकीर्णा ॥ १५.४५॥ प्रजपेदथ वा सहस्रसङ्ख्यं दिनशो वत्सरतो भवेन्महाश्रीः । जुहुयात्प्रतिवासरं शताख्यं हविषाब्देन भवेन्महासमृद्धिः ॥ १५.४६॥ पालाशैः कुसुमैर्हुनेद्दधिघृतक्षौद्राप्लुतैर्मण्डलं नित्यं साष्टशतं तथैव करवीरोत्थैः समृद्ध्यै हुनेत् । षण्मासं कपिलाघृतेन दिनशोऽप्यष्टौ सहस्रं तथा होतव्यं लभते स राजसदृशीं लक्ष्मीं यशो वा महत् ॥ १५.४७॥ उत्पूर्वात्तिष्ठशब्दात्पुरुषहरिपदे पिङ्गलान्ते निगद्य प्रोच्याथो लोहिताक्षं पुनरपि च वदेद्देहि मेदान्क्रमेण । भूयो ब्रूयात्तथा दापय शशियुगलार्णांश्चतुर्विंशदर्णः प्रोक्तो मन्त्रोऽखिलेष्टप्रतरणसुरसद्माङ्घ्रिपः स्यात्कृशानोः ॥ १५.४८॥ ऋष्याद्याः स्युः पूर्ववदृतृभूतदिशात्रिकरणयुगलार्णैः । मूलमनुनाथ कुर्यादङ्गानि क्रमश एव मन्त्रितमः ॥ १५.४९॥ हैमाश्वत्थसुरद्रुमोदरभुवो निर्यान्तमश्वाकृतिं वर्षन्तं धनधान्यरत्ननिचयान्रन्ध्रैः स्वकैः सन्ततम् । ज्वालापल्लवितस्वरोमविवरं भक्तार्तिसम्भेदनं वन्दे धर्मसुखार्थमोक्षसुखदं दिव्याकृतिं पावकम् ॥ १५.५०॥ जप्याच्च लक्षमानं मन्त्री सन्दीक्षितोऽथ मनुमेनम् । जुहुयाच्च तदवसाने घृतसिक्तैः पायसैर्दशांशेन ॥ १५.५१॥ अङ्गैर्हुतवहमूर्तिभिराशेशैः संयजेत्तदस्रैश्च । पावकमिति मन्त्रितमो गन्धाद्यैरनुदिनं तदुपहारैः ॥ १५.५२॥ दिनावतारे मनुमेनमन्वहं जपेत्सहस्रं नियमेन मन्त्रवित् । अधृष्यतायै यशसे श्रिये रुजां विमुक्तये युक्तमतिस्थायुषे ॥ १५.५३॥ शालीतण्डुलकैः सितैश्च पयसा कृत्वा हविः पावकं गन्धाद्यैः परिपूज्य तेन हविषा संंंवत्र्य पिण्डं महत् । आज्यालोलितमेकमेव जुहुयाज्जप्त्वा मनुं मन्त्रवि- त्साष्टोध्र्वं प्रतिपद्यथो शतमतः स्यादिन्दिरा वत्सरात् ॥ १५.५४॥ अष्टोत्तरं शतमथो मृगमुद्रयैव मन्त्री प्रतिप्रतिपदं जुहुयात्पयोन्नैः । साज्यैर्भवेन्न खलु तत्र विचारणीयं संवत्सरात्स च निकेतनमिन्दिरायाः ॥ १५.५५॥ अष्टोध्र्वशतं हविषा मन्त्रेणानेन नित्यशो जहुयात् । षण्मासादाढ्यतमो भवति नरो नात्र सन्देहः ॥ १५.५६॥ शालीभिः शुद्धाभिः प्रतिदिनमष्टोत्तरं शतं जुहुयात् । धनधान्यसमृद्धः स्यान्मन्त्री संवत्सरार्धमात्रेण ॥ १५.५७॥ आज्यैरयुतं जुहुयात्प्रतिमासं प्रतिपदं समारभ्य । अतिमहती लक्ष्मीः स्यादस्य तु षण्मासतो न सन्देहः ॥ १५.५८॥ अरुणैः पुनरुत्पलैः शतं यो मधुराक्तैः प्रजुहोति वत्सरार्धम् । मनुनाप्यमुना दशाधिकं स पलभेन्मङ्क्षु महत्तरां च लक्ष्मीम् ॥ १५.५९॥ जातीपलाशकरवीरजपाख्यबिल्व- व्याघातकेसरकुरण्डभवैः प्रसूनैः । एकैकशः शतमथो मधुरत्रयाक्तै- र्जुह्वत्प्रतिप्रतिपदं श्रियमेति वर्षात् ॥ १५.६०॥ खण्डैश्च सप्तदिनमप्यमृतालतोत्थै- र्मन्त्री हुनेद्गुणसहस्रमथो पयोक्तैः । सम्यक्समच्र्य दहनं नचिरेण जन्तु- श्चातुर्थिकादिविषमज्वरतो वियुञ्ज्यात् ॥ १५.६१॥ क्षीरद्रुमत्वगभिपक्वजलैर्यथाव- त्सम्पूर्य कुम्भमभिपूज्य कृशानुमत्र । जप्त्वा मनुं पुनरमुं त्रिसहस्रमानं सेकक्रिया ज्वरहरी ग्रहवैकृतघ्नी ॥ १५.६२॥ पयसि हृदयदघ्ने भानुमालोक्य तिष्ठ- न्प्रजपतु च सहस्रं नित्यशो मन्त्रमेनम् । स दुरितमपमृत्युं रोगजातांश्च हित्वा व्रजति नियतसौख्यं वत्सराद्दीर्घमायुः ॥ १५.६३॥ मनुनामुनाष्टशतजप्तमथ प्रपिबेज्जलं ज्वलनदीपनकृत् । गुरु भुक्तमप्युदरगं त्वमुना परिजापितं पचति कुक्ष्यनलः ॥ १५.६४॥ हुनेदरुणपज्र्जैस्त्रिमधुराप्लुतैर्नित्यशः सहस्रमृतुमासतः पृथुतरा रमा जायते । प्रतिप्रतिपदं हुनेदिति बुधो धिया वत्सरा- द्विनष्टवसुरप्यसौ भवति चेन्दिरामन्दिरम् ॥ १५.६५॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे पञ्चदशः पटलः ॥

॥ षोडशः पटलः ॥

अथ सङ्ग्रहेण कथयामि मनुमपि महागणेशितुः । यमवहितधियः समुपास्य सिद्धिमधिकां प्रपेदिरे ॥ १६.१॥ तारश्रीशक्तिमारावनिगणपतिबीजानि दण्डीनि चोक्त्वा पश्चाद्विघ्नं चतुथ्र्या वरवरदमथो सर्वयुक्तं जनं च । आभाष्य क्ष्वेलमेन्तं वशमिति च तथैवानयेति द्विठान्तः प्रोक्तोऽयं गाणपत्यो मनुरखिलविभूतिप्रदः कल्पशाखी ॥ १६.२॥ ऋषिरपि गणकोऽस्य स्याच्छन्दोनिचृदन्विता च गायत्री । सकलसुरासुरवन्दितचरणयुगो देवता महागणपः ॥ १६.३॥ प्रणवादिबीजपीठस्थितेन दीर्घस्वरान्वितेन सता । अङ्गानि षड्विदध्यान्मन्त्री विघ्नेश्वरस्य बीजेन ॥ १६.४॥ मन्दाराद्यैः कल्पकवृक्षविशेषैर्विशिष्टतरफलदैः । शिशिरितचतुराशेऽन्तर्बालातपचन्द्रिकाकुले च तले ॥ १६.५॥ ऐक्षवजलनिधिलहरीकणजालकवाहिना च गन्धवहेन । संसेविते च सुरतरुसुमनःश्रितमधुपपक्षचलनपरेण ॥ १६.६॥ रत्नमये मणिवङ्काप्रवालफलपुष्पपल्लवस्य सतः । महतोऽधस्तादृतुभिर्युगपत्संसेवितस्य कल्पतरोः ॥ १६.७॥ सिंहमुखपादपीठगलिपिमयपद्मे त्रिषट्कोणोल्लसिते । आसीनस्त्वेकरदो बृह्दुदरो दशभुजोऽरुणतनुश्च गजवदनः ॥ १६.८॥ बीजापूरगदेक्षुकार्मुकरुजाचक्राब्जपाशोत्पल- व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः । ध्येयो वल्लभया सपद्मकरयाश्लिष्टो ज्वलद्भूषया विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नो विशिष्टार्थदः ॥ १६.९॥ करपुष्करधृतकलशस्रुतमणिमुक्ताप्रवालवर्षेण । अविरतधारां विकिरन्परितः साधकसमग्रसम्पत्त्यै ॥ १६.१०॥ मदजललोलुपमधुकरमालां निजकर्णतालताडनया । निर्वासयन्मुहुर्मुहुरमरैरसुरैश्च सेवितो युगपत् ॥ १६.११॥ अग्रेऽथ बिल्वमभितश्च रमारमेशौ तद्दक्षिणे वटजुषौ गिरिजावृषाज्रै । पृष्ठेऽथ पिप्पलजुषौ रतिपुष्पबाणौ सव्ये प्रियङ्गुमभितश्च महीवराहौ ॥ १६.१२॥ ध्येयौ च पद्मयुगचक्रदरैः पुरोक्तौ पाशाज्रुशाख्यपरशुत्रिशिखैरथान्यौ । युग्मोत्पलेक्षुमयचापधरौ तृतीया- वन्यौ शुकाह्वकलमाग्रगदारथाङ्गैः ॥ १६.१३॥ ध्येयाः षट्कोणाश्रिषुपरितः पाशाज्रुशाभयेष्टकराः । सप्रमदा गणपतयो रक्ताकाराः प्रभिन्नमदविवशाः ॥ १६.१४॥ अग्राश्रावामोदः प्रमोदसुमुखौ च तदभितोऽश्रियुगे । पृष्ठे च दुर्मुखाख्यस्त्वमुमभितो विघ्नविघ्नकर्तारौ ॥ १६.१५॥ सव्यापसव्यभागे तस्य ध्येयौ च शङ्खपद्मनिधी । मौक्तिकमाणिक्याभौ वर्षन्तौ धारया धनानि सदा ॥ १६.१६॥ सिद्धिसमृद्धी चान्या कान्तिर्मदनावती मदद्रवया । द्राविणिवसुधाराख्ये वसुमत्यपि विघ्ननिधियुगप्रमदाः ॥ १६.१७॥ ध्यात्वैवं विघ्नपतिं चत्वारिंशत्सहस्रसंयुक्तम् । प्रजपेल्लक्षचतुष्कं चतुःसहस्रं च दीक्षितो मन्त्री ॥ १६.१८॥ दिनशः स चतुश्चत्वारिंशत्सङ्ख्यं प्रतर्पयेद्विघ्नम् । उक्तजपान्ते मन्त्री जुहुयाच्च दशांंशतोऽष्टभिद्र्रव्यैः ॥ १६.१९॥ मोदकपृथुका लाजाः ससक्तवः सेक्षुनालिकेरतिलाः । कदलीफलसहितानीत्यष्ट द्रव्याणि सम्प्रदिष्टनि ॥ १६.२०॥ अनुदिनमर्चयितव्यो जपता मनुमपि च मन्त्रिणा गणपः । प्राक्प्रोक्तपद्मपीठे सशक्तिके साधिका मनौ विधिना ॥ १६.२१॥ तीव्रा ज्वालिनिनन्दे सभोगदा कामरूपिणी चोग्रा । तेजोवती च नित्या सम्प्रोक्ता विघ्ननाशिनी नवमी ॥ १६.२२॥ सर्वयुतं शक्तिपदं प्रोक्त्वा कमलासनाय नम इति च । आसनमन्त्रः प्रोक्तो नवशक्त्यन्ते समर्चयेदमुना ॥ १६.२३॥ आद्या मिथुनैरावृतिरपरा सनिधिभिरपि च षड्विघ्नैः । अङ्गैरन्या मातृभिरपरेन्द्राद्यैश्च पञ्चमी पूज्या ॥ १६.२४॥ दीक्षाभिषेकयुक्तः प्रजपेत्सम्पूजयेदिति गणेशम् । अभिधीयतेऽस्य च पुनर्गुर्वादेशेन मन्त्रिणो दीक्षा ॥ १६.२५॥ मध्ये च दिग्दलानां चतुष्टयाग्रे प्रविन्यसेत्कलशान् । क्षीरद्रुबिल्वरोहिणपिप्पलफलिनीत्वगुद्भवैः क्वथितैः ॥ १६.२६॥ सम्पूजयेद्यथावत्क्रमात्समावाह्य गणपमिथुनानि । अभ्यच्र्य चोपचारैर्हुत्वा विधिवत्पुनः समभिषिञ्चेत् ॥ १६.२७॥ इति जपहुतार्चनाद्यैः सिद्धो मन्त्रेण कर्म कुर्वीत । अष्टद्रव्यैर्वान्यैर्हुनेच्च तत्तत्प्रयोजनावाप्त्यै ॥ १६.२८॥ स्वर्णाप्त्यै मधुना च गव्यपयसा गोसिद्धये र्सिपषा लक्ष्म्यै शर्करया जुहोतु यशसे दघ्ना च सर्वद्र्धये । अन्नैरन्नसमृद्धये च सतिलैद्र्रव्याप्तये तण्डुलै- र्लाजाभिर्यशसे कुसुम्भकुसुमैः साश्वारिजैर्वाससे ॥ १६.२९॥ पद्मैर्भूपतिमुत्पलैर्नृपवधूं तन्मन्त्रिणः कैरवै- रश्वत्थादिसमिद्भिरग्रजमुखान्वर्णान्वधूः पिष्टजैः । पुत्तल्यादिभिरन्वहं च वशयेज्जुह्वन्ननावृष्टये लोणैर्वृष्टिसमृद्धये च जुहुयान्मन्त्री पुनर्वेतसैः ॥ १६.३०॥ मन्त्रेणाथ पुरामुनैव चतुरावृत्त्या समातप्र्य च श्रीशक्तिस्मरभूविनायकरतीर्नाम्नैव बीजादिकम् । आमोदादिनिधिद्वयं च सचतुःपूर्वं चतुर्वारकं मन्त्री तर्पणतत्परोऽभिलषितं सम्प्राप्नुयान्मण्डलात् ॥ १६.३१॥ अथ गजलिप्सुर्नृपतिर्गजवनमध्ये प्रसाधयेद्वारि । तन्निकटे तु विशालं चतुरश्रं कारयेच्च गृहवर्यम् ॥ १६.३२॥ परिवीतदृढावरणं तच्च चतुर्दारतोरणोल्लसितम् । तस्मिन्मण्डपवर्ये चतुरश्रामुन्नतां स्थलीं कृत्वा ॥ १६.३३॥ उत्तरभागे तस्याः कुण्डं रचयेद्यथा पुरा तत्र । चापजहरिभवमानुषचक्रप्रोक्तानथाक्षरान्मन्त्री ॥ १६.३४॥ ऊध्र्वादिमेखलासु क्रमेण विलिखेन्निजेष्टसमवाप्त्यै । सम्प्रोक्तलक्षणयुतं प्रविरचयेन्मण्डलं स्थलीमध्ये ॥ १६.३५॥ आवाह्य विघ्नेश्वरमर्चयित्वा प्रागुक्तया तत्र विधानकॢप्त्या । निवेदयित्वा सह भक्ष्यलैह्यैः प्राज्यैश्च साज्यैरपि भोज्यजातैः ॥ १६.३६॥ आधाय वैश्वानरमत्र कुण्डे समच्र्य मन्त्रैः क्रमशः कृशानोः । तैरेव पूर्वं जुहुयाद्घृतेन मन्त्री समृद्ध्या च ततस्त्रिवारम् ॥ १६.३७॥ तारेण लक्ष्म्यद्रिसुतास्मरक्ष्माविघ्नेशबीजैः क्रमशोऽनुबद्धैः । पदत्रयेणापि च मन्त्रराजं विभज्य मन्त्री नवधा जुहोतु ॥ १६.३८॥ पुनः समस्तेन च मन्त्रवर्णसङ्ख्यं प्रजुह्वन्नपि र्सिपषैव । पूर्वप्रदिष्टैर्जुहुयादथाष्टद्रव्यैः प्रसिक्तैर्मधुरत्रयेण ॥ १६.३९॥ सचतुश्चत्वारिंशत्सहस्रसङ्ख्यैश्चतुःशतैः श्रुतिभिः । दशकचतुष्कैर्हुत्वा चत्वारिंशद्भिरन्तरेण दिनैः ॥ १६.४०॥ करिकलभाः करिणीभिः सम्पात्यन्तेऽवटेऽत्र गणपतिना । प्रतिदिनमभ्यवहार्य च विप्रान्संर्विधतस्तदाशीर्भिः ॥ १६.४१॥ तेषां मातङ्गानां दद्यात्पञ्चांशदक्षिणां गुरवे । तद्विक्रीतं वसु वा प्रसादितायाथ तद्दशांशं वा ॥ १६.४२॥ मिथुनानां गणपानां निध्योश्च तथाङ्गमातृलोकेशानाम् । मन्त्री घृतेन हुत्वाभ्यच्र्य च होमं समापयेत्सम्यक् ॥ १६.४३॥ पुनरुद्धृत्य निवेद्यादिकं समभ्यच्र्य गणपतिं सावरणम् । उद्वास्य स्वे हृदये विहरेदित्यर्चना क्रमोद्दिष्टा ॥ १६.४४॥ प्रोक्तस्त्वेवं दशभुजमनुः सङ्ग्रहेणात्र भक्तो दीक्षां प्राप्तो विधिवदभिजप्त्वाथ हुत्वार्चयित्वा । नुत्वा नत्वा दिनमनु तथा तर्पयित्वा स्वकामा- ल्लँब्ध्वा चान्ते व्रजति मुनिभिः प्रार्थनीयं पदं तत् ॥ १६.४५॥ स्मृतिपीठः पिनाकी सानुग्रहो बिन्दुसंयुतः । बीजमेतद्भुवः प्रोक्तं संस्तम्भनकरं परम् ॥ १६.४६॥ चतुरीयो विलोमेन तारादिर्बिन्दुसंयुतः । वैघ्नो मन्त्रो हृदन्तोऽर्चाविधौ होमे द्विठान्तकः ॥ १६.४७॥ गणकः स्यादृषिश्छन्दो निचृद्विघ्नश्च देवता । बीजेन दीर्घयुक्तेन दण्डिनाङ्गक्रियेरिता ॥ १६.४८॥ रक्तो रक्ताङ्गरागांशुककुसुमयुतस्तुन्दिलश्चन्द्रमौलि- र्नेत्रैर्युक्तस्त्रिभिर्वामनकरचरणो बीजपूरात्तनासः । हस्ताग्राकॢप्तपाशाज्रुशरदवरदो नागयज्ञाभिभूषो देवः पद्मासनो वो नवतु नतसुरो भूतये विघ्नराजः ॥ १६.४९॥ दीक्षितः प्रजपेल्लक्षचतुष्कं प्राक्समीरितैः । जुहुयादष्टभिद्र्रव्यैर्यथापूर्वं दशांशतः ॥ १६.५०॥ पीठे तीव्रादिभिः पद्मर्किणकायां विनायकम् । आवाह्य पूजयेद्दिक्षु चतुष्र्वपि यजेत्पुनः ॥ १६.५१॥ गणाधिपगणेशौ च गणनायकमेव च । गणक्रीडं र्किणकायामङ्गैः किञ्जल्कसंस्थितैः ॥ १६.५२॥ वक्रतुण्डैकदंष्ट्रौ च महोदरगजाननौ । लम्बोदरश्च विकटो विघ्नराड्धूमवर्णकौ ॥ १६.५३॥ समर्चयेन्मातृवर्गं बाह्ये लोकेश्वरानपि । इति प्रोक्ता सङ्ग्रहेण गाणेशीयं समर्चना ॥ १६.५४॥ नारिकेलान्वितैर्मन्त्री सक्तुलाजतिलैर्हुनेत् । आरभ्याच्छां प्रतिपदं चतुथ्र्यन्तं चतुःशतम् ॥ १६.५५॥ दिनशः सर्ववश्यं स्यात्सर्वकामप्रदं नृणाम् । तिलतण्डुलकैर्लक्ष्मीवश्यकृच्च यशस्करम् ॥ १६.५६॥ मधुरत्रयसिक्ताभिर्लाजाभिः सप्तवासरम् । जुहुयात्कन्यकार्थी वा कन्यका वा वरार्थिनी ॥ १६.५७॥ चतुथ्र्यां नालिकेरैस्तु होमः सद्यः श्रियावहः । हविषा घृतसिक्तेन सर्वकार्यार्थदो हुतः ॥ १६.५८॥ दध्यन्नलोणमुद्राभिहुनेन्निशि चतुर्दिनम् । इष्टार्थसिद्ध्यै मतिमान्सद्यः संवादसिद्धये ॥ १६.५९॥ ईदृशं गणपं ध्यात्वा मन्त्री तोयैः सुधामयैः । दिनादौ दिनशस्तस्य तर्पयेन्मस्तके सुधीः ॥ १६.६०॥ चत्वारिंशच्चतुःपूर्वं तत्पूर्वं वा चतुःशतम् । चत्वारिंशद्दिनात्तस्य काङ्क्षिता सिद्धिरेष्यति ॥ १६.६१॥ नवनीते नवे लिख्यादनुलोमविलोमकम् । उदरस्थितसाध्याख्यं तद्बीजं तत्प्रतिष्ठितम् ॥ १६.६२॥ समीरणं प्रतिष्ठाप्य जप्त्वाष्टशतसङ्ख्यकम् । तूष्णीं प्रभक्षयेदेतत्सप्तरात्राद्वशीकरम् ॥ १६.६३॥ अन्त्यासनोऽथ सूक्ष्मो लोहितगोऽग्निः पुनः स एव स्यात् । सादान्तेनायार्णौ नत्यन्तो मनुरयं स्वबीजाद्यः ॥ १६.६४॥ ऋषिदेवते तु पूर्वे च्छन्दस्तु विराडमुष्य सम्प्रोक्ता । बीजेन दीर्घभाजा कथितोऽङ्गविधिः क्रमेण बिन्दुमता ॥ १६.६५॥ धृतपाशाज्रुशकल्पकलतिकास्वरदश्च बीजपूरयुतः । शशिशकलकलितमौलिस्त्रिलोचनोऽरुणतनुश्च गजवदनः ॥ १६.६६॥ भासुरभूषणदीप्तो बृहदुदरः पद्मविष्टरो ललितः । ध्येयोऽनायतदोःपदसरसिरुहः सम्पदे सदा मनुजैः ॥ १६.६७॥ दीक्षायुक्तः प्रजपेल्लक्षं मनुमेनमथ तिलैरयुतम् । त्रिमधुरसिक्तैर्जुहुयात्पूर्वोक्तैर्वाथ वाष्टभिद्र्रव्यैः ॥ १६.६८॥ विघ्नविनायकवीराः सशूलवरदेभवक्त्रकैकरदाः । लम्बोदरश्च मातङ्गावृत्योरन्तरा च लोकेशाः ॥ १६.६९॥ पूज्याः सितघृतपायसहवनात्सञ्जायते महालक्ष्मीः । केवलघृतहुतमुदितो विघ्नः सद्यो वशीकरोति जगत् ॥ १६.७०॥ एकमपि नालिकेरं सचर्मलोष्टेन्धनं हुनेन्मन्त्री । दिनशश्चत्वारिंशद्दिनतः स तु वाञ्छितार्थमभ्येति ॥ १६.७१॥ सह पृथुकसक्तुलाजैस्तिलैरभीष्टार्थसिद्धये जुहुयात् । सापूपनालिकेरेक्षुककदलीभिस्तथा सुमधुराभिः ॥ १६.७२॥ अष्टभिरेतैर्विहितो होमः सर्वार्थसाधको भवति । दिनशः सघृतान्नहुतो गृहयात्रायापको गृहस्थानाम् ॥ १६.७३॥ अन्वहमन्वहमादौ गणपं सन्तर्पयेच्चतुःपूर्वम् । चत्वारिंशद्वारैः शुद्धजलैरिन्दिराप्तये मन्त्री ॥ १६.७४॥ समहागणपतियुत्तैरीवघ्नाद्यैर्दशभिराह्वयैर्दिनशः । तर्पणपूजाहुतविधिरपि वाञ्छितसिद्धिदायको भवति ॥ १६.७५॥ बिम्बादम्बुदवत्समेत्य सवितुः सोपानकै राजतै- स्तोयं तोयजविष्टरं ध्रतलतादन्तं सपाशाज्रुशम् । नासां साध्यनृके निधाय सुधया तद्रन्ध्रनिर्यातया सिञ्चन्तं वपुरन्वहं गणपतिं स्मृत्वामृतैस्तर्पयेत् ॥ १६.७६॥ प्राग्भाषितानपि विधीन्विधिवद्विदध्या- न्मन्त्री विशेषविदथान्वहमादरेण । एकत्र वा गणपतौ मनुजाः स्वरुच्या नामानुरूपमनुमेनममी भजन्तु ॥ १६.७७॥ इति जपहुतपूजातर्पणैर्विघ्नराजं प्रभजति मनुजो यस्तस्य शुद्धिर्विशाला । भवति सधनधान्या पुत्रमित्रादियुक्ता विगतसकलविघ्ना विश्वसंवादिनी च ॥ १६.७८॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे षोडशोः पटलः ॥

॥ सप्तदशः पटलः ॥

अथ मन्मथमन्त्रविधिं विधिना कथयामि सहोमविधिं सजपम् । मथनस्य पुरामपि मोहकरं व्यथिताखिलसिद्धसुरादिगणम् ॥ १७.१॥ अजकलाप्रथमावनिशान्तिभिर्युतसुधाकरखण्डविकासिभिः । निगदितो मनुरेष मनोभुवः सकलधर्मयशोर्थसुखावहः ॥ १७.२॥ ऋष्यादिकाश्च सम्मोहनगायत्रीमनोभवाः प्रोक्ताः । बीजेन दीर्घभाजा कथितान्यङ्गान्यमुष्य जातियुजा ॥ १७.३॥ अरुणमरुणवासोमाल्यदामाङ्गरागं स्वकरकलितपाशं साज्रुशास्त्रेषुचापम् । मणिमयमकुटाद्यैर्दीप्तमाकल्पजातै- ररुणनलिनसंस्थं चिन्तयेदङ्गयोनिम् ॥ १७.४॥ तरणिलक्षममुं मनुमादरात्समभिजप्य हुनेच्च दशांशकैः । तदनु किंशुकजैः प्रसवैः शुभैस्त्रिमधुराद्र्रतरैर्निजसिद्धये ॥ १७.५॥ मोहिनी क्षोभिणी त्रासी स्तम्भिन्यार्किषणी तथा । द्राविणीह्लादिनीक्लिन्नाक्लेदिन्यः स्मरशक्तयः ॥ १७.६॥ आशान्तिद्वयवामश्रुतिसर्गैद्र्रयुगकलबलैश्च ससैः । शोषणमोहनसन्दीपनतापनमादनान्यजेत्क्रमशः ॥ १७.७॥ अनङ्गरूपा सानङ्गमदनानङ्गमन्मथा । अनङ्गकुसुमानङ्गकुसुमातुरसंज्ञका ॥ १७.८॥ अनङ्गशिशिरानङ्गमेखलानङ्गदीपिका । अङ्गाशापालयोर्मध्ये बाणानङ्गावृतीर्यजेत् ॥ १७.९॥ आलिख्यात्र्किणकायामनलपुरपुटे मारबीजं ससाध्यं तद्रन्ध्रेष्वङ्गषट्कं बहिरपि गुणशो मारणाय त्रिवर्णान् । मालामन्त्रं दलाग्रेष्वपि गुहमुखशः पार्थिवाश्रिष्वनङ्गं कुर्याद्यन्त्रं तदेतद्भुवनमपि वशे का कथा मानवेषु ॥ १७.१०॥ प्रोक्त्वाथ कामदेवाय विद्महे तदनु पुष्पबाणाय । तथा च धीमह्यन्ते तन्नोऽनङ्गः प्रचोदयाद्गायत्री ॥ १७.११॥ नत्यन्ते कामदेवाय प्रोक्त्वा सर्वजनं वदेत् । प्रियायेति तथा सर्वजनसम्मोहनाय च ॥ १७.१२॥ वीप्सयित्वा ज्वलपदं प्रज्वलं च प्रभाषयेत् । पुनः सर्वजनस्येति हृदयं मम चेत्यथ ॥ १७.१३॥ वशमुक्त्वा कुरुं वीप्स्य कथयेद्वह्निवल्लभाम् । प्रोक्तो मदनमन्त्रोऽष्टचत्वारिंशद्भिरक्षरैः ॥ १७.१४॥ इति यन्त्रकॢप्तकलशो बहुशः कतमं नरं न परिमोहयति । प्रमदावनीश्वरसभानगरादिकमीश्वरीनपि वशे कुरुते ॥ १७.१५॥ वक्ष्ये विधानमन्यन्मनोभवस्याथ मोहनं जगतः । येनार्चितः स देवो वाञ्छितमखिलं करोति मन्त्रविदाम् ॥ १७.१६॥ अमृतोद्भवो मकरकेतनश्च सङ्कल्पजाह्वयाक्षरूपौ । इक्षुधनुर्धरपुष्पशराख्यावङ्गानि वह्निजायान्तानि ॥ १७.१७॥ अरुणतरवसनमाल्यानुलेपनाभरणमिषुशरासधरम् । न्यस्तशरबीजदेहो ध्यायेदात्मानमङ्गजं रुचिरम् ॥ १७.१८॥ अङ्गबाणावृतेरूध्र्वं पूज्याः षोडश शक्तयः । युवतिर्विप्रलम्भा च ज्योत्स्ना सुभ्रूर्मदद्रवा ॥ १७.१९॥ सुरता वारुणी लोला कान्तिः सौदामिनी तथा । कामच्छत्रा चन्द्रलेखा शुकी च मदनाह्वया ॥ १७.२०॥ योनिर्मायावती चेति शक्तयः स्युर्मनोभुवः । शोको मोहो विलासश्च विभ्रमो मदनातुरः ॥ १७.२१॥ अपत्रपो युवा कामी चूतपुष्पो रतिप्रियः । ग्रीष्मस्तपान्त ऊर्जश्च हेमन्तः शिशिरो मदः ॥ १७.२२॥ चतुथ्र्यामावृतौ पूज्याः स्युर्मारपरिचारकाः । परभृत्सारसौ चैव शुकमेघाह्वयौ तथा ॥ १७.२३॥ अपाङ्गभ्रूविलासौ द्वौ हावभावौ स्मरप्रियाः । माधवी मालती चैव हरिणाक्षी मदोत्कटा । एताश्चामरहस्ताः स्युः पूज्याः कोणेषु संस्थिताः ॥ १७.२४॥ हृल्लेखया स्व नाम्ना च शक्त्यादीनां समर्चनम् । इन्द्राद्यैः सप्तमी पूज्या स्मरार्चाविधिरीदृशः ॥ १७.२५॥ मदनविधानमितीत्थं प्रोक्तं योऽनेन पूजयेद्विधिना । स तु सकललोकपूज्यो भवेन्मनोज्ञश्च मन्दिरं लक्ष्म्याः ॥ १७.२६॥ विलसदहङ्कारतनुर्मनःशिवो विभ्रमास्पदीभूतः । बुद्धिशरीरां नारीं नरः सदा चित्तयोनिमभिगच्छेत् ॥ १७.२७॥ इति मदनयोगरत्या यो रमयेन्नित्यशो निजां वनिताम् । स तु भुक्तिमुक्तिकामी वनिताजनहृदयमोहनो भवति ॥ १७.२८॥ आत्मानं मदनं ध्यायेदाशुशुक्षणिरूपिणम् । तद्बीजाग्रं शिवज्वालातनुं तन्वीतनुं तथा ॥ १७.२९॥ सुधामयीं च तद्योनिं नवनीतमयं स्मरेत् । सङ्गच्छेच्च शिवज्वालालीढं तद्धृदयादिकम् ॥ १७.३०॥ आलिङ्गेदग्निसंस्पर्शद्रुततद्रूपकामृतम् । रसनाशिखया कर्षेत्तद्दन्तवसनामृतम् ॥ १७.३१॥ कुसुमास्त्रधिया बाह्ये स्पृशेत्कररुहैरपि । हानिं न कुर्याज्जीवस्य मन्त्री विशदमानसः ॥ १७.३२॥ रतावथोऽधोमध्योध्र्वक्रमेणैवं समाहितम् । निजप्रियां भजेदेवं सा मारशरविह्वला । छायेवानपगा तस्य भवेदेवं भवान्तरे ॥ १७.३३॥ साध्याख्या कामवर्णैः प्रतिपुटितलसत्र्किणकं पत्रराज- त्तार्रित्वक्पक्षजाष्टादशसमिदृतुगण्डान्तगान्ताक्षराढ्यम् । आशाशूलाज्र्तिं तद्विपतिरिपुदले सम्यगालिख्य सेरं मारं जप्त्वास्य यामाशयति वशगता भा भवेत्सद्य एव ॥ १७.३४॥ हंसारूढो मदनस्त्रैलोक्यक्षोभको भवेदाशु । द्युयुतो रञ्जनकृत्स्याज्जीवोपेतस्तथायुषे शस्तः ॥ १७.३५॥ तारयुजा त्वमुनाग्नौ हुत्वा सम्पातितेन चाज्येन । सम्भोजयेत्पतिं स्वं वनिता स नितान्तरञ्जितो भवति ॥ १७.३६॥ दध्यक्ताभिर्जुहुयाल्लाजाभिः कन्यकां समाकाङ्क्षन् । कन्यापि वरं लभते विधिना नित्यानुरक्तममुनैव ॥ १७.३७॥ अभिनवैः सुमनोभिरशोकजैर्दधितिलैर्विहिता हवनक्रिया । परमवश्यकरी परिकाङ्क्षितामपि लभेदचिरादिव कन्यकाम् ॥ १७.३८॥ अभीष्टदायी स्मरणादपि स्मर- स्तथा जपादर्चनया विशेषतः । प्रसादतोऽस्याखिललोकर्वितन- श्चिराय वश्याश्च भवन्ति मन्त्रिणः ॥ १७.३९॥ कृङा मध्यगताः ष्णायगोव्यर्णा यल्लमध्यगाः । गोपीजनवकाराः स्युर्भायस्वाहास्मरादिकाः ॥ १७.४०॥ ऋषिस्तु नारदोऽस्य स्याद्गायत्रं छन्द इष्यते । मन्त्रस्य देवता कृष्णस्तदङ्गविधिरुच्यते ॥ १७.४१॥ मूलमन्त्रचतुर्वर्णचतुष्केण द्विकेन च । प्रोक्तान्यङ्गानि भूयोऽमुं चिन्तयेद्देवकीसुतम् ॥ १७.४२॥ अव्यान्मीलत्कलापद्युतिरहिरिपुपिञ्छोल्लसत्केशजालो गोपीनेत्रोत्पलाराधितललितवपुर्गोपगोबृन्दवीतः । श्रीमद्वक्त्रारविन्दप्रतिहसितशशाज्रकृतिः पीतवासा देवोऽसौ वेणुवाद्यक्षपितजनधृतिर्देवकीनन्दनो वः ॥ १७.४३॥ अयुतद्वितयावधिर्जपः स्यादरुणैरम्बुरुहैर्हृतो दशांशैः । मुरजिद्विहिते तु पीठवर्ये दिनशो नन्दसुतः समर्चनीयः ॥ १७.४४॥ अङ्गाशेड्वङ्काआद्यैः परिवृत्य च पायसेन सुसितेन । हैयङ्गवीनकदलीफलदधिभिः प्रीणयेच्च गोविन्दम् ॥ १७.४५॥ जुहुयाद्दुग्धहविर्भिविमलैः र्सिपःसितोपलोपेतैः । इष्टं तुष्टो लक्ष्मीं समावहेत्सद्य एव गोविन्दः ॥ १७.४६॥ बालं नीलाम्बुदाभं नवमणिविलसत्किज्र्णिईजालनद्ध- श्रोणीजङ्घान्तयुग्मं विपुलरुरुनखप्रोल्लसत्कण्ठभूषम् । फुल्लाम्भोजाभवक्त्रं हतशकटपतत्पूतनाद्यं प्रसन्नं गोविन्दं वन्दितेन्द्राद्यमरवरमजं पूजयेद्वासरादौ ॥ १७.४७॥ वन्द्यं देवैर्मुकुन्दं विकसितकरवन्दाभमिन्दीवराक्षं गोपीगोबृन्दवीतं जितरिपुनिवहं कुन्दमन्दारहासम् । नीलग्रीवाग्रपिञ्छाकलनसुविलसत्कुन्तलं भानुमन्तं देवं पीताम्बराढ्यं यजतु च दिनशो मध्यमेऽह्नो रमायै ॥ १७.४८॥ विक्रान्त्या ध्वस्तवैरिव्रजमजितमपास्तावनीभारमाद्यै- रावीतं नारदाद्यैर्मुनिभिरनुदिनं तत्त्वनिर्णीतिहेतोः । सायाह्ने निर्मलं तं निरुपममजरं पूजयेन्नीलभासं मन्त्री विश्वोदयस्थित्यपहरणपरं मुक्तिदं वासुदेवम् ॥ १७.४९॥ त्रिकालमेवं प्रविचिन्त्य शार्ङ्गिणं प्रपूजयेद्यो मनुजो महामनः । स धर्ममर्थं सुसुखं श्रियं परा- मवाप्य देहापदि मुक्तिमाप्नुयात् ॥ १७.५०॥ ग्रामं गच्छन्नगरमपि वा मन्त्रजापी मनुष्यो देवेशं तं मुखमनु मुहुस्तर्पयेद्दुग्धबुद्ध्या । शुद्धैस्तोयैः स तु बहुरसोपेतमाहारजातं दद्यान्नित्यं प्रचुरधनधान्यांशुकाद्यैर्मुकुन्दः ॥ १७.५१॥ भिक्षावृत्तिर्दिनमनु तमेवं विचिन्त्यात्मरूपं गोपस्त्रीभ्यो मुहुरपहरन्तं मनोभिः सहैव । लीलावृत्त्या ललितललितैश्चेष्टितैर्दुग्धर्सिप- र्दध्याद्यं वा स पुनरमितामेति भिक्षां गृहेभ्यः ॥ १७.५२॥ ध्यानी मन्त्री मन्त्रजापी च नित्यं यद्यद्वाञ्छन्यत्र यत्र प्रयाति । तत्तत्प्राप्त्वा तत्र तत्र प्रकामं प्रीतः क्रीडेद्देववन्मानुषेषु ॥ १७.५३॥ एवं देवं पूजयन्मन्त्रमेनं जप्यान्मन्त्री सर्वलोकप्रियः स्यात् । इष्टान्कामान्प्राप्य सम्पन्नवृत्ति- रिनत्यं शुद्धं तत्परं धाम भूयात् ॥ १७.५४॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे सप्तदशः पटलः ॥

॥ अष्टादशः पटलः ॥

अथ प्रणवसंज्ञकं प्रतिवदामि मन्त्रं परं सजापमपि सार्चनं सहुतकॢप्ति सोपासनम् । अशेषदुरितापहं विविधकामकल्पद्रुमं विमुक्तिफलसिद्धिदं विमलयोगिसंसेवितम् ॥ १८.१॥ आद्यस्वरः समेतोऽमरेण सधसप्तमश्च बिन्दुयुतः । प्रोक्तः स्यात्प्रणवमनुस्त्रिमात्रिकः सर्वमन्त्रसमवायी ॥ १८.२॥ मन्त्रस्यास्य मुनिः प्रजापतिरथ च्छन्दश्च देव्यादिका गायत्री गदिता जगत्सु परमात्माख्यस्तथा देवता । अक्लीबैर्युगमध्यगध्रुवयुतैरङ्गानि कुर्यात्स्वरै- र्मन्त्री जातियुतैश्च सत्यरहितैर्वा व्याहृतीभिः क्रमात् ॥ १८.३॥ विष्णुं भास्वत्किरीटाङ्गदवलयुगाकल्पहारोदराङ्घ्रि- श्रोणीरूपं सवक्षोमणिमकरमहाकुण्डलामण्डिताङ्गम् । हस्तोद्यच्चक्रशङ्खाम्बुजगदममलं पीतकौशेयमाशा- विद्योतद्भासमुद्यद्दिनकरसदृशं पद्मसंस्थं नमामि ॥ १८.४॥ दीक्षितो मनुमिमं शतलक्षं सञ्जपेत्प्रतिहुनेच्च दशांशम् । पायसैर्घृतयुतैश्च तदन्ते विप्रभूरुहभवाः समिधो वा ॥ १८.५॥ र्सिपःपायसशालीतिलसमिदाद्यैरनेन यो जुहुयात् । ऐहिकपारत्रिकमपि स तु लभते वाञ्छितं फलं नचिरात् ॥ १८.६॥ अभ्यच्र्य वैष्णवमथो विधिनैव पीठ- मावाह्य तत्र सकलार्थकरं मुकुन्दम् । अङ्गैः समूर्तियुगशक्तियुगैः सुरेन्द्र- वङ्काआदिकैर्यजतु मन्त्रिवरः क्रमेण ॥ १८.७॥ वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः । स्फटिकस्वर्णदूर्वेन्द्रनीलाभा वर्णतो मताः ॥ १८.८॥ चतुर्भुजाश्चक्रशङ्खगदापज्र्जधारिणः । किरीटकेयूरिणश्च पीताम्बरधरा अपि ॥ १८.९॥ सशान्तिश्रीसरस्वत्यौ रतिश्चाश्रिदलाश्रिताः । अच्छपद्मरजोदुग्धदूर्वावर्णाः स्वलङ्कृताः ॥ १८.१०॥ आत्मान्तरात्मपरमज्ञानात्मानस्तु मूर्तयः । निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च शक्तयः ॥ १८.११॥ ज्वलज्ज्वालासमाभाः स्युरात्माद्या मूर्तिशक्तयः । इति पञ्चावरणकं विधानं प्रणवोद्भवम् ॥ १८.१२॥ इत्थं मन्त्री तारममुं जापहुतार्चा- भेदैरङ्गीकृत्य च योगानपि युञ्ज्यात् । यैः संलब्ध्वा चेह समग्रां श्रियमन्ते शुद्धं विष्णोर्धाम परं प्राप्स्यति योगी ॥ १८.१३॥ करपादमुखादिविहीनमनारतदृश्यमनन्यगमात्मपदम् । यमिहात्मनि पश्यति तत्त्वविदस्तमिमं किल योगमिति ब्रुवते ॥ १८.१४॥ योगाप्तिदूषणपरं त्वथ कामकोप- लोभप्रमोहमदमत्सरतेति षट्कम् । वैरं जयेत्सपदि योगविदेनमङ्गै- र्योगस्य धीरमतिरष्टभिरिष्टदैश्च ॥ १८.१५॥ यमनियमासनपवनायामाः प्रत्याहृतिश्च धारणया । ध्यानं चापि समाधिः प्रोक्तान्यङ्गानि योगयोग्यानि ॥ १८.१६॥ सत्यमहिंसा समता धृतिरस्तेयं क्षमार्जवं च तथा । वैराग्यमिति यमः स्यात्स्वाध्यायतपोऽर्चनाव्रतानि तथा ॥ १८.१७॥ सन्तोषश्च सशौचो नियमः स्यादासनं च पञ्चविधम् । पद्मस्वस्तिकभद्रकवङ्काकवीराह्वयं क्रमात्तदपि ॥ १८.१८॥ रेचकपूरककुम्भकभेदात्त्रिविधः प्रभञ्जनायामः । मुञ्चेद्दक्षिणयानिलमथानयेद्वामया च मध्यमया ॥ १८.१९॥ संस्थापयेच्च नाड्येत्येवं प्रोक्तानि रेचकादीनि । षोडशतद्विगुणचतुःषष्टिकमात्राणि तानि च क्रमशः ॥ १८.२०॥ चित्तात्मैक्यधृतस्य प्राणस्य स्थानसंहृतिः स्थानात् । प्रत्याहारो ज्ञेयश्चैतन्ययुतस्य सम्यगनिलस्य ॥ १८.२१॥ स्थानस्थापनकर्म प्रोक्ता स्याद्धारणेति तत्त्वज्ञैः । यो मनसि देवताया भावः स्यात्तस्य मन्त्रिणः सम्यक् ॥ १८.२२॥ संस्थापयेच्च तत्रेत्येवं ध्यानं वदन्ति तत्त्वविदः । सत्तामात्रं नित्यं शुद्धमपि निरञ्जनं च यत्प्रोक्तम् ॥ १८.२३॥ तत्प्रविचिन्त्य स तिंस्मश्चित्तलयः स्यात्समाधिरुद्दिष्टः । अष्टाङ्गैरिति कथितैः पुनराशु निगृह्यतेऽरिरात्मविदा ॥ १८.२४॥ अथ वा शोषणदहनप्लावनभेदेन शोधिते देहे । पञ्चाशद्भिर्मात्राभेदैर्विधिवत्समायमेत्प्राणान् ॥ १८.२५॥ पञ्चाशदात्मकोऽपि च कलाप्रभेदेन तार उद्दिष्टः । तावन्मात्रायमनात्कलाश्च विधृता भवन्ति तत्त्वविदा ॥ १८.२६॥ पूर्वमिडाया वदने विचिन्तयेद्धूम्रमानिलां बीजम् । तेनागतेन देहं प्रशोषयेत्सान्तराधिकरचरणम् ॥ १८.२७॥ पिङ्गलया प्रतिमुञ्चेत्तथैव कार्शानवेन रक्तरुचा । प्रतिदह्य पूर्वविधिना मुञ्चेन्नैशाकरेण सुसितेन ॥ १८.२८॥ सम्पूरयेत्सुधामयजलशीकरर्विषणा तनुं सकलाम् । निर्माय मानसेन च परिपूर्णमनाश्चिरं भूयात् ॥ १८.२९॥ सुजीर्णमितभोजनः सुखसमात्तनिद्रादिकः सुशुद्धतलसद्गृहे विरहिते च शीतादिभिः । पटाजिनकुशोत्तरे सुविशदे च मृद्वासने निमीलितविलोचनः प्रतिविशेत्सुखं प्राङ्मुखः ॥ १८.३०॥ प्रसारितं वामकरं निजाज्रे निधाय तस्योपरि दक्षिणं च । ऋजुः प्रसन्नो विजितेन्द्रियः सन्नाधारमत्यन्तसमं स्मरेत्स्वम् ॥ १८.३१॥ तन्मध्यगतं प्रणवं प्रणवस्थं बिन्दुमपि च बिन्दुगतम् । नादं विचिन्त्य तारं यथावदुच्चारयेत्सुषुम्नान्तम् ॥ १८.३२॥ तन्मध्यगतं शुद्धं शब्दब्रह्मातिसूक्ष्मतन्तुनिभम् । तेजः स्मरेच्च तारात्मकमपि मूलं चराचरस्य सदा ॥ १८.३३॥ ओज्ररो गुणबीजं प्रणवस्तारो ध्रुवश्च वेदादिः । आदिरुमध्यो मपरो नामन्यस्य त्रिमात्रिकश्च तथा ॥ १८.३४॥ अस्य तु वेदादित्वात्सर्वमनूनां प्रयुज्यतेऽथादौ । योनिश्च सर्वदेहे भवति च स ब्रह्म सर्वसंवादे ॥ १८.३५॥ ऋक् च तदाद्यादिः स्यात्तन्मध्यान्तं यजुश्च मान्तादिः । सामापि तस्य भेदा बहवः प्रोक्ता हि लोकवेदेषु ॥ १८.३६॥ उच्चार्योच्चार्य च तं क्रमान्नयेदुपरि षड्द्वयान्तान्तम् । मनसा स्मृते यदास्मिन्मनो लयं याति तावदभ्यस्येत् ॥ १८.३७॥ अथ वा बिन्दुं वर्तुलमावर्तैस्त्रिभिरुपेतमेवमिव । प्रोतं रविबिम्बेन च समभ्यसेत्स्रुतसुधामयं तेजः ॥ १८.३८॥ अपमृत्युरोगपापजिदचिरेण सुसिद्धिदो नृणां योगः । अथवा मूलाधारोत्थिता प्रभा बिसविभेदतन्तुनिभा ॥ १८.३९॥ वदनामृतकरबिम्बस्यूता ध्यातामृताम्बुलवलुलिता । स्थावरजङ्गमविषहृद्योगोऽयं नात्र सन्देहः ॥ १८.४०॥ अथ वा त्रिवलयबिन्दुगधाम प्रणवेन सन्नयेदूध्र्वम् । पीतोर्णातन्तुनिभं सौषुम्नेनैव वत्र्मना योगी ॥ १८.४१॥ तस्मिन्निधाय चित्तं विलयं गमयेद्दिनेशसङ्ख्यान्ते । पुनरावृत्तिविहीनं निर्वाणपदं व्रजेत्तदभ्यासात् ॥ १८.४२॥ अथ वादिबीजमौ पुनरुमपि विषे तमपि संहरेद्बिन्दौ । बिन्दुं नादे तमपि च शक्तौ शक्तिं तथैव शान्ताख्ये ॥ १८.४३॥ तेजस्यनन्यगे चिति निद्र्वन्द्वे निष्कले सदानन्दे । सूक्ष्मे च सर्वतो मुखकरपदनयनादिलक्षणालक्ष्ये ॥ १८.४४॥ स्वात्मनि संहृत्यैवं करणेन्द्रियवर्गनिर्गमापेतः । निर्लीनपुण्यपापे निरुच्छ्वसन्ब्रह्मभूत एव स्यात् ॥ १८.४५॥ अथ वा योगोपेताः पञ्चावस्था क्रमेण विज्ञाय । ताभिर्युञ्जीत सदा योगी सद्यः प्रसिद्धये मुक्तेः ॥ १८.४६॥ जाग्रत्स्वप्नसुषुप्ती तुरीयतदतीतकौ पुनस्तासु । स्वैरिन्द्रियैर्यदात्मा भुङ्क्ते भोगान्स जागरो भवति ॥ १८.४७॥ संज्ञारहितैरपि तैस्तस्यानुभवो भवेत्पुनः स्वप्नः । आत्मनिरुद्युक्ततया नैराकुल्यं भवेत्सुषुप्तिरपि ॥ १८.४८॥ पश्यति परं यदात्मा निस्तमसा तेजसा तुरीयं तत् । आत्मपरमात्मपदयोरभेदतो व्याप्नुयाद्यदा योगी ॥ १८.४९॥ तच्च तुरीयातीतं तस्यापि भवेन्न दूरतो मुक्तिः । अथ वा सूक्ष्माख्यायां पश्यन्त्यां मध्यमाख्यवैखर्योः ॥ १८.५०॥ ससुषुम्नाग्रकयोरपि युञ्जीयाज्जाग्रदादिभिः पवनम् । बीजोच्चारो जाग्रद्बिन्दुः स्वप्नः सुषुप्तिरपि नादः ॥ १८.५१॥ शक्त्यात्मना तुरीयः शान्ते लय आत्मनस्तुरीयान्तम् । अङ्गुष्ठगुल्फजङ्घाजानुद्वितयं च सीवनी मेढ्रम् ॥ १८.५२॥ नाभिर्हृदयं ग्रीवा सलम्बिकाग्रं तथैव नासाग्रम् । भूरमध्यललाटाग्रसुषुम्नाग्रं द्वादशान्तमित्येवम् ॥ १८.५३॥ उत्क्रान्तौ परकायप्रवेशने चागतौ पुनः स्वतनौ । स्थानानि धारणायाः प्रोक्तानि मरुत्प्रयोगविधिनिपुणैः ॥ १८.५४॥ स्थानेष्वेष्वात्ममनःसमीरसंयोगकर्मणोऽभ्यासात् । अचिरेणोत्क्रान्त्याद्या भवन्ति संसिद्धयः प्रसिद्धतराः ॥ १८.५५॥ कण्ठे भ्रूमध्ये हृदि नाभौ सर्वाङ्गके स्मरेत्क्रमशः । लवरसमीरखवर्णैरनिलमहाकालवञ्चनेयं स्यात् ॥ १८.५६॥ अवनिजलानलमारुतविहायसां शक्तिभिश्च तद्बिम्बैः । मारूप्यमात्मनश्च प्रतिनीत्वा तत्तदाशु जयति सुधीः ॥ १८.५७॥ एवं प्रोक्तैर्योगैरायोजयतोऽन्वहं तथात्मानम् । अचिरेण भवति सिद्धिः समस्तसंसारमोचनी नित्या ॥ १८.५८॥ इति योगमार्गभेदैः प्रतिदिनमारूढयोगयुक्तधियः । सिद्धय उपलक्ष्यन्ते मोक्षपुरीसम्प्रवेशनद्वाराः ॥ १८.५९॥ कम्पः पुलकानन्दौ वैमल्यस्थैर्यलाघवानि तथा । सकलप्रकाशवित्तेत्यष्टावस्थाः प्रसूचकाः सिद्धेः ॥ १८.६०॥ त्रैकाल्यज्ञानोहौ मनोज्ञता च्छन्दतो मरुद्रोधः । नाडीसङ्क्रमणविधिर्वाक्सिद्धिर्देहतश्च देहाप्तिः ॥ १८.६१॥ ज्योतिःप्रकाशनं चेत्यष्टौ स्युः प्रत्ययायुजः सिद्धेः । अणिमा महिमा च तथा लघिमा गरिमेशिता वशित्वं च ॥ १८.६२॥ प्राप्तिः प्राकाम्यं चेत्यष्टैश्वर्याणि योगयुक्तस्य । अष्टैश्वर्यसमेतो जीवन्मुक्तः प्रवक्ष्यते योगी । योगानुभवमहामृतरसपानानन्दनिर्भरः सततम् ॥ १८.६३॥ इत्येवं प्रणवविधिः समीरितोऽयं भक्त्या तं प्रभजति यो जपादिभेदैः । सम्प्राप्नोत्यनुततनित्यशुद्धबुद्धं तद्विष्णोः परमतरं पदं नराग्र्यः ॥ १८.६४॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे अष्टादशः पटलः ॥

॥ एकोनविंशः पटलः ॥

अथ पुनरभिवक्ष्ये मन्त्रमष्टाक्षराख्यं सकलदुरितदुःखध्वान्तसम्भेदभानुम् । प्रणवहृदयनारावर्णतोऽन्ते यणार्णौ मपर इति समुद्दिष्टोऽयमिष्टार्थदायी ॥ १९.१॥ तारः शक्त्युत्थतया निर्दिष्टः सोऽहमर्थकः पूर्वम् । नार्णः प्रतिषेधार्थो मोकारश्चायमर्थको भवति ॥ १९.२॥ सलिलानलपवनधराः क्रमेण नारायणाक्षराः प्रोक्ताः । चरमेरस्तु विभक्तिव्यक्त्यर्थं र्दिशतस्तदर्थार्थे ॥ १९.३॥ ऋषिरस्य मनोः साध्यनारायण इतीरितः । छन्दश्च देवी गायत्री परमात्मा च देवता ॥ १९.४॥ अथ क्रुद्धमहावीरद्युसहस्रपदादिकैः । उल्कैर्जातियुतैः कुर्यात्पञ्चाङ्गानि मनोः क्रमात् ॥ १९.५॥ अष्टाक्षरेण व्यस्तेन कुर्याद्वाष्टाङ्गकं सुधीः । सहृच्छिरःशिखावर्मनेत्रास्त्रोदरपृष्ठके ॥ १९.६॥ अर्कौघाभं किरीटान्वितमकरलसत्कुण्डलं दीप्तिराज- त्केयूरं कौस्तुभाभाशबलरुचिरहारं सपीताम्बरं च । नानारत्नांशुभिन्नाभरणशतयुजं श्रीधराश्लिष्टपाश्र्वं वन्दे दोःसक्तचक्राम्बुरुहदरगदं विश्ववन्द्यं मुकुन्दम् ॥ १९.७॥ सन्दीक्षितो मनुममुं प्रतिजप्तुमिच्छ- न्कुर्यान्निजेन वपुषैव तु योगपीठम् । अंसोरुयुग्मपदमानननाभिमूल- पाश्र्वद्वयैर्विहितगात्रसमुज्ज्वलं च ॥ १९.८॥ मध्येऽनन्ताद्यैरपि संज्ञानात्मान्तिकैर्यजेन्मन्त्री । पीठाख्यमन्त्रपश्चिममथ गन्धाद्यैश्च सम्यगुपचारैः ॥ १९.९॥ प्रणवं हृदयं चैव प्रोक्त्वा भगवतेपदम् । विष्णवे च समाभाष्य सर्वभूतात्मनेपदम् ॥ १९.१०॥ अस्त्रमन्त्रप्रबद्धाशो मन्त्रवर्णांस्तनौ न्यसेत् । विन्यस्तैर्यैर्भवन्मन्त्री मन्त्रवर्णात्मको हरिः ॥ १९.१२॥ आधारहृद्वदनदोःपदमूलनाभौ कण्ठे सनाभिहृदयस्तनपाश्र्वपृष्ठे । कास्येक्षणश्रवणगन्धवहे च दोःप- त्सन्ध्यङ्गुलीषु हृदि धातुषु सानिलेषु ॥ १९.१३॥ मूर्धेक्षणास्यहृदयोदरसोरुजङ्घा- पादद्वयेषु लिपिशो न्यसतु क्रमेण । गण्डांसकोरुचरणेषु रथाङ्गशङ्ख- श्रीमद्गदाम्बुजपदेषु समाहितात्मा ॥ १९.१४॥ ततोऽष्टाक्षरपूत्र्यर्थं स्मर्तव्यो द्वादशाक्षरः । मन्त्रो द्वादशमूर्तीस्तु तत्प्रभिन्नस्तनौ न्यसेत् ॥ १९.१५॥ अष्टप्रकृत्यात्मकश्च सम्प्रोक्तोऽष्टाक्षरो मनुः । अष्टानां प्रकृतीनां च चतुर्णामात्मनामपि ॥ १९.१६॥ द्वादशानां तु संयोगो मन्त्रः स्याद्वादशाक्षरः । आदित्या द्वादश प्रोक्ता युक्ता द्वादशमूर्तिभिः ॥ १९.१७॥ केशवादिप्रदिष्टानां मूर्तीनां द्वादशादितः । आदिस्वरयुता न्यस्येत्ताः स्युद्र्वादश मूर्तयः ॥ १९.१८॥ ललाटोदरहृत्कण्ठदक्षपाश्र्वांसतद्गले । तथा वामत्रये पृष्ठे ककुदोश्च यथाक्रमम् ॥ १९.१९॥ द्वादशाक्षरमन्त्रं च मन्त्रविन्मूर्ध्नि विन्यसेत् । मूर्धस्थो वासुदेवस्तु व्याप्नोति सकलां तनुम् ॥ १९.२०॥ पुनस्तत्प्रतिपत्त्यर्थं किरीटादिमनुं जपेत् । किरीटकेयूरहारपदान्याभाष्य मन्त्रवित् ॥ १९.२१॥ मकारान्ते कुण्डलं च चक्रशङ्खगदादिकम् । अब्जहस्तपदं प्रोक्त्वा पीताम्बरधरेति च ॥ १९.२२॥ श्रीवत्साज्र्तिमाभाष्य वक्षःस्थलमथो वदेत् । श्रीभूमिसहितं स्वात्मज्योतिद्र्वयमथो वदेत् ॥ १९.२३॥ दीप्तिमुक्ताकरायेति सहस्रादित्यतेजसे । हृदन्तः प्रणवादिः स्यात्किरीटादिमनुः स्वयम् ॥ १९.२४॥ कृत्वा स्थण्डिलमस्मिन्निक्षिप्य निजासिकां समुपविश्य । पीठादिकं निजाङ्गे प्रपूज्य गन्धादिभिः सुशुद्धमनाः ॥ १९.२५॥ सद्वादशाक्षरान्तं प्रपूज्य विधिवत्किरीटमन्त्रेण । कुर्यात्पुष्पाञ्जलिमपि निजदेहे पञ्चशोऽथ वा त्रयशः ॥ १९.२६॥ इति दीक्षितविहितविधिः सम्प्रोक्तोऽष्टाक्षरस्य मन्त्रस्य । शुद्धानां विमलधियां दीक्षा प्रतिवक्ष्यतेऽथ सङ्क्षेपात् ॥ १९.२७॥ कृत्वा त्रिगुणितादीनामेकं मण्डलमुज्ज्वलम् । आत्मार्चनोक्तविधिना शक्तिभिः पीठमर्चयेत् ॥ १९.२८॥ विमलोत्र्किषणी ज्ञाना क्रिया योगेति शक्तयः । प्रह्वी सत्या तथेशानानुग्रहा नवमी तथा ॥ १९.२९॥ निधाय कलशं तत्र पञ्चगव्येन पूरयेत् । पयोभिर्वा गवां प्रोक्तैः क्वथितैर्वाष्टन्धकैः ॥ १९.३०॥ अष्टाक्षराङ्गैरष्टाष्टवर्णैरष्टाक्षरान्वितैः । दलमूले यजेद्भूयो वासुदेवादिकान्क्रमात् । सशक्तिकांस्ततो बाह्ये सम्पूज्या हरिहेतयः ॥ १९.३१॥ चक्रसशङ्खगदाम्बुजकौस्तुभशाङ्र्गाः सखङ्गवनमालाः । रक्ताच्छपीतकनकश्यामलकृष्णकाद्युशुक्लभासः स्युः ॥ १९.३२॥ ध्वजश्च वैनतेयश्च शङ्खपद्मौ दिगाश्रिताः । विघ्नार्यकौ तथा दुर्गाविष्वक्सेनौ विदिग्गताः ॥ १९.३३॥ ध्वजः श्यामो विपो रक्तो निधी शुक्लारुणप्रभौ । अरुणश्यामलश्यामपीता विघ्नादयो मताः ॥ १९.३४॥ इन्द्रादयस्तद्बहिश्च पूज्या गन्धादिभिः क्रमात् । इति विष्णोर्विधानं तु पञ्चावरणमुच्यते ॥ १९.३५॥ एवमभ्र्यिचते विष्णावुपचारैस्तु पूर्ववत् । अग्निमाधाय कुण्डे तु ब्रह्मयागसमीरितैः ॥ १९.३६॥ जुहुयादष्टभिद्र्रव्यैर्मनुनाष्टाक्षरेण तु । पृथगष्टशतावृत्त्या हुत्वा दत्वा बलिं ततः ॥ १९.३७॥ अभिषिच्य गुरुः शिष्यं प्रवदेत्पूर्ववन्मनुम् । द्वात्रिंशल्लक्षमानेन स तु मन्त्रं जपेत्ततः । तदर्धसङ्ख्यकं वापि शुद्धाचारो जितेन्द्रियः ॥ १९.३८॥ पद्मासनः प्राग्वदनोऽप्रलापी तन्मानसस्तर्जनिर्विजताभिः । अक्षस्रजो वाङ्गुलिभिर्जपेत नादिद्रुतं नातिविलम्बितं च ॥ १९.३९॥ प्रागीरितैरपि जुहोतु दशांशकं वा द्रव्यैः शुभैः सरसिजैर्मधुराप्लुतैर्वा । रत्नांशुकप्रवरकाञ्चनगोमहीभि- र्धान्यैर्यथाविभवतः प्रयजेद्गुरूंश्च ॥ १९.४०॥ विप्रान्प्रतप्र्य विभवैरथ मन्त्रजापी संह्लादयेज्जपविधिं च ततः क्रमेण । नित्यार्चना च विहिता विधनामुनैव प्रोक्तक्रमेण विदधात्वथ वात्मपूजाम् ॥ १९.४१॥ इति जपहुतार्चनाद्यैर्मन्त्री योऽष्टाक्षरं समभ्यस्येत् । स त्वैहिकीं च सिद्धिं सम्प्राप्यान्ते प्रयाति परमपदम् ॥ १९.४२॥ अङ्गानि पूर्वं त्वथ मूर्तिशक्तीः सकेशवादींश्च पुरन्दरादीन् । समर्चयेद्यस्तु विधानमेतन्नरोऽचिरात्काङ्क्षितमेति कामम् ॥ १९.४३॥ यष्टव्यः स्याद्वासुदेवादिरादौ चक्राद्याः केत्वादिकाः केशवाद्याः । इन्द्राद्याश्चेत्येवमेव प्रदिष्टं तुष्ट्यायुः श्रीकीर्त्तिसिद्ध्यै विधानम् ॥ १९.४४॥ स वासुदेवादिकमर्चयित्वा भूयो ध्वजादींश्च पुरन्दरादीन् । क्रमेण विद्वान्विधिनार्चयीते- त्ययं क्रमश्च त्रिदशाभिपूज्यः ॥ १९.४५॥ इत्युक्तविधिचतुष्के पूजयितुरथैकमपि यथाशक्ति । अचिरेण भवति लक्ष्मीर्हस्तगता सकलवर्गसिद्धिकरी ॥ १९.४६॥ अष्टाक्षराक्षराष्टकमूर्तिविधानानि भेदभिन्नानि । वक्ष्याम्यर्चयितृणां वाञ्छितसकलार्थसाधनानि सदा ॥ १९.४७॥ सिन्दूरकुन्दकरविन्दकबन्धुजीव- काश्मीरपद्ममकरन्दरुचः क्रमेण । नीलोत्पलाम्बुरुहरागसमानवर्णाः स्युर्मूर्तयोऽष्ट कथिता मनुवर्णजाताः ॥ १९.४८॥ अरिदरगदाब्जहस्ताः सर्वास्तु नकारमोर्णयोर्मन्त्री । शङ्खारिगदाब्जकरे लक्षणमन्यत्समानरूपं स्यात् ॥ १९.४९॥ या मूर्तिरच्र्यतेऽस्य व्रजन्ति परिवारितां तदवशिष्टाः । अवशिष्टेऽन्त्येऽथांशे स्वयं च परिवारितां प्रयाति तदा ॥ १९.५०॥ इयमेवावृतिरधिका ध्रुवजे ध्रुवजात्पुरा समुद्दिष्टात् । भवति विधानादिति पुनरेषां प्रथमं विधानमुद्दिष्टम् ॥ १९.५१॥ अथ द्वितीयाक्षरतोऽङ्गतोऽन्ते वर्णाष्टमूर्तीरपि मूर्तिशक्तीः । यजेद्विधाने च सकेतुलोक- पालादिकानुक्तविधानकॢप्त्या ॥ १९.५२॥ मोकारजे रतिधृती च सकान्तितुष्टि- पुष्टिस्मृतीरपि च दीप्त्यभिधां च कीर्त्तिम् । केत्वादिकं च सशतक्रतुपूर्वकं च सम्पूजयेद्विमलधीः पुनरन्वितोऽन्ते ॥ १९.५३॥ नाकारजेऽङ्गतोऽन्ते प्रपूजयेन्मूर्तिशक्तिलोकेशान् । रावर्णजेऽङ्गमूर्तिश्रीभूमायामनोन्मनीस्तदनु ॥ १९.५४॥ ह्रीः श्री रतिः सपुष्टिर्मोहनिमाये महादियोगाद्ये । माये च तृतीयावृतिरन्यदशेषं पुरैव निर्दिष्टम् ॥ १९.५५॥ यकारजेऽरिशङ्खौ च सगदाहलशाङ्र्गकाः । मुसलः खड्गशूलौ च तृतीया साक्षरोद्भवे ॥ १९.५६॥ शेषो वासुकितक्षककार्कोटकपज्र्जमहापद्माः । वरपालगुलिकसंज्ञास्तृतीयमन्यत्समं विधानेऽन्त्ये ॥ १९.५७॥ अङ्गैः प्रथमावरणं मूर्तिभिरपि शक्तिभिर्द्वितीयमपि । अन्यैः केशवकेत्वादिभ्यां स्यात्पञ्चमं च मत्स्याद्यैः ॥ १९.५८॥ मत्स्यः कूर्मवराहौ नृसिंहकुब्जत्रिरामकृष्णाश्च । कल्किः सानन्तात्मा पुनरमृतात्मा च षष्ठमहिपाद्यैः ॥ १९.५९॥ सप्तममपि लोकेशैरष्टममपि तदायुधैश्च सम्प्रोक्तम् । प्रागुक्तेषु विधानेष्वालक्ष्यं नोक्तमत्र यत्तदपि ॥ १९.६०॥ अष्टाक्षराक्षरविधानचतुष्कयुग्मं प्रोक्तक्रमेण विधिनाभियजेद्य एनम् । भक्त्या मुकुन्दमनुजापरतो नराग्र्यः प्राप्नोति वाञ्छितमयत्नत एव कामम् ॥ १९.६१॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे एकोनविंशः पटलः ॥

॥ विंशः पटलः ॥

अथ प्रवक्ष्यामि च मासभेद- भिन्नानि यन्त्राण्यपि सङ्ग्रहेण । रेखाक्रमद्युन्ति विचित्रवर्ण- लसन्ति विष्णोश्च विधानभाञ्जि ॥ २०.१॥ यैः कुर्युरिष्टाप्तिनिविष्टचेष्टा धरण्यनन्तादिकसंज्ञकानि । व्रतान्यभीष्टार्थदकल्पवृक्षैरनारतेनैव च साधकेशाः ॥ २०.२॥ मेषादिकं यच्च चतुष्कमादौ मासेषु तद्वायुगृहावृतं स्यात् । सिंहादिकं भूगृहसंवृतं च चापादिकं पार्थिवयुग्मवीतम् ॥ २०.३॥ मेषादिकेषु त्रिगुणात्मकानि चराणि भास्वद्गुणितात्मकानि । स्थिराण्यतो षड्गुणितानि तज्ज्ञैरुक्तानि यन्त्राण्युभयात्मकानि ॥ २०.४॥ तानि त्रिषड्द्वादशकात्मकोक्तैः स्युर्लक्षणैरप्यभिलक्षितानि । स्वैः स्वैश्च नामप्रविभक्तरूपभेदैर्बहिर्वेष्टितबिम्बकानि ॥ २०.५॥ त्रिगुणितमपि यन्त्रमष्टपत्रा- वृतमथ षड्गुणितं हि षड्दलाभ्याम् । स्थिरगतमपि चाष्टयुग्मपत्रं तदपि च षड्युगपत्रशोभितं वा ॥ २०.६॥ पद्मं चरोभस्थिरसंज्ञकेषु रक्तप्रपीताच्छदलादिवर्णम् । मासेषु यन्त्रोदरकॢप्ततत्तन्मासाभिधामूत्र्यभिधाक्षराढ्यम् ॥ २०.७॥ केशवमेषादीनां ये दीर्घा मुक्तिराशिवर्णानाम् । ते वृत्तानि भवन्ति च निगदितमिति यन्त्रकॢप्तिसामान्यम् ॥ २०.८॥ सुवर्णगोक्षीरजपाशिलालपीतेन्द्रनीलारुणकैरवाभाः । काश्मीरमेघाञ्जनरोचिषश्च क्रमेण वर्णैरपि केशवाद्याः ॥ २०.९॥ इतीरिताश्चारुकिरीटहारकेयूरपीताम्बरकादितुल्याः । सचक्रशङ्खाः सगदाम्बुजाश्च सम्पूजनीयास्तपनैः क्रमेण ॥ २०.१०॥ धात्रर्यममित्राख्या वरुणांशभगा विवस्वदिन्दुयुताः । पूषाह्वयपर्जन्यौ त्वष्टा विष्णुश्च भानवः प्रोक्ताः ॥ २०.११॥ प्रथमं केशवधातृकमितरन्नारायणार्यमाख्यं च । अन्या माधवमैत्रं परमपि गोविन्दवारुणं प्रोक्तम् ॥ २०.१२॥ पञ्चममपि विष्ण्वशं मधुसूदनभगवपञ्च षष्ठमपि । त्रिविक्रमविवस्वदाख्यं सप्तममन्यच्च वामनैन्द्रमपि ॥ २०.१३॥ श्रीधरपौष्णं नवमं दशमं च हृषीकनाथपर्जन्यम् । अम्बुजनाभं त्वाष्ट्रं दामोदरवैष्णवं विधानमिति ॥ २०.१४॥ आदौ विधानेषु समेतमूर्तिशक्तीश्चतस्रोऽभियजेद्यथावत् । राशिष्वथो भानुयुताश्च मूर्तीः प्रवक्ष्यमाणं च निरूप्य मन्त्री ॥ २०.१५॥ वृषहरिवृश्चिककलशात्मकेष्वथो केतुकेशवाद्यैश्च । मत्स्यादिकशेषाद्ये समभियजेदन्तरा समावरणे ॥ २०.१६॥ प्रानुप्रोद्यत्स्वराष्ट्रद्वितयवृतमहाबीजकं शक्तिलक्ष्मी- कामैरात्ताग्निकोणं बहिरभिवृतसिंहान्वितक्रोडमन्त्रम् । बिन्दूनामन्तरालेष्वपि च विलिखितैः कादिवर्गैश्च युक्तं षड्भिर्वायव्यगेहावृतमभिमतकामप्रदं मेषयन्त्रम् ॥ २०.१७॥ गौरीन्दिरा रतिधृती वसुधा पुष्टिक्षमासरस्वत्यः । मूत्र्योश्च मध्यमावृतिराशेशात्प्राग्ध्वजादिरपि कथिता ॥ २०.१८॥ हयरथगजभृत्यादिनरिभवशौर्यादिसिद्धिं च । तेजो यशश्च विपुलं पूजयितुर्वितनुते विधानमिदम् ॥ २०.१९॥ वर्णैराद्यैरमन्तैः समभिवृतमहाबीजमञ्मध्यराज- त्पान्तक्षाद्यक्षराढ्यं गुहनयनहुताश्रिराजन्मथार्णम् । अश्रेर्गण्डद्वयोद्यत्पचलिपिपरिवीतं च नाद्यैः सकान्तैः काद्यैर्नान्तैश्च यन्त्रं बहुविधफलदं पूजितं स्याद्वृषोत्थम् ॥ २०.२०॥ नित्यानन्दा व्यापिनी व्योमरूपा शान्तिर्विद्यारूपिणी च प्रतिष्ठा । कल्यामोघा चण्डिका दीप्तजिह्वे- त्येवं प्रोक्ताथावृतिः स्यात्तृतीया ॥ २०.२१॥ सुरभिहयमहिषदासीदासाभरणांशुकादिसिद्धिकरम् । वृषजं विधानमेतद्देहान्ते सिद्धिदं परस्य सतः ॥ २०.२२॥ प्रागच्छन्मात्रभिख्यालिपिपरिवृतबीजं स्वरावीतवृत्तं शाद्यैः क्षान्तैस्तदाद्यैरपि परिवृतगण्डं तदश्रात्तजुंसम् । भाद्यैः कान्तैः प्रवीतं मयरलवहयुग्बिन्दुकं वायुगेहा- वीतं वाञ्छाप्रदानप्रसवगुणयुतं युग्मजं यन्त्रमेतत् ॥ २०.२३॥ इन्द्राणी कौमारिका ब्रह्मजाता वाराह्याख्या वैष्णवी चाथ लक्ष्मीः । चामुण्डा माहेश्वरी स्यात्तृतीया रक्षाप्रज्ञाश्रीप्रदं स्याद्विधानम् ॥ २०.२४॥ पाशाद्यष्टाक्षरार्णप्रतिपुटितमहाष्टाक्षरावेष्टितान्त- र्बीजं शाखान्तरूढे गगननृहरिबीजात्तकोणं बहिश्च । कामिन्यष्टाक्षराद्यन्तगहरिहरबीजावृतं प्रत्यनूद्य द्वर्णाढ्यं वायुगेहस्थितभिति गदितं कर्कटोत्थं च यन्त्रम् ॥ २०.२५॥ रक्ता रमा कराली कमला चण्डेन्द्रिरा महोच्छुष्मा । श्रीरिति मूर्तियुगलयोर्मध्यगता चावृतीरियं चापि ॥ २०.२६॥ भूतिर्विभूतिरुन्नतिनतिधृतिरतयश्च संयतिद्युतयः । आवृतिरेका प्रोक्ता श्रीवश्यकरं विधानमिति कथितम् ॥ २०.२७॥ ऊष्मार्णाष्टाक्षरावेष्टितहृदयमथ द्वादशार्णात्तकोणं सान्तः स्थात्माष्टवर्णैः क्रमगतविगतैरुल्लसत्तत्त्वगण्डम् । सिंहानुष्टुब्द्वयार्णान्तरितवृतकलालङ्कृतं चाथ वह्नि- प्राणेशानक्षपाटाश्रितकचटतपत्वच्छलं सिंहयन्त्रम् ॥ २०.२८॥ पुष्टिस्तुष्टिर्धृतिरपि कृतिः शान्तिकान्तिप्रमादा मेधा हर्षा स्मृतिरभिमता कान्तिका स्यात्तृतीया । कृष्णः सत्यो नृहरिवरदौ विश्वमूर्त्तिर्वरेण्यः शौरिः शूरो नरमुरजितौ विष्णुजिष्णू चतुर्थी ॥ २०.२९॥ विपक्षनिग्रहं तेजो यशश्च धनसङ्गमम् । करोत्यर्चयितृणां च विधानमिति सिंहजम् ॥ २०.३०॥ सर्गाद्यान्ताद्यमन्तैरभिवृतहृदयं दण्डिभिश्चापि हाही- हूहैहौहोभिरात्ताश्रिकमथ तु शिखाद्योतिवर्गान्त्यवर्णम् । वर्णैः प्रत्यन्वितैः प्रावृतमवनिपुराश्रोल्लसत्कामबीजं क्लिन्ने स्वाहार्णयुक्तं महिततरफलं कन्यकोत्थं च यन्त्रम् ॥ २०.३१॥ अत्राच्र्यो मधुसूदनस्त्वथ हृषीकेशाह्वयो मोहिनी वैकुण्ठो विरजा हरिः सरसिजा शाङ्र्गी तमोहारिणी । ब्रघ्नाख्यः कमलावती च समुकुन्दाख्यो रमेति क्रमा- न्मत्स्याद्यैश्च सुताश्च गोमहिषसौभाग्यप्रदं पावनम् ॥ २०.३२॥ आद्यैरावीतबीजं ग्रहवलययुतं हुम्फडायुक्तकोणं बाह्ये पाशाज्रुशार्णावृतमथ युगषण्मूर्तिनामार्णमर्णैः । प्रत्यन्वेष्यद्भिरुद्यद्धरियुतहरवर्णैश्च वीतं धरायाः कोणेषूद्यन्नृसिंहाक्षरमिति कथितं स्यात्तुलायन्त्रमेतत् ॥ २०.३३॥ प्राक्प्रोक्तैश्चक्राद्यैरुक्तास्य समावृतिस्तृतीया स्यात् । प्रातोपलब्धिमेतत्करोति वाणिज्यलाभं च ॥ २०.३४॥ अक्लीबद्वादशाज्द्वादशलिपिवृतहृल्लेखमश्रिद्विषट्क- प्रोल्लास्यष्टाक्षरोष्मार्र्णकमपि लिपिभिः कादिभिश्चाभिवीतम् । तद्बाह्ये चन्द्रबिम्बप्रपुटितवसुधामण्डलाश्रिप्रराज- त्क्लीबार्णं वृश्चिकोत्थं प्रवरतरफलप्राप्तिदं यन्त्रमेतत् ॥ २०.३५॥ चिद्रूपा चिन्मया चिन्तामणिः श्रीः क्षोणिसंज्ञिता । रतिश्च पावनी धारा धरणी तारणी तथा ॥ २०.३६॥ द्राविणी मोहिनी चेति तृतीयेयं समावृतिः । अन्वयाप्तिं धर्मरतिं प्राप्नुयादस्य चार्चनात् ॥ २०.३७॥ षट्कोणाबद्धबाणासनविवरलसन्नारसिंहं तदन्तः शक्तेर्बाह्ये परानुप्ररचितलघुसन्ध्यर्णयुक्पञ्चकाढ्यम् । अश्रिष्वाबद्धशिष्टस्वरमुपरिलसच्छूलकं चात्तवर्गं भूम्योरष्टाश्रकोद्यद्यदुजुहुलवकं चापयन्त्रं तदेतत् ॥ २०.३८॥ हर्षाह्वा सुनदारुणा सगगना घोरा रमा द्राविणी वीरा वीरिणिहारिणी सहरिणी मन्दारिका द्वादश । प्रोक्तेयं च समावृतिः पुनरिदं सम्पूजयन्प्राप्नुया- ल्लक्ष्मीसन्ततिबुद्धिवश्यपटुताकान्तीश्च भक्तिं शुभाम् ॥ २०.३९॥ मध्यस्थायाः परीतौ विलसदनुपरात्तस्वरप्राक्परार्धं सिंहार्णान्ताश्रि गण्डस्फुरितहरिहरार्णं ग्रहार्णावृतं च । तद्बाह्ये षोडशार्णाक्षरवृतमुभकुद्योतितं कोणराज- त्सोऽहं हंसाक्षराढ्यं मकरभवमिदं यन्त्रमिष्टार्थदायि ॥ २०.४०॥ मेधा हर्षा श्रद्धा कृपा रतिर्वा सरस्वती प्रीतिः । वाणी चेति तृतीया वृतिरुक्ता मकरजे विधानेऽस्मिन् ॥ २०.४१॥ स्वक्षेत्रर्वितनः स्युग्र्रहाः क्रमात्केशवादिमूर्तियुताः । अर्चयितृणामेतद्धनधान्यसमृद्धिदं विधानं स्यात् ॥ २०.४२॥ शक्तिश्रीकामबीजैः पुटितहरिहरब्रह्मभिश्चावृतान्त- र्बीजं कोणद्विषट्कस्फुरितनृहरिबीजप्रतिद्योतितं च । आदिक्षान्तैश्च वर्णैर्वृतमवनिपुरद्वन्द्वकोणान्तकाम- श्रीशक्तिक्ष्मार्णचिन्तामणिमनु तदिदं श्रीकरं कुम्भयन्त्रम् ॥ २०.४३॥ अच्युतकामिनिभानुमनोज्ञा विश्वतनुर्विमला हरिभद्रे । सूक्ष्मसरस्वतिनन्दनसन्ध्या स्यादिति मध्यगता वृतिरेषा ॥ २०.४४॥ अवनिपशुपुत्रसम्पदमपि पितृसौख्यं च हृत्प्रबोधं च । कुरुते विधानमेतत्प्रयोक्तुरन्ते च निर्वृतिं परमाम् ॥ २०.४५॥ व्यन्वेष्यद्ध्रस्वदीर्घाच्समभिवृतमहाबीजमश्रेषु षट्सु द्योतत्सौर्मारलक्ष्मीगिरिदुहितृधराबीजकप्रोंसमेतम् । वीतं काद्यैः कषान्तैर्बहिरपि च कुकोणाष्टवो?ल्लासिहंसं सर्वार्थान्साधकेभ्यो वितरति विधिवत्कल्पितं मीनयन्त्रम् ॥ २०.४६॥ हृष्टिर्वृष्टिस्तुष्टिरिष्टा सुपुष्टिः कान्तिर्मेधा मङ्गला वामसंज्ञा । दुर्गा प्रज्ञा भारती मध्यसंस्था वाक्सामथ्र्यं श्रीकरं स्याद्विधानम् ॥ २०.४७॥ एभिर्विधानैर्धरणीव्रतादि- दीक्षाविधीन्ये विधिना प्रकुर्युः । ते पुण्यभाजो नितरां समृद्धाः सपुत्रदाराः सुखिनो भवन्ति ॥ २०.४८॥ दीर्घायुषो मुख्यतरेन्दिराश्च महाप्रभावाः स्वसमानवीर्याः । कलेबरान्ते विगताधयस्ते विष्णोरनन्यं पदमाप्नुवन्ति ॥ २०.४९॥ एभिर्विधेयाः कलशाश्च तत्तन्मासोक्तयन्त्रेषु नरैर्यथावत् । निजेप्सितं प्राप्य मनोरथान्ते भुक्तेश्च मुक्तेरनुभावकाः स्युः ॥ २०.५०॥ कर्षोन्मिते च हाटकपट्टे पत्रं विलिख्य चतुरश्रे । तद्वित्र्यंशकृते वा कलशेषु विनिक्षिपेच्च दीक्षासु ॥ २०.५१॥ अभिषिच्य यन्त्रकनकं गुरवे प्रददातु संयतः सुमतिः । दुरितापनोदविधये द्युतये यशसे श्रिये च मतिसंयतये ॥ २०.५२॥ एषां यागविधीनामेकेन तु पूजयंस्तदवसाने । तत्तन्मूर्तिप्रीत्यै संस्तोतव्योऽनया हरिः स्तुत्या ॥ २०.५३॥ (हरिस्तुतिः) प्रसीद भगवन्मह्यमज्ञानात्कुण्ठितात्मने । तवाङ्घ्रिपज्र्जरजोरागिणीं भक्तिमुत्तमाम् ॥ २०.५४॥ अज प्रसीद भगवन्नमितद्युतिपञ्जर । अप्रमेय प्रसीदास्मद्दुःखहन्पुरुषोत्तम ॥ २०.५५॥ स्वसंवेद्यस्वरूपास्मदानन्दात्मन्ननामय । अचिन्त्यसार विश्वात्मन्प्रसीदेश निरञ्जन ॥ २०.५६॥ प्रसीद तुङ्ग तुङ्गानां प्रसीद शिव शोभन । प्रसीद स्पष्ट गम्भीआर गम्भीराणां महाद्युते ॥ २०.५७॥ प्रसीद व्यक्त विस्तीर्ण विस्तीर्णानामणोरणो । प्रसीदाद्र्राद्र्रजातीनां प्रसीदान्तान्तदायिनाम् ॥ २०.५८॥ गुरोर्गरीयः सर्वेश प्रसीदानन्य देहिनाम् । जय माधव मायात्मञ्जय केशव केशिहन् ॥ २०.५९॥ जय सुन्दर सौम्यात्मञ्जय शाश्वत शङ्खभृत् । जय शाङ्र्गधर श्रीमञ्जय नन्दकनन्दन ॥ २०.६०॥ जय चक्रगदापाणे जयाजय्य जनार्दन । जय रत्नाकराबन्ध किरीटाक्रान्तमस्तक ॥ २०.६१॥ जय पक्षिपतिच्छायानिरुद्धार्ककराकर । नमस्त नरकाराते नमस्ते मधुसूदन ॥ २०.६२॥ नमस्ते नलिनापाङ्ग नमस्ते नयनाञ्जन । नमः पापहरेशान नमः सर्वभयापह ॥ २०.६३॥ नमः सम्भृतसर्वात्मन्नमः सम्भृतकौस्तुभ । नमस्त नयनातीत नमो विक्रान्तवाक्पथ ॥ २०.६४॥ नमो विभिन्नज्ञेयांश नमः स्मृतिपथातिग । नमस्त्रिमूर्तिभेदेन सर्गस्थित्यन्तहेतवे ॥ २०.६५॥ विष्णवे त्रिदशारातिजिष्णवे परमात्मने । चक्रभिन्नारिचक्राय चक्रिणे चक्रबन्धवे ॥ २०.६६॥ विश्वाय विश्ववन्द्याय विश्वभूतात्मने नमः । नमोऽस्तु योगिध्येयाय नमोऽस्त्वध्यात्मरूपिणे ॥ २०.६७॥ भुक्तिप्रदाय भक्तानां नमस्ते मुक्तिदायिने । मनोवाक्कायचेष्टाः स्युध्र्यानस्तुतिनमस्क्रियाः ॥ २०.६८॥ देवेश कर्म सर्वं मे भवेदाराधनं तव । विषयेष्वपि सङ्गो मे हुतं विष्णो तवाच्युत ॥ २०.६९॥ (इति हरिस्तुतिः) इति हवनजपार्चाभेदतो विष्णुपूजा- निरतहृदयकर्मा यस्तु मन्त्री चिराय । स खलु सकलकामान्प्राप्य हृष्टान्तरात्मा जननमृतिवियुक्तामुत्तमां मुक्तिमेति ॥ २०.७०॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे विंशः पटलः ॥

॥ एकविंशः पटलः ॥

अथोच्यते द्वादशवर्णसंज्ञो मन्त्रस्तु साङ्गः सजपः सहोमः । विधानतो यं प्रतिजप्य भक्ता भुक्तेश्च मुक्तेश्च पदं भवेयुः ॥ २१.१॥ तारं सहृदयं मध्ये गवते स्युर्भवार्णयोः । सुययोश्च तथा देवा मन्त्रोऽयं द्वादशाक्षरः ॥ २१.२॥ ऋषिः प्रजापतिश्छन्दो गायत्रं विष्णुरुच्यते । देवता हृद्ध्रुवेण स्यान्नमसा शिर उच्यते ॥ २१.३॥ चतुर्भिश्च शिखावर्णैः पञ्चभिः कवचं भवेत् । प्रोक्तमस्त्रं समस्तेन पञ्चाङ्गविधिरीदृशः ॥ २१.४॥ सपादजानुयुगललिङ्गनाभ्युदरेषु च । हृद्दोर्गलास्यदृङ्मस्तशिखास्वक्षरतो न्यसेत् ॥ २१.५॥ शिखाललाटनेत्रास्यगलदोर्हृदयेषु च । स्कुक्षिनाभिलिङ्गाख्यजानुपादेषु विन्यसेत् ॥ २१.६॥ हृत्कुक्षिनाभिषु तथा गुह्यजानुपदेष्वधः । करकण्ठास्यदृङ्मस्तशिखासूध्र्वं च विन्यसेत् ॥ २१.७॥ संहृतेर्दोषसंहारः सृष्टेश्च शुभपुष्टयः । स्थितेश्च शान्तिविन्यासस्तस्मात्कार्यस्त्रिधा मतः ॥ २१.८॥ हरिमुज्ज्वलचक्रदराब्जगदाकुलदोः परिघं सितपद्मगतम् । वलयाङ्गदहारकिरीटधरं नवकुन्दरुचं प्रणमामि सदा ॥ २१.९॥ विधिवदथ विहितदीक्षो जपेन्मनुं वर्णलक्षमानममुम् । शुद्धैश्च तिलैर्जुहुयाद्वादशसाहस्रकं तथा मन्त्री ॥ २१.१०॥ पीठे हरेरथाङ्गैः सशक्तिभिर्मूर्तिभिस्तदनु यजेत् । केशवसुरनाथाद्यैरपि देवं भक्तिपूर्वतो विद्वान् ॥ २१.११॥ समिधामथ दुग्धवृक्षजानां जुहुयादर्कसहस्रकं सदुग्धम् । मनसः परिशुद्धये मनस्वी सघृतेनापि पयोन्धसा सितेन ॥ २१.१२॥ द्वादशाक्षरजपं तु सार्चनं यो भजेत्सुनियतो दिने दिने । ऐहिकं समुपलभ्य वाञ्छितं प्रेत्य याति पदमक्षयं हरेः ॥ २१.१३॥ अथ प्रवक्ष्यामि सुदर्शनस्य विधिं मनोज्ञं ग्रहतेजपादैः । यत्सिद्धितः सिद्धिमवाप्य रम्यां सिद्धामुनीन्द्रा अपि सद्य एव ॥ २१.१४॥ अन्त्यतुरीयतदादिकभृगुदहनानन्तवह्निवर्मास्त्रैः । तारादिर्मनुरुक्तः स्यादभिमतसिद्धिदो रथाङ्गाख्यः ॥ २१.१५॥ ऋषिरस्याहिर्बुध्न्यश्छन्दोऽनुष्टुपं देवता विष्णुः । चक्रपदैराविसुधी सज्वालाद्यैः शिरोन्वितैरङ्गम् ॥ २१.१६॥ ऐन्द्रीं समारभ्य दिशं त्वधस्ता- दन्तं समुक्त्वा क्रमशो दशानाम् । चक्रेण बध्नामि नमस्तथोक्त्वा चक्राय शीर्षं च दिशां प्रबन्धः ॥ २१.१७॥ त्रैलोक्यं रक्ष रक्षेति हुम्फट्स्वाहेति चोदितः । तारादिकोऽयं मन्त्रः स्यादग्निप्राकारसंज्ञकः ॥ २१.१८॥ तारं तु मूध्न्र्यथ सितारुणकृष्णवर्णं मध्ये भ्रुवोश्च समथो वदने हकारम् । हृद्गुह्यजानुपदसन्धिषु चावशिष्टा- न्वर्णान्न्यसेदिति तनौ पुनरग्निवर्णान् ॥ २१.१९॥ अव्याद्भास्करसप्रभाभिरखिला भाभिर्दिशो भासय- न्भीमाक्षः क्षरदट्टहासविकसद्दंष्ट्राग्रदीप्ताननः । दोर्भिश्चक्रदरौ गदाब्जमुसलास्त्रासींश्च पाशाज्रुशौ बिभ्रत्पिङ्गशिरोरुहोऽथ भवतश्श्चक्राभिधानो हरिः ॥ २१.२०॥ प्रोक्त्वा सुदर्शनायेति विद्महेऽन्ते महापदम् । ज्वालाय धीमहे चोक्त्वा तन्नश्चक्रः प्रचोदयात् ॥ २१.२१॥ सौदर्शनीयं गायत्री जप्तव्या जप्तुमिच्छता । सान्निध्यकारिणीं मुद्रां दर्शयेदनया सुधीः ॥ २१.२२॥ नमो भगवते प्रोक्त्वा महासुदर्शनाय च । महाचक्राय च तथा महाज्वालाय चेत्यथ ॥ २१.२३॥ दीप्तिरूपाय चेत्युक्त्वा सर्वतो रक्ष रक्ष माम् । महाबलाय स्वाहेति प्रोक्तस्तारादिको मनुः । रक्षाकरः प्रसिद्धोऽयं क्रियमाणेषु कर्मसु ॥ २१.२४॥ षट्कोणान्तःस्थतारं विवरलिखितमन्त्राक्षरं सिद्धिराज- त्स्वाङ्गं बाह्ये कलाकेसरमुदरगताष्टाक्षरं चाष्टपत्रम् । पद्मं वर्णैर्विराजद्विकृतिदललसत्षोडशार्णं त्रिवीतं व्योमान्त्यार्णं स्वनाम्ना विरचितगुणपाशाज्रुशं चक्रयन्त्रम् ॥ २१.२५॥ प्रणवहृद्भगवद्युतङे महादिकरथाङ्गचतुर्थिहुमस्त्रकैः । निगदितस्त्विह षोडशवर्णको मनुवरो मुनिभिर्विहितादरः ॥ २१.२६॥ क्वाथैः पयोभूरुहचर्मसिद्धैर्दुग्धेन गव्यैरपि पञ्चभिर्वा । मूत्रैः पशोर्वा प्रतिपूर्य कुम्भं समर्चयेच्चक्रहिंर यथावत् ॥ २१.२७॥ अङ्गैः प्रथमावृतिरपि पूज्या चक्रादिभिर्द्वितीया च । लक्ष्म्यादिभिस्तृतीया क्रमात्तथेन्द्रादिभिश्चतुर्थी स्यात् ॥ २१.२८॥ चक्रशङ्खगदापद्ममुसला धनुरेव च । पाशाज्रुशौ पीतरक्तसितश्यामा द्विजस्त्विमाः ॥ २१.२९॥ लक्ष्मीः सरस्वती चाथ रतिः प्रीत्याह्वया तथा । कीर्त्तिः कान्तिस्तुष्टिपुष्टी क्रमेणैव तु शक्तयः ॥ २१.३०॥ सम्पूज्य चैवं विधिना हिंर तु शिष्यं गुरुः प्रीततमोऽभिषिञ्चेत् । भक्त्या स्वशक्त्या विभवैर्द्विजाती- न्सन्तप्र्य भूयो गुरुणानुशिष्टः ॥ २१.३१॥ एकाग्रचित्तो रविलक्षसङ्ख्यं जपेन्मनुं नित्यकृताभिपूजः । तावत्सहस्रं किल सर्षपाश्च बिल्वाज्यदौग्धानि जुहोतु सम्यक् ॥ २१.३२॥ समुद्रतीरेऽप्यथ वाद्रिश‍ृङ्गे समुद्रगानां सरितां च तीरे । जपेद्विविक्ते निज एव गेहे विष्णोगृहे वा पुरुषो मनस्वी ॥ २१.३३॥ यथोक्तसङ्ख्यं विधिवत्प्रजप्ते मन्त्रं यथोक्तैश्च हुते हुताशे । द्रव्यैरथ स्वार्थपरार्थहेतोः कुर्यात्प्रयोगान्विधिना यथावत् ॥ २१.३४॥ पीताभा र्किणका स्यादरुणतरमरं श्यामलं चान्तरालं नेमि श्वेतं च बाह्ये विरचितशितिरेखाकुलं पार्थिवान्तम् । चक्रद्वन्द्वं लिखित्वा विशदमतिरथो सौम्ययाम्यं च मन्त्री कुम्भं सम्पूर्य सौम्ये प्ररचयतु तथा दक्षिणे होमकर्म ॥ २१.३५॥ षड्विंशच्छतसम्मितैरथ घृतापामार्गजेध्माक्षतैः सद्राजीतिलपायसैश्च सकलैद्र्रव्यैर्घृतान्तैः क्रमात् । हुत्वा तद्धुतशिष्टमत्र विधिवत्क्षिप्त्वा प्रतिद्रव्यकं प्रस्थार्धान्नकृतं च पिण्डममलं कुम्भोदके मन्त्रवित् ॥ २१.३६॥ संस्थाप्य दक्षिणस्यां साध्यं कुम्भेन तेन नीराज्य । तमथ घटं सद्रव्यं बहिरारादष्टमे क्षिपेद्राशौ ॥ २१.३७॥ अग्न्यादिकमपि सर्वं क्षिपेदथ घटस्य दक्षिणे भागे । हुतशिष्टान्नेन बलिं मन्त्रेणानेन मन्त्रवित्कुर्यात् ॥ २१.३८॥ हृदयान्ते विष्णुपदं प्रोक्त्वाथ गणेभ्य उच्चरेत्सर्वम् । शान्तिकरेभ्यश्च बलिं गृह्ण्न्त्विति शान्तये नमोन्तं स्यात् ॥ २१.३९॥ ज्वारादिकां रोगपरम्परां वा विस्मृत्यपस्मारभवां रुजं वा । रक्षःपिशाचग्रहवैकृतं वा विधिस्त्वयं मुङ्क्षु हरेद्विकारम् ॥ २१.४०॥ पालाशैर्वा स्तनजद्रुमजैर्वा पञ्जरे कृते फलकैः । सम्पूर्य पञ्चगव्यैस्तत्र तु संस्थाप्य शुद्धमपि गदिनम् ॥ २१.४१॥ पूर्वोद्दिष्टैर्दिक्ष्वपि सजपं जुहुयुः पृथग्द्विजा वशिनः । द्रव्यैः स दक्षिणान्तानभ्यच्र्य विमुच्यते रुजो जन्तुः ॥ २१.४२॥ विप्रक्षीरद्रुमत्वङ्गलयजपुरकाश्मीरकुष्ठत्रियामा बिल्वापामागराजीतिलतुलसियुगक्रान्तिदूर्वायवार्कैः । लक्ष्मीदेवीकुशागोमयकमलवचारोचनापञ्चगव्यैः सिद्धेऽग्नौ कुम्भसिद्धं मनुजपमहितं भस्म सर्वार्थदायि ॥ २१.४३॥ लक्ष्म्यायुष्करमतुलं पिशाचभूता- पस्मारादिकमचिरेण नाशयेच्च । क्षुद्रादीनपि विविधांस्तथापसर्गा- नेतस्मान्न परतरा समस्ति रक्षा ॥ २१.४४॥ जुहुयाद्गुग्गुलुगुळिकासहस्रकं साष्टकं च मन्त्रितमः । त्रिदिनं चतुर्दिनं वा सर्वोपद्रवनिवारणं भवति ॥ २१.४५॥ स्वरमञ्जर्याः समिधामयुतं वा मन्त्रवित्तमो जुहुयात् । ज्वरभूतामयविस्मृत्यपस्मृतीः शमयितुं नियतचित्तः ॥ २१.४६॥ आज्याक्तैजुहुयाच्छ्रिये सरसिजैर्दूर्वाभिरप्यायुषे मेधायै द्विजभूरुहैश्च कुमुदैः श्वेतैस्तथा वाससे । शुद्धाज्यैः पशवेऽप्युदुम्बरभवैः पुत्राय चाश्वत्थजै- रेकाब्दं विधिवत्सहस्रसमितैरष्टोत्तरं मुक्तये ॥ २१.४७॥ चक्रस्य नाभिसंस्थं कृत्वात्मानं मनुं जपेन्मन्त्री । स्वयमेकोऽपि न युद्धे मत्र्यो बहुभिः पराजितो भवति ॥ २१.४८॥ मन्त्री सुनियतचित्तश्चक्रस्थं भ्रामयेद्धिया ग्रस्तम् । आविश्य सकलमुक्त्वा मुञ्चति दग्धोऽग्निना शुनाभिभुवा ॥ २१.४९॥ दीप्तं करालदहनप्रतिमं च चक्रं यस्य स्मरेच्छिरसि कस्यचिदप्रियस्य । सप्ताहतोऽस्य दहनप्रतिमो ज्वरः स्या- त्त्रिंशद्दिनैश्च स परेतपुरं प्रयाति ॥ २१.५०॥ कलावृतं चाहिपदाभिवेष्टितं समक्षरं यच्छिरसि स्मरेत्सदा । दशाहतोऽसौ प्रति चाट्यते रिपु- र्मृतिं तथा मण्डलतः प्रयाति ॥ २१.५१॥ सान्तं वायसवर्णं शत्रोः शिरसि स्मरेच्च सप्ताहम् । उच्चाटयति क्षिप्रं मारयतोवाधिवोऽस्य नैशित्यात् ॥ २१.५२॥ स्रवत्सुधार्विषणमिन्दुसप्रभं समुज्ज्वलं यच्छिरसि प्रचिन्तयेत् । क्षणात्समाप्यायितसर्वविग्रहो भवेत्स मत्र्यः सुचिरं च जीवति ॥ २१.५३॥ मध्ये तारं तदनु च मनुं वर्णशः कोण षट्के बाह्ये चाङ्गं लिखतु करके रूप्यके वापि ताम्रे । पाषाणे वा विधिवदथ जप्याथ संस्थापितं त- च्चक्रं चोरग्रहरिपुभयध्वंसि रक्षाकरं च ॥ २१.५४॥ स्थाने हृषीकेशविर्दिभतं च स्पष्टाक्षरं चाप्यभिजप्तमेतत् । रक्षां ग्रहादेः सततं विधत्ते यन्त्रं सुकॢप्तं च मनुत्रयेण ॥ २१.५५॥ अष्टाक्षरान्तरितपादचतुष्ककोष्ठं कोष्ठत्रयालिखितसाध्यसुदर्शनं च । रेखाभिरप्युभयतः श्रुतिशः प्रबद्धं तत्सप्तकोष्ठमिति यन्त्रमिदं प्रशस्तम् ॥ २१.५६॥ भूर्जे वा क्षौमपट्टे तनुमसृणतरे कर्पठे वास्य यन्त्रं मन्त्री सम्यग्लिखित्वा पुनरपि गुलिकीकृत्य लाक्षाभिवीतम् । कृत्वा भस्मादिहोमप्रविहितघृतसम्पातपातात्तशक्तिं जप्तं सम्यङ्निदध्यात्प्रतिशममुपयान्त्येव सर्वे विकाराः ॥ २१.५७॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे एकविंशः पटलः ॥

॥ द्वाविंशः पटलः ॥

अथोच्यते श्रीकरनामधेयमष्टाक्षरं लोकहिताय तावत् । येन प्रजप्तेन सर्मिचतेन हुतेन सिद्धिं समुपैति मन्त्री ॥ २२.१॥ सर्गादर्कः क्षतो विंशतियुगमयुतं शान्तगं चन्द्रबिम्बं श्रीबाहुः शुक्लमेदोहरिशयनहकारा मनुः श्रीकराख्यः । ऋष्याद्या वामपङ्क्तीरहिरपि पुनरङ्गानि यान्तैर्हुमन्तै- र्भीषत्रासप्रमर्दप्रसहितगदितध्वंसरक्षैर्द्विरुक्तैः ॥ २२.२॥ मूर्धाक्षिकण्ठहृदयोदरसोरुजानु- पादद्वयेषु लिपिशो न्यसतु स्वदेहे । विप्रादिकान्मुखकरोरुपदेष वर्णां- श्चक्रादिकानपि करेषु ततस्तदस्त्रान् ॥ २२.३॥ दुग्धाब्धिद्वीपवर्यप्रविलसितसुरोद्यानकल्पद्रुमाधो भद्राम्भोजन्मपीठोपरिगतविनतानन्दनस्कन्धसंस्थः । दोर्भिर्बिभ्रद्रथाङ्गं सदरमथ गदापज्र्जे स्वर्णवर्णो भास्वन्मौलिर्विचित्राभरणपरिगतः स्याच्छ्रिये वो मुकुन्दः ॥ २२.४॥ दिक्पत्रेषु श्रीरतिधृतिकान्तीः कोणकेषु मूर्तीश्च । इष्ट्वाभितो निधीशौ विष्वक्सेनं च दिक्पतीन्प्रयजेत् ॥ २२.५॥ आराध्य चैवं विधिना च विष्णुं मन्त्री पुनर्होमविधिं करोतु । श्रीदुग्धवृक्षोत्थसमिद्भिरब्जैः साज्येन दौग्धेन च र्सिपषा च ॥ २२.६॥ पृथगष्टशतं क्रमेण हुत्वा कनकाद्यैरपि र्तिपते गुरौ च । अभिषिच्य तथाभिपूज्य विप्रान्मनुमेनं प्रजपेदथाष्टलक्षम् ॥ २२.७॥ द्रव्यैस्तैः प्रतिजुहुयाद्दशांशमानै- राचार्यं पुनरपि पूजयेज्जपान्ते । सम्प्राप्नोत्यपरिमितां श्रियं च कीर्तित कान्तिं वा चिरमनुरज्यते च लोकैः ॥ २२.८॥ दूर्वां घृतप्रसिक्तां जुहुयादयुतं नरस्तु हुतशिष्टैः । आज्यैश्चरुमुपयुञ्ज्याद्दद्याद्गुरवे च दक्षिणां शक्त्या ॥ २२.९॥ परिपूजयेच्च विप्रांस्तेषु दिनेषु स्वशक्तितो भक्त्या । अपमृत्युरोगपापान्विजित्य स तु दीर्घमायुराप्नोति ॥ २२.१०॥ अनुदिनमादित्यमुखः प्रजपेदूध्र्वी कृतस्वबाहुयुगः । तस्य गृहेऽन्नसमृद्धिश्चिराय सञ्जायते सुपुष्टतरा ॥ २२.११॥ एवं प्रोक्तैः प्रतिजपहुतार्चादिभिर्मन्त्रमेनं भक्त्या यो वा भजति मनुजो नित्यशः सोऽचिरेण । इष्टैः पुत्रैर्धरणिधनधान्यादिभिर्हृष्टचेताः स्यादप्यन्ते परमपरिशुद्धं परं धाम विष्णोः ॥ २२.१२॥ अथ कथयामि विधानं महावराहाभिधानमन्त्रस्य । साङ्गं सजपं सहुताराधनमपि मन्त्रिणामभीष्टाप्त्यै ॥ २२.१३॥ वाक्यं प्रोक्त्वा हृदाख्यं तदनु भगवतेयुग्वराहं च रूपा- येत्युक्त्वा व्याहृतीनामुपरि च पतये भूपतित्वं च मेऽन्ते । देहीत्याभाष्य दान्तः सुमतिरथ पनर्दापयस्वेति हान्तं प्रोक्त्वा तारादिकं प्रोद्धरतु मनुवरं तत्र यिंस्त्रशदर्णम् ॥ २२.१४॥ ऋषिस्तु भार्गवः प्रोक्तोऽथानुष्टुप्छन्द ईरितम् । वराहो देवता चास्य कथ्यन्तेऽङ्गान्यतः परम् ॥ २२.१५॥ अस्यैकश‍ृङ्गो हृदयं शिरश्च व्योमोल्कतेजोऽधिपतिः शिखा च । स्याद्विश्वरूपं कवचं महाद्यो दंष्ट्रोस्त्रमुक्तं स्वयमेव चाङ्गम् ॥ २२.१६॥ सप्तभिश्च पुनः षड्भिः सप्तभिश्चाथ पञ्चभिः । अष्टभिर्मूलमन्त्रार्णैर्विदध्यादङ्गकल्पनाम् ॥ २२.१७॥ जान्वोरापादमुद्यत्कनकमिव हिमप्रख्यमाजानु नाभेः कण्ठादानाभि वह्निप्रभमथ शिरसश्चार्गलं नीलवर्णम् । मौलेव्र्योमाभमाकं करलसदरिशङ्खासिखेटं गदा श- क्त्याख्येष्टाभीतियुक्तं प्रणमत वसुधोल्लासिदंष्ट्रं वराहम् ॥ २२.१८॥ सजलाम्बुवाहनिभमुद्धतदोःपरिघं धराधरसमानतनुम् । सितदंष्ट्रिकाधृतभवं त्वथ वा प्रविचिन्तयेत्सपदि कोलमुखम् ॥ २२.१९॥ हेमप्रख्यं पार्थिवे मण्डले वा नीहाराभं नीरजेऽग्नेस्तदाभम् । वायोः कृष्णं द्युप्रभं वा दिविस्थं क्रोडं व्याप्तं सत्यसंस्थं यजेद्वा ॥ २२.२०॥ अष्टपत्रमथ पद्ममुल्लसत्र्किणकं विधिवदारचय्य च । मण्डले रविसहस्रसन्निभं सूकरं यजतु तत्र सिद्धये ॥ २२.२१॥ प्राग्दक्षिणप्रत्यगुदग्दिशासु चत्वारि चाङ्गानि यजेत्क्रमेण । अस्त्रं विदिक्षूध्र्वमधश्च चक्राद्यस्त्राणि पूज्यानि वराहमूर्तेः ॥ २२.२२॥ अरिशङ्खकृपाणखेटसंज्ञान्सगदाशक्तिवराभयाह्वयांश्च । अभिपूज्य दिशाधिपान्यथावद्वरगन्धाक्षतपुष्पधूपदीपैः ॥ २२.२३॥ दंष्ट्रायां वसुधां सशैलनगरारण्यापगां हुङ्कृतौ वागीशीं श्वसितेऽनिलं रविशशी वाह्वोश्च दक्षान्ययोः । कुक्षौ स्युर्वसवो दिशः श्रुतिपथे दस्रौ दृशोः पादयोः पद्मोत्थो हृदये हरिः पृथगमी पूज्या मुखे शङ्करः ॥ २२.२४॥ एवं काले कोलमभ्यर्चयित्वा जप्यो मन्त्रोऽसौ पुनर्लक्षसङ्ख्यम् । होमं कृत्वा तद्दशांशैश्च पद्मै- स्त्रिस्वाद्वक्तैः प्राप्नुयाद्भूसमृद्धिम् ॥ २२.२५॥ ध्यानादपि धनसिद्धिर्मन्त्रजपाच्चाधरो भवेत्सधरः । जपपूजाहुतविधिभिर्मङ्क्षु नरो धनधरेन्दिरावान्स्यात् ॥ २२.२६॥ ध्यातः सन्भूगृहेऽसौ भुवमतुलतरां वारुणे शान्तिमुच्चै- राग्नेये वश्यकीत्त्र्यादिकमनिलपुरस्थोऽयमुच्चाटनादीन् । रक्षां व्योम्नोऽरिभूतग्रहविषदुरितेभ्योऽनिलाग्न्योश्च पीडां युद्धे वह्नीरयोर्वै जयमपि नितरां सन्निधत्ते वराहः ॥ २२.२७॥ हरिस्थेऽर्केऽष्टम्यामथ सितरुचौ कोलवपुषा सितां गव्यैः सर्वैर्युतमयुतजप्तामपि शिलाम् । उदग्वक्त्रो मन्त्री मनुजपरतः स्थापयतु ता- मयत्नं क्षेत्रेषु द्रुतमरिनिरोधं शमयति ॥ २२.२८॥ भौमे वारेऽथ भानूदयमनु जपवान्सङ्गृहीत्वा मृदंशं कोलात्मा वैरिरुद्धादपि च कुतलतस्तं च कृत्वा गुणांशम् । एकं जातौ विलिप्यात्पुनरपरतरं पाकपाके तथान्यं तोये तस्मिन्सदुग्धे प्रतिपचतु हविः संस्कृते हव्यवाहे ॥ २२.२९॥ आराध्य चाष्टोध्र्वशतप्रमाणं साज्येन मन्त्री हविषाथ तेन । सप्तारवारं जुहुयाद्यथावत्क्षेत्रोत्थितापत्प्रशमं प्रयाति ॥ २२.३०॥ भृगुवारे च मुखेऽह्नः सङ्गृह्य मृदं हविः समापाद्य । जुहुयादीरितविधिना बलिमपि दद्यान्महाविरोधेषु ॥ २२.३१॥ हुतक्रियैवं दिवसैश्च सप्तभि- रिवनाशयेद्भूमिविवादसङ्कटम् । परेतवेतालपिशाचडाकिनी- समुत्थितां वा विकृतिं विधिस्त्वयम् ॥ २२.३२॥ विलोड्य तामेव मृदं च दुग्धे हुनेद्धृते वाष्टयुतं सहस्रकम् । द्विमण्डलादेव मही महाघ्र्या स्यान्मन्त्रिणोऽस्यैव तु निःसपत्ना ॥ २२.३३॥ नृपतरुसमिधामयुतं मन्त्रेणानेन यो हुनेन्मन्त्री । गृहयात्रास्य न सीदेत्क्षेत्रादिकमपि च वर्धते क्रमशः ॥ २२.३४॥ अष्टोध्र्वशतं मन्त्री दिनशो यो वा जुहोति शालीभिः । स तु वत्सरेण मन्त्री विराजते व्रीहिपुनञ्जपूर्णगृहः ॥ २२.३५॥ मन्त्रेणानेन र्सिपर्जुहुत दशशतं मण्डलात्स्वर्णसिद्धिः स्वाद्वक्तेनाञ्जलिन्या अपि कुसुमसहस्रेण वा वाससां च । लाजानां कन्यकाया अपि च मधुमतां होमतो वाञ्छितायाः सिद्धी रक्तोत्पलानामपि मधुरयुजां स्याद्धुताच्छ्रीः समग्रा ॥ २२.३६॥ दण्ड्यर्धीशो व्योमासनस्तु वाराहमुच्यते बीजम् । अमुना तु साधितेन प्राप्स्यन्ति नराः समृद्धिमतुलतराम् ॥ २२.३७॥ तारेऽमुमपि लिखित्वा तद्बाह्येऽनलपुरं समापुटितम् । तद्बाह्ये च चतुर्दलमब्जं स्यात्तद्बहिस्तथाष्टदलम् ॥ २२.३८॥ बाह्ये षोडशपत्रं मण्डलमाखण्डलीयमपि बाह्ये । मध्ये सूकरबीजे साध्यक्षेत्राख्यमन्त्रमश्रिषु च ॥ २२.३९॥ रन्ध्रेष्वङ्गमनूनपि दलमूलेऽष्टार्णकेसराणि लिखेत् । अष्टावष्टौ दलमनु सूकरमन्त्रस्य चाक्षरान्क्रमशः ॥ २२.४०॥ अन्त्येऽवशिष्टमक्षरमथाष्टपत्रे स्वराख्यकिञ्जल्के । वर्णांश्चतुश्चतुरपि तथाष्टमे पञ्च चालिखेत्पत्रे ॥ २२.४१॥ व्यञ्जनकिञ्जल्केऽन्त्ये द्वौ द्वौ त्रयमन्त्यके दले विलिखेत् । तारमहीकोलार्णैः प्रवेष्टयेत्साध्यवर्णपरिपुटितैः ॥ २२.४२॥ तद्बाह्ये मनुवर्णैर्विर्दिभताभिश्चसाध्यपदलिपिभिः । क्ष्माबिम्बचतुष्कोणे गर्भगसाध्याक्षरं चतुर्बीजम् ॥ २२.४३॥ अष्टसु शूलेषु तथा वाराहं वासुसेनसंवृत्तम् । लाक्षाकुज्रुमचन्दनलघुकर्पूरैः सरोचनैर्विलिखेत् । गोशकृदम्भोयुक्तैर्लेखिन्या हैमया दिने प्रवरे ॥ २२.४४॥ सौवर्णे राज्यसिद्धिं रजतकफलके ग्रामसिद्धिं च ताम्रे साहस्रस्वर्णसिद्धिं भुजदललिखितं चाशु संसारयात्राम् । क्षौमे लाभं धरायाः पिचुतरुफलके कार्यसिद्धिं निजेष्टां यन्त्रं सञ्जप्तकॢप्तं घृतहुतकृतसम्पातपातं करोति ॥ २२.४५॥ मन्त्री समास्थाय वराहरूपं साध्यप्रदेशे निखनेच्च यन्त्रम् । स्थिराख्यराशावभिवाह्य कोलमङ्गानि दिक्षु क्षिपतां यथावत् ॥ २२.४६॥ यन्त्रमिदं रक्षायै रोगग्रहवैकृतेषु जन्तूनाम् । सञ्जप्य शिरसि बन्ध्यात्स तु नीरोगस्त्वयत्नतो भवति ॥ २२.४७॥ इत्येवं प्रणिगदितो वराहमन्त्रो यस्त्वेनं प्रभजति नित्यशो जपाद्यैः । स प्राप्नोत्यखिलमहीसमृद्धिमस्मि- न्देहान्ते व्रजति हरेः परं पदं तत् ॥ २२.४८॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे द्वाविंशः पटलः ॥

॥ त्रयोविंशः पटलः ॥

अथ प्रवक्ष्यामि नृसिंहमन्त्रस्यानुष्टुभः सङ्ग्रहतो विधानम् । साङ्गं सजापं सहुतक्रमं च सार्चाविधानं निजवाञ्छिताप्त्यै ॥ २३.१॥ उग्रं वीरयुतं महान्तिकमथो विष्णुं ज्वलन्तान्वितं सम्प्रोक्त्वाथ च सर्वतोमुखनृसिंहार्णं तथा भीषणम् । भद्रं मृत्युयुतं च मृत्युमपि च प्रोक्त्वा नमाम्यायुतं भूयोऽहम्पदमुद्धरेन्मनुमिमं मन्त्री समस्तार्थकम् ॥ २३.२॥ ब्रह्मा प्रजापतिर्वा प्रोक्त ऋषिर्नारदश्च विद्वद्भिः । छन्दोऽनुष्टुबुदाहृतमथ विष्णुर्देवता नृसिंहाख्यः ॥ २३.३॥ वर्णैश्चतुर्भिरुदितं हृदयं शिरश्च तावद्भिरष्टभिरथास्य शिखा प्रदिष्टा । षड्भिश्च वर्म नयनं च चतुर्भिरस्त्रं प्रोक्तं क्रमेण मनुनाक्षरशः षडङ्गम् ॥ २३.४॥ सशिरोललाटदृग्युगमुखकरपदसन्धिकेषु साग्रेषु । उदरहृदोर्गलपाश्र्वेष्वपरे ककुदि क्रमान्न्यसेद्वर्णान् ॥ २३.५॥ प्रतिपत्तिरस्य चोक्ता प्रसन्नता क्रूरता विशेषेण । द्विविधा प्रसन्नया स्यात्मसाधनपूजान्यया प्रयोगविधिः ॥ २३.६॥ जान्वोरासक्ततीक्ष्णस्वनखरुचिलसद्बाहुसंस्पृष्टकेश- श्चक्रं शङ्खं च दोभ्र्यां दधदनलसमज्योतिषा भग्नदैत्यः । ज्वालामालापरीतं रविशशिदहनत्रीक्षणं दीप्तजिह्वं । दंष्ट्रोग्रं धूतकेशं वदनमपि वहन्पातु वो नारसिंहः ॥ २३.७॥ उद्यद्भास्वत्सहस्रप्रभमशनिनिभत्रीक्षणैर्विक्षरन्तं वह्नीनह्नाय विद्युत्ततिविततसटाभीषणं भूषणैश्च । दिव्यैरादीप्तदेहं निशितनखलसद्बाहुदण्डैरनेकैः सम्भिन्नं भिन्नदैत्येश्वरतनुमतनुं नारसिंहं नमामि ॥ २३.८॥ नरसिंहममुं धियैव पूर्वं प्रणिपत्याघ्र्यकपाद्यसाचमाद्यैः । प्रयजेत्सहगन्धपुष्पधूपादिभिरेवं प्रवरैश्च नृत्तगीतैः ॥ २३.९॥ सुविशदमतिरथ बहिरपि सम्यक्सम्पूज्य वैष्णवं पीठम् । तत्रावाह्य च नरहरिमुपचारैः सम्यगर्चयेत्प्रवरैः ॥ २३.१०॥ अङ्गैः प्रथमावृतिरपि पक्षीन्द्रानन्तशर्वकमलभवैः । सश्रीह्रीधृतिपुष्टिभिरपरोक्ता लोकपालकैरन्या ॥ २३.११॥ प्राक्प्रत्यग्यमशशिनां दिगाश्रया मूर्तयोऽनलादिषु च । स्युः शक्तय इत्येवं भक्त्या परया युतोऽर्चयेद्देवम् ॥ २३.१२॥ द्वात्रिंशके सहस्रैरधिकृतिरयुतैर्भवेत्पुरश्चरणम् । तावद्भिस्तावद्भिर्लक्षैः सिद्धिः समीरितास्य मनोः ॥ २३.१३॥ विकृतिद्विगुणसहस्रैर्जुहुयादाज्यान्वितैश्च दुग्धान्नैः । जपसम्पूर्तौ मन्त्री दिनशः सम्पूजयेच्च नरसिंहम् ॥ २३.१४॥ विधाय तद्बीजविशिष्टर्किणकं चतुश्चतुर्वर्णलसद्दलाष्टकम् । सुलक्षितं मण्डलमन्यलक्षणैर्निधाय तस्मिन्कलशं प्रपूर्य च ॥ २३.१५॥ यथोक्तमार्गेण समच्र्य साष्टकं सहस्रसङ्ख्यं प्रजपेन्मनुं ततः । त्रिरुच्चरन्मन्त्रमथाभिषेचयेद्यमेष मृत्योविरिफ्?निवर्तते मुखात् ॥ २३.१६॥ वर्णान्तानलभुवनार्धेन्दुभिरुक्तं नृसिंहबीजमिदम् । तन्नास्ति सम्यगमुना मन्त्रविदा साधितेन यदसाध्यम् ॥ २३.१७॥ विभवानुरूपतोऽस्मै दातव्या दक्षिणा च निजगुरवे । प्राणप्रदानकत्र्रे न तु कार्यं वित्तशाठ्यममलधिया ॥ २३.१८॥ सम्प्रीणयित्वा गुरुमात्मशक्त्या सम्भोजयेद्विप्रवरान्यथावत् । स त्वैहिकी सिद्धिमवाप्य शुद्धं परं परत्रापि पदं समेति ॥ २३.१९॥ दूर्वात्रिकैरष्टसहस्रसङ्ख्यै- राराध्य मन्त्री जुहुयादथाप्सु । शान्तिं प्रयान्त्येव तदोपसर्गा आपो हि शान्ता इति च श्रुतिः स्यात् ॥ २३.२०॥ उत्पाते महति सति ह्युपद्रवाणां होमोऽयं भवति च शान्तिदो नराणाम् । यद्वान्यन्निजमनसेप्सितं च कामं तच्चाप्नोत्यखिलनृणां प्रियश्च भूयात् ॥ २३.२१॥ दुःस्वप्नेष्वपि दृष्टेष्ववशिष्टा जाग्रता निशा नेया । जपमानमन्त्रशक्त्या सुस्वप्नो भवति तत्क्षणादेव ॥ २३.२२॥ चरन्वने दुष्टमृगाहिचोरव्यालाकुले मन्त्रममुं जपेद्यः । असाधितं साधितमेव तस्य न विद्यते भीर्बहुरूपजाता ॥ २३.२३॥ जप्तेनाष्टसहस्रं कलशेनाप्यहिविषार्तमभिषिञ्चेत् । अतिविषमेण विषेणाप्यसौ विमुक्तः सुखी भवति ॥ २३.२४॥ मूषिकलूतावृश्चिकबहुपादाद्युत्थितं विषं शमयेत् । अष्टोत्तरशतजापान्मनुरयमभिमन्त्रितं च भस्माद्यम् ॥ २३.२५॥ सशिरोक्षिकण्ठदद्गलकुक्षिरुजाज्वरविसर्पवमिहिक्काः । मन्त्रौषधाभिचारककृतान्विकारानयं मनुः शमयेत् ॥ २३.२६॥ नरहरिवपुषात्मना गृहीतं हरिणशिशुं निजवैरिणं विचिन्त्य । क्षिपतु गगनतः क्षितौ सुदूरं यमनुदिनं प्रतिचाट्यते समासात् ॥ २३.२७॥ यां च दिशं प्रति मनुना क्षिप्तोऽसौ तां दिशं प्रयात्यचिरात् । पुत्रकलत्रधनादींस्त्यक्त्वा त्वपुनर्निवृत्तये सहसा ॥ २३.२८॥ नरहरिवपुषात्मना निजारिं नखरखराग्रसमग्रभिन्नदेहम् । क्षणमिव निहतं विचिन्त्य खादन्निव जपतां मनुमेष नाशमेति ॥ २३.२९॥ पूर्वतरे मृत्युपदे विधाय निजसाध्यनाम मन्त्रितमः । क्रूरेण चक्षुषा तं दहन्निवालोक्य जपतु सप्तदिनम् ॥ २३.३०॥ दिनशोऽष्टोध्र्वसहस्रं म्रियते रिपुरस्य नात्र सन्देहः । मारणकर्म न शस्तं क्रियते यद्ययुतमथ जपेच्छान्त्यै ॥ २३.३१॥ वश्याकृष्टिद्वेषण मोहोच्चाटादिकानि यदि वाञ्छेत् । तदर्हया प्रतिपत्त्या तत्तत्कर्म प्रसाधयेन्मन्त्री ॥ २३.३२॥ दिनमनु दिननाथं पूजयित्वा दिनादौ नरहरिमपि सम्यक्प्रोक्तमार्गेण मन्त्री । तदनु तदनुमत्या भस्मना मन्त्रितेन प्रतिरचयतु राज्ञे वाप्यभीष्टाय रक्षाम् ॥ २३.३३॥ न्यासोक्तेषु स्थानेष्वपि न्यसेद्भस्मना समन्त्रार्णम् । अखिलोपद्रवशान्त्यै सम्पत्त्यै वाञ्छितार्थसंसिद्ध्यै ॥ २३.३४॥ अथ परराष्ट्रजयेच्छो राज्ञः कुर्यात्प्रयोगविधिमेवम् । नरहरिमपि विधिना तं हिरण्यकशिपुद्विषं समभ्यच्र्य ॥ २३.३५॥ तस्य पुरस्ताद्विधिवन्निधाय वह्निं विभीततरुकाष्ठैः । उज्ज्वलिते च ज्वलने समूलतूलैः शरेध्मदशशतकैः । खादन्निवोच्चरन्मनुमरींश्च भिन्दन्निव क्षिपेत्समिधः ॥ २३.३६॥ हुत्वा परराष्टेरभ्यः पृतनां सन्नाह्य च पुरस्तस्याः । निघ्नन्तं रिपुसेनां स्मरन्नृसिंहं पुरेव दितितनयात् ॥ २३.३७॥ यावज्जितारिरेष्यति नृपतिस्तावज्जपेत्स्मरन्नेवम् । सेन्द्रसुरासुररक्षोयक्षानपि जयति का कथा मनुजे ॥ २३.३८॥ श्रीकामः श्रीप्रसूनैर्दशकमथ शतानां हुनेद्बिल्वकाष्ठै- स्तत्पत्रैर्वा प्रसूनैः सुमतिरथ समिद्भिः फलैर्वा तदीयैः । पुत्रेप्सुः पुत्रजीवेन्धनचितदहने तत्फलैर्वा सहस्रं दूर्वाभिस्त्वायुषेऽब्दादभिमतमखिलं प्राप्नुयान्मन्त्रजापी ॥ २३.३९॥ ब्राह्मीं वचां वाष्टशताभिजप्तां प्रातः समद्यान्नृहिंर विचिन्त्य । सम्प्राप्य मेधां स तु वेदशास्त्र- निष्णातधीः स्यादपि वासरेण ॥ २३.४०॥ उक्तैः किमत्र बहुभिर्मनुनामुनैव सम्प्रार्थितं सकलमेव लभेद्विधिज्ञः । तस्मादमुं भजत तत्प्रतिपन्नचित्ताः संसारसागरसमुत्तरणार्थिनो ये ॥ २३.४१॥ पाशाज्रुशान्तरितशक्तिनृसिंहबीजै- र्वर्मास्त्रयुङ्मनुरयं कथितः षडर्णः । ऋष्यादिकाः स्वभवपङ्क्तिकनारसिंहा वर्णैश्च मन्त्रनिहितैः कथितं षडङ्गम् ॥ २३.४२॥ अव्यान्निव्र्याजरौद्राकृतिरभिविवृतास्योल्लसत्तीक्ष्णदंष्ट्र- श्चक्रं शङ्खं च पाशाज्रूशकुलिशगदादारणाख्यान्दधानः । रक्ताकारश्च नाभेरध उपरि सितो दिव्यभूषाविशेषो देवोऽर्काग्नीन्दुनेत्रो निखिलसुखकरो नारसिंहश्चिरं वः ॥ २३.४३॥ हृल्लेखान्तःस्थसाध्यं दहनपुरयुगाश्रिस्थमन्त्रार्णमन्तः- सिंहानुष्टुप्चतुर्वर्णकलसितदलाढ्यं कलाकेसरं च । वृत्तोद्यद्व्यञ्जनावेष्टितमवनिपुराश्रस्थचिन्तोपलं त- द्यन्त्रं रक्षःपिशाचामयविषयरिपुध्वंसनं नारसिंहम् ॥ २३.४४॥ इति विरचितयन्त्रप्रोज्ज्वले मण्डले प्रा- क्समभिहितकषायाम्भोभिरापूर्य कुम्भम् । प्रतियजतु तदङ्गैरस्त्रभेदैस्तदीयै- स्तदनु मखशताद्यैः साधुवङ्काआदिकैश्च ॥ २३.४५॥ रथचरणशङ्खपाशाज्रुशकुलिशगदाह्वयानि चास्त्राणि । दारुणमुद्राकरयोर्ययोस्तदीयौ कृपाणखेटाख्यौ ॥ २३.४६॥ इति कृतदीक्षः प्रजपेदक्षरलक्षप्रमाणकं मन्त्रम् । जुहुयाच्च षट्सहस्रं जपावसाने घृतेन शुद्धेन ॥ २३.४७॥ खरमञ्जरीसमुत्थं जुहुयादथ मञ्जरीसहस्रतयम् । प्रस्नातपञ्चगव्यं सप्तदिनं भूतशान्तये मन्त्री ॥ २३.४८॥ छिन्नरुहां समिधां त्रिसहस्रं यश्च जुहोति चतुर्दिनमात्रम् । दुग्धयुजं नचिरान्मनुजानां होमविधिज्र्वरशान्तिकरः स्यात् ॥ २३.४९॥ अस्य यन्त्रमभिलिख्य भूर्जके साधु चाथ तृणराजपत्रके । मन्त्रजप्तमपि शीर्षबन्धनाज्जूर्तिविभ्रमशिरोरुजापहम् ॥ २३.५०॥ रक्तोत्पलैः प्रतिदिनं मधुरत्रयाक्तै- र्यो वा जुहोति नियमेन सहस्रसङ्ख्यैः । मासेन वाञ्छितमवाप्स्यति मन्त्रजापी स्याद्वत्सरेण धनधान्यसमृद्धगेहः ॥ २३.५१॥ आरक्तैस्तरणिसहस्रकं प्रफुल्लै- रम्भोजैस्त्रिमधुरसंयुतैर्जुहोति । लक्ष्मीः स्यादथ महती महत्तथायुः सम्प्राप्तः सकलजगत्प्रियश्च भूयात् ॥ २३.५२॥ लाजाभिस्त्रिमधुरसंयुताभिरह्नो मासार्धं प्रतिजुहुयान्मुखे सहस्रम् । कन्यार्थी प्रतिलभते वरोऽथ कन्यां कन्या वा भवति वरार्थिनी वराढ्या ॥ २३.५३॥ तिलैः सराजीखरमञ्जरीसमि- द्धविधृतैश्च द्विसहस्रसङ्ख्यकैः । प्रजुह्वतो नैव रुजा ग्रहोद्भवा न चाभिचारक्षतिरस्य जायते ॥ २३.५४॥ दशाधिकशतैः पयोधृतयुतैश्च दूर्वात्रयै- र्हुनेद्दिनमुखेऽपि यो नरहिंर विचिन्त्यानले । अवाप्य स तु दीर्घमायुरखिलैर्वियुक्तो गदैः सुखी भवति मानवो निजकलत्रपुत्रादिभिः ॥ २३.५५॥ विस्तारैः किं प्रतिजपति यो मन्त्रमेनं यथोक्तं लब्ध्वा कामान्समभिलषितानाशु मन्त्री स भूयः । द्रव्यैराढ्यो द्विजनृपवरैः पूजितः शान्तचेताः स्यादप्यन्ते परमपरिशुद्धं परं धाम विष्णोः ॥ २३.५६॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे त्रयोविंशः पटलः ॥

॥ चतुर्विंशः पटलः ॥

अथ सम्प्रति विष्णुपञ्जरस्य प्रतिवक्ष्यामि समासतो विधानम् । जितवांस्त्रिपुरं हरोऽपि येन त्रिदशानामधिपो वलासुरं च ॥ २४.१॥ शक्तेद्र्वादशगुणिते यन्त्रे मन्त्राणि मण्डलान्यपि च । बीजानि यानि चोक्तान्येभिः कॢप्तं तु पञ्जरं विष्णो ॥ २४.२॥ विष्णुं लिखेन्मध्यगशक्तिबिन्दौ कपोलयोः सिंहवराहबीजे । तद्विश्वरूपाह्वयमन्त्रवीतं प्रवेष्टयेत्षोडशमन्त्रवर्णैः ॥ २४.३॥ तारं हृदयं भगवत्पदं महाविष्णुवासुदेवौ ङेन्तौ । विश्वादिरूपं शरणं भव मे प्रभविष्णवे नमस्यामन्त्रः ॥ २४.४॥ द्वादशाक्षरमन्त्रान्ते भवेतां कवचास्त्रकौ । स्वाहान्तषोडशार्णोऽयं मन्त्रः सर्वार्थसाधकः ॥ २४.५॥ क्रमेण तद्वर्णविकारजाताश्चक्रादिकाः षोडश मूर्तयः स्युः । याभिस्तु विष्णोरिह पञ्जरस्य प्रवर्तते शक्तिरनेकरूपा ॥ २४.६॥ यन्त्रस्य बीजेषु चतुर्षु पूर्वं प्राग्दक्षिणप्रत्यगुदग्गतेषु । विद्वांस्तु चक्रं च गदां च शाङ्र्ग खङ्गं च मन्त्रैः सहितं विलिख्यात् ॥ २४.७॥ शङ्खहलमुसलशूलान्यग्न्याद्यश्रिष्वथाष्टबीजेषु । विलिखेद्दण्डं कुन्तं शक्तिं पाशाज्रुशं कुलिशशतमुखवह्नीन् ॥ २४.८॥ सप्रणवत्दृदयभगवद्विष्णुस्वाख्यानमूर्तिधरयुक्ताः । सेनापतिसहिता निजमन्त्रान्ता मूर्तयोऽत्र लिखितव्याः ॥ २४.९॥ सहस्रारपदं पूर्वं कौमोदकि ततो भवेत् । महाशाङ्र्गपदं पश्चान्महाखड्गपदं पुनः ॥ २४.१०॥ प्रोक्तानि वर्मास्त्रान्तानि निजमन्त्राणि वै क्रमात् । पूर्वं महापाञ्चजन्यं महाहलमनन्तरम् ॥ २४.११॥ ततो महामुसलकं महाशूलं ततः परम् । स्वाहान्तानि च मन्त्राणि शङ्खादीनां क्रमाद्विदुः ॥ २४.१२॥ दण्डादीनामथाष्टानामन्ते युञ्ज्यान्नमःपदम् । पात्रोद्धृतधरं विद्वान्वाराहे विष्ण्वभिख्ययोः ॥ २४.१३॥ अन्तरा योजयेन्मन्त्री नारसिंहं पुनः सुधीः । नखं च दलितं चैव रिपुविग्रहमेव च ॥ २४.१४॥ योजयित्वा नृसिंहात्प्राक् सिंहमन्त्रं समापयेत् । विष्णोरन्ते महापक्षिराजाय च गरुत्मते ॥ २४.१५॥ हरिपूर्वं वाहनाय प्राणात्मन इतीरयेत् । नमोऽन्तोऽसौ तु विद्वद्भिर्मन्त्रो गारुत्मतो मतः ॥ २४.१६॥ स त्रिष्टुभा वह्निगृहेण पूर्वं सानुष्टुभेन्दोर्निलयेन चापि । गायत्रिमन्त्रोल्लसितेन भूयः प्रवेष्टयेदर्कनिकेतनेन ॥ २४.१७॥ अनुलोमविलोमगैश्च वर्णैरभिवीतं वसुधापुरद्वयेन । नलिनं बहिरष्टयुग्मपत्रं प्रविदध्यादथ मूर्तिमन्त्रयुक्तम् ॥ २४.१८॥ तद्बहिर्मण्डलं सर्वलक्षणैरभिलक्षितम् । तस्मिन्नावाह्य विधिवद्विश्वरूपहिंर यजेत् ॥ २४.१९॥ अग्नीषोमात्मकमरिगदाशाङ्र्गखड्गैः सशङ्खै- रुद्यद्बाहुं हलमुसलशूलैः सकुन्तैः सदण्डैः । शक्त्या पाशाज्रुशकुलिशटज्रग्निभिश्चार्कवह्नि- द्योतद्वक्त्राङ्घ्रिकसरसिजं तप्तकार्तस्वराभम् ॥ २४.२०॥ विष्णुं भास्वत्किरीटं मणिमकुटकटीसूत्रकेयूरहार- ग्रैवेयोम्र्यादिमुख्याभरणमणिगणोल्लासिदिव्याङ्गरागम् । विश्वाकाशावकाशप्रविततमयुतादित्यनीकाशमुद्य- द्बाह्वग्रव्यग्रनानायुधनिकरकरं विश्वरूपं नमामि ॥ २४.२१॥ अभ्यच्र्य पूर्ववत्पीठं नवशक्तिसमन्वितम् । अर्चयेत्क्रमशो विद्वान्मूर्तिशक्तिचतुष्टयम् ॥ २४.२२॥ चक्रं च चक्राज्र्किरीटमौलिं सचक्रशङ्खं सगदं सशाङ्र्गम् । रक्ताम्बरं रक्ततनुं कराल- द्रष्ट्राननं प्राग्दलकेऽर्चयीत ॥ २४.२३॥ पूज्या गदा गदाज्र्तिमौलि सगदा सचक्रशङ्खधनः । पीताम्बरानुलेपा पीता क्रुद्धा च याम्यसंस्थदले ॥ २४.२४॥ श्यामं शाङ्र्गाज्र्तिकं शाङ्र्गारिदरगदाहस्तम् । रक्तांशुकानुलेपनमाल्यादिं वारुणे यजेत्पत्रे ॥ २४.२५॥ खड्गं सखड्गशिरसं खड्गारिगदाधनुष्करं धूम्रम् । विकृताम्बरानुलेपस्रजं समभ्यर्चयेदुदक्पत्रे ॥ २४.२६॥ शङ्खं सशङ्खशिरसं शङ्खारिगदाधनुष्करं सुसितम् । सितवसनमाल्यभूषं यजेन्महानादमग्निसंस्थदले ॥ २४.२७॥ शङ्खोक्तचिह्नभूषान्स्वास्त्रादिकधरचतुर्भुजानपरान् । हलमुसलशूलसंज्ञान्यजेन्निशाटादिकेषु पत्रेषु ॥ २४.२८॥ दण्डादिकांस्तथाष्टौच्छिद्रदलेष्वर्चयीत रक्ताभान् । स्वस्वायुधप्रधानांश्चतुर्भुजाञ्शतमुखानलान्तांश्च ॥ २४.२९॥ दंष्ट्राग्रलग्नवसुधं सजलाम्बुवाह- चोरार्चिषं त्वभियजेदधरेऽष्टबाहुम् । चक्रासिबाणसगदादरचर्मशाङ्र्ग- शक्त्याख्यकान्दधतमादिमहावराहम् ॥ २४.३०॥ अर्कानलोज्ज्वलमुखं नयनैस्त्रिभिश्च वह्निं क्षरन्तमवधूतसटाकलापम् । शुक्लाभभूषमरिशङ्खगदासिबाहुं भूयोऽभिराधयतु खे च महानृसिंहम् ॥ २४.३१॥ अगेर समग्रबलमुग्रतनुं स्वपक्ष- विक्षेपविक्षतविलक्षविपक्षपक्षम् । खण्डाग्रतुण्डममुमण्डजदण्डनाथ- माराधयेदथ च पञ्जरगस्य विष्णोः ॥ २४.३२॥ भूयोऽपि केशवेन्द्रादिकौ समभ्यर्चयेच्च वङ्काआदीन् । गन्धादिभिरुपचारैः पञ्चभिरथ संयतात्मको मन्त्री ॥ २४.३३॥ निवेदिते होमविधिश्च कार्यो दीक्षाविधानाभिहितश्च वह्नौ । सर्सिपषान्नेन तु वह्निमूर्ति हुत्वा तु विष्णोर्मनुना तथैव ॥ २४.३४॥ जुहुयाच्च वामदेवादिकशान्त्यादींश्च रुद्रसङ्ख्येन । दुग्धतरूत्थाः समिधः क्रमेण चक्रादिभिश्चतुर्मन्त्रैः ॥ २४.३५॥ जुहुयादष्टोध्र्वशतं सङ्ख्याद्यैद्र्वादशभिरथ मनुभिः । तिलसिद्धार्थैर्जुहुयाद्विकारसङ्ख्यं पृथक्पृथङ्मन्त्री ॥ २४.३६॥ त्रिष्टुबनुष्टुप्तत्पदमन्त्रैर्मन्त्रार्णसङ्ख्यकं हविषा । सघृतेन केशवाद्यैर्दिनकरसङ्ख्यं तथेन्द्रवङ्काआद्यैः । जुहुयात्पृथगपि वसुमितमथ च महाव्याहृतीर्हुनेन्मतिमान् ॥ २४.३७॥ आराध्य च विसृज्याग्निमभिषिच्य सुसंयतः । विष्णोस्तु पञ्जरं कुर्यादृषिब्र्रह्मबृहस्पती ॥ २४.३८॥ छन्दस्त्वनुष्टुप् त्रिष्टुप् च मुनिभिः समुदाहृते । विश्वरूपादिको विष्णुर्विष्णुपञ्जरदेवता ॥ २४.३९॥ अष्टार्णचक्रमनुमध्यगतैश्च पादै- व्र्यस्तैस्तथा सुमतिरारचयेत्समस्तैः । गीतामनोः क्रमश एव च जातियुञ्जि पञ्चाङ्गकानि हरिपञ्जरकल्पितानि ॥ २४.४०॥ विष्णुः प्राच्यादिकमथ जपेन्नारसिंहोऽम्बरान्तं त्रिस्त्रिर्मन्त्रान्पुनरपि तथा पञ्चशस्त्वेकविंशत् । बुद्धिस्वास्थ्यप्रभृति च तथा पञ्चवारं त्रिगाधा भूयो जप्याद्विमलशितधीश्चक्रमन्त्राभिधानम् ॥ २४.४१॥ नमो भगवते सर्वविष्णवे विश्वरूपिणे । वासुदेवाय चक्रादिसर्वायुधभृते नमः ॥ २४.४२॥ अर्केन्दुवह्निनिलयस्फुरितत्रिमन्त्र- शक्तिप्रबन्धमहसः परमस्य विष्णोः । पादारविन्दगलितामृतसिक्तगात्रं साध्यं स्मरेज्जपविधावपि साधकेशः ॥ २४.४३॥ विष्णोः सान्निध्यलब्धोल्लसितबलचलद्धस्तदण्डोद्यतास्त्रै- श्चक्राद्यैर्भीषणास्येक्षणचरणवचोहासहुङ्कारघौरैः । उत्क्षिप्ताक्षिप्तकृत्तस्फुटितविगलिताघूर्णितध्वस्तशान्ता ध्यायेद्वेतालभूतग्रहदुरितपिशाचारिनागारिरोगान् ॥ २४.४४॥ पूर्वं स्थाने हृषीकेशमन्त्रयुक्तं विधानवित् । विश्वरूपात्मकं जप्याद्वैष्णवं मूलमन्त्रकम् ॥ २४.४५॥ योजयित्वा जपेत्पश्चाच्चक्रादिषु यथाक्रमम् । चतुर्षु चतुरः पादान्गीतात्रिष्टुप्समुद्भवान् ॥ २४.४६॥ पूर्णेषु षोडशेष्वेवमाद्यं पादे वराहके । द्वितीयान्नारसिंहे च द्वितीयं गारुडे पुनः ॥ २४.४७॥ चतुर्थं च क्रमं ते च योजयित्वा जपेत्सुधीः । मन्त्रं सुदर्शनं चेत्थमिष्टमष्टादशं मनुम् ॥ २४.४८॥ संयोज्य कृच्छ्रे महति जपेन्मन्त्री विधानवित् । आग्नेये वक्ष्यमाणेन विधानेन समाहितः ॥ २४.४९॥ सिकतोपलसर्वादीन्साधयेदथ तैः क्रियाः । वास्तौ पुरे वा ग्रामे वा विदध्याद्विषयेऽपि वा ॥ २४.५०॥ मध्ये च षोडशाशान्ते खनेदष्टदशावटान् । अष्टादशं तु शक्रस्य विदध्यात्पुरतोऽवटम् ॥ २४.५१॥ हस्तागाधांस्तथायामांश्चतुरश्रान्समन्ततः । अन्योन्यतश्चङ्क्रमार्थं शुद्धान्मार्गान्विधाय च ॥ २४.५२॥ गोमयेनोपलिप्येत नारीयस्थाप्यवस्त्वपि । शुष्कपुष्करपत्रेषु विदध्याद्विंशतिष्वपि ॥ २४.५३॥ ततो मध्यमकुण्डस्य प्रविश्य पुरतो गुरुः । तदन्तरिष्ट्वा पीठं च तत्र यन्त्रमनुस्मरन् ॥ २४.५४॥ स्थापयेद्वैष्णवे स्थाने विश्वरूपधिया सुधीः । ततः क्रमेण चक्रादीन्दिक्कुण्डेषु चतुष्र्वपि ॥ २४.५५॥ पुनः शङ्खादिकांस्तद्वत्कुण्डेष्वश्राश्रितेष्वपि । तथा दण्डादिकानष्टौ च्छिद्राशासु प्रकल्पयेत् ॥ २४.५६॥ मध्ये पुनरधश्चोध्र्वं कोलकेसरिणौ यजेत् । चक्रस्य प्राक्तने कुण्डे स्थापयेद्विनतासुतम् ॥ २४.५७॥ ततः समस्थलीकृत्य क्रमात्समुलिप्य च । प्रत्यगानन आसीनो मध्यगस्थण्डिलस्थिते ॥ २४.५८॥ यज्ञे काञ्चनपत्रस्थे पूजयेत्पूर्ववत्प्रभुम् । वादित्रघोषबहुलं निवेद्यान्तं यथाक्रमम् ॥ २४.५९॥ हुनेच्च पूर्वसन्दिष्टैद्र्रव्यैः पूर्वोक्तमार्गतः । आशोपाशान्तराशासु बलिं दद्यात्त्रिशस्त्रिशः ॥ २४.६०॥ क्रमाच्चक्रादिमूर्तीनां पञ्चपूरान्धसा सुधीः । तत उद्वास्य देवेशं पूजां प्रतिसमाप्य च ॥ २४.६१॥ दत्वा सुवर्णं वासांसि गुरवे ब्राह्मणानपि । सन्तप्र्य विभवैः सम्यग्भोजयेद्देवताधिया ॥ २४.६२॥ तत्रोपसर्गा नश्यन्ति नरनारीमहीभृताम् । ग्रहक्षुद्रपिशाचाद्या नेक्षन्ते तां दिशं भयात् ॥ २४.६३॥ अश्मपातादिका ये च भया नश्यन्ति ते चिरात् । सस्यद्र्धिर्गोसमृद्धिश्च प्रजावृद्धिश्च जायते ॥ २४.६४॥ धनधान्यसमृद्धिश्च वर्धते तत्कुलं क्रमात् । दारिद्र्यरोगनिर्मुक्तं सुखमाभूतसम्प्लवम् ॥ २४.६५॥ रक्षोभिरक्षितबलैरसुरैश्च दैत्यैः सर्वैः समुद्धृतमहास्त्रकरैः परीतम् । विष्णोस्तु पञ्जरमिदं प्रभजन्तमव्या- त्साक्षादपीन्द्रमपरत्र नरे कथा का ॥ २४.६६॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे चतुर्विंशः पटलः ॥

॥ पञ्चविंशः पटलः ॥

अथाभिधास्यामि मनुं समासा- त्प्रासादसंज्ञं जगतो हिताय । ये न प्रजप्तेन तथार्चितेन हुतेन सिद्धिं लभते यथेष्टम् ॥ २५.१॥ प्रसादनत्वान्मनसो यथावत्प्रासादसंज्ञास्य मनोः प्रदिष्टा । अन्त्यात्तृतीयः प्रतिलोमतः स्यादनुग्रहार्धेन्दुयुतश्च मन्त्रः ॥ २५.२॥ ऋषिरस्य वामदेवः पङ्क्तिश्छन्दोऽस्य देवतेशः स्यात् । तेनैवाक्लीबकलादीर्घयुजाङ्गानि तस्य बीजेन ॥ २५.३॥ शूलाही टज्र्घण्टासिसृणिकुलिशपाशाग्न्यभीतीर्दधानं दोर्भिः शीतांशुखण्डप्रतिघटितजटाभारमौलिं त्रिणेत्रम् । नानाकल्पाभिरामापघनमभिमतार्थप्रदं सुप्रसन्नं पद्मस्थं पञ्चवक्त्रं स्फटिकमणिनिभं पार्वतीशं नमामि ॥ २५.४॥ ईशानादीन्मन्त्रवित्पञ्च मन्त्रानङ्गुष्ठादिष्वङ्गुलीषु क्रमेण । न्यस्येदज्भिव्र्युत्क्रमाद्व्योमगाभिह्र्रस्वख्याभिस्ताभिरेवाङ्गुलीभिः ॥ २५.५॥ ईशानस्तत्पुरुषोऽघोराख्यो वामदेवसंज्ञश्च । सद्योजाताह्वय इति मन्त्राणां देवताः क्रमात्पञ्च ॥ २५.६॥ मूर्धाननत्दृद्गुह्यकपादेषु च नामभिः स्वबीजाद्यैः । ऊध्र्वप्राग्दक्षोदक्पश्चिमगेष्वाननेषु विन्यस्येत् ॥ २५.७॥ प्रतिपाद्य निजं शरीरमेवं प्रजपेदिन्द्रियलक्षकं शिवात्मा । जुहुयाच्च दशांशतस्तदन्ते मधुराक्तैः करवीरजप्रसूनैः ॥ २५.८॥ अथ वा कुसुमैर्जपासमुत्थैः कमलैर्वा विमलेन पायसेन । नृपवृक्षभवैः समिद्वरैर्वा जुहुयात्साधकसत्तमः समृद्ध्यै ॥ २५.९॥ अष्टपत्रगुणवृत्तराशिभिर्वीथिकल्पतरुभिः समावृतम् । मण्डलं प्रतिविधाय शूलिनः पीठमत्र नवशक्तिभिर्यजेत् ॥ २५.१०॥ वामा ज्येष्ठा रौद्री काल्या कलबलाद्यविकलिन्यौ । सबलप्रमथिनिसर्वभूतदमन्यौ मनोन्मनीं च यजेत् ॥ २५.११॥ तारादिकं नतिमपि प्रोक्त्वा भगवत्पदं चतुथ्र्यन्तम् । सकलगुणात्मपदान्ते शक्तिं युक्ताय चेति सम्भाष्य ॥ २५.१२॥ भूयोऽनन्तायेति च योगान्ते पीठमात्मने चेति । नमसा युक्तं ब्रूयात्पीठाख्योऽयं मनुः समुद्दिष्टः ॥ २५.१३॥ न्यासक्रमेण देहे मन्त्री गन्धादिकमपि पूज्य । पूर्वोक्तदिक्षु मूर्तीर्विदिक्षु सनिवृत्तिपूर्विकाश्च यजेत् ॥ २५.१४॥ सद्यो वेदाक्षमालाभयवरदकरः कुन्दमन्दारगौरो वामः काश्मीरवर्णोऽभयवरदपरश्चाक्षमालाविलासी । अक्षस्रग्वेदपाशाज्रुशडमरुकखट्वाङ्गशूलान्कपालं बिभ्राणो भीमदंष्ट्रोऽञ्जनरुचिरतनुर्भीतिदश्चाप्यघोरः ॥ २५.१५॥ विद्युद्वर्णोऽथ वेदाभयवरदकुठारान्दधत्पूरुषाख्यः प्रोक्ताः सर्वे त्रिणेत्रा विधृतमुखचतुष्काश्चतुर्बाहवश्च । मुक्तागौरोऽभयेष्टाधिककरकमलोऽघोरतः पञ्चवक्त्र- स्त्वीशो ध्येयोऽम्बुजन्मोद्भवमुररिपुरुद्रेश्वराः स्युः शिवान्ताः ॥ २५.१६॥ भूतानां शक्तित्वाद्व्याप्तित्वाज्जगति वा निवृत्त्याद्याः । तेजोरूपाः करपदवर्णविहीना मनीषिभिः प्रोक्ताः ॥ २५.१७॥ अनन्तसूक्ष्मौ च शिवोत्तमश्च तथैकपूर्वावपि नेत्ररुद्रौ । त्रिमूर्तिश्रीकण्ठशिखण्डिनश्च प्रागादिपत्रेषु समर्चनीयाः ॥ २५.१८॥ शूलाशनिशरचापोल्लासितदोर्दण्डभीषणाः सर्वे । पद्मासनाश्च नानाविधभूषणभूषितास्त्रिणेत्राः स्युः ॥ २५.१९॥ पाटलपीतसितारुणशितिरक्तशशिप्रभाश्च धूम्रान्ताः । कोटीरघटितविलसच्छशिशकलयुताश्च मूर्तयः क्रमशः ॥ २५.२०॥ उमा चण्डेश्वरो नन्दी महाकालो गणेश्वरः । वृषो भृङ्गिरिटः स्कन्दः सम्पूज्याश्चोत्तरादितः ॥ २५.२१॥ कनकविडूरजविद्रुममरकतमुक्तासिताच्छरक्ताभाः । पद्मासनसंस्थाश्च क्रमादुमाद्या गुणान्तिकाः प्रोक्ताः ॥ २५.२२॥ पुनराशेशास्तदनु च कुलिशाद्यादिक्रमेण सम्पूज्याः । प्रासादविधानमिदं निगदितमिति सकलवर्गसिद्धिकरम् ॥ २५.२३॥ अमुना विधिना महेशपूजां दिनशो यः कुरुते समाहितात्मा । स तु सम्यगवाप्य दृष्टभोगान्परमन्ते परिपूर्णमेति धाम ॥ २५.२४॥ वक्ष्यामि शैवागमसारमष्टत्रिंशत्कलान्यासविधिं यथावत् । सपञ्चभिब्र्रह्महरीशपूर्वैः सष्र्यादिकैः साङ्गविशेषकैश्च ॥ २५.२५॥ ईशोऽनुष्टुब्भूरीश्वराः स तत्पुरुषसंज्ञगायत्र्यापः । पुनरग्न्यनुष्टुबापो वामदेवः कतिभर्गहरस्त्वनुष्टुब्भगयुक् ॥ २५.२६॥ इन्द्रियतारसमेतं सर्वज्ञायेति हृच्छिरस्त्वमृते । तेजोमालिनिपूर्वं तृप्ताय ब्रह्मशिरस इति कथितम् ॥ २५.२७॥ ज्वलितशिखिशिखेत्यनादिबोधाय चान्वितेति शिखा । वङ्किआणे वङ्काधराय स्वाहास्वतन्त्राय वर्म नेत्रं च । सौ सौ हौ बिन्दुयुतं सम्प्रोक्त्वा लुप्तशक्तये च तथा ॥ २५.२८॥ सश्रीपशुहुम्फडनन्तशक्तये तथास्त्रं स्यात् । समुनिच्छन्दोदैवतयुक्तं तदङ्गषट्कमिति कथितम् ॥ २५.२९॥ करदेहमुखन्यासं मन्त्रैः पूर्ववदाचरेत् । कलाः प्रविन्यसेद्देहे वक्ष्यमाणक्रमेण तु ॥ २५.३०॥ ताः स्युः पञ्च चतस्रोऽष्टौ त्रयोदश चतुद्र्वयम् । अष्टत्रिंशत्कलाः सम्यङ् न्यस्तव्या मन्त्रवित्तमैः ॥ २५.३१॥ दिक्षु प्राग्याम्यवारीवसुपनिजभुवामैन्द्रवार्रिकराज्ञां हृद्ग्रीवांसद्वयीनाभ्युदरचरमवक्षःसु गुह्याज्र्योश्च । सोर्वोर्जान्वोः सजङ्घास्फिगुभयकटीपाश्र्वपद्दोस्तलेषु घ्राणे कं बाहुयुग्मेष्वतिविशदमतिर्विन्यसेदङ्गुलीभिः ॥ २५.३२॥ विन्यासः प्रतिमाकृतौ च नितरां सान्निध्यकृत्स्यादयं देहे चापि शरीरिणां निगदितः सामथ्र्यकारीति च । आस्ते यत्र तथामुनैव दिनशो विन्यस्तदेहः पुमा- न्क्षेत्रं देशममुं च योजनमितं शैवागमज्ञा विदुः ॥ २५.३३॥ न्यस्यैवं पञ्चभिब्र्रह्मभिरथ शिवमाराधयेदृग्भिराभि- र्मध्यप्राग्याम्यसौम्यापरदिशि पुनरङ्गैरनन्तादिभिश्च । अन्यो माद्यैर्दिशापैः पुनरपि कुलिशाद्यैर्यजेदेवमुक्तं पाञ्चब्रह्मं विधानं सकलसुखयशोभुक्तिमुक्तिप्रदं च ॥ २५.३४॥ पञ्चाक्षरविहितविधिं वक्ष्ये जपतामभीष्टसिद्धिकरम् । सिद्धेन येन देही प्रेत्येह च वाञ्छितं फलं लभते ॥ २५.३५॥ मेषो विषो विसर्गी मृत्युः साक्षी सवाक्षरः पवनः । ताराद्भवति यदस्मात्तदादिरभिधीयते मनुप्रवरः ॥ २५.३६॥ अस्याक्षराण्यमूनि च पञ्च स्युः पञ्चभूतगानि तथा । जगदपि भूतारब्धं तेन हि जगदात्मतोदितास्य मनोः ॥ २५.३७॥ प्रोक्तमृष्यादिकं पूर्वमङ्गवर्णैस्तु मन्त्रकैः । अङ्गुलीदेहवक्त्रेषु मूलमन्त्राक्षरादिकान् ॥ २५.३८॥ न्यसेत्तत्पुरषाघोरसद्योवामेशसंज्ञकान् । सतर्जनीमध्यमान्त्यानामिकाङ्गुष्ठकेषु च ॥ २५.३९॥ वक्त्रहृत्पादगुह्याख्यमूर्धस्वपि च नामभिः । प्राग्याम्यवारुणोदीच्यवक्त्रेष्वपि च मूर्धसु ॥ २५.४०॥ बिभ्रद्दोर्भिः कुठारं मृगमभयवरौ सुप्रसन्नो महेशः सर्वालङ्कारदीप्तः सरसिजनिलयो व्याघ्रचर्मात्तवासाः । ध्येयो मुक्तापरागामृतरसकलिताद्रिप्रभः पञ्चवक्त्र- स्त्र्यक्षः कोटीरकोटीघटिततुहिनरोचिष्कलोत्तुङ्गमौलिः ॥ २५.४१॥ अक्षरलक्षचतुष्कं जप्यात्तावत्सहस्रमपि जुहुयात् । शुद्धैस्तिलैर्घृतैर्वा दुग्धान्नैर्दुग्धभूरुहेध्मैर्वा ॥ २५.४२॥ तत्पुरुषाद्याः सर्वे प्रधानसम्प्रोक्तबाहुहेतियुताः । उल्लासिमुखचतुष्कास्तेजोरूपो विलक्षणस्त्वीशः ॥ २५.४३॥ आवृतिराद्या मूर्तिभिरङ्गैरन्या पराप्यनन्ताद्यैः । अपरोमादिभिरपरेन्द्राद्यैरपरा तदायुधैः प्रोक्ता ॥ २५.४४॥ कथयामि मनोविधानमन्य- न्मुनिपूज्यं प्रवरं पिनाकपाणेः । स्वतनौ परिकल्प्य पीठमङ्गा- न्यपि विन्यस्य तथैव मन्त्रवर्णान् ॥ २५.४५॥ हृन्मुखांसोरुयुग्मेषु षड्वर्णान्क्रमतो न्यसेत् । कर्णमूले तथा नाभौ पाश्र्वयुक्पृष्ठहृत्सु च ॥ २५.४६॥ मूर्धास्यनेत्रघ्राणेषु दोःपत्सन्ध्यग्रकेषु च । सशिरोवक्त्रहृदयजठरोरुपदेष्वपि ॥ २५.४७॥ हृदाननपरश्वेणाभीत्याख्यवरदेषु च । मुखांसहृदयेषु त्रीन्पदान्पादोरुकुक्षिषु ॥ २५.४८॥ ऊध्र्वाधःक्रमतो न्यस्येद्गोलकान्यासमुत्तमम् । पुनस्तत्पुरुषाघोरसद्योवामेशसंज्ञकान् ॥ २५.४९॥ ललाटद्व्यंसजठरहृदयेषु क्रमान्न्यसेत् । पुनस्तत्प्रतिपत्त्यर्थं जपेन्मन्त्रमिमं सुधीः ॥ २५.५०॥ नमोऽस्तु स्थाणुभूताय ज्योतिर्लिङ्गावृतात्मने । चतुर्मूर्तिवपुश्छायाभासिताङ्गाय शम्भवे ॥ २५.५१॥ कुर्यादनेन मन्त्रेण निजदेहे समाहितः । मन्त्री पुष्पाञ्जलिं सम्यक्त्रिशः पञ्चश एव वा ॥ २५.५२॥ पूर्वोक्त एव पीठे प्रागङ्गैर्मूर्तिशक्तिभिस्तदनु । वृषपालचण्डदुर्गागुहनन्दिगणपसैन्यपाः पूज्याः ॥ २५.५३॥ अन्या च वासवाद्यैः पुनरुपहारैः क्रमेण भक्तिमता । अभ्र्यिचते हुते च स्तोतव्यः संस्तवेन पुनरीशः ॥ २५.५४॥ (शिवस्तुतिः) नमो विरिञ्चविष्ण्वीशभेदेन परमात्मने । सर्गसंस्थितिसंहारव्यावृत्तिव्यक्तवृत्तये ॥ २५.५५॥ नमश्चतुर्धा प्रोद्भूतभूतभूतात्मने भुवः । भूरिभारार्तिसंहत्र्रे भूतनाथाय शूलिने ॥ २५.५६॥ विश्वग्रासाय विलसत्कालकूटविषाशिने । तत्कलज्रज्र्तिग्रीवनीलकण्ठाय ते नमः ॥ २५.५७॥ नमो ललाटनयनप्रोल्लसत्कृष्णवत्र्मने । ध्वस्तस्मरनिरस्ताधियोगिध्याताय शम्भवे ॥ २५.५८॥ नमो देहार्धकान्ताय दग्धदक्षाध्वराय च । चतुर्वर्गेष्वभीष्टार्थदायिने मायिनेऽणवे ॥ २५.५९॥ स्थूलाय मूलभूताय शूलदारितविद्विषे । कालहन्त्रे नमश्चन्द्रखण्डमण्डितमौलये ॥ २५.६०॥ विवाससे कपर्दान्तभ्र्रान्ताहिसरिदिन्दवे । देवदैत्यासुरेन्द्राणां मौलिघृष्टाङ्घ्रये नमः ॥ २५.६१॥ भस्माभ्यक्ताय भक्तानां भुक्तिमुक्तिप्रदायिने । व्यक्ताव्यक्तस्वरूपाय शङ्कराय नमो नमः ॥ २५.६२॥ नमोऽन्धकान्तकरिपवे पुरद्विषे नमोऽस्तु ते द्विरदवराहभेदिने । विषोल्लसत्फणिकुलबद्धमूर्तये नमः सदा वृषवरवाहनाय ते ॥ २५.६३॥ वियन्मरुद्धुतवहवार्वसुन्धरा- मखेशरव्यमृतमयूखमूर्तये । नमः सदा नरकभयावभेदिने भवेह नो भवभयभङ्गकृद्विभो ॥ २५.६४॥ (इति शिवस्तुतिः) स्तुत्वेन्दुखण्डपरिमण्डितमौलिमेव- मुद्वासयेत्पुनरमुं हृदयाम्बुजे स्वे । अभ्यच्र्य देवमभिसंयतचित्तवृत्ति- र्भूत्वा शिवो जपतु मन्त्रमहेशमेनम् ॥ २५.६५॥ सन्तप्र्य विप्रान्पुनरेवमेव सम्पूजयेदिन्दुकलावतंसम् । जपेद्यथाशक्ति शिवस्वरूपी भूत्वा ततोऽन्ते च शिवः स भूयात् ॥ २५.६६॥ अमुमेव मनुं लक्षं मन्त्री हृल्लेखयाभिसंरुद्धम् । जप्त्वा नृपतरुसमिधां मधुरयुजा मनुसहस्रकं जुहुयात् ॥ २५.६७॥ वन्दे हरं वरदशूलकपालहस्तं साभीतिमद्रिसुतयोज्ज्वलदेहकान्तिम् । वामोरुपीठगतया निजवामहस्त- न्यस्तारुणोत्पलरुचा परिरब्धदेहम् ॥ २५.६८॥ आवृतिरङ्गैराद्या हृल्लेखाद्याभिरनु वृषाद्यैश्च । मात्राशेशैरुक्तं पञ्चावरणं विधानमीशस्य ॥ २५.६९॥ आप्यायिनी शशियुताप्यरुणाग्निमाया बिन्द्वन्तिका चलकुलीभुवनेन्दुयुक्ता । दीर्घाकलायुतशिवश्च शिवायवर्णा- स्याच्छूलिनो मनुरयं वसुवर्णयोगी ॥ २५.७०॥ वामाज्र्न्यस्तवामेतरकरकमलायास्तथा वामबाहु- व्यस्तारक्तोत्पलायाः स्तनविधृतिलसद्वामबाहुः प्रियायाः । सर्वाकल्पाभिरामो धृतपरशुमृगेष्टः करैः काञ्चनाभो ध्येयः पद्मासनस्थः स्मरललिततनुः सम्पदे पार्वतीशः ॥ २५.७१॥ पञ्चार्णोक्ताङ्गाद्यः पञ्चब्रह्मप्रदिष्टपूजश्च । वसुमितलक्षजपोऽयं मन्त्रस्तावत्सहस्रहोमश्च ॥ २५.७२॥ इति जपहुतपूजाध्यानकैरीशयाजी प्रियतरचरितः स्यात्सर्वतो देहभाजाम् । धनविभवयशःश्रीसम्पदा दीर्घजीवी तनुविपदि च शैवं तत्परं धाम भूयात् ॥ २५.७३॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे पञ्चविंशः पटलः ॥

॥ षड्विंशः पटलः ॥

अथ प्रवक्ष्यते मन्त्रो दक्षिणामूर्तिसंज्ञकः । जपतामिष्टसंसिद्धिविधानसुरपादपः ॥ २६.१॥ अत्रिः क्षिणा कालकर्णकामिकायुग्र्येक्षराः । तुध्यामध्यगताः स्युभ्र्यं वटमूलनिवासिने ॥ २६.२॥ नैधातृनिरताङ्गाय नमो रुद्राय शम्भवे । तारशक्तिनिरुद्धोऽयं मन्त्रः षट्त्रिंशदक्षरः ॥ २६.३॥ शुकः प्रोक्तो मुनिश्छन्दोऽनुष्टुप्च समुदाहृतम् । दक्षिणामूर्तिरुद्रोऽस्य देवता समुदीरिता ॥ २६.४॥ तारशक्त्यादिकैर्हाङाद्यन्तैर्मन्त्राक्षरैः क्रमात् । ऋत्वक्षिवसुवस्वग्निगुणवर्णैर्विभागशः ॥ २६.५॥ मन्त्री कुर्यात्षडङ्गानि जातियुञ्जि समाहितः । कालिकश्रुतिदृग्गण्डद्वयनासास्यके दश ॥ २६.६॥ दोः सन्धिकण्ठस्तनहृन्नाभिकट्यन्धुषु क्रमात् । पत्सन्धिषु पुनद्र्वाभ्यां मन्त्रविद्व्यापकं न्यसेत् । एवं न्यस्तशरीरोऽथ चिन्तयेन्मन्त्रदेवताम् ॥ २६.७॥ मुद्रां भद्रार्थदात्रीं सपरशुहरिणां बाहुभिर्बाहुमेकं जान्वासक्तं दधानो भुजगवरसमाबद्धकक्ष्यो वटाधः । आसीनश्चन्द्रखण्डप्रतिघटितजटः क्षीरगौरस्त्रिणेत्रो दद्यादाद्यैः शुकाद्यैर्मुनिभिरभिनुतो भावशुद्धिं भवो वः ॥ २६.८॥ प्राक्प्रोक्तविधानेन च सम्यक्सम्पूज्य साधु कलशाद्यैः । कृतसन्दीक्षो मन्त्री जप्यादेनं मनुं समाहितधीः ॥ २६.९॥ द्वात्रिंशदयुतमानं जप्याच्च जुहोतु तद्दशांशमितैः । दुग्धाप्लुतैस्तिलैर्वा साज्येन पयोन्धसा द्वयेनापि ॥ २६.१०॥ जप्त्वैवं मन्त्रमेनं दिनमनु गिरिशं पूजयित्वा च हुत्वा नत्वा स्तुत्वा मनोवाक्तनुभिरवहितः प्राप्य कामानशेषान् । व्याख्याता चागमानां भुवि कविषु वरः साधु वेदान्तवेदी वादीट् सोऽद्वैतविद्याविमलतरमतिर्याति शैवं पदं तत् ॥ २६.११॥ जीवशिखिकर्णरेफान्प्रतिवीप्स्य प्रादिकांश्च पुनरपि तान् । मेधाप्यायिनियान्तांस्तानेव तरान्तिकान्सतनुरूपान् ॥ २६.१२॥ आभाष्य चटप्रचटौ सकहवमौ बन्धघातयौ वीप्स्य । प्रोक्त्वा वर्मास्त्रावधि समुद्धरेच्छक्तिपूर्वकं मन्त्रम् ॥ २६.१३॥ ऋषिरस्याघोराख्यः सम्प्रोक्तस्त्रिष्टुबुच्यते च्छन्दः । रुद्रोऽप्यघोरपूर्वः समीरितो देवता तथास्य मनोः ॥ २६.१४॥ हृत्पञ्चभिस्तदर्णैः शिरो हि षड्भिः शिखा तथा दशभिः । तावद्भिरेव कवचं दृगष्टभिद्र्वादशभिरपि चास्त्रम् ॥ २६.१५॥ कदृगास्यकण्ठहृन्नाभ्यन्धूरुषु जानुजङ्घयोः पदयोः । एकादशधा भिन्नैर्मन्त्रार्णैन्र्यसतु विग्रहे मन्त्री ॥ २६.१६॥ पञ्चभिरथो सषड्भिद्र्वाभ्यामप्यष्टभिश्चतुर्भिश्च । षड्भिश्चतुस्त्रयेण च षड्भिद्यद्र्वाभ्यां च भेदितैः क्रमशः ॥ २६.१७॥ कालाभ्राभः कराग्रैः परशुडमरुकौ खड्गखेटौ च बाणे- ष्वासौ शूलं कपालं दधदतिभयदो भीषणास्यस्त्रिणेत्रः । रक्ताकाराम्बरो हि प्रवरघटितगात्रोऽरिनागग्रहादी- न्खादन्निष्टार्थदायी भवदनभिमतच्छित्तये स्यादघोरः ॥ २६.१८॥ स्वच्छो मुमुक्षोस्तु भवेदघोरः काम्यक्रियायामपि रक्तवर्णः । कृष्णोऽभिचारे ग्रहवैकृते च प्रोक्तो जपः स्यादपि लक्षमानम् ॥ २६.१९॥ घृतावसिक्तैस्तिलतण्डुलैश्च जयावसाने जुहुयाद्दशांशम् । घृतप्लुतैर्वाथ हविर्भिरेवं तावत्प्रजुह्वन्समुपैति कामान् ॥ २६.२०॥ हृल्लेखास्थितसाध्याक्षरविलसत्र्किणकं कलावीतम् । वर्गाष्टकात्तकेसरमन्त्ये सहळक्षयाक्षरोल्लसितम् ॥ २६.२१॥ मन्त्राक्षरत्रयोद्यद्दलमध्यदलाग्रकं च तद्बाह्ये । वह्निपुटाश्रिसामाश्रितकवचास्त्रं प्रतिविलिख्य यन्त्रमिदम् ॥ २६.२२॥ कृत्वा समाप्य मण्डलमत्र विनिक्षिप्य पूरयेत्कलशम् । पीठे पिनाकपाणेर्गव्यैर्वा क्वाथकॢप्ततोयैर्वा ॥ २६.२३॥ अङ्गावृतेरनु च हेतिभिरीरिताभिः पश्चाच्च मातृभिरथापि दिशाधिनाथैः । सम्पूजयीत विधिनेति षडक्षरोक्त- मार्गेण वा मनुपरिस्फुरणाय मन्त्री ॥ २६.२४॥ आज्यापामार्गसमित्तिलसर्षपपायसाज्यकैश्च पृथक् । रात्रौ सहस्रहोमाद्भूतद्रोहादिशान्तिरुद्दिष्टा।२५॥ सितकिंशुकनिर्गुण्डीकनकापामार्गजन्मनां समिधाम् । पृथगपि सहस्रहोमान्निग्रहमोक्षोऽचिराद्ग्रहाणां स्यात् ॥ २६.२६॥ गव्याक्तैर्जुहुयात्पृथग्दशशतं मन्त्री मयूरेध्मकै- र्भूयस्तैश्चतुरङ्गुलैश्च शिवपञ्चम्यां निशायां हुनेत् । र्सिपर्मार्गसपञ्चगव्यचरुर्सिपः ससम्पातकं हुत्वा तत्प्रतिभोजयेत्प्रतिशमं यान्त्येव सर्वे ग्रहाः ॥ २६.२७॥ षट्कोणे र्किणकायां स्फुरयुगलवृतां साध्यगर्भां च शक्तिं कोणाग्रे प्रस्फुरद्वन्द्वकमथ विलिखेन्मन्त्रवर्णान्दलेषु । षड्वेदद्वन्द्वषड्वेदकचतुर्युगपट्सङ्ख्यकान्बाह्यषट्के वर्मास्त्रार्णां तदेतद्ग्रहगदभयहृद्यन्त्रमाघोरमाहुः ॥ २६.२८॥ न च रिपवो न च रोगा न ग्रहपीडा न शस्त्रबाधा च । न क्ष्वेलरुजा मत्र्यान्स्पृशन्त्यघोरास्त्रमन्त्रजापपरान् ॥ २६.२९॥ तस्मादघोरास्त्रमनुं प्रजप्यात्समर्चयेत्तद्विहितं यथावत् । हुनेच्च तेनैव समस्तवाञ्छासंसिद्धये चाथ विमुक्तये च ॥ २६.३०॥ खसप्तमः कर्णयुतोऽर्धचन्द्रवा- ल्ँलपञ्चमो द्वीन्दुयुतो ध्रुवादिकः । मनुः स्वयं मृत्युजयात्मकः स्फुटं समीरितः साधकरक्षणक्षमः ॥ २६.३१॥ ऋषिरस्य कहोलाख्यश्छन्दो देव्यादिका च गायत्री । स्याद्देवता च मृत्युञ्जयरुद्रोऽङ्गान्यथाचरेद्भृगुणा ॥ २६.३२॥ स्फुटितनलिनसंस्थं मौलिबद्धेन्दुरेखा- गलदमृतजलाद्र्रं चन्द्रवह्न्यर्कनेत्रम् । स्वकरकलितमुद्रापाशवेदाक्षमालं स्फटिकरजतमुक्तागौरमीशं नमामि ॥ २६.३३॥ जप्तव्योऽयं मन्त्रवर्यस्त्रिलक्षं दीक्षापूर्वं होमकृत्स्याद्दशांशैः । दुग्धाज्याक्तैः शुद्धखण्डैर्गलूच्या गुर्वादेशात्साधको हव्यवाहे ॥ २६.३४॥ अर्चा कार्या नित्यशः शैवपीठे स्यादप्यङ्गैर्लोकपालैस्तदस्त्रैः । सम्यक्पूजावस्तुभिर्मन्त्रजापैः प्रोक्तं ह्येतन्मृत्युभेत्तुर्विधानम् ॥ २६.३५॥ इति जपहुतार्चनाद्यैः सिद्धो मन्त्रोक्तमूर्तिविहितमनुः । सम्भावयेन्निजान्तर्योगं कृत्यापमृत्युनाशकरम् ॥ २६.३६॥ तारनालमथ मध्यपत्रकं हाद्यर्किणकयुतं क्रमोत्क्रमात् । चिन्तयेन्नियतमन्तरा शिवं नीरुजे च नियतायुषेऽब्जयोः ॥ २६.३७॥ ऊध्र्वाधःप्रोतपद्मद्वयदलनिचितैरक्षराद्यैर्ध्रवाद्यै- राद्यन्तैर्मन्दमन्दप्रतिगलितसुधापूरसंसिच्यमानम् । ईशानं सूक्ष्मरूपं विमलतरसुषुम्नान्तरा सन्निषण्णं ध्यायन्नाप्नोति रोगैर्नियतपरिहृतः सञ्जपाद्दीर्घमायुः ॥ २६.३८॥ आदौ तारं विलिखतु ससाध्याह्वयं र्किणकायां दिक्पत्रेष्वप्यपरमपरं चापि तत्कोणकेषु । भूयो भूमेः पुरमनु मृगाज्र्ं तदश्रेषु टान्तं जप्त्वा बन्धं ग्रहगदविषध्वंसि यन्त्रं तदेतत् ॥ २६.३९॥ इति कृतयन्त्रविभूषितमण्डलमध्ये निधाय कलशमपि । आपूर्य चाभिषिञ्चेच्छ्रीवश्यकरं ग्रहाभिचारहरम् ॥ २६.४०॥ ततश्छिन्नोद्भवानां तु समिद्भिश्चतुरङ्गुलैः । दुग्धसिक्तैः समिद्धेऽग्नौ षट्सहस्रद्वयं हुनेत् ॥ २६.४१॥ यस्तु वह्नौ जुहोत्येवं यावत्सङ्ख्येन साधकः । तावत्सङ्ख्यैः सुधाकुम्भैरग्निः प्रीणाति शङ्करम् ॥ २६.४२॥ आप्यायितोऽग्निना शर्वः साधकस्येप्सितान्वरान् । प्रदद्यादायुराद्यांश्च दुरन्तान्प्रलयान्तिकान् ॥ २६.४३॥ मन्त्रान्ते साध्याख्यां पालययुगलं प्रतीपमपि मन्त्रम् । प्रोक्त्वा समापयेन्मनुमयमपि मृत्युञ्जयाह्वयो मन्त्रः ॥ २६.४४॥ अथ वामलकमलपुटान्तरितं शिशुवेषभूषणं रुद्रम् । ध्यात्वा जपेद्यथावद्धुतकॢप्त्या मृत्युनाशनं दृष्टम् ॥ २६.४५॥ चतुरङ्गुलपरिमाणैरमृताखण्डैरथार्कसाहस्रम् । जुहुयाच्च दुग्धसिक्तैरारोग्यायायुषे च लक्ष्म्यै च ॥ २६.४६॥ अमृतावटतिलदूर्वाः पयो घृतं पायसं क्रमेणेति । सप्तद्रव्याण्युक्तान्येतैर्जुहुयात्पृथक्सहस्रतयम् ॥ २६.४७॥ तीवेर ज्वरे घोरतरेऽभिचारे सोन्मादके दाहगदे च मोहे । तनोति शान्तिं नचिरेण होमः सञ्जीवनं चाब्दशतप्रमाणम् ॥ २६.४८॥ सम्भोजयेद्धोमदिने च विप्रा- न्सप्ताधिकान्स्वादुभिरन्नजातैः । सतर्णका गाश्च हुतावसाने दद्याद्विजेभ्यो हुतकर्मकृभ्द्यः ॥ २६.४९॥ निजजन्मदिने शतं शतं यो जुहुयाद्द्रव्यवरैः ससप्तसङ्ख्यैः । मधुरैरपि भोजयेच्च विप्रा- नभिवाञ्छन्नियमेन दीर्घमायुः ॥ २६.५०॥ अथ वा सप्तभिरैतैद्र्रव्यैरेकेन वा सहस्रतयम् । जन्मक्र्षे होममात्रान्निरुपद्रवमुत्तमं व्रजेदायुः ॥ २६.५१॥ दूर्वात्रितयैर्जुहुयान्मन्त्रविदेकादशाहुतीर्दिनशः । जित्वापमृत्युरोगान्प्रयात्यसावायुषश्च दैघ्र्यमपि ॥ २६.५२॥ जन्मक्र्षाणां त्रितये च्छिन्नाकाष्मर्यवकुलकैरिध्मैः । क्रमशो हुनेत्सहस्रं नश्यन्त्यपमृत्युरोगदुरितानि ॥ २६.५३॥ सितसिद्धार्थसहस्राहुत्या नश्यन्त्युपद्रवा ज्वरजाः । तद्वदपामार्गहुता मृत्युञ्जयमप्यरोगतां लभते ॥ २६.५४॥ प्रोक्तैध्र्यानजपार्चनाहुतविधानाद्यैश्च मृत्युञ्जयं यो मन्त्री प्रभजन्मनुं प्रतिदिनं प्रातः प्रसन्नाशयः । तस्येष्टानि भवन्ति संसृतिरपि स्फीता च पुत्रादयः सम्पन्नः सुसुखी च जीवति चिरं देहापदि स्याच्छिवः ॥ २६.५५॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे षड्विंशः पटलः ॥

॥ सप्तविंशः पटलः ॥

अथ सजपहुताद्यो वक्ष्यते साधुचिन्ता- मणिरभिमतकामप्राप्तिकल्पद्रुमोऽयम् । अनलकषमरेफप्राणसद्यान्तवाम- श्रुतिहिमधरखड्गैर्मण्डितो मन्त्रराजः ॥ २७.१॥ ऋषिरपि काश्यप उक्तश्छन्दोऽनुष्टुप्च देवतोमेशः । यान्तैः षड्भिर्वर्णैरङ्गं वा देवतार्धनारीशः ॥ २७.२॥ अहिशशधरगङ्गाबद्धतुङ्गाप्तमौलि- स्त्रिदशगणनताङ्घ्रिस्त्रीक्षणः स्त्रीविलासी । भुजगपरशुशूलान्खड्गवह्नी कपालं शरमपि धनुरीशो बिभ्रदव्याच्चिरं वः ॥ २७.३॥ हावभावललितार्धनारिकं भीषणार्धमपि वा महेश्वरम् । पाशसोत्पलकपालशूलिनं चिन्तयेज्जपविधौ विभूतये ॥ २७.४॥ अथ वा षोडशशूलव्यग्रभुजा त्रिणयनाभिनद्धाङ्गी । अरुणांशुकानुलेपनवर्णाभरणा च भगवती ध्येया ॥ २७.५॥ विहितार्चनाविधिरथानुदिनं प्रजपेद्दशायुतमितं मतिमान् । अयुतं हुनेत्त्रिमधुराद्र्रतरैस्तिलतण्डुलैस्तदवसानविधौ ॥ २७.६॥ शैवोक्तपीठेऽङ्गपदैर्यथावद् वृक्षेचदुर्गुर्नगशैर्मुखाद्यैः । समातृभिर्दिक्पतिभिर्महेशं पञ्चोपहारैर्विधिनार्चयीत ॥ २७.७॥ आरभ्यादिज्वलनं दिक्संस्थैरष्टभिर्मनोरर्णैः । आराधयेच्च मातृभिरिति सम्प्रोक्तः प्रयोगविधिरपरः ॥ २७.८॥ कात्पूर्वं हसलिपिसंयुतं जपादौ जप्तृणां प्रवरमितीह केचिदाहुः । प्रासादाद्ययुतजपेन मङ्क्षु कुर्या- दावेशादिकमपि नीरुजां च मन्त्री ॥ २७.९॥ शिरसोऽवतरन्निशेशबिम्ब- स्थितमज्भिर्वृतमागलत्सुधाद्र्रम् । अपमृत्युहरं विषज्वराप- स्मृतिविभ्रान्तिशिरोरुजापहं च ॥ २७.१०॥ निजवर्णविकीर्णकोणवैश्वानरगेहद्वितयावृतत्रिकोणे । विगतस्वरवीतमुत्तमाङ्गे स्मृतमेतत्क्षपयेत्क्षणाद्ग्रहार्तिम् ॥ २७.११॥ वहेर्बिम्बे वह्निवत्प्रज्वलन्तं न्यस्त्वा बीजं मस्तके ग्रस्तजन्तोः । ध्यात्वावेशं कारयेद्बन्धुजीवं तज्जप्तं वा सम्यगाघ्राणनेन ॥ २७.१२॥ शुक्लादिः शुक्लभाः पौष्टिकशमनविधौ कृष्टिवश्येषु रक्तो रक्तादिः क्षोभसंस्तोभनविधिषु हकारादिको हेमवर्णः । धूम्रोऽङ्गामर्दनोच्चाटनविधिषु समीरादिकोऽदादिरुक्तः पीताभः स्तम्भनादौ मनुरतिविमलो भुक्तिभाजामदादिः ॥ २७.१३॥ कृष्णाभः प्राणगेहस्थितमथ नयने ध्यातमान्ध्यं विधत्ते बाधिर्यं कर्णरन्ध्रेर्ऽइदतमपि वदने कुक्षिगं शूलमाशु । मर्मस्थाने समीरं सपदि शिरसि वा दुःसहं शीर्षरोगं वाग्रोधं कण्ठनालेऽवनिवृतमथ तन्मण्डले पीतमेतत् ॥ २७.१४॥ प्रालेयत्विषि च स्वरावृतमिदं नेत्रे स्मृतं तद्रुजं योनौ वामदृशोऽस्रविस्रुतिमथो कुक्षौ च शूलं जपेत् । विस्फोटे सविषे ज्वरे तृषि तथा रक्तामये बिभ्रमे दाहे शीर्षगदे स्मरेद्विधिमिमं सन्तृप्तये मन्त्रवित् ॥ २७.१५॥ साध्याया हृदयकुशेशयोदरस्थं प्राणाख्यं दृढमवबध्य बीजवर्णैः । तेजस्तच्छिरसि विधुं विधाय वाते नाकर्षेदपि निजवाञ्छयैव मन्त्री ॥ २७.१६॥ पारिभद्रसुमनोदलभद्रं वह्निबिम्बगतमक्षरमेतत् । संस्मरेच्छिरसि यस्य स वश्यो जायते न खलु तत्र विचारः ॥ २७.१७॥ निजनामगर्भमथ बीजमिदं प्रविचिन्त्य योनिसुषिरे सुदृशः । वशयेत्क्षणाच्छिततया मनसः स्रवयेच्च शुक्लमथ वा रुधिरम् ॥ २७.१८॥ निजशिवशिरःश्रितं तद्बिम्बं स्मृत्वा प्रवेशयेद्योनौ । यस्यास्तत्सम्पर्कात्तां च क्षरयेत्क्षणेन वशयेच्च ॥ २७.१९॥ पररेफगर्भधृतसाध्यपदं त्रिकगं हुताशयुतषट्कवृतम् । विगतस्वरावृतमगारभुवि स्थितमेतदाशु वशयेद्रमणान् ॥ २७.२०॥ मधुरत्रयसंयुतेन शाली- रजसा पुत्तलिकां विधाय तेन । मनुना जुहुयात्तया विभज्य त्रिदिनं यस्य कृते वशो भवेत्सः ॥ २७.२१॥ विषपावकोद्यदभिधानगदं ठगतं कुकोणयुतलाङ्गलिकम् । अहिपत्रकॢप्तपरिजप्तमिदं शिरसो रुजं प्रशमयेददनात् ॥ २७.२२॥ कण्ठे केनावनद्धार्पितदहनयुजा मज्जया मेन वामं दक्षं संवेष्ट्य वक्षोरुहमनलसमीरौभिरंसद्वयं च । वक्त्रे नाभौ च दीर्घं सुमतिरथ विनिक्षिप्य बिन्दुं निशेशं वक्षस्याधाय बद्ध्वा चिरमिव विहरेत्कन्दुकैरात्मसाध्यैः ॥ २७.२३॥ कृत्वा वह्नेः परमनु मनुं बन्धुजीवेन तस्मि- न्नाधायाग्निं विधिवदभिसम्पूज्य चाज्यैः शताख्यम् । त्रैलोहाख्ये प्रतिविहितसम्पातमष्टोत्तरं त- द्धुत्वा जप्तं दुरितविषवेतालभूतादिहारि ॥ २७.२४॥ साध्याख्यागर्भमेनं लिख दहनपुरे र्किणकायां षडश्रं बाह्येऽश्रिष्वङ्गमन्त्रान्दलमनु परितो बीजवर्णान्विभज्य । भूयोऽचः कादियादीस्त्रिषु वृतिषु कुगेहाश्रके नारसिंहं तस्मिन्कार्यो यथावत्कलशविधिरयं सर्वरक्षाकरः स्यात् ॥ २७.२५॥ टान्ते लिख्यात्कलाभिर्वृतमनुमनलावासयुग्मेन वह्नि- द्योतत्कोणेन बाह्ये तदनु सवितृबिम्बेन काद्यार्णभाजा । तद्बाह्ये क्ष्मापुराभ्यां लिखितनृहरियुक्ताश्रकाभ्यां तदेत- द्यन्त्रं रक्षाकरं स्याद् ग्रहगदविषमक्ष्वेलजूत्र्यादिरोगे ॥ २७.२६॥ बिम्बद्वन्द्वे कृशानोर्विलिखतु मणिमेनं ससाध्यं तदश्रि- ष्वग्न्यादीन्व्यञ्जनार्णान्स्वरयुगलमथो सन्धिषट्के यथावत् । तारावीतं च बाह्ये कुगृहपरिवृतं गोमयाब्रोचनाभ्यां लाक्षाबद्धं निबध्याज्जपमहितमिदं साधु साध्योत्तमाङ्गे ॥ २७.२७॥ लक्ष्म्यायुःपुष्टिकरं परं च सौभाग्यवश्यकृत्सततम् । चोरव्यालमहोरगभूतापस्मारहारि यन्त्रमिदम् ॥ २७.२८॥ साध्याख्याकर्मयुक्तं दहनपुरयुगे मन्त्रमेनं तदश्रि- ष्वग्निज्वालाश्च बाह्ये विषतरुविटपे साग्रशाखे लिखित्वा । जप्त्वाष्टोध्र्वं सहस्रं नृहरिकृतधिया स्वापयेत्तत्र शत्रु- व्याघ्रादिक्रोडचोरादिभिरपि च पिशाचादयो न व्रजन्ति ॥ २७.२९॥ ससिद्धसुरपूजितः सकलवर्गसंसाधको ग्रहज्वररुजापहो विषविसर्पदोषापहः । किमत्र बहुर्निथनामभिमतार्थचिन्तामणिः समुक्त इह सङ्ग्रहान्मनुवरस्तु चिन्तामणिः ॥ २७.३०॥ षष्ठस्वरो हुतवहस्तययोस्तुरीया- वाद्यस्वरो मनुरयं कथितः फडन्तः । अस्य त्रिको निगदितो मनुरप्यनुष्टु प्छन्दश्च चण्डसहितो मनुदेवतेशः ॥ २७.३१॥ सप्तज्वलज्वालिनिभिस्तटेन च हतेन च । सर्वज्वालिनिसंयुक्तैः फडन्तैरङ्गमाचरेत् ॥ २७.३२॥ अव्यात्कपर्दकलितेन्दुकरः करात्त- शूलाक्षसूत्रककमण्डलुटज्र् ईशः । रक्ताभवर्णवसनोऽरुणपज्र्जस्थो नेत्रत्रयोल्लसितवक्त्रसरोरुहो वः ॥ २७.३३॥ कृतसन्दीक्षो मन्त्री जप्याल्लक्षत्रयं च मन्त्रमिमम् । जुहुयात्त्रिमधुरसिक्तैः सतिलैरपि तण्डुलैर्दशांशेन ॥ २७.३४॥ व्याघातसमिद्भिर्वा मनुजापी तावतीभिरथ जुहुयात् । पूर्वोक्तार्चापीठे गन्धाद्यैरर्चर्येच्च चण्डेशम् ॥ २७.३५॥ चण्डचण्डाय चेत्युक्त्वा प्रवदेद्विद्महेपदम् । चण्डेश्वराय च प्रोक्त्वा धीमहीपदमुच्चरेत् ॥ २७.३६॥ तन्नश्चण्ड इति प्रोक्त्वा भूयो ब्रूयात्प्रचोदयात् । एषा तु चण्डगायत्री जपात्सान्निध्यकारिणी ॥ २७.३७॥ अङ्गैः समातृभिर्मन्त्री लोकेशैः सम्प्रेपूजयेत् । कूर्मो विष्णुयुतो दण्डी बीजमस्योच्यते बुधैः ॥ २७.३८॥ वदेच्चण्डेश्वरायेति बीजादिहृदयान्तिकम् । अर्चनादिष्विमं मन्त्रं यथावत्सम्प्रयोजयेत् ॥ २७.३९॥ एवं जपहुतार्चाभिः सिद्धमात्रे तु मन्त्रके । वाञ्छितादधिकं लभ्येत्काञ्चनं नात्र संशयः ॥ २७.४०॥ त्र्यक्षरस्य जपो यावत्तावज्जप्यात्षडक्षरम् । ऐहिकामुष्मिकीं सिद्धिं यथा हि लभते नरः ॥ २७.४१॥ कृत्वा पिष्टेन शल्याः प्रतिकृतिमनलं चापि काष्ठैश्चिताना- - माधायारभ्य पुंसस्त्रिमधुरलुलिता दक्षिणाङ्गुष्ठदेशात् । छित्त्वा च्छित्त्वाष्टयुक्तं शतमथ जुहुयाद्योषितां वामपादा- द्विप्रादीनां चतुर्णां वशकरमनिशं मन्त्रमेतद्धुतान्तम् ॥ २७.४२॥ अनुदिनमष्टशतं यो जुहुयात्पुष्पैरनेन मन्त्रेण । सप्तदिनैः स तु लभते वासस्तद्वर्णसङ्काशम् ॥ २७.४३॥ अहरहरष्टशतं यो मन्त्रेणानेन तर्पयेदीशम् । तस्य तु मासचतुष्कादर्वाक्सञ्जायते महालक्ष्मीः ॥ २७.४४॥ साध्यक्र्षाङ्घ्रिपचर्मणां सुमसृणां पिष्टैश्च लोणैः समं कृत्वा पुत्तलिकां प्रतिष्ठितचलां जप्त्वा च रात्रौ हुनेत् । सप्ताहं पुरुषोऽङ्गना यदि चिरं वश्यं त्ववश्यं भवे- दस्मिञ्जन्मनि नात्र चोद्यविषयो देहान्तरे संशयः ॥ २७.४५॥ इति चण्डमन्त्रविहितं विधिव- द्विधिमादरेण य इमं भजते । स तु वाञ्छितं पदमिहाप्य पुनः शिवरूपतामपि परत्र लभेत् ॥ २७.४६॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे सप्तविंशः पटलः ॥

॥ अष्टाविंशः पटलः ॥

अथाखिलार्थानुततैव शक्तिर्युक्ता चतुर्विंशतितत्त्वभेदैः । गायत्रिसंज्ञापि च तद्विशेषानथ प्रयोगान्कथयामि साङ्गान् ॥ २८.१॥ ताराह्वयो व्याहृतयश्च सप्त गायत्रिमन्त्रः शिरसा समेतः । अन्वर्थकं मन्त्रमिमं तु वेदसारं पुनर्वेदविदो वदन्ति ॥ २८.२॥ जप्यः स्यादिह परलोकसिद्धिकामै- र्मन्त्रोऽयं महिततरैर्द्विजैर्यथावत् । भूदेवा नरपतयस्तृतीयवर्णाः सम्प्रोक्ता द्विजवचनेन तत्र भूयः ॥ २८.३॥ तेषां शुद्धकुलद्वयोत्थमहसामारभ्य तन्तुक्रियां तारव्याहृतिसंयुता सहशिरा गायत्र्युपास्या परा । सन्ध्योपासनया जपेन च तथा स्वाध्यायभेदैरपि प्राणायामविधानतः सुमतिभिध्र्यानेन नित्यं द्विजैः ॥ २८.४॥ आदौ तारः प्रकृतिविकृतिप्रोत्थितोऽसौ च मूला- धारादारादलिविरुतिराविश्य सौषुम्नमार्गम् । आद्यैः शान्तावधिभिरनुगो मात्रया सप्तभेदैः शुद्धो मूर्धावधि परिगतः शाश्वतोऽन्तर्बहिश्च ॥ २८.५॥ प्रकाशितादौ प्रणवप्रपञ्चता निगद्यते व्याहृतिसप्तकं पुनः । सभूर्भुवः स्वश्च महर्जनस्तपः- समन्वितं सत्यमिति क्रमेण च ॥ २८.६॥ भूःपदाद्या व्याहृतयो भूशब्दस्तदि वर्तते । तत्पदं सदिति प्रोक्तं सन्मात्रत्वात्तु भूरतः ॥ २८.७॥ भूतत्वात्कारणत्वाच्च भुवःशब्दस्य सङ्गतिः । सर्वस्वीकरणात्स्वात्मतया च स्वरितीरितम् ॥ २८.८॥ महस्त्वाच्च महत्त्वाच्च महःशब्दः समीरितः । तदेव सर्वजनता तस्मात्तु व्याहृतिर्जनः ॥ २८.९॥ तपो ज्ञानतया चैव तथा तापतया स्मृतम् । सत्यं परत्वादात्मत्वादनन्तज्ञानतः स्मृतम् ॥ २८.१०॥ प्रणवस्य व्याहृतीनामतः सम्बन्ध उच्यते । अकारो भूरुकारस्तु भुवो मार्णः स्वरीरितः ॥ २८.११॥ बिन्दुर्महस्तथा नादो जनः शक्तिस्तपः स्मृतम् । शान्तं सत्यमिति प्रोक्तं यत्तत्परतरं पदम् ॥ २८.१२॥ प्रणवस्य व्याहृतीनां गायत्र्यैक्यभथोच्यते । अत्रापि तत्पदं पूर्वं प्रोक्तं तदनुवण्र्यते ॥ २८.१३॥ तद् द्वितीयैकवचनमनेनाखिलवस्तुनः । सृष्ट्यादिकारणं तेजोरूपमादित्यमण्डले ॥ २८.१४॥ अभिध्येयं परानन्दं परं ब्रह्माभिधीयते । यत्तत्सवितुरित्युक्तं षष्ठ्येकवचनात्मकम् ॥ २८.१५॥ धातोरिह समुत्पन्नं प्राणिप्रसववाचकात् । सर्वासां प्राणिजातीनामिति प्रसवितुः सदा ॥ २८.१६॥ वरेण्यं वरणीयत्वात्सेवनीयतया तथा । भजनीयतया सर्वैः प्रार्थनीयतया स्मृतम् ॥ २८.१७॥ पूर्वस्याष्टाक्षरस्यैवं व्याहृतिर्भूरिति स्मृता । पापस्य भञ्जनाद्भर्गो भक्तस्निग्धतया तथा ॥ २८.१८॥ देवस्य वृष्टिदानादिगुणयुक्तस्य नित्यशः । प्रभूतेन प्रकाशेन दीप्यमानस्य वै तथा ॥ २८.१९॥ ध्यैचिन्तायामतो धातोर्निष्पन्नं धीमहीत्यदः । निगमाद्येन दिव्येन विद्यारूपेण चक्षुषा ॥ २८.२०॥ दृश्यो हिरण्मयो देव आदित्ये नित्यसंस्थितः । हीनतारहितं तेजो यस्य स्यात्स हिरण्मयः ॥ २८.२१॥ यः सूक्ष्मः सोऽहमित्येवं चिन्तयामः सदैव तु । द्वितीयाष्टाक्षरस्यैवं व्याहृतिर्भुव ईरिता ॥ २८.२२॥ धियो बुद्धीर्मनोरस्य च्छान्दसत्वाद्य ईरितः । कृतश्च लिङ्गव्यत्यासः सूत्रात्सुप्तिङुपग्रहात् ॥ २८.२३॥ यत्तु तेजो निरुपमं सर्वदेवमयात्मकम् । भजतां पापनाशस्य हेतुभूतमिहोच्यते ॥ २८.२४॥ न इति प्रोक्त आदेशः षष्ठ्यासौ युष्मदस्मदोः । तस्मादस्माकमित्यर्थः प्रार्थनायां प्रचोदयात् ॥ २८.२५॥ तृतीयाष्टाक्षरस्यापि व्याहृतिः स्वरितीरिता । एवं दश पदान्यस्यास्त्रयश्चाष्टक्षराः स्मृताः ॥ २८.२६॥ षडक्षराश्च चत्वारः स्युश्चतुर्विंशदक्षराः । इत्थम्भूतं यदेतस्य देवस्य सवितुर्विभोः ॥ २८.२७॥ वरेण्यं भजतां पापविनाशनकरं परम् । भर्गोऽस्माभिरभिध्यातं धियस्तन्नः प्रचोदयात् ॥ २८.२८॥ उक्तैवमत्र गायत्री पुनस्तच्छिर उच्यते । आपो ज्योती रस इति सोमाग्न्योस्तेज उच्यते ॥ २८.२९॥ तदात्मकं जगत्सर्वं रसस्तेजोद्वयं युतम् । अमृतं तदनाशित्वाद्ब्रह्मत्वाद् ब्रह्म उच्यते ॥ २८.३०॥ यदानन्दात्मकं ब्रह्म सत्त्यज्ञानादिलक्षणम् । तद्भूर्भुवःस्वरित्युक्तं सोऽहमित्योमुदाहृतम् ॥ २८.३१॥ एतत्तु वेदसारस्य शिरस्त्वाच्छिर उच्यते । लक्षणैरिति निर्दिष्टो वेदसारेषु निष्ठितः ॥ २८.३२॥ फलार्थीं तदवाप्नोति मुमुक्षुर्मोक्षमृच्छति । उपव्युषस्येवोत्थाय कृतशौचविधिर्द्विजः ॥ २८.३३॥ दन्तानां धावनं चैव जिह्वानिर्लेखनादिकम् । कृत्वा स्नात्वा समाचम्य मन्त्रपूतेन वारिणा ॥ २८.३४॥ आपो हिष्ठा मयेत्यादिऋग्भिस्तिसृभिरेव च । अभ्युक्ष्य शुद्धदेहः सन्नपः पीत्वा समाहितः ॥ २८.३५॥ सूर्यश्चेत्यनुवाकेन पुनराचम्य पूर्ववत् । अभ्युक्ष्य शुद्धदेहः सन्गृहीत्वाञ्जलिना जलम् ॥ २८.३६॥ आदित्याभिमुखो भूत्वा तद्गतात्मोध्र्वलोचनः । वेदसारं परं ज्योतिर्मूलभूतं परात्परम् ॥ २८.३७॥ हृत्स्थं सर्वस्य लोकस्य मण्डलान्तव्र्यवस्थितम् । चिन्तयन्परमात्मानमप ऊध्र्वं विनिक्षिपेत् ॥ २८.३८॥ एनस्ताः प्रतिनिघ्नन्ति जगदाप्याययन्ति च । ततः प्रदक्षिणीकृत्य पुनराचम्य संयतः ॥ २८.३९॥ क्रमात्तारादिमन्त्राणामृष्यादीन्विन्यसेत्सुधीः । तत्र तु प्रणवस्यादावृषिरुक्तः प्रजापतिः ॥ २८.४०॥ छन्दश्च देवी गायत्री परमात्मा च देवता । जमदग्निभरद्वाजभृगुगौतमकाश्यपाः ॥ २८.४१॥ विश्वामित्रवसिष्ठाख्यावृषयो व्याहृतीरिताः । गायत्र्युष्णिगनुष्टुप्च बृहती पङ्क्तिरेव च ॥ २८.४२॥ त्रिष्टुब्जगत्यौ च्छन्दांसि कथ्यन्ते देवता अपि । सप्तार्चिरनिलः सूर्यो वाक्पतिर्वरुणो वृषा ॥ २८.४३॥ विश्वेदेवा इति प्रोक्ताः सप्त व्याहृतिदेवताः । हृन्मुखांसोरुयुग्मेषु सोदरेषु क्रमान्न्यसेत् ॥ २८.४४॥ विश्वामित्रस्तु गायत्र्या ऋषिश्छन्दः स्वयं स्मृतम् । सविता देवता चास्य ब्रह्मा शिर ऋषिः स्मृतः ॥ २८.४५॥ छन्दश्च देवी गायत्री परमात्मा च देवता । स्थानेषु पूर्वमुक्तेषु सताराव्याहृतीन्र्यसेत् ॥ २८.४६॥ गायत्रीं शिरसा विद्वाञ्जपेत्त्रिः स्यादुपासना । हृदयेऽधस्तथोध्र्वं च महादिक्ष्वपि संयतः ॥ २८.४७॥ व्यापयेद्व्याहृतीः सम्यग्गायत्रीं च शिरोयुताम् । सार्थसंस्मृति सञ्जप्यात्त्रिरिदं जपलक्षणम् ॥ २८.४८॥ आत्मन्यधश्चोपरितो दिग्भ्यस्ताः समुपानयेत् । गायत्रीं पूर्ववज्जप्यात्स्वाध्यायविधिरीदृशः ॥ २८.४९॥ एतत्त्रयं त्रिशः कुर्यादृजुकायस्त्वनन्यधीः । निरुच्छ्वासः स विज्ञेयः प्राणायामो मनीषिभिः ॥ २८.५०॥ ध्यानस्य केवलस्यास्य व्याख्याने र्दिशतः क्रमः । त्रिव्याहृत्यादिमभ्यस्येद्गायत्रीं सन्ध्ययोः सुधीः ॥ २८.५१॥ शतं वाथ सहस्रं वा मन्त्रार्थगतमानसः । पूर्वं प्रपञ्चयागोक्तान्गाणपत्यजपादिकान् ॥ २८.५२॥ लिपिन्यासादिकान्साङ्गान्महन्न्यासादिसंयुतान् । सनिजष्र्यादिकान्सर्वान्विदध्याद्विधिवद्बुधः ॥ २८.५३॥ पादसन्धिचतुष्कान्धुनाभिहृद्गलदोद्र्वयी । सन्ध्यास्यनासागण्डाक्षिकर्णभ्रूमस्तकेष्वपि ॥ २८.५४॥ वारुणैन्दवयाम्यप्रागूध्र्वकेषु मुखेषु च । क्रमेण वर्णान्विन्यस्येद्गायत्र्या मन्त्रवित्तमः ॥ २८.५५॥ शिरोभ्रूमध्यनयनवक्त्रकण्ठेषु वै क्रमात् । हृन्नाभिगुह्यजान्वाख्यपादेष्वपि पदान्न्यसेत् ॥ २८.५६॥ स्त्रब्रह्मविष्णुरुद्रैश्च सेश्वरैः ससदाशिवैः । ससर्वात्माह्वयैः कुर्यादङ्गन्यासं समाहितः ॥ २८.५७। एवं कृत्वा तु सिद्ध्यर्थं गायत्रीं दीक्षितो जपेत् । अथ त्रिगुणिते प्रोक्ते विचित्रे मण्डलोत्तमे ॥ २८.५८॥ शक्तिभिः प्राक्समुक्ताभिः सौरं पीठं समर्चयेत् । तत्र निक्षिप्य कलशं यथापूर्वोपचारतः ॥ २८.५९॥ गव्यैर्वा पञ्चभिः क्वाथजलैर्वा पूरयेत्ततः । तस्मिन्नावाह्य कलशे शक्तिमित्थं विचिन्तयेत् ॥ २८.६०॥ मन्दाराह्वयरोचनाञ्जनजपाख्याभैर्मुखैरिन्दुम- द्रत्नोद्यन्मकुटांशुभिस्ततचतुर्विंशार्णचित्रा तनुः । अम्भोजारिदराह्वयौ गुणकपालाख्ये च पाशाज्रुशे- ष्टाभीतीर्दधती भवेद्भवदभीष्टोत्तारिणी तारिणी ॥ २८.६१॥ सञ्चिन्त्य भर्तारमिति प्रभाणां त्रिशक्तिमूर्तीः प्रथमं समच्र्य । आदित्यशक्त्याख्यचतुष्टयेन यजेद्वितीयावरणे दिनेशम् ॥ २८.६२॥ प्रह्लादिनीं प्रभां नित्यां सविश्वम्भरसंज्ञकाम् । विलासिनीप्रभावत्यौ जयां शान्तां क्रमाद्यजेत् ॥ २८.६३॥ तमोपहारिणीं सूक्ष्मां विश्वयोनिं जयावहाम् । पद्मालयां परां शोभां भद्ररूपां तथा यजेत् ॥ २८.६४॥ मातृभिश्चारुणाभिश्च षष्ठ्यथो सप्तमीग्रहैः । आदित्यपार्षदन्तैरप्यष्टमीन्द्रादिभिः सुरैः ॥ २८.६५॥ आवृतिः कथिता चेति विधानं परमीदृशम् । गन्धादिभिर्निवेद्यान्तैर्दिनेशं सम्यगर्चयेत् ॥ २८.६६॥ अथ पुनरमुमभिषिञ्चे- त्संयतचित्तं च देशिकः शिष्यम् । कृतहुतविधिमपि विधिव- द्विहितबलिं दत्तदक्षिणं गुरवे ॥ २८.६७॥ भूयस्त्वक्षरलक्षं गायत्रीं संयतात्मको जप्त्वा । जुहुयात्पायसतिलघृतदूर्वाभिर्दुग्धतरुसमिद्भिरपि ॥ २८.६८॥ एकैकं त्रिसहस्रं मन्त्री समभीष्टसिद्धये मुक्त्यै । अक्षरसहस्रसङ्ख्यं मुख्यतरैः केवलैस्तिलैर्जुहुयात् ॥ २८.६९॥ दुरितोच्छेदनविधये मन्त्री दीर्घायुषे च विशदमतिः । आयुष्कामो जुहुयात्पायसहविराज्यकेवलाज्यैश्च ॥ २८.७०॥ दूर्वाभिः सतिलाभिः सर्वैस्त्रिसहस्रसङ्ख्यकं मन्त्री । अथ तु त्रिमधुरसिक्तैररुणैर्जुहुयात्सरोरुहैरयुतम् ॥ २८.७१॥ नष्टश्रीरपि भूयो भवति मनोज्ञश्च मन्दिरं लक्ष्म्याः । अन्नाद्यथ्र्यन्नैरपि पालाशैब्र्रह्मवर्चसे जुहुयात् । सर्वैरेतैर्जुहुयात्सर्वफलाप्त्यै द्विजेश्वरो मतिमान् ॥ २८.७२॥ इति परमरहस्यं वेदसारस्य सारं गदितमजसुशुद्धैर्योगिभिध्र्यानगम्यम् । अमुमथ जपहोमध्यानकाले य एवं भजति स तु विशुद्धः कर्मभिर्मुक्तिमेति ॥ २८.७३॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे अष्टविंशः पटलः ॥

॥ एकोनत्रिंशः पटलः ॥

अथ वक्ष्यामि विद्यायास्त्रिष्टुभः प्रवरं विधिम् । ऋषिच्छन्दोदेवताभिरङ्गन्यासक्रमैः सह ॥ २९.१॥ मारीचः काश्यपो ज्ञेय ऋषिश्छन्दः स्वयं स्मृतम् । देवता जातवेदोऽग्निरुच्यन्तेऽङ्गान्यतः परम् ॥ २९.२॥ नवभिः सप्तभिः षड्भिः सप्तभिश्च तथाष्टभिः । सप्तभिर्मूलमन्त्रेण कुर्यादङ्गानि षट् क्रमात् ॥ २९.३॥ अङ्गुष्ठगुल्फजङ्घासु जानूरुकटिगुह्यके । सनाभिहृदयोरोजपाश्र्वयुक्पृष्ठकेषु च ॥ २९.४॥ स्कन्धयोरुभयोर्मध्ये बाहुमूलोपबाहुषु । प्रकूर्परप्रकोष्ठेषु मणिबन्धतलेषु च ॥ २९.५॥ मुखनासाक्षिकर्णेषु मस्तमस्तिष्कमूर्धसु । न्यसेन्मन्त्राक्षरान्मन्त्री क्रमाद्वा व्युत्क्रमात्तनौ ॥ २९.६॥ शिखाललाटदृक्कर्णयुगोष्ठरसनासु च । सकर्णबाहुहृत्कुक्षिकटिगुह्योरुजानुषु । जङ्घाचरणयोन्र्यस्येत्पदानि त्रिष्टुभः क्रमात् ॥ २९.७॥ भास्वद्विद्युत्करालाकुलहरिगलसंस्थारिशङ्खासिखेटे- ष्वस्त्रासाख्यत्रिशूलानरिगणभयदां तर्जनीं चादधाना । चर्माण्युद्घूर्णदोर्भिः प्रहरणनिपुणाभिर्वृता कन्यकाभि- र्दद्यात्कार्शानवीष्टांस्त्रिणयनलसिता कापि कात्यायनी वः ॥ २९.८॥ इति विन्यस्तदेहस्तु कुर्याज्जप्यादिकाः क्रियाः । दीक्षा प्रवत्र्यते पूर्वं यथावद्देशिकोत्तमैः ॥ २९.९॥ ततोऽस्त्रकॢप्तिः सम्प्रोक्ता स्यात्प्रयोगविधिस्ततः । दीक्षकाख्याक्षराण्यादौ शक्त्यावेष्ट्य ततो बहिः ॥ २९.१०॥ यन्त्रं षड्गुणितं कृत्वा दुर्वर्णलसिताश्रकम् । बहिरष्टदलं पद्मं प्रोक्तलक्षणलक्षितम् ॥ २९.११॥ अत्र पीठं यजेन्मन्त्री क्रमात्सनवशक्तिकम् । जया च विजया भद्रा भद्रकाली सुदुर्मुखी ॥ २९.१२॥ व्याघ्रसिंहमुखीदुर्गात्रिष्टुभो नव शक्तयः । तत्रादाय घटं दिव्यक्वाथमूत्रपयोम्भसाम् ॥ २९.१३॥ एकेन पूरयित्वास्मिन्नावाह्य च विभावसुम् । अङ्गावृतेर्बहिग्न्र्यादिपादाष्टकविनिःसृताः ॥ २९.१४॥ मूर्तीरभ्यर्चयेदग्नेर्जातवेदादिकाः क्रमात् । पृथिव्यम्ब्वनलेरानप्यात्मनेपदसंयुतान् ॥ २९.१५॥ अर्चयेद्दिक्षु कोणेषु निवृत्त्यादीर्यथाक्रमम् । दिक्ष्वेकादशसङ्ख्याः स्युर्जागताद्यर्णशक्तयः ॥ २९.१६॥ लोकपालांश्च तद्धेतोर्विधिनेति समर्चयेत् । जागता तापिनी वेदगर्भा दाहनरूपिणी ॥ २९.१७॥ सेन्दुखण्डा शुम्भहन्त्री सनभश्चारिणी तथा । वागीश्वरी मदवहा सोमरूपा मनोजवा ॥ २९.१८॥ मरुद्वेगा रात्रिसंज्ञा तीव्रकोपा यशोवती । तोयात्मिका तथा नित्या दयावत्यपि हारिणी ॥ २९.१९॥ तिरस्क्रिया वेदमाता तथान्या दमनप्रिया । समाराध्या नन्दिनी च परा रिपुविर्मिदनी ॥ २९.२०॥ षष्ठी च दण्डिनी तिग्मा दुर्गा गायत्रिसंज्ञका । निरवद्या विशालाक्षी श्वासोद्वाहा च नादिनी ॥ २९.२१॥ वेदना वह्निगर्भा च सिंहवाहाह्वया तथा । धुर्या दुर्विषहा चैव रिरंसा तापहारिणी ॥ २९.२२॥ त्यक्तदोषा निःसपत्ना चत्वारिंशच्चतुर्युताः । अभिषिच्य पुनः शिष्यं कुम्भादीन्गुरुराहरेत् ॥ २९.२३॥ ईदृशं यन्त्रमारुह्य जपेच्छिष्यः सुयन्त्रितः । मन्त्राक्षरसहस्रं तु सिद्ध्यर्थं गुरुसन्निधौ ॥ २९.२४॥ सर्वजापेषु संज्ञेया गायत्र्या द्विगुणो जपः । कर्तव्यो वाञ्छितार्थाप्त्यै रक्षायै कार्यसिद्धये ॥ २९.२५॥ तिलराज्यनलक्षीरवृक्षेध्महविराज्यकैः । र्सिपःसिक्तैः क्रमाद्धोमः साधयेदीप्सितं नृणाम् ॥ २९.२६॥ चत्वारि चत्वारिंशच्च चतुःशतसमन्वितम् । चतुःसहस्रसंयुक्तं प्रोक्तैरेतैर्हुतक्रिया ॥ २९.२७॥ एवं संसिद्धमन्त्रस्य स्युरस्त्राद्याः क्रिया मताः । चत्वारि चत्वारिंशच्च वर्णानामस्त्रमिष्यते ॥ २९.२८॥ विलोमपाठो वर्णानामस्त्रमाहुर्मनीषिणः । पादाष्टकमिदं विद्यात्ततोऽष्टाङ्गो मनुः स्वयम् ॥ २९.२९॥ जप्तुकामो मनुं त्वेनं पादांस्तु प्रतिलोमतः । पठेत्तथा हि मन्त्रोऽयं क्षाल्यते दुष्टदूषितः ॥ २९.३०॥ आद्याः पञ्चाक्षरपदास्त्रयः सप्ताक्षरः परः । पञ्चमश्चाथ षष्ठश्च द्वौ तु पादौ षडक्षरौ । पञ्चाक्षरौ तदन्त्यौ च तेषां भावो निगद्यते ॥ २९.३१॥ ग्न्याद्यं ज्ञानेन्द्रियं कामं द्वितीयं पाञ्चभौतिकम् । तृतीयं धातवः सप्त चतुर्थं वर्णसप्तकम् ॥ २९.३२॥ षडूर्मयः पञ्चमं स्यात्षष्ठः षट्कौशिको मतः । सप्तमश्चाष्टमः पादः शब्दाद्यं वचनादिकम् ॥ २९.३३॥ साङ्गः सत्प्रतिपत्तिकः सगुरुपद्वन्द्वप्रमाणक्रमा- ज्जाप्येत्यादिषडन्तकोऽन्तविगतो वर्णप्रतीपस्तथा । गुर्वादेशविधानतश्च विविधध्यानक्रियो मन्त्रिणा तत्तत्कार्यसमाप्तयेऽखिलविपद्ध्वान्तौघभानूदयः ॥ २९.३४॥ अनुलोमजपेऽङ्गानामपि पाठोऽनुलोमतः । प्रतिलोमानि तानि स्युः प्रतिलोमविधौ तथा ॥ २९.३५॥ अन्तः पादप्रतीपे हि तथा तानि भवन्ति हि । वर्णप्रतीपे च तथा मात्राण्यप्रतिलोमके ॥ २९.३६॥ प्रतिपत्तिविशेषांश्च तत्र तत्र विचक्षणः । गुर्वादेशविधानेन प्रविदध्यान्न चान्यथा ॥ २९.३७॥ जपः पुरोक्तसङ्ख्यः स्याद्धुतकॢप्तिस्तथा भवेत् । क्षीरद्रुमसमिद्राजितिलहव्यघृतैः क्रमात् ॥ २९.३८॥ अथ वा पञ्चगव्योत्थचरुणा हुतमुच्यते । प्रत्यङ्मुखेन कर्तव्यं प्रायो जपहुतादिकम् ॥ २९.३९॥ तत्र स्युर्मन्त्रवर्णेभ्यस्तावत्यो वह्निदेवताः । प्रत्येकमावृतास्तास्तु पञ्चकेन नतभ्रुवाम् ॥ २९.४०॥ तत्पञ्चकं च प्रत्येकमावृतं पञ्चभिः पृथक् । प्रत्येकं पञ्चकानां तु षोडशावृतिरिष्यते ॥ २९.४१॥ प्रत्येकं षोडशानां तु कोटयः परिचारिकाः । इत्येकाक्षरजात्पूर्वमेकस्मात्षोडशात्मकात् ॥ २९.४२॥ एतावत्यस्तु जातास्तद्विस्तरं पुनरूहयेत् । तत्र त्विन्द्रियजाः प्रोक्ता देवतास्तूध्र्वदृष्टयः ॥ २९.४३॥ तिर्यञ्चो भौतिकाः प्रोक्ता धातूत्थास्तूभया नराः । उर्मिजास्तूध्र्ववदनास्तिर्यञ्चश्चाथ कोशजाः ॥ २९.४४॥ क्लीबा मुखद्वयोपेता गोचरोत्थाः स्त्रियो मताः । अधोमुखाश्च तिर्यञ्च इत्युक्तो मूर्तिसङ्ग्रहः ॥ २९.४५॥ आभिः सर्वाभिरपि च शिखाभिर्जातवेदसः । व्याप्यते परराष्ट्रेषु वृक्षगुल्मतृणादिकम् ॥ २९.४६॥ आरम्भे मानुपाणि स्युर्नक्षत्राण्याभिचारके । कर्माण्यासुरभानि स्युर्दैवानि स्युस्तथा हृतौ ॥ २९.४७॥ अन्त्याश्वीन्द्वर्कादिति गुरुहरिमित्रानिलाह्वया देवाः । पूर्वोत्तरत्रयी यमहरविधयो मानुषाः परेऽसुरभाः ॥ २९.४८॥ नन्दास्वारभ्य रिक्तासु प्रयोज्यात्मनि संहरेत् । भद्रासु सङ्ग्रहं कुर्याज्जयासु च विशेषतः । आरेणारभ्य मन्देन प्रयोज्यादित्यवारके ॥ २९.४९॥ संहरेत्सङ्ग्रहं कुर्याद्वारे त्वाचार्ययोः सुधीः । चरोर्विसृज्योभयकैराहरेदभ्यसेत्स्थिरैः ॥ २९.५०॥ दिनास्त्रं दिनकृद्युक्तं वारग्रहसमन्वितम् । कृत्तिकादि च कृत्यान्तं कृत्यास्त्रं जातवेदसः ॥ २९.५१॥ नक्षत्रात्मा हुताशः स्यात्तिथ्यात्मेन्दुरुदाहृतः । ताभ्यां करोति दिनकृद्विसर्गादानकर्मणी ॥ २९.५२॥ रक्षानिग्रहकर्मणोरनु पराग्वक्त्राः प्रधानाकृति- प्रख्या मन्त्रविधानविच्च दिशि दिश्येकादशैकादश । संस्थाप्य क्रमशोऽक्षरोदितरुचीः शक्तीर्जपेद्वा मनुं सम्यग्वा जुहुयादनुप्रतिगतं सिद्ध्यै समाराधयेत् ॥ २९.५३॥ पीतायोमुष्टिगदाहस्ता महिषाज्यसंयुतपुलाकैः । वैभीतारिष्टसमित्कोद्रवकैः स्तम्भयेच्च हुतविधिना ॥ २९.५४॥ सुसिता पाशाज्रुशयुग्विलद्वारिप्रवाहसम्भिन्ना । वेतससमिदाहुत्या मधुरयुजा मङ्क्षु वर्षयेद्दुर्र्गा ॥ २९.५५॥ रक्ता पाशाज्रुशिनी निशि फलिनीकेसरोद्भवैः कुसुमैः । चन्दनरससंसिक्तैर्होमाद्दुर्गा वशीकरोति जगत् ॥ २९.५६॥ लवणैस्त्रिमधुरसिक्तैस्तत्कृतया वा जुहोतु पुत्तल्या । उडुतरुकाष्ठैर्नक्तं सप्ताहान्नृपतिमपि वशीकुरुते ॥ २९.५७॥ सकपालशूलपाशाज्रुशहस्तारुणतरा तथा दुर्गा । आकर्षयते लावणपुत्तल्या त्रिमधुराक्तया होमात् ॥ २९.५८॥ ध्यात्वा धूम्रां मुसलत्रिशिखकरामस्थिभिश्च तीक्ष्णाक्तैः । कार्पासानां निम्बच्छदमेषघृतैर्हुताच्च विद्वेषः ॥ २९.५९॥ धूम्रा तर्जनिशूलाहितहस्ता विषदलैः समहिषाज्यैः । होमाच्च मरिचसर्षपचरुभिरजारुधिरसेचितैरटयेत् ॥ २९.६०॥ शिखिशूलकराग्निनिभा सर्षपतैलाक्तमत्तबीजैश्च । मरिचैर्वा राजियुतैर्होमादहितान्विमोहयेद्दुर्गा ॥ २९.६१॥ कृष्णा शूलासिकरा रिपुदिनवृक्षोद्भवैः समित्प्रवरैः । व्रणकृद्धृतसंसिक्तैर्होमान्मासेन मारयेद्दुर्गा ॥ २९.६२॥ नक्षत्रवृक्षसमिधो मरिचानि च तीक्ष्णहिङ्गुशकलानि । मारणकर्मणि विहितान्यरुष्करस्नेहसिक्तानि ॥ २९.६३॥ नक्षत्रवृक्षसमिधां विलिखितसाध्याभिधानकर्मवताम् । सचतुश्चत्वारिंशत्तत्त्वयुजां होमकर्म मरणकरम् ॥ २९.६४॥ मरिचं क्षौद्रसमेतं प्रत्यक्पुष्पीपरागसम्भिन्नम् । उष्णाम्भःपरिलुलितं प्रसेचयेदृक्षवृक्षपुत्तल्याः ॥ २९.६५॥ हृदये वदने च रिपोः सम्मुखतः सम्प्रतिष्ठितोरायाः । जूत्येभिभूतोऽरिः स्यात्तत्क्वथनात्पक्षमात्रकान्म्रियते ॥ २९.६६॥ सैव प्रतिकृतिरसकृत्प्रतिष्ठितसमीरणा च विशदधिया । तीक्ष्णस्नेहालिप्ता विलोमजापेन तापनीयाग्नौ ॥ २९.६७॥ विधिना ज्वरपीडा स्यादपघनहोमेन हानिरङ्गस्य । सर्वाहुत्या मरणं प्राप्नोति रिपुर्न तत्र सन्देहः ॥ २९.६८॥ प्राक्प्रोक्तान्भूतवर्णान्दश दश युगशो बिन्दुयुक्तान्नमोन्ता- न्योनेर्मध्याश्रमध्येष्वपि पुनरथ संस्थाप्य भूताभवर्णान् । वर्णैस्तैः साकमग्नेर्मनुमपि कुलिशाद्यैः स्वचिह्नैः समेतं कुर्यात्कर्माणि सम्यक्पटुविशदमतिः स्तम्भनाद्यानि मन्त्री ॥ २९.६९॥ ऊदोद्गादिलळाः कोर्नसौ चतुर्थार्णका वसौ वाराम् । दृष्ट्यैद्वितीयरक्षा वह्नेद्वन्द्वयोनिकादियषाः ॥ २९.७०॥ मरुतः कपोलबिन्दुकपञ्चमवर्णाः शहौ तथा व्योम्नः । मनुषु परेष्वपि मन्त्री कर्माणि करोतु तत्र संसिद्ध्यै ॥ २९.७१॥ उन्मत्तक्ष्वेलनेत्रद्रुमभवसमिधां सप्तसाहस्रिकान्तं प्रत्येकं राजितैलालुलितमथ हुनेन्माहिषाज्यप्लुतं वा । कृष्णाष्टम्याद्यमेवं सुनियतचरितः सप्तरात्रं निशायां निःसन्देहोऽस्य शत्रुस्त्यजति किल निजं देहमाविष्टमोहः ॥ २९.७२॥ सामुद्रे च सहिङ्गुजीरकविषे साध्यक्र्षवृक्षाकृतिं कृत्वा यो वदनाञ्जले घटकटाहादिश्रिते क्वाथयेत् । सप्ताहं ज्वलनं जपन्विषतरोर्यष्ट्या शिरस्ताडनं कुर्वन्सप्तदिनान्तरैर्यमपुरक्रीडापरः स्यादरिः ॥ २९.७३॥ अर्कस्यन्दनबद्धपन्नगमुखग्रस्ताङ्घ्रिमाशाम्बरं न्यग्वक्त्रं तिलजाप्लुतं विषहरं दीप्तं करैर्भास्वतः । वायुप्रेरितवह्निमण्डलमहाज्वालाकुलास्यादिकं ध्यायन्वैरिणमुत्क्षिपेज्जलममुं मन्त्रं जपेन्मृत्यवे ॥ २९.७४॥ आद्र्रांशुकोऽग्निमनुना त्वथ सप्तरात्रं सिद्धार्थतैललुलितैर्मरिचैर्जुहोतु । आरभ्य विष्टिदिवसेऽरिनरः प्रलाप- मूर्छान्वितेन विषयीक्रियते ज्वरेण ॥ २९.७५॥ तालस्य पत्रे भुजपत्रके वा मध्ये लिखेत्साध्यनराभिधानम् । अथाभितो मन्त्रमिमं विलोमं विलिख्य भूमौ विनिखन्य तत्र ॥ २९.७६॥ आधाय वैश्वानरमादरेण समच्र्य सम्यङ्मरिचैर्जुहोतु । तीव्रो ज्वरस्तस्य भवेत्पुनस्त- त्तोये क्षिपेद्वश्यतमः स भूयात् ॥ २९.७७॥ सिंहस्थाशरनिकरैः कृशानुवक्त्रै- र्धावन्तं रिपुमनुधावमानमेनाम् । सञ्चिन्त्य क्षिपतु जलं दिनेशबिम्बे जप्त्वामुं मनुमपि चाटनाय शीघ्रम् ॥ २९.७८॥ कृत्वा स्थण्डिलमङ्गणे भगवतीं न्यासक्रमैरर्चये- द्गन्धाद्यैः पुनरन्धसा च विकिरेन्मन्त्री निशायां बलिम् । जप्त्वा मन्त्रममुं च रोगसहिताः कृत्यानिकृत्या कृतां- स्तांस्तान्भूतपिशाचवैरिविहितान्दुःखानसौ नाशयेत् ॥ २९.७९। विधिवदभिज्वाल्यानलमन्वहमाराध्य गन्धपुष्पाद्यैः । सन्ध्याजपाच्च मनुरयमाकाङ्क्षितसकलसिद्धिकल्पतरुः ॥ २९.८०॥ कुसुमरसलुलितलोणैर्वारुणवदनो जुहोतु सन्ध्यासु । मन्त्रार्णसङ्ख्यमग्नेरैक्येन द्रावयेदरीनचिरात् ॥ २९.८१॥ शुद्धैश्च तण्डुलैरपि हविर्विनिष्पाद्य पञ्चगव्यमपि । सघृतेन तेन जुहुयादष्टसहस्रं समेतसम्पातम् ॥ २९.८२॥ प्राशितसम्पातस्य स्याद्रक्षा सर्वथैव साध्यस्य । प्राङ्गणमन्दिरयोरपि निखनेद्वारे च शिष्टसम्पतम् ॥ २९.८३॥ कृत्या नश्यति तिंस्मन्वीक्षन्ते न ग्रहादयो भीत्या । कर्तारमेव कुपिता कृत्या सर्वात्मना च नाशयति ॥ २९.८४॥ ब्रह्मद्रुमफलकान्ते मन्त्रितमः सप्तसप्तकोष्ठयुते । कोणोदराणि हित्वा मायाबीजं सकर्ममध्यगते ॥ २९.८५॥ विलिखेत्क्रमेण मन्त्राक्षरांश्च शिष्टेषु तेषु कोष्ठेषु । तत्र मरुतः प्रतिष्ठां विधाय विनिधाय वह्निमपि जुहुयात् ॥ २९.८६॥ आज्येनाष्टसहस्रं फलकोपरि सम्यगात्तसम्पातम् । विप्रतिपत्तिधरायां निखनेन्नश्यन्त्युपद्रवाः सद्यः ॥ २९.८७॥ सिकताचरुगव्याश्मकमृदां प्रतिष्ठा विधीयते सिद्ध्यै । प्रस्थाढकघटमाना ग्रहपुरविषयाभिगुप्तये सिकताः ॥ २९.८८॥ मध्याष्टाशान्तसु च कुण्डानामारचय्य नवकमपि । विधिना निवपेत्क्रमशः सिंहधनुश्छागयायिनि दिनेशे ॥ २९.८९॥ तिथिषु तु कालाष्टम्यां तेषु विशाखाग्निमूलभागेषु । वारेषु मन्दवाक्पतिवर्जं सर्वे तथा प्रशस्यन्ते ॥ २९.९०॥ हस्तश्रवणमखासु प्राजापत्येषु कर्म कुर्वीत । द्वादशसहस्रसङ्ख्यं प्रजपेद्गायत्रमपि यथाप्रोक्तम् ॥ २९.९१॥ मध्ये च मूलमनुना तदायुधैरष्टदिक्षु चक्राद्यैः । सकपालान्तैः पृथगपि संस्थापनकर्म निगदितं विधिवत् ॥ २९.९२॥ तास्ताश्च देवता अपि परिपूज्य यथाक्रमेण मन्त्रितमः । कुर्याद्बलिं दिनग्रहकरणेभ्यो लोकपालराशिभ्यः ॥ २९.९३॥ सिकताः षोडशकुडुवं ब्रह्मद्रुमभाजने तु गव्याक्तम् । निवपति यदि विधिना तं देशं ग्रामं करोति चतुरब्दात् ॥ २९.९४॥ अर्केऽजस्थेऽब्धिगायामपरिमितजलायां समादाय शुद्धाः सम्म्यक्संशोषयित्वातपमनु सिकताः शूर्पकोणैर्विशोध्य । संसिद्धे पञ्चगव्ये सुमतिरथ विनिक्षिप्य ताः कुम्भसंस्था मन्त्राग्नौ मन्त्रजापी द्विजतरुसमिधा भर्जयेत्कार्यहेतोः ॥ २९.९५॥ एवं मृदुपलचरवः संस्थाप्यन्ते सपञ्चगव्यास्ते । वसुधाविप्रतिपत्तिक्षयं च पुष्टिं च कुर्वते क्रमशः ॥ २९.९६॥ व्रीहिभिरन्नैः क्षीरैः समिद्भिरथ दुग्धवीरुधामाज्यैः । मधुरत्रयमधुरतरैर्महतीमृद्धिं करोति हुतविधिना ॥ २९.९७॥ यद्यद्वाञ्छति पुरुषस्तत्तदमुष्य प्रभावतः साध्यम् । सग्रहनक्षत्राद्यां सगिरिपुरग्रामकाननां वसुधाम् ॥ २९.९८॥ साहिझषोपलमुदधिं दहति ह मतिमानयत्नमेतेन । एवं प्रोत्थापयति च मन्त्रेणानेन निशितधीर्मन्त्री । पुंसा केन कियद्वा मन्त्रस्याचक्षतेऽस्य सामथ्र्यम् ॥ २९.९९॥ तस्मादेनं मनुवरमभीष्टाप्तये संयतात्मा जप्यान्नित्यं सहुतविधिरप्यादरादर्चयीत । भक्त्या कुर्यात्सुमतिरभिषेकादिकं कर्मजातं कर्तुं वान्यत्प्रवणमतिरत्रैव भक्तः सदा स्यात् ॥ २९.१००॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे एकोनत्रिंशः पटलः ॥

॥ त्रिंशः पटलः ॥

अथाभिवक्ष्ये महितस्य मन्त्रस्यानुष्टुभः सङ्ग्रहतो विधानम् । ऋष्यादिकैरङ्गपदैर्यथावद्दीक्षाजपार्चाहवनैः क्रमेण ॥ ३०.१॥ ऋषिरभिहितो वसिष्ठश्छन्दोऽनुष्टुप्च देवता रुद्रः । त्र्यम्बकपदादिका स्यान्मनुनैव षडङ्गकॢप्तिरथ कथिता ॥ ३०.२॥ त्रिभिस्तु वर्णैर्हृदयं शिरश्च चतुर्भिरष्टाभिरथो शिखा च । उक्तं नवार्णैः कवचं तथाक्षि- पञ्चार्णकं त्र्यक्षरमस्त्रमाहुः ॥ ३०.३॥ प्राक्प्रत्यग्यास्यसौम्ये शिरसि च वदनोरोगलांसेषु नाभौ हृद्देशे पृष्ठकुक्ष्योरथ शिवगुदयोरूरुमूलान्तयोश्च । जान्वोस्तद्दृत्तयुग्मस्तनतटयुगपाश्र्वेषु पत्पाणिनासा- शीर्षेष्वप्यूध्र्वतोऽर्णैन्र्यसतु पुनरधस्तोऽपि मन्त्री तथोध्र्वम् ॥ ३०.४॥ चरणाग्रसन्धिषु गुदाधारोदरहृदयकन्धरेषु पुनः । बाह्वोः सन्ध्यग्रास्यघ्राणद्वयदृक्श्रुतिभ्रुशीर्षेषु ॥ ३०.५॥ वर्णान्न्यस्य शिरोभ्रूदृग्वक्त्रकगलहृदुदरगुह्यषु । ऊर्वोर्जान्वोः पादयोः पदैश्च मनुवित्क्रमेण विन्यस्येत् ॥ ३०.६॥ वसिष्ठादिक्रमेणैव अङ्गन्यासं समाचरेत् । वसिष्ठस्त्र्यम्बकश्चैव त्रिणेत्रश्च तथैव च । अनुष्टुप्छन्दसे चेति जातियुक्तेन मन्त्रवित् ॥ ३०.७॥ अच्छस्वच्छारविन्दस्थितिरुभयकराज्र्स्थितं पूर्णकुम्भं द्वाभ्यां वेदाक्षमाले निजकरकमलाभ्यां घटौ नित्यपूर्णौ । द्वाभ्यां तौ च स्रवन्तौ शिरसि शशिकलाबन्धुरे प्लावयन्तौ देहं देवो दधानः प्रदिशतु विशदाकल्पजालः श्रियं वः ॥ ३०.८॥ प्रासादोक्ते पीठे गव्यैर्वा दुग्धतरुकषायैर्वा । सम्पूर्यकलशमस्मिन्महेशमावाह्य पूजयेद्भक्त्या ॥ ३०.९॥ अङ्गैराद्यार्काद्यैः पुनरावृतिरष्टभिद्र्वितीया स्यात् । मन्त्रार्णशक्तिभिः स्युः पुनश्चतस्रो दिशापवङ्काआद्यैः ॥ ३०.१०॥ अर्केन्दुधरणितोयानलेरवियदात्मसंज्ञकास्ते च । आनुष्टुभमित्यष्टावरणं प्रोक्तं विधानवरमेवम् ॥ ३०.११॥ रमा राका प्रभा ज्योत्स्ना पूर्णोषा पूरणी सुधा । विश्वा विद्या सुधा प्रह्वा सारा सन्ध्या शिवा निशा ॥ ३०.१२॥ आद्र्रा प्रज्ञा प्रभा मेधा कान्तिः शान्तिद्र्युतिर्मतिः । परोमा पावनी पद्मा शान्ता मेधा जयामला ॥ ३०.१३॥ द्वात्रिंशदिति निर्दिष्टाः शक्तयोऽनुष्टुभः क्रमात् । शिवानुभावतो नित्यं जगदाप्याययन्ति याः ॥ ३०.१४॥ इति परिपूज्य महेशं कलशजलैः समभिषेचयेच्छिष्यम् । कनकांशुकरत्नाद्यैर्गुरुमपि परिपूज्य मनुमतः सिद्धम् ॥ ३०.१५॥ प्रजपेल्लक्षायत्या द्रव्यैर्जुहुयाज्जपावसाने च । बिल्वपलाशौ खदिरो वटतिलसिद्धार्थदौग्धदुग्धानि ॥ ३०.१६॥ दधिदूर्वेति दशैतान्याज्यसमेतानि होमवस्तूनि । एकैकशः सहस्रं दशभिर्हुत्वा प्रतप्र्य विप्रांश्च ॥ ३०.१७॥ भवति नरः सिद्धमनुर्मन्त्रेण च सर्वकर्मकर्ता स्यात् । बिल्वैरयुतं हुत्वा महतीं लक्ष्मीमवाप्नुयाद्विप्रः ॥ ३०.१८॥ तावद्भिद्विजवृक्षैर्द्विजः श्रियं पुष्कलामवाप्नोति । खदिरसमिदयुतहोमात्तेजोबलपुष्टिमाप्नुयादिष्टाम् ॥ ३०.१९॥ न्यग्रोधायुतहोमाद्धनधान्यसमृद्धिमेति नचिरेण । अयुतं तिलैः प्रजुह्वन्नपमृत्योः पाप्मनो विमुक्तः स्यात् ॥ ३०.२०॥ सिद्धार्थायुतहोमो वैरिणमपमृत्युमपि विनाशयति । पायसहुतेन परमां रमामथायुर्यशो लभेन्मत्र्यः ॥ ३०.२१॥ दुग्धहुतात्कान्तिः स्यात्परकृत्या नश्यति श्रियं लभते । दधिदोमतोऽन्नवान्स्यात्संवननकरं च तं वदन्ति बुधाः ॥ ३०.२२॥ दूर्वायुतेन जुहुयाद्रोगान्निर्वास्य सर्वमपमृत्युम् । र्गिवतधीरब्दानां विप्रवरः सर्वथा शतं जीवेत् ॥ ३०.२३॥ निजजन्मदिने पयोन्धसा वा शतवीर्यत्रितयैः पयोघृताक्तैः । जुहुयाच्च शतं सविंशतिं यः स लभेदायुररोगतां चिराय ॥ ३०.२४॥ काष्मर्यदारुसमिधां त्रिशतं सहस्रं र्सिपःपयोन्नसहितं त्रितयं जुहोतु । विप्रान्प्रतप्र्य च गुरून्परिपूज्य सम्य- ग्दीर्घं विमुक्तगदमायुरवाप्तुकामः ॥ ३०.२५॥ स्नात्वार्काभिमुखोऽम्भसि स्थित इमं मन्त्रं सहस्रं जपे- दायुष्यं प्रतिपर्व दुग्धहविषा होमो महाश्रीप्रदः । लाजाभिर्निजवाञ्छिताय हवनात्कन्याशु सन्दीयते स्वाद्वक्तस्तनजद्रुमैश्च हवनात्सर्वान्वशे स्थापयेत् ॥ ३०.२६॥ गायत्रिवर्णपरिपूर्णतनुस्तु भानु- स्त्रिष्टुब्विशिष्टमहिमा महितः कृशानुः । आनुष्टुभाक्षरसमग्ररुचिः शशाज्रे दद्युः समुद्यतममी परिवाञ्छितं वः ॥ ३०.२७॥ एभिस्त्रिभिर्मनुवरैस्तु शताक्षराख्यो मन्त्रोऽभिकाङ्क्षितफलाप्तिदकामधेनुः । प्रोक्तो हिताय जगतां मुनिभिः कृपाद्र्र- चित्तैर्यथोक्तमथ सङ्ग्रहतो वदामि ॥ ३०.२८॥ ऋष्याद्याः पूर्वोक्तास्त्रिदशाः स्युर्हृत्त्रयोदशभिरर्णैः । शिर एकादशभिश्च द्वाविंशद्भिस्तथा शिखाकवचम् ॥ ३०.२९॥ नयनं पञ्चदशार्णैः ससप्तभिर्दशभिरस्त्रमङ्गविधिः । विन्यासं च मनूनां मन्त्रज्ञः पूर्ववत्क्रमात्कुर्यात् ॥ ३०.३०॥ स्मर्तव्याखिललोकर्वित सततं यज्जङ्गमस्थावरं व्याप्तं येन च यत्प्रपञ्चविहितं मुक्तिश्च यत्सिद्धितः । यद्वा स्यात्प्रणवत्रिभेदगहनं श्रुत्या च यद्गीयते तद्वः काङ्क्षितसिद्धयेऽस्तु परमं तेजस्त्रयोत्थं महः ॥ ३०.३१॥ लक्षायतो जपविधिः शताक्षरस्याथ होमविधिरुक्तः । अयुतावधिको द्रव्यं दौग्धान्नं र्सिपषा समायुक्तम् ॥ ३०.३२॥ सौरे पीठे पूज्या पूर्वोक्ताङ्गैः समावृतिः प्रथमा । प्रह्लादिन्याद्याभिस्तिस्रः प्रोक्ताः क्रमात्समावृतयः ॥ ३०.३३॥ पञ्चम्यावृतिरुक्ता त्रैष्टुभवज्जागतादिभिस्तदनु । स्याच्चरमादिभिरावृतिचतुष्कमुक्तं दशम्यथेन्द्राद्यैः ॥ ३०.३४॥ इति शताक्षरमन्त्रसमर्चना निगदितेह दशवरणा बुधैः । प्रजपतामभिकाङ्क्षितसिद्धये निखिलसंसृतिमोक्षपदाप्तये ॥ ३०.३५॥ दुग्धाक्तैर्जुहुयात्सहस्रममृताकाण्डैस्तु दीर्घायुषे दूर्वाणां त्रितयैस्तथा घृतपयःसिक्तैर्घृतेनैव वा । लक्ष्म्यै कोकनदैश्च शोणरुचिभिस्त्रिस्वादुयुक्तैस्तथा रक्तैरुत्पलकैस्तदह्नि विकचैर्बैल्वप्रसूनैरपि ॥ ३०.३६॥ अनुदिनमघशान्त्यै संयतात्मा सहस्रं प्रतिजुहुतु तिलैर्वा मन्त्रविन्मासमेकम् । अपि दिनकरसङ्ख्यं भोएजयीत द्विजाती- न्विविधरसविशिष्टैर्भक्तितो भोज्यजातैः ॥ ३०.३७॥ शतं शतं प्रातरतन्द्रितोद्यतो जपेद् द्विजो मन्त्रमिमं शताक्षरम् । अरोगजुष्टं बहुलेन्दिरायुतं शतं स जीवेच्छरदां सुखेन सः ॥ ३०.३८॥ सर्वान्कामानवाप्नोति मन्त्रमेनं जपेत्तु यः । सर्वं साधयते मन्त्री अस्त्रशस्त्रादिलक्षणम्।३९॥ प्रणवव्याहृत्याद्या व्याहृतितारान्तिका च मन्त्री च । जप्त्वा शताक्षरी स्यादिहपरलोकप्रसिद्धये दिनशः ॥ ३०.४०॥ मनुममुमघशान्त्यै पत्पदाद्यं प्रजप्या- द्गदगणरहितायाप्यायुषेऽनुष्टुबाद्यम् । विमलमतिररातिध्वंसने त्रिष्टुबाद्यं दिनमनु दिनवक्त्रे वत्सरं संयतात्मा ॥ ३०.४१॥ शताक्षरमनोरयं क्रम उदीरितः सङ्ग्रहा- द्भजेदमुमतन्द्रिते दिनश एव मन्त्री रहः । अभीष्टफलसिद्धये सुयशसे च दीर्घायुषे- ऽप्यशेषजनरञ्जनाय चिरमिन्दिरावाप्तये ॥ ३०.४२॥ संवादसूक्तविहितं विधानमथ साङ्गदेवतारूपम् । वक्ष्यामि साधकानामनुदिनमभिवाञ्छितप्रदानकरम् ॥ ३०.४३॥ ऋषिरपि संवननोऽस्यानुष्टुप्च त्रिष्टुबुच्यते च्छन्दः । संवादाद्यः प्रोक्तः संज्ञानाद्यश्च देवता वह्निः ॥ ३०.४४॥ ब्रह्माख्यो हृदयमनुः शिरश्च विष्णू रुद्रः स्यादिह तु शिखेश्वरश्च वर्म । नेत्रे द्वे भवति सदाशिवस्तथास्त्रं सर्वात्मेत्यथ कथितं षडङ्गमेवम् ॥ ३०.४५॥ धवलनलिनराजच्चन्द्रमध्ये निषण्णं करविलसितपाशं साज्रुशं साभयं च । सवरदममलेन्दुक्षीरगौरं त्रिणेत्रं प्रणमत सुरवक्त्रं मुङ्क्षु संवादयन्त्रम् ॥ ३०.४६॥ सहस्रकाणां दशभिश्चतुर्भिर- प्यथो सहस्रैश्च चतुर्भिरन्वितम् । जपेन्मनुं सम्यगथाभिदीक्षितः पयोन्धसान्ते जुहुयाद्दशांशकम् ॥ ३०.४७॥ यजेत्पुराङ्गैश्च तदर्चनाविधौ पुर्निद्वतीयावरणेऽग्निमूर्तिभिः । अनन्तरं च त्रिदिवेश्वरादिभिः क्रमेण वह्निं विधिनेति पूजयेत् ॥ ३०.४८॥ संवादसूक्ते विधिनेत्यनेन संसाधिते कर्म करोतु मन्त्री । चतुःशतं चापि दशोत्तरेण चतुश्चतुष्कं प्रजपेद्धुनेद्वा ॥ ३०.४९॥ पायसेन मधुरत्रयभाजा विप्रराजतरुजैः कुसुमैर्वा । र्सिपषा स्तनजवृक्षसमिद्भिर्वाञ्छितार्थविधये प्रजुहोतु ॥ ३०.५०॥ जुहुयात्कलाचतुष्कैः प्रत्यृचमायोज्य कादिवर्गचतुष्कैः । तद्वच्च पयशलाद्यैर्वर्गैः संयोज्य पूर्ववन्मतिमान् ॥ ३०.५१॥ तद्वदृचं प्रतियोज्य त्रिष्टुप्पादांश्च पूर्वसङ्ख्येन । जुहुयात्र्सिपःसिक्तं पायसमचिरेण कार्यसमवाप्त्यै ॥ ३०.५२॥ प्रतिपादमथक्र्पादं प्रतियोज्य जुहोतु पूर्ववन्मतिमान् । तेनाभीष्टावाप्तिर्नचिरेण नरस्य हस्तगा भवति ॥ ३०.५३॥ अक्षरपादात्त्रिष्टुब्युक्तैः सूक्तैस्तु पूर्वसङ्ख्येन । जुहुयात्समाजरूपं संवादयितुं प्रतर्पयेद्वाग्भिः ॥ ३०.५४॥ उद्दिश्य यद्यदिह मन्त्रितमो जुहोति सूक्तैरमा निगदितैस्त्रिविधैश्च मन्त्रैः । व्यस्तैर्यथाविभवतो विधिवत्समस्तै- स्तत्तस्य सिध्यति समग्रमयत्नमेव ॥ ३०.५५॥ ऋग्वारुणी ध्रुवा स्वाद्या या सा त्रिष्टुब्निगद्यते । ऋषिर्वसिष्ठस्त्रिष्टुप्च च्छन्दो वारीशदेवता ॥ ३०.५६॥ अष्टभिः सप्तभिः षड्भिः पुनस्तावद्भिरक्षरैः । षडङ्गानि विधेयानि तन्मन्त्रसमुदीरितैः ॥ ३०.५७॥ अङ्गुल्यग्रससन्धिपायुशिवसंज्ञाधारनाभिष्वथो कुक्षौ पृष्ठहृदोरुरोजगलदोःसन्ध्यग्रवक्त्रेषु च । गण्डघ्राणविलोचनश्रवणयुग्भ्रूमध्यमध्येषु के सर्वाङ्गेषु तथा न्यसेद्विशदधीर्वर्णैः समर्थैः क्रमात् ॥ ३०.५८॥ अच्छांशुकाभरणमाल्यविलेपनाढ्यः पाशाज्रुशाभयवरोद्यतदोः सरोजः । स्वच्छारविन्दवसतिः सुसितः प्रसन्नो भूयाद्विभूतिविधये वरुणश्चिरं वः ॥ ३०.५९॥ अङ्गैरष्टभिरहिपैर्दिशाधिपैः समभिपूज्य वारीशम् । कलशैः पुनरभिषिञ्चेत्परमगुरुर्मन्त्रजापिनं शिष्यम् ॥ ३०.६०॥ वसुभिः प्रसाद्य देशिकमथ शिष्यो मनुमिमं जपेल्लक्षम् । जुहुयाच्च दुग्धपक्वैरन्नैरयुतं घृताप्लुतैर्मतिमान् ॥ ३०.६१॥ ऋगियमृणमोचनी स्याज्जपैर्हुतैस्तर्पणैश्च मन्त्रविदः । सम्प्राप्तदुर्गतेरपि सद्यो हृद्यां च संवहेल्लक्ष्मीम् ॥ ३०.६२॥ इक्षोः सितैश्च शकलैर्घृतसंसिक्तैश्चतुर्दिनं जुहुयात् । सकलोपद्रवशान्त्यै तथर्णमुक्त्यै च सम्पदे सुचिरम् ॥ ३०.६३॥ वैतससमिदयुतहुताद्वृष्टिमकालेऽपि वितनुते वरुणः । गव्यक्षीरसमेतात्त्रिदिनकृताद्दिनमुखेषु मुदितमनाः ॥ ३०.६४॥ शतभिषजि समुदितेऽर्के चतुःशतं पायसं हुनेत्सघृतम् । ऋणमोचनाय लक्ष्म्यै जनसंवननाय शुक्रवारे वा ॥ ३०.६५॥ पाशाबद्धं वैरिणमज्रुशसम्प्रोतमम्बुधेः पारे । ध्यायन्परे क्षिपन्तं वरुणं जुहुयाच्च वा तथा प्रजपेत् ॥ ३०.६६॥ पाशनिबद्धं वैरिणमसिना च्छित्वाशु नाशयन्तममुम् । ध्यायन्वेतससमिधा गोमूत्रयुजा हुनेत्तदपहत्यै ॥ ३०.६७॥ दौग्धान्नैर्भृगुवारे घृतसंसिक्तैः कृतश्च हवनविधिः । ऋणमोक्षदश्च विविधोपद्रवशमकृद्रमाकरः प्रोक्तः ॥ ३०.६८॥ पश्चिमसन्ध्यासमये पश्चिमवदनोऽनलं समाराध्य । ऋचमेनामभिजप्याच्चतुःशतं सकलदुःखनाशाय ॥ ३०.६९॥ शालीघृतसंसिक्ताः सरिदन्तरतो जुहोतु परसेनाम् । संस्तम्भयितुं त्रिदिनं सुमना मन्त्री चतुःशतावृत्त्या ॥ ३०.७०॥ प्रत्यङ्मुखोऽथ मन्त्री प्रतर्पयेद्वा जलैः सुशुद्धतरैः । यः सोऽप्युपद्रवाणां रुन्धेरन्निवहं श्रियं समृच्छति च ॥ ३०.७१॥ बहुना किमनेन मन्त्रिमुख्यो मनुनाशु प्रतिसाधयेदभीष्टम् । हवनक्रिययाथ तर्पणैर्वा सजपैः पाशभृतो महामहिम्नः ॥ ३०.७२॥ अथ लवणमनुं वदामि साङ्गं सजपं सप्रतिपत्तिकं सहोमम् । विधिवद्विहितेन येन सर्वां जगतीमात्मवशे करोति मन्त्री ॥ ३०.७३॥ लवणाम्भसि चेत्याद्या द्वितीया लवणे इति । देहेति च तृतीया स्यात्सदग्ध्वेति चतुथ्र्यपि ॥ ३०.७४॥ ऋक्पञ्चमी तु या ते स्याद्यथा प्रोक्तमथर्वणि । ऋग्भिराभिस्तु पञ्चाङ्गं पञ्चभिर्वा समीरितम् ॥ ३०.७५॥ चिट्यक्षरैः षडङ्गं वा प्रणवाद्यैर्निगद्यते । पञ्चभिश्च त्रिभिरपि पञ्चभिः पञ्च चाक्षरैः ॥ ३०.७६॥ सपञ्चभिर्युगार्णेण जातियुक्तैः समाहितः । अङ्गिराः स्यादृषिश्छन्दोऽनुष्टुबत्रैव देवता । अग्निरात्री तथा दुर्गा भद्रकाली समीरिता ॥ ३०.७७॥ अरुणोऽरुणपज्र्जसन्निहितः स्रुवशक्तिवराभययुक्तकरः । अमितार्चिरजात्तगतिर्विलसन्नयनत्रितयोऽवतु वो दहनः ॥ ३०.७८॥ नीलवरांशुककेशकलापा नीलतनुर्निबिडस्तनभारा । साज्रुशपाशसशूलकपाला यामवती भवतोऽवतु नित्यम् ॥ ३०.७९॥ करकमलविराजच्चक्रशङ्खातिशूला परिलसितकिरीटा पातितानेकदैत्या । त्रिणयनलसिताङ्गी तिग्मरश्मिप्रकाशा पवनसखनिभाङ्गी पातु कात्यायनी वः ॥ ३०.८०॥ सुरौद्रसितदंष्ट्रिका त्रिणयनोध्र्वकेशोल्बणा कपालपरशूल्लसड्डमरुका त्रिशूलाकुला । घनाघननिभा रणद्रुचिरकिज्र्णिईमालिका भवद्विभवसिद्धये भवतु भद्रकाली चिरम् ॥ ३०.८१॥ खेटासिमुसलतोमरकपालशक्तीः सपाशसृणि दधती । दंष्ट्रोग्रा सिंहस्था रात्रिकालिका ध्येया ॥ ३०.८२॥ अयुतं नियतो मत्रमृक्पञ्चकसमन्वितम् । प्रजपेत्त्रिसहस्रं वा सम्यगेनं समाहितः ॥ ३०.८३॥ दशांशेन हुनेत्सिद्ध्यै हविषा घृतसंयुजा । एवं कृते प्रयोगार्हो मन्त्री भूयान्न चान्यथा ॥ ३०.८४॥ वह्निरात्री वरे स्यातां वश्याकर्षणकर्मणोः । दुर्गाकाल्यौ तथा देव्यौ शस्ते मारणकर्मणि ॥ ३०.८५॥ आरभ्य कर्मकृन्मन्त्री तृतीयां कृष्णपक्षजाम् । सन्दीक्षितो भवेत्पूते मन्दिरे मन्त्रजापवान् ॥ ३०.८६॥ निखन्यात्तत्र कुण्डं च दोर्मात्रं त्र्यश्रमेखलम् । चतुष्कं सुन्दराकारं पुत्तलीनां च कारयेत् ॥ ३०.८७॥ एतां साध्यक्र्षवृक्षेण शालिपिष्टेन चापराम् । चक्रीकरमृदा चान्यां मधूच्छिष्टेन चेतराम् ॥ ३०.८८॥ तासु हृद्देशलिखितसाध्याख्यासु समाहितः । सम्यक्संस्थापयेत्प्राणान्साध्यादानीय साधकः ॥ ३०.८९॥ उक्तानां दारवीं कुण्डे खनेन्मन्त्राभिमन्त्रिताम् । विष्टरां विष्टरस्याधः पादस्थाने च मृन्मयीम् ॥ ३०.९०॥ लम्बयेदम्बरे सिद्धमयीमूध्र्वमधोमुखीम् । पुनः कृष्णाष्टमीरात्रौ पूर्वयामे गते सति ॥ ३०.९१॥ रक्तमाल्याम्बरो मन्त्री कृतरक्तानुलेपनः । सम्यक्कृतलिपिन्यासप्राणायामादिकः शुचिः ॥ ३०.९२॥ कुडुवं पोतलवणं सुश्लक्ष्णं परिचूर्णितम् । दधिक्षौद्रघृतक्षीरैः प्रोक्षयित्वा सुशोधितम् ॥ ३०.९३॥ आलोड्य गुडमध्वाज्यैर्विस्पष्टावयवामथ । तेन पुत्तलिकां मन्त्री चार्वङ्गीं कारयेत्सुधीः ॥ ३०.९४॥ तस्यां च स्थापयेत्प्राणान्गुर्वादेशविधानतः । अष्टोध्र्वशतसङ्ख्यं वा तथाष्टोध्र्वसहस्रकम् ॥ ३०.९५॥ ऋक्पञ्चकं पञ्चविंशत्सङ्ख्यं प्रतिकृतिं स्पृशन् । जपित्वाङ्गीनि विन्यस्येत्स्वाङ्गप्रतिकृतावपि ॥ ३०.९६॥ सतारैश्चिटिमन्त्रार्णैश्चतुर्विंशतिसङ्ख्यकैः । शिरोललाटदृक्कर्णनासास्यचिबुकेष्वपि ॥ ३०.९७॥ सकण्ठहृदयोरोजकुक्षिनाभिकटीषु च । मेढ्रपायूरुजान्वाख्यजङ्घाङ्घ्रिषु च विन्यसेत् ॥ ३०.९८॥ अधो गुह्यादभेदः स्यादूध्र्वं भेदेऽन्विते सति । आत्मन्येवं प्रविन्यस्य पुनः प्रतिकृतौ न्यसेत् ॥ ३०.९९॥ अङ्गुष्ठसन्धिप्रदजङ्घाजानूरुपायुषु । सलिङ्गनाभिजठरहृदयेषु स्तनद्वये ॥ ३०.१००॥ कन्धराचिबुकास्येषु घ्राणदृक्कर्णयुग्मके । ललाटशिरसोन्र्यस्येत्प्रतिमायां च संहरेत् ॥ ३०.१०१॥ उपलिप्याथ कुण्डं तद्बहिर्गोमयवारिणा । साध्यसम्मुख आसीन आदध्याद्धव्यवाहनम् ॥ ३०.१०२॥ प्रज्वाल्य साध्योडुतरुकाष्टैरभ्यच्र्य दीप्तिमान् । राजीकुशीतपुष्पाद्भिश्चषके रजतादिके ॥ ३०.१०३॥ देवतां प्रतिपाद्याघ्र्यं दत्त्वा कार्यार्थसिद्धये । उपतिष्ठेद्धुतस्यादावन्ते मन्त्रैरितीरितैः।१०४॥ त्वमाननममित्रघ्न निशायां हव्यवाहन । हविषा मन्त्रदत्तेन तृप्तो भव मया सह ॥ ३०.१०५॥ जातवेदो महादेव तप्तजाम्बूनदप्रभ । स्वाहपते विश्वमक्ष लवणं दह शत्रुहन् ॥ ३०.१०६॥ ईशे ईश्वरि शर्वाणि ग्रस्तं मुक्तं त्वया जगत् । महादेवि नमस्तुभ्यं वरदे कामदा भव ॥ ३०.१०७॥ तमोमयि महादेवि महादेवस्य सुव्रते । स्त्रिया मे पुरुषं गत्वा वशमानय देहि मे ॥ ३०.१०८॥ दुर्गे दुर्गादिरहिते दुर्गसंशोधनार्गले । चक्रशङ्खधरे देवि दुष्टशत्रुभयङ्करि ॥ ३०.१०९॥ नमस्ते दह शत्रुं मे वशमानय चण्डिके । शाकम्भरि महादेवि शरणं मे भवानघे ॥ ३०.११०॥ भद्रकालि भवाभीष्टे भद्रसिद्धिप्रदायिनि । सपत्नान्मे दह दह पच शोषय तापय ॥ ३०.१११॥ शूलादिशक्तिवङ्काआद्यैरुत्कृत्योत्कृत्य मारय । महादेवि महाकालि रक्षात्मानं कुमारिके ॥ ३०.११२॥ पुनः प्रतिकृतेरङ्गसप्तकं निशितायसा । दक्षपादादिकं छित्वा पञ्चर्चं प्रजपेन्मनुम् ॥ ३०.११३॥ साध्यं संस्मृत्य शितधीर्जुहुयात्सप्तसङ्ख्यया । दक्षिणं चरणं पूर्वं ततो दक्षार्धकं पुनः ॥ ३०.११४॥ दक्षहस्तं तृतीयं स्याद्गलादूध्र्वं चतुर्थकम् । पञ्चमं वामहस्तं स्यात्षष्ठं वामार्धमेव च ॥ ३०.११५॥ सप्तमं वामपादं स्यादन्यापि स्याद्धुतक्रिया । सप्त सप्त विभागो वा क्रमादङ्गेषु सप्तसु ॥ ३०.११६। एकादशांशभिन्नैर्वा तदङ्गैः सप्तभिर्हुनेत् । होमोऽन्यथा वा पूर्वं तु दक्षिणश्चरणो भवेत् ॥ ३०.११७॥ द्वितीयो दक्षिणकरस्तृतीयः शिर उच्यते । वामबाहुश्चतुर्थस्तु मध्यादूध्र्वं तु पञ्चकम् ॥ ३०.११८॥ अधोभागस्तु षष्ठः स्याद्वामभागस्तु सप्तकः । हुत्वैवं पूर्वसम्प्रोक्तैरुपस्थापकमन्त्रकैः ॥ ३०.११९॥ अर्चयित्वा दण्डदीर्घं प्रणमेद्धव्यवाहनम् । सकर्षस्वर्णयुक्ताङ्गां शोणां दद्यात्सतर्णकाम् ॥ ३०.१२०॥ दक्षिणां सप्तकर्षां तु दद्यान्मारणकर्मणि । अंशुकं रुचकं धान्यं दत्त्वा सम्प्रीणयेद्गुरुम् ॥ ३०.१२१॥ एवं कृतेन मन्त्रीष्टं लभते होमकर्मणा । अथ वा मारणाकाङ्क्षी साध्यवामाङ्घ्रिपांसुभिः ॥ ३०.१२२॥ सनिम्बतिलसिद्धार्थव्रणकृत्तैलसंयुतैः । हिङ्गुत्रिकटुकोपेतैर्महिषीमूत्रपेषितैः ॥ ३०.१२३॥ वराहपारावतयोः पुरीषेण समन्वितैः । एतैश्च सम्मिश्रयतु लोणं पूर्वोक्तसङ्ख्यकम् ॥ ३०.१२४॥ पूर्ववत्पुत्तलीं तेन लोणचूर्णेन कारयेत् । प्राणान्प्रतिष्ठापयेच्च तत्र पूर्वोक्तसङ्ख्यकम् ॥ ३०.१२५॥ पूर्वोक्ताभिः पुत्तलीभिः कुण्डे दक्षिणदिङ्मुखे । दुर्गां वा भद्रकालीं वा प्रतिपद्य यथेरिताम् ॥ ३०.१२६॥ उपस्थिते त्वर्धरात्रे सव्यपाणिस्थशस्त्रकः । वामपादं समारभ्य जुहुयात्पूर्वसङ्ख्यया ॥ ३०.१२७॥ समापयेद्दक्षपादं विकारेणायसो वशी । त्रिसप्ताहप्रयोगेण मारयेद्रिपुमात्मनः ॥ ३०.१२८॥ तस्यां रात्र्यामुपोष्याथ परेऽहनि च साधकः । प्राणायामादिभिरपि गायत्रीजपहोमकैः ॥ ३०.१२९॥ विमुक्तपापो भूत्वा तु स पुर्निवहरेत्सुखम् । यां कल्पयन्त्यपामार्गराजीघृतहवींषि च ॥ ३०.१३०॥ पृथगष्टोत्तरशतावृत्त्या हुत्वा बलिं हरेत् । यो मे पुरस्तादित्यादिदशमन्त्रैर्बलिं हरेत् ॥ ३०.१३१॥ इति लवणमनोर्विधानमेवं प्रणिगदितं विधिवत्प्रयोगभिन्नम् । विधिममुमथ साधु सम्प्रयुञ्ज्या- द्व्रजति फलं निजवाञ्छितं चिराय ॥ ३०.१३२॥ अथ वा लवणैः परागभूतै- र्मधुराक्तैः पुनरष्टमीनिशाद्यम् । जुहुयात्तु चतुर्दशीनिशान्तं कुडुबोन्मानितमेभिरेव मन्त्रैः ॥ ३०.१३३॥ नारीनरान्वा नगरं नृपान्वा ग्रामं जनान्वा मनसोऽनुकूलान् । वशीकरोत्येव हुतक्रियेयं चिराय नैवात्र विचारणीयम् ॥ ३०.१३४॥ वस्तुनोक्तेन क्रियतां साङ्गोपाङ्गेन पुत्तली । तस्यां तु साध्यलिङ्गायां प्राणाद्यर्पणमाचरेत् ॥ ३०.१३५॥ निक्षिप्य हृदये किञ्चित्कीटान्तां संस्पृशन्पुनः । प्राणार्पणेन यत्कार्यं क्षिप्रं कुयाद्विचक्षणः ॥ ३०.१३६॥ अथास्य हृदये स्मृत्वा वर्तुलं वायुमण्डलम् । कृष्णषड्बिन्दुगं वायुं वायुगर्भं विचिन्तयेत् ॥ ३०.१३७॥ तत्र भूतास्तु तन्मात्राशब्दाद्यं श्रवणादिकम् । धातून्मनश्च बुद्धिं च सङ्क्षिपेदप्यहङ्क्रियाम् ॥ ३०.१३८॥ तत्सर्वं तेन चण्डेन समीरेण समीरितम् । अवामनासारन्धेरण स्वसमीपमुपानयेत् ॥ ३०.१३९॥ प्रवेशयेच्च पुत्तल्यां पुनस्तेनैव वत्र्मना । प्राणप्रतिष्ठामन्त्रेण लब्धप्राणादिकां तथा ॥ ३०.१४०॥ याद्यष्टकान्भ्रमरवद्धृदयाम्बुजस्थां तत्केसरार्प्तिपरागपरिष्कृताङ्गान् । सञ्चिन्त्य साध्यहृदयेऽपि तथैव भूयः साध्याम्बुजस्थानलिपिस्वकीयैः ॥ ३०.१४१॥ हृत्पद्ममध्यस्थिततन्तुजालैरेकैकमेकोत्पतितैः क्रमेण । निश्वासमात्रेण सुखं प्रविष्टास्तत्प्राणमार्गेण हरेद्विरेफान् ॥ ३०.१४२॥ वायव्याग्नेयैन्द्रवारीण्महेशक्रव्यात्सोमप्रेतनाथाश्रितेषु । किञ्जल्केषु प्राणभूतद्विरेफांस्तत्सम्बन्धांस्तन्तुभिर्बिन्दुभूतैः ॥ ३०.१४३॥ अवामनासामार्गेणैवाकृष्याकृष्य पुत्तलीम् । प्रवेशयेत्सुधीः प्राणान्प्राणाद्यर्पणयोगतः ॥ ३०.१४४॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे त्रिंशः पटलः ॥

॥ एकत्रिंशः पटलः ॥

प्राणप्रतिष्ठानमनोर्विधानं प्रवक्ष्यते सम्प्रति सर्वसिद्ध्यै । यस्मादृतेऽमी कथिताः प्रयोगाः व्यर्था भवेयुर्गतजीवकल्पाः ॥ ३१.१॥ प्रोक्त्वा पूर्वममुष्यशब्दमथ च प्राणा इह प्राणका- स्तद्वज्जीव इह स्थितेति च तथा सर्वेन्द्रियाणीति च । भूयो वाङ्मनसावुदीर्य तदनु प्राणा इहायान्त्विति स्वाहान्तं प्रजपेन्मनुं निशितधीः प्राणान्प्रतिष्ठापयेत् ॥ ३१.२॥ सृष्टिः सा जगतामनादिनिधना विश्वस्य चेष्टाकरी प्राणाख्या प्रकृतिः क्रियामयवपुर्देवी परा देवता । प्रत्येकं कादिवर्गैः प्रतिगतलिपिवैरीबन्दुयुक्तैर्धराद्यैः शब्दाद्यैः श्रोत्रमुख्यैर्वदनकरमुखैस्तत्क्रियाभिः क्रमेण । बुद्ध्याद्यैश्चात्मनेऽन्तैरुपरि च विलसज्जातिभिः षड्भिरेवं कुर्यादङ्गानि सम्यग्वरविशदमतिर्विश्वरूपत्वसिद्ध्यै ॥ ३१.३॥ नाभेर्देशादापदं पाशबीजं हृद्देशादानाभिदेशं च शक्तिम् । आहृद्देशं मस्तकादज्रुशाख्यं न्यस्त्वा यादीन्धातुभिन्र्यस्य सप्त ॥ ३१.४॥ प्राणे जीवे चैव हंसश्च यार्णन्यस्येन्मूलं व्यापकं मस्तकादिम् । एवं न्यस्य प्राणशक्तिस्वरूपं विद्यां ध्यायेदात्मरूपां च देवीम् ॥ ३१.५॥ रक्ताम्बोधिस्थपोतोल्लसदरुणसरोजाधिरूढा कराब्जैः पाशं कोदण्डमिक्षूद्भवमथ गुणमप्यज्रुशं पञ्चबाणान् । बिभ्राणा स्रक्कपालं त्रिणयनलसिता पीनवक्षोरुहाढ्या देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः स्वरूपा ॥ ३१.६॥ ध्यात्वा देवीं प्रजपेदेवं लक्षं मनुं समाहितधीः । आज्येनान्ते जुहुयाच्चरणा वा तद्दशांशतो मन्त्री ॥ ३१.७॥ शाक्ते पीठे देवीं षट्कोणस्थैः प्रजेशहरिरुद्रैः । वाणीलक्ष्मीगिरिजासहितैरङ्गैश्च मातृलोकेशैः ॥ ३१.८॥ प्रयजेच्चतुर्भिरेवं परिवारैर्नित्यमेव निशितमनाः । एवं संसिद्धमनुर्वश्याद्यान्यारभेत कर्माणि ॥ ३१.९॥ पाशाज्रुशान्तरितशक्तिमनोः परस्ता- दुच्चार्य यादिवसुवर्णगणं सहंसम् । पश्चादमुष्यपदमुच्चरतु प्रयोग- मन्त्रोऽयमित्थमुदितो ग्रहसङ्ख्यया वा ॥ ३१.१०॥ मृता वैवस्वता चैव जीवहा प्राणहा तथा । आकृष्या ग्रथना चैव उन्मादा विष्फुलिङ्गिनी । क्षेत्रज्ञा प्रतिहारी च प्राणमूत्र्यः सयादिकाः ॥ ३१.११॥ बद्ध्वा साध्या पाशबीजेन शक्त्या गृह्णनाकृष्याज्रुशेनाथ यादीन् । दूतीश्चोक्त्वा साध्यनाम्नाथ धातू- नेवं मन्त्रो यावदात्मा सवीर्यः ॥ ३१.१२॥ सुप्ताशेषजने निशीथसमये साध्ये स्वपित्यादरा- दारुह्य स्ववशं विधाय हृदये साध्याकृतेः कीलकम् । बद्ध्वा तं च निपीडमेव सहसा कालस्य यष्ट्या शिर- स्याघातात्क्षुभिताखिलेन्द्रियगणं साध्यं स्मरेत्साधकः ॥ ३१.१३॥ वायव्याग्नेयैन्द्रवारीण्महेशक्रव्यात्सोमप्रेतराण्मध्यकेषु । स्थानेष्वेतेष्वष्ट यादीन्सहंसान्भृङ्गान्ध्यायेद्वीजबिन्दुप्रबद्धान् ॥ ३१.१४॥ स्वीये चैवं संस्मरेद्धृत्सरोजे भृङ्गीरूपान्निर्गतान्श्वासमार्गैः । साध्याब्जस्थांश्चञ्चरीकान्गृहीत्वा स्वीयं स्थानं पूर्ववत्सम्प्रविष्टान् ॥ ३१.१५॥ बीजानि रक्तानि तु वश्यकर्मण्यम्भोधराभान्यभिचारकाले । धूम्राणि विद्वेषविधौ समोहे पीतानि संस्तम्भविधौ स्मरेच्च ॥ ३१.१६॥ अथ वा साध्यप्राणान्मण्डूकाकारधारिणो ध्यायेत् । स्वीयान्भुजगाकारानमिचारादौ नृशंसकर्मविधौ ॥ ३१.१७॥ प्राणप्रतिष्ठाकर्मैवं विधायैकादशापरम् । पुत्तल्यादौ खचित्ते वा तांस्तु संस्तम्भयेद्भुवा ॥ ३१.१८॥ आकृष्टानां साध्यदेहादसूनां पुत्तल्यादावप्ययं स्यात्प्रकारः । किं तु स्वीये हृत्सरोजे प्रवेशो वश्याकृष्ट्योरेव नात्राभिचारे ॥ ३१.१९॥ पाशाद्यत्रिकयुक्तमूलहृदयभ्रूमध्यसूत्रायिता साग्निः साध्यललाटरन्ध्रवगतोऽप्यामूलमाजग्मुषि । योन्यां त्वात्महृदब्जमेवमनिशं भ्राम्यत्यसौ चिन्त्य तं शक्तिर्जन्मशतान्यपीह वशयेत्साध्यं समाकर्षयेत् ॥ ३१.२०॥ प्राणप्रतिष्ठाविधिरेवमुक्तः साङ्गः सयोगो विनियोगयुक्तः । अस्मिन्प्रवीणो गिरिकाननादीन्प्रचालयेत्प्राणवतो विधाय ॥ ३१.२१॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे एकत्रिंशः पटलः ॥

॥ द्वात्रिंशः पटलः ॥

अथ यन्त्रविरचनाभिर्मन्त्रविशेषान्बहुप्रकारयुतान् । कथयिष्ये मन्त्रविदामैहिकपारत्रिकाप्तये सुधियाम् ॥ ३२.१॥ त्रिगुणितसंज्ञे मायालङ्कृतकोणे तयाभिवीते च । या या विशेषकॢप्तिस्तां तामपि सङ्ग्रहेण समभिदधे ॥ ३२.२॥ कोणोल्लसितसुधाक्षरगलदमृतस्फरितवह्निपरिवीतान् । बिन्दोर्मध्यगबीजस्थितान्सुधाधारया परिस्रुतया ॥ ३२.३॥ पूर्णसुषम्नारन्ध्रां साध्यतनुं संस्मरञ्शिरसि बध्यात् । तेनारोगी पुरुषः प्रज्ञावान्दीर्घमायुराप्नोति ॥ ३२.४॥ शीतांशुमण्डलस्थं कूर्मचतुर्थात्तकोणलसितमिदम् । शीतप्रलिप्तजप्तं कधृतं च शिरोरुजाज्वरार्तिहरम् ॥ ३२.५॥ तद्यन्त्रयुगं विलिखेदभिविलिखितसाध्यसाधकाख्ययुतम् । साध्यमधस्तात्कृत्वा बद्ध्वात्र स्वपतु साधको नित्यम् ॥ ३२.६॥ विधिनानेन तु सम्यक्साध्योऽस्य वशे भवेदयत्नेन । तत्तु खनित्वागारे तत्रान्नं सिद्धमत्तु वश्यकरम् ॥ ३२.७॥ साध्याख्यां शक्तिवह्नौ नरहरिमपि रन्ध्रत्रये च त्रिशक्तौ कर्मालिख्याथ लोष्टे सततगमपि संस्थाप्य जप्त्वा स्वशक्त्या । आगारे स्थापयित्वा नरमुदकनिधेश्चित्रपत्रे लिखित्वा दीपाग्नौ तापयित्वा स्त्रियममलधियः सम्यगाकर्षयेयुः ॥ ३२.८॥ त्रिगुणितविहिता विधयः षड्गुणिते च प्रयोजनीयाः स्युः । रक्षाकर्मणि विहितं तत्प्रायः प्रचुरमन्त्रयुक्ततया ॥ ३२.९॥ पाशाष्टाक्षरवीतशक्ति दहनप्रोल्लासिसाध्याह्वयं शक्तिश्रीस्मरसंवृतं कुयुगरन्ध्राबद्धचिन्तामणि । इत्थं षड्गुणितं विलिख्य जपितं मन्त्री दधानोऽसकृ- द्राज्ञां वामदृशां प्रियो भवति सङ्ग्रामे पुरे वा चिरम् ॥ ३२.१०॥ चिन्तारत्नाश्रिताश्रित्रियुगमथ नृसिंहावृतान्तःस्थबीजं प्रादुःसाध्याभिधानं बहिरपि लिपिभिः प्रानुलोमानुवीतम् । क्ष्माबिम्बद्वन्द्वरन्ध्रप्रचलितचतुरर्णं ग्रहोन्मादभूत- व्याधिघ्नं यन्त्रमस्मिन्कृतकलशविधिर्गर्भरक्षाधिकारी ॥ ३२.११॥ द्वादशगुणिते शूले नृसिंहबीजं नरेन्द्रपुरवीतम् । पीतालिप्तं पुरलघुधूपितमन्तःप्रबद्धकर्मयुतम् ॥ ३२.१२॥ चतसृषु दिक्षु निखन्यात्सीमायां द्वारतोरणाधो वा । देशाभिगुप्तिरेषा गुप्ततमा सूरिभिः पुरा प्रोक्ता ॥ ३२.१३॥ अलदलनिशाकुशीतैर्मसृणे पट्टे विलिख्य यन्त्रमिदम् । घेरस्थापनकर्म प्रतिजप्तं प्राङ्गणे खनेन्मन्त्री ॥ ३२.१४॥ तत्र विशन्ति न चोरा ग्रहकृत्या स्यान्निकेतरक्षा च । अश्माभिपातवारणमभिवृद्धिं सम्पदां करोत्यचिरात् ॥ ३२.१५॥ तद्वद्घटर्गलाख्यं यन्त्रं नीले विलिख्य पट्टवरे । मेचकसाध्यप्रतिकृतिहृदये गुलिकां विधाय निक्षिप्य ॥ ३२.१६॥ त्रिमधुरपूर्णे पात्रे विन्यस्याभ्यच्र्य गन्धपुष्पाद्यैः । बलिमपि विकिरेद्रात्रिषु सप्ताहादानयेद्वधूमिष्टाम् ॥ ३२.१७॥ तामेवाथ प्रतिकृतिमग्नौ किञ्चित्प्रतापयेत्प्रजपन् । शक्तिं पाशाज्रुशमनुसाध्याह्वयर्दिभतां समाहितधीः ॥ ३२.१८॥ विधिनामुना त्रिरात्राद्गर्वितधियमपि सुराङ्गनां मन्त्री । आकर्षेन्निजवाञ्छाप्रदायिनीं मदनबाणविह्वलिताम् ॥ ३२.१९॥ यन्त्रं तदेवलाक्षाताम्रावीतं निधाय कलशजले । जप्त्वा भानुसहस्रकमभिषिञ्चेद्रजतकाञ्चनाभ्यां च ॥ ३२.२०॥ तद्वद्विधाय कलशे तद्यन्त्रं धारयेत्पुर्निनत्यम् । वाञ्छितसिद्धिं लभते भक्त्या प्रणमन्ति देवता अपि तम् ॥ ३२.२१॥ यन्त्रं तदेव विधिवद्भित्तावालिख्य पूजयेद्दिनशः । चोरारिभूतनागा अपि तं देशं न वीक्षितुं शक्ताः ॥ ३२.२२॥ आलिख्य वीरपट्टे यन्त्रमिदं मस्तकार्पितं कृत्वा । युध्यन्प्रत्र्यिथनमपि हत्वा यात्यव्रणाज्र्तिओ योद्धा ॥ ३२.२३॥ मदजलविलिखितमेतद्यन्त्रं जप्तं च मस्तके न्यस्तम् । करिणीमपि मदयेद्द्राक्चण्डतरे का कथा करेणुवरे ॥ ३२.२४॥ बहुनेति भाषितेन किमेभ्यो मुख्यं न किमपि यन्त्रेभ्यः । तस्मादमूनि सद्भिर्धार्याणि च विश्ववश्यमिच्छद्भिः ॥ ३२.२५॥ गजमृगमदकाश्मीरैर्मन्त्रितमः सुरभिरोचनायुक्तैः । विलिखेदलक्तकरसालुलितैर्यन्त्राणि सकलकार्यार्थी ॥ ३२.२६॥ राज्या पटुसंयुतया सपाशशक्त्यज्रुशेन मन्त्रेण । स्वाद्वक्तयाभिजुह्वन्निश्युर्वीशांस्तथोर्वशीं वशयेत् ॥ ३२.२७॥ हृल्लेखाग्निस्थसाध्याह्वयमपि बहिराक्रोंवृतं वह्निगेह- द्वन्द्वाश्रिस्वस्तिकाढ्यं प्रतिलिखतु दले यन्त्रजं नागवल्ल्याः । जप्त्वा शक्तिं तु पाशाज्रुशलिपिसहितां तापयेद्दीपवह्नौ नक्तं भक्त्यानताङ्गी स्मरशरविवशा प्रेमलोलाभियाति ॥ ३२.२८॥ शक्तिस्थं निजनाभिवह्निभवनद्वन्द्वोदरे मान्मथं बीजं साध्यविदर्भया परिवृतं शक्त्या बहिः पार्थिवम् । तत्कोणे स्मरमन्यपुष्टनयनप्रोत्थैः पुनः र्किणकै- स्ताम्बूलैर्लिखिताभिजप्तमदयेद्योषिन्मनोमोहनम् ॥ ३२.२९॥ शक्त्यन्तः स्थितसाध्यनाम परितो बीजैश्चतुर्भिः समा- बद्धं शक्तिमनोभवाज्रुशलिपिप्रोम्भिः समावेष्टितम् । शाल्युत्थे प्रतिलिख्य पिष्टविकृतौ प्राणान्प्रतिष्ठाप्य च त्रिस्वादौ परिभज्र्य तत्समदतः साध्यो वशे तिष्ठति ॥ ३२.३०॥ डान्तं शिखीलवयुतं दहनांशसाध्यं मायांशसाधकमथाभिवृतं कलाभिः । मध्योल्लसद्विमुखशूलमिदं तु भुर्तु- र्यन्त्राह्वयं नरनताङ्गिवशङ्करं स्यात् ॥ ३२.३१॥ मृत्काराङ्गुलिकात्तया सकृकलासान्तर्वसायुक्तया साध्यस्याङ्घ्रिरजोयुजा मृदुमृदा कॢप्तस्य शक्तिं हृदि । रूपस्याभिविलिख्य तद्विवरके साध्यं तदीरान्प्रति- ष्ठाप्याजल्प्य निखन्य तत्र दिनशो मेहेच्चिरं वश्यकृत् ॥ ३२.३२॥ वामाक्ष्याः प्रतिलिख्य नाम निशया वामोरुदेशे निशा- मध्ये वामकरेण संशितमतिः सञ्छादयंस्तन्मनाः । पूर्वं रुद्रपदं ततश्च दयितेयोगीश्वरीबिन्दुम- न्मन्त्रं जप्यति चेदनङ्गविवशां सद्यः प्रियामानयेत् ॥ ३२.३३॥ मायाहृदोरथान्ते ब्रह्मश्रीराजितेऽक्षरान्प्रोक्त्वा । राजयुतपूजितेऽर्णान्स जये विजये च गौरि गान्धारि ॥ ३२.३४॥ त्रिभुवनवशङ्करीति च सर्वलोकान्तिके वशङ्करि च । सर्वस्त्रीपुरुषवशङ्करि सुदुघे वाक्षरान्प्रवीप्स्य ततः ॥ ३२.३५॥ मायाद्विठाआन्तिको मनुरेकाधिकषष्टिवर्णकः प्रोक्तः । ऋषिरस्याजोऽतिनिचृच्छन्दो गौरी च देवता प्रोक्ता ॥ ३२.३६॥ सचतुर्दशभिर्दशभिस्तथाष्टभिश्चाष्टभिस्तथा दशभिः । एकादशभिर्मन्त्राक्षरैः क्रमादुच्यते षडङ्गविधिः ॥ ३२.३७॥ असकलशशिराजन्मौलिराबद्धपाशा- ज्रुशरुचिरकराब्जा बन्धुजीवारुणाङ्गी । अमरनिकरवन्द्या त्रीक्षणा शोणलेपां- शुककुसुमयुता स्यात्सम्पदे पार्वती वः ॥ ३२.३८॥ अयुतं प्रजपेज्जुहुयाद्घृताप्लुतैः पायसैर्दशांशेन । आराधयेत्तदङ्गैर्मातृभिराशाधिपैश्च निशितमनाः ॥ ३२.३९॥ तिलतण्डुलकैर्लोणैस्त्रिमधुरसिक्तैः फलैश्च मधुरतरैः । साज्यैररुणकुवलयैस्त्रिदिनं हवनक्रिया सुवश्यकरी ॥ ३२.४०॥ नित्यं चादित्यगतां देवीं प्रतिपद्य तन्मुखो जप्यात् । अष्टोत्तरशतमह्नामादौ भुवनं वशीकरोत्यचिरात् ॥ ३२.४१॥ वर्णादर्वाङ्मन्त्री प्रयोजयेत्साध्यनामकर्मयुतम् । प्रजपेद्वा हवनविधौ वाच्छितसिद्धिप्रदस्तथा मन्त्रः ॥ ३२.४२॥ सतारराजमुख्यन्ते राजाधिमुखिवर्णकान् । सम्भाष्य वश्यमुखि च स्वां श्रीमारार्णकान्वदेत् ॥ ३२.४३॥ वीप्स्य देविमहादेविपदं देवादिदेवि च । प्रोक्त्वा सर्वजनस्येति मुखं मम वशं वदेत् ॥ ३२.४४॥ कुरु कुर्विति ठद्वन्द्वान्तिकं मन्त्रं समुद्धरेत् । सप्ताधिकैः सदशभिस्तथा त्रिंशद्भिरक्षरैः ॥ ३२.४५॥ दशभिः सप्तभिश्चैव चतुर्भिः करणाक्षरैः । पञ्चभिः सप्तदशभिर्वर्णैरङ्गक्रिया मता ॥ ३२.४६॥ ब्रह्माश्रीमन्त्रसम्प्रोक्ता प्रतिपत्तिरमुष्य च । मन्त्रस्य जपकॢप्तिस्तु तथा होमविधिर्मतः ॥ ३२.४७॥ मन्त्री सर्वजनस्थाने कुर्यात्साध्याह्वयान्मनोः । प्रजपे हवने वाथ तथा तर्पणकर्मणि ॥ ३२.४८॥ देवीध्माष्टशतं प्रसूनवदथ त्रिस्वादुयुक्तं हुने- त्सप्ताहं भसितेन तेन विहितं पुण्ड्रादिकं वश्यकृत् । आज्यैस्तत्कृतहोमपातितसमाजप्तं घृतं प्राशये- त्साध्यं निष्परिहारकं च तदिदं वश्यं भवेद्देहिनाम् ॥ ३२.४९॥ शक्तिं साध्यक्र्षवृक्षप्रतिकृति हृदि संलिख्य संस्थाप्य जीवं जप्त्वा खन्याज्र्णेऽस्मिन्विधिवदनलमाधाय पुष्पैर्जपायाः । देवीमन्त्रेण रात्रौ दशपरशतसङ्ख्यैस्तु काचन्दनाक्तै- र्हुत्वा तां सप्तरात्रं सरिति निखनतादुत्तमं वश्यकर्म ॥ ३२.५०॥ अन्नं मय्यह्यन्नं मे देह्यन्नाधिपतये ममेत्युक्त्वा । अन्नं प्रदापयेति च ठद्वयुगान्तोऽन्नदायको मन्त्रः ॥ ३२.५१॥ करणेन्द्रियरसधातुद्वयवर्णैरङ्गमन्त्रपत्रपदैः । द्व्ययुतजपावधिरेष द्विसहस्रहुतं च र्सिपरन्नाभ्याम् ॥ ३२.५२॥ दुग्धाब्धौ रूप्यवप्रावृतकनकमयद्वीपवर्ये सुराढ्ये कल्पद्रूद्यानकाधो मणिमयलसिते वित्तसस्याग्रभागे । आसीने भूश्रियौ वाञ्छितवसुनिचयं मन्त्रिणे संसृजन्त्यौ मन्त्री सञ्चिन्तयानो जपतु दिनमुखे सम्पदेऽन्नस्य मन्त्रम् ॥ ३२.५३॥ नत्यादिभगवत्यन्ते माहेश्वरिपदं वदेत् । अन्नपूर्णेऽग्निजायान्तो मन्त्रोऽन्नप्रदसंज्ञकः ॥ ३२.५४॥ मायाविहितषडङ्गो दिनमुखजप्यश्च षोडशसहस्रम् । प्रोक्तो जपावसाने सघृतैरन्नैर्दशांशको होमः ॥ ३२.५५॥ रुद्रताण्डवविलोकनलोलां भद्रवक्त्रनयनां भवकान्ताम् । अन्नदाननिरतां जननीं तां चिन्तयञ्जपतु चित्रदुकूलाम् ॥ ३२.५६॥ वैश्रवणः पक्वाशः पिङ्गलनिधिपौ तथैव वित्तेशः । सकुबेरस्वाहान्तः सव्याहृतयः समीरिता मन्त्राः ॥ ३२.५७॥ वित्तेशस्यान्तराले दशवटसमिधः र्सिपषाक्ता विविक्ता होतव्या द्रव्यसिद्ध्यै कनकघटकरण्डात्तदोस्तुन्दिलोऽसौ । हेमाभो रत्नदीप्तो दरकमलनिधिद्योतितो हेमपीठे ध्येयो न्यग्रोधमूले हुतभुजि विदुषा वैश्वदेवावसाने ॥ ३२.५८॥ मन्त्रैरेतैर्घृतयुतपायसहोमोऽपि मन्त्रिणां विहितः । लक्ष्म्यै सघृतैश्च तिलैर्बिल्वसमिद्धो मतस्तदेव फलम् ॥ ३२.५९॥ भयाहारेन्दुयुक्सैव विदण्डाहस्पताक्षराः । बालिस्थयोनिर्नत्यन्तो वसुवर्णो मनुर्मतः ॥ ३२.६०॥ वर्णसाहस्रजाप्यश्च तावच्छतहुतो मतः । होमः र्सिपष्मतान्नेन बीजेनाङ्गक्रिया मता ॥ ३२.६१॥ रत्नस्वर्णांशुकादीन्निजकरकमलाद्दक्षिणादाकिरन्तं वासोराशौ निधायापरममरगुरुं पीतवस्त्रादिभूषम् । ध्यायन्नासीनमप्यापणभुवि शतसङ्ख्यं सविंशत्कमेवं भीतापुष्पैर्घृतात्तैरीत्रदिनमथ हुनेत्स्वर्णवस्त्रादिसिद्ध्यै ॥ ३२.६२॥ वययोरन्तरास्त्रं मे देहि शुक्राक्षराद्विठः । मन्त्रोऽयुतजपः र्सिपः सहस्रहवनक्रियः ॥ ३२.६३॥ शुक्रास्ये शुक्लपुष्पैर्हुतभुजि गुणशः सप्तशोऽप्येकविंश- द्वारं होतव्यमेषोऽप्यतिसितकुसुमालेपनो वामदोष्णा । वासोरत्नादिकार्तस्वरमपि सततं साधकाय प्रयच्छ- न्ध्यातो व्याख्यानमुद्राकलितपरकरस्त्वापणालिन्दसंस्थः ॥ ३२.६४॥ राजेरस्थोऽहिपो दण्डी वेदान्तेऽसौ विदण्डकः । सायान्ते नतिरप्यष्ठवर्णो वैयासिको मनुः ॥ ३२.६५॥ मुनिव्रातावीतं मुदितधियमम्भोदरुचिर- द्युतिं व्याख्यामुद्राकलनविलसद्दक्षिणकरम् । परं जानौ कृत्वा दृढकलितकक्ष्ये कविवरं समासीनं व्यासं स्मरत निरतं पुण्यचरितम् ॥ ३२.६६॥ विकृतिसहस्रजपोऽयं दशांशतः पायसाज्यहवनविधिः । निरुपमकविताप्रज्ञाव्याख्याश्रीसम्पदावहो मन्त्रः ॥ ३२.६७॥ करचरणपाश्र्वमूलद्युलोंहरेबिन्दुदुंसरसनार्णाः । अलिकाद्याः वर्मास्त्रद्विठान्तिको मनुरयं ध्रुवादिः स्यात् ॥ ३२.६८॥ अयुतं प्रजपेच्च षट्सहस्रावधि मन्त्रे जुहुयाद्दशांशमानम् । तिलसर्षपतण्डुलैः सशालीहविराज्यैः सुसमेधिते कृशानौ ॥ ३२.६९॥ उत्तुङ्गादिः प्रचेता अपि दहनसमीरौ धराव्योमसंज्ञे प्राक्प्रत्यग्दक्षसौम्यास्वध उपरि च दिक्षु प्रबन्धप्रभाः स्युः । तन्मध्यस्थान्विपक्षादिकहरिरुरुदन्तीन्द्रनागान्सचोरा- न्हन्त्येतैर्मन्त्रिमुख्यो मनुविहितबलव्याकुलान्सद्य एव ॥ ३२.७०॥ निजरिपुमचलाद्यैस्तैः ससम्बाधवीतं मनुविदथ हलोभ्यां रुद्धनिश्वासवेगे । तदुपरिगतबीजैः साधुसंस्यूतवक्त्रं दहतु सकवचास्त्रद्वीन्दुभिः स्वेच्छयैनम् ॥ ३२.७१॥ योनिर्वियत्सुनेत्रं परमे वर्णांस्तथास्थिगं मेदः । रक्तस्थदृग्द्विठान्तस्ताराद्योऽयं मनुर्दशार्णयुतः ॥ ३२.७२॥ अयुतं जपेन्मनुमिमं सहस्रवारं हुनेत्तथाज्येन । ध्यातापि गिरिसुतेयं जगतीं विश्वां वशीकरोत्यनिशम् ॥ ३२.७३॥ अश्वारूढा कराग्रे नवकनकमयीं नेत्रयष्टिं दधाना दक्षेऽन्येनानयन्ती स्फुरिततनुलतापाशबद्धां स्वसाध्याम् । देवी नित्यप्रसन्नाननशशधरबिम्बा त्रिनेत्राभिरामा दद्यादाद्यानवद्या प्रवरसुखफलप्राप्तिहृद्यां श्रियं वः।७४॥ विद्ययानुदिनहृद्ययानया होमकर्मवरहेमदायि तत् । कामितां सपदि वामलोचनामानयेदपि च मारपीडिताम् ॥ ३२.७५॥ हवनक्रिया सपदि वश्यकरी मधुरावसेकपटुना पटुना । सदृशो न कश्चन जगत्यपरो मनुनामुनानयनकर्मविधौ ॥ ३२.७६॥ वाणी स्यात्ताररूपा शिरसि गिरिसुता शक्तिरूपा ललाटे रव्यग्न्यक्ष्णोस्तथामौ विधुरपि वदनावेष्टने टान्तरूपः । श्रीर्जिह्वायां स्वरूपा स्वभिमतकरिरूपौ स्वहौ दीर्घयुक्ता- वेवं न्यासे मुखश्रीविभवसुखयशःकान्तिमेधाकरः स्यात् ॥ ३२.७७॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे द्वात्रिंशः पटलः ॥

॥ त्रयस्त्रिंशः पटलः ॥

अथ सन्तानसंसिद्धिसमाकुलितचेतसाम् । तदुत्पत्तिकरं यागं प्रवक्ष्ये गृहमेधिनाम् ॥ ३३.१॥ न चापुत्रस्य लोकोऽस्ति पितरोऽधः पतन्ति च । तस्मात्तु सकलोपायैर्यतेतापत्यसिद्धये ॥ ३३.२॥ देर्विषपितृपूजासु निरतानामभक्तितः । गुरुमातृपितृश्राद्धवञ्चकानां च नित्यशः ॥ ३३.३॥ रैथभ्योऽर्थमदातृणां विद्यमानेऽर्थसञ्चये । अदत्त्वैवातिथिभ्योऽन्नं भोक्तॄणां पापचेतसाम् ॥ ३३.४॥ हरिशङ्करयोः पादपद्मार्चाविरतात्मनाम् । स्वभार्यानिन्दकानां च लोकवेदविरोधिनाम् ॥ ३३.५॥ इत्यादिदोषदुष्टानां पापानां गृहमेधिनाम् । दुष्प्रतिग्रहदोषाद्वा जायते त्वनपत्यया ॥ ३३.६॥ एवमादिकदोषापनोदनी सुतसिद्धिदा । अशेषपापहन्त्री च वक्ष्यते यजनक्रिया ॥ ३३.७॥ पुत्राप्तये गृहस्थो दीक्षाविधिना चतुर्दशीरात्रिम् । सह पत्न्या गमयित्वा कृत्वा पौर्वाह्निकीः क्रियाः सर्वाः ॥ ३३.८॥ संयोज्य किञ्चन यथाविधि पञ्चगव्यं सङ्कोचकेन मनुना प्रतिमथ्य वार्णम् । सम्मन्त्र्य चाष्टशतकं समवद्यभूत- मन्त्रैः पिबेत्स्वयमसावपि गर्भधात्री ॥ ३३.९॥ ततोऽग्निमाधाय चरुं च कृत्वा सज्र्ल्प्य तद्दक्षिणमुत्तरं च । भागं क्रमात्पैतृकदैविकं त- त्पित्र्यं तु पूर्वं जुहुयात्क्रमेण ॥ ३३.१०॥ स्मृत्वा निजं पितरमप्यधरा निषण्णं सान्नाय्य पिण्डयुगलं घृतसम्प्लुतं तत् । हुत्वा स्रुवेण घृतसम्पुटितं तथैव मन्त्री पितामहमथ प्रपितामहं च ॥ ३३.११॥ व्याहृतीभिरथ पक्वहोमतः सर्वतः प्रतिजुहोतु र्सिपषा । मातृवर्गगुरुतत्पितृद्वयं पूर्ववत्समवदिष्य साधकः ॥ ३३.१२॥ कलायुतैः षोडशमूर्तिमन्त्रैव्र्यस्तैरथाष्टाक्षरजैश्च वर्णैः । अष्टौ समस्तेन च तेन पञ्चाक्षरेण चाष्टाक्षरवज्जुहोतु ॥ ३३.१३॥ पक्वाहुतीनामपि वर्णसङ्ख्यं चतुर्गुणं चापि घृताहुतीनाम् । हुत्वावदानद्वितयं च पुंस्त्रीभेदप्रभिन्नं हविषा करोतु ॥ ३३.१४॥ पञ्चाक्षरेण पुरुषात्मकमन्यदन्य- वर्णेन चाष्टशतयुग्ममथ प्रजप्य । संयोज्य तद्युगलमप्यभिमन्त्र्य विष्णु- र्योन्यादिकेन मनुना च कर्पिदसङ्ख्यम् ॥ ३३.१५॥ पुरुषः पुरुषात्मकं प्रकृत्यात्मकमन्याथ समाहितोपयुज्य । अवदानयुगं क्रमान्मनस्वी पुनराचम्य समर्चयेद्धुताशम् ॥ ३३.१६॥ गुरवेऽप्यथ दक्षिणां प्रदत्त्वानलमुद्वास्य च भोजयेद्विजातीन् । प्रतिपर्वकमेवमेकवृद्ध्या मतिमान् पकुरकं प्रपूरयीत ॥ ३३.१७॥ एकहासादन्यमब्दं द्विजाती- न्सम्भोज्यान्यं पूरयेदेकवृद्ध्या । सम्पूर्यमाणादेवमेव त्रिकाब्दा- दर्वाक्पुत्रो जायते दैवशक्त्या ॥ ३३.१८॥ पितृदेवताप्रसादान्मेधायुःकान्तिसंयुतो विद्वान् । लक्ष्मीतेजोयुक्त धर्मरुचिर्भवति सन्ततेः कर्ता ॥ ३३.१९॥ समुनिसुरपितृभ्यो ब्रह्मचर्येण यज्ञै- स्त्रिविधमृणमपत्यैश्चैव सम्मोचयेद्यः । श्रुतिवचनकृदस्मिन्वापि लोके परस्मि- न्निति स तु गृहमेधी पूज्यते साधुलोकैः ॥ ३३.२०॥ वर्णादिको हलोमन्त्रः सङ्कोचाख्यो ध्रुवादिकः । मन्त्रः स्याद्भूतमनवः स्युश्च भूतात्मनात्मभिः ॥ ३३.२१॥ अथो हिताय जगतां प्रथितं शितचेतसाम् । अद्य सङ्क्षिप्य वक्ष्यामि लक्षणं गुरुशिष्ययोः ॥ ३३.२२॥ स्वच्छः स्वच्छन्दसहितोऽतुच्छधीः सक्तहृच्छयः । देशकालादिविद्देशे देशे देशिक उच्यते ॥ ३३.२३॥ अग्रगण्यः समग्रज्ञो निग्रहानुग्रहक्षमः । षड्वर्गविजयव्यग्रोऽनुग्रो विगतविग्रहः ॥ ३३.२४॥ शुक्लशुक्लांशुकोत्कृष्टकर्मा विक्लवमानसः । वेदवेदाङ्गविद्वादी वेदिताविदितागमः ॥ ३३.२५॥ इष्टदोऽनिष्टसंहर्ता दृष्टादृष्टसुखावहः । रतोऽविरतमर्चासु परं पुरमुरद्विषोः ॥ ३३.२६॥ शान्तो दान्तः शान्तमना नितान्तं कान्तविग्रहः । स्वदुःखकरणेनापि परं परसुखोद्यतः ॥ ३३.२७॥ ऊहापोहविदव्यग्रो लोभमोहविर्विजतः । अज्ञानुकम्प्यविज्ञातज्ञानो ज्ञातपरेङ्गितः ॥ ३३.२८॥ निरंशसांशवित्सर्वसंशयच्छिदसंशयः । नयविद्विनयोपेतो विनीतो न चिरात्मवान् ॥ ३३.२९॥ व्याधिप्रापितव्याधिः समाधिविधिसंयुतः । श्रुतिधीरोऽतिधीरश्च वीरो वाक्यविशारदः ॥ ३३.३०॥ वर्गोपेतसमारम्भो गभीरो दम्भर्विजतः । आदर्श इव विद्यानां न तु दर्शनदूषकः ॥ ३३.३१॥ असौ मृग्यश्च दृश्यश्च सेव्यश्चाभीष्टमिच्छता । शिष्यस्तदावर्जनकृद्देहेन द्रविणेन च ॥ ३३.३२॥ तस्य पादारविन्दोत्थरजःपटलरूषणः । स्नानमप्राप्य न प्राप्यं प्रायो बुद्धिमतेप्सितम् ॥ ३३.३३॥ नित्यशः कायवाक्चित्तैस्त्रिद्व्येकाब्दादिकावधि । परिचर्यापरः शिष्यः स्यात्सुसंयतमानसः ॥ ३३.३४॥ तं तथाविधमालक्ष्य सदावितथवादिनम् । मातृतः पितृतः शुद्धं बूद्धिमन्तमलोलुपम् ॥ ३३.३५॥ अस्तेयवृत्तिमास्तिक्ययुक्तं मुक्तिकृतोद्यमम् । अकल्मषं मृषाहीनमहीनद्रव्यमानसम् ॥ ३३.३६॥ ब्रह्मचर्यपरं नित्यं परिचर्यापरं गुरोः । अल्पाशनिद्रं पूजायामनल्पकृतकल्पनम् ॥ ३३.३७॥ अधीतवेदं स्वाधीनमनाधिं व्याधिर्विजतम् । तरुणं करुणावासं परितोषकरं गुरोः ॥ ३३.३८॥ सुवेषमेषणातीतममलं विमलाशयम् । सुप्रसन्नं प्रसन्नाङ्गं सदा सन्निहितं गुरोः ॥ ३३.३९॥ परोपकारनिरतं विरतं परदूषणे । मातृवद्गुरुपत्नीं च भ्रातृवत्तत्सुतानपि ॥ ३३.४०॥ स्मरन्तमस्मराबाधं स्मितोपेतमविस्मितम् । परिग्रहे परीक्ष्यैव शिष्यमेवङ्गुणं गुरुः ॥ ३३.४१॥ अलसं मलसङ्क्लिन्नं क्लिष्टं क्लिष्टन्ववायजम् । दम्भान्वितमगम्भीरं चण्डं पण्डितमानिनम् ॥ ३३.४२॥ रागिणं रोगिणं भोगलालसं बालसम्मतम् । रौद्रं दरिद्रं निद्रालुमाद्यूनं क्षुद्रचेष्टितम् ॥ ३३.४३॥ नृशंसमन्धं बधिरं पङ्गुं व्यङ्गममङ्गलम् । अतिदीर्घमतिह्रस्वमतिस्थूलकृशात्मकम् ॥ ३३.४४॥ आदित्सुं कुत्सितं वत्सं बीभत्सं मत्सरात्मकम् । परदारपरं भीरुं दारुणं वैरिणं सताम् ॥ ३३.४५॥ लुब्धं त्वलब्धवैदग्ध्यं स्तब्धं लुब्धकबान्धकवम् । सुखिनं मुखरं दुर्गं दुर्मुखं मूकमानसम् ॥ ३३.४६॥ प्रत्यग्रमुग्रं व्यग्रेहमग्रगण्यं दुरात्मनाम् । प्रष्टव्यकं तमःस्पृष्टं क्लिष्टमिष्टापहं नृणाम् ॥ ३३.४७॥ स्वार्थकृत्यं प्रसक्तार्थं निरर्थारम्भणं शठम् । ईदृग्विधं गुरुः शिष्यं न गृह्णीयात्कथञ्चन ॥ ३३.४८॥ यदि गृह्णाति तद्दोषः प्रायो गुरुमपि स्पृशेत् । मन्त्रिदोषो यथा राज्ञि पत्यौ जायाकृतो यथा ॥ ३३.४९॥ तथा शिष्यकृतो दोषो गुरुमेति न संशयः । स्नेहाद्वा लोभतो वापि यो न गृह्णाति दीक्षया ॥ ३३.५०॥ तस्मिन्गुरौ सशिष्ये तु देवताशाप आपतेत् । मधुद्विषि महादेवे मातापित्रोर्महीभृति । भक्तिर्या सा पदाम्भोजे कार्या निजगुरौ सदा ॥ ३३.५१॥ छायाज्ञापादुकोपानद्दण्डांश्च शयनासने । यानं मनोगतं चान्यदन्तेवासी न लङ्घयेत् ॥ ३३.५२॥ व्याख्याविवादः स्वातन्त्र्यकामिता काम्यजृम्भिता । निद्राकुतर्कक्रोधांश्च त्यजेद्गुरुगृहे सदा ॥ ३३.५३॥ अग्राम्यधर्मं विण्मूत्रसर्गनिष्ठीवनादिकम् । परित्यजेत्परिज्ञाता वमिं च गुरुमन्दिरे ॥ ३३.५४॥ ग्राम्योक्तीरनृतं निन्दामृणं च वसुविक्रयम् । परित्यजेद्गुरौ तस्य सपत्न्यैश्च समागमम् ॥ ३३.५५॥ इष्टं वानिष्टमादिष्टं गुरुणा यत्तु गुर्वपि । त्वरया परया कुर्याद्धिया सम्यगजिह्मया ॥ ३३.५६॥ कर्मणा मनसा वाचा सदा भक्तियुजा गुरुम् । निव्र्याजं पूजयेच्छिष्यो निजकार्यप्रसिद्धये ॥ ३३.५७॥ लोकोद्वेगरी या च या च कर्मनिकृन्तनी । स्थित्युच्छेदकरी या च तां गिरं नैव भाषयेत् ॥ ३३.५८॥ रम्यमप्युज्ज्वलमपि मनसोऽपि समीप्सितम् । लोकविद्वेषणं वेषं न गृह्णीयात्कदाचन ॥ ३३.५९॥ इत्याचारपरः सम्यगाचार्यं यः समर्चयेत् । कृतकृत्यः स वै शिष्यः परत्रेह च नन्दति ॥ ३३.६०॥ देवानृषीनपि पितृनतिथींस्तथाग्निं नित्योद्यतेन मनसा दिनशोऽर्चयेद्यः । इष्टानवाप्य सकलानिह भोगजाता- न्प्रेत्य प्रयाति परमं पदमादिपुंसः ॥ ३३.६१॥ इत्थं मूलप्रकृत्यक्षरविकृतिलिपिव्रातजातग्रहक्र्ष- क्षेत्राद्याबद्धभूतेन्द्रियगुणरविचन्द्राग्निसम्प्रोतरूपैः । मन्त्रैस्तद्देवताभिर्मुनिभिरपि जपध्यानहोमार्चनाभि- स्तन्त्रेऽस्मिन्यन्त्रभेदैरपि कमलज ते र्दिशतोऽयं प्रपञ्चः ॥ ३३.६२॥ यदाश्रया विप्रकृतिप्रभावतो विभिन्नतारांशसमुत्थितौजसः । जगन्ति पुष्णन्ति रवीन्दुवह्नयो नमोऽस्तु तस्मै परिपूर्णतेजसे ॥ ३३.६३॥ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे त्रयिंस्त्रशः पटलः ॥ ॥ प्रपञ्चसारः सम्पूर्णः ॥ Encoded and proofread by Ankur Nagpal
% Text title            : Prapanchasara Tantra
% File name             : prapanchasAratantraH.itx
% itxtitle              : prapanchasAratantraH (shaNkarAchAryavirachitaH)
% engtitle              : prapanchasAratantraH
% Category              : major_works, shankarAchArya, vedanta, tantra
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : Shankaracharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ankur Nagpal ankurnagpal108 at gmail.com
% Translated by         : Ankur Nagpal
% Indexextra            : (Scan Vol 1), 2, Text)
% Latest update         : June 28, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org