॥ रघुवंशं सर्ग ७ कालिदासकृतम् ॥

अथोपयन्त्रा सदृशेण युक्तां स्कन्देन साक्षादिव देवसेनाम् । स्वसारमादाय विदर्भनाथः पुरप्रवेशाभिमुखो बभूव ॥ ७-१॥ सेनानिवेशान्पृथिवीक्षितोऽपि जग्मुर्विभातग्रहमन्दभासः । भोज्यां प्रति व्यर्थमनोरथत्वाद्रूपेषु वेशेषु च साभ्यसूया ॥ ७-२॥ सांनिध्ययोगात्किल तत्र शच्याः स्वयंवरक्षोभकृतामभावः । काकुत्स्थमुद्दिश्य समत्सरोऽपि शशाम तेन क्षितिपाललोकः ॥ ७-३॥ तावत्प्रकीर्णाभिनवोपचारमिन्द्रायुधद्योतिततोरणाङ्कम् । वरः सवध्वा सह राजमार्गं प्राप ध्वजच्छायनिवारितोष्णम् ॥ ७-४॥ ततस्तदालोकनतत्पराणां सौधेषु चामीकरजालवत्सु । बभूवुरित्थं पुरसुन्दरीणां त्यक्तान्यकार्याणि विचेष्टितानि ॥ ७-५॥ आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः । बद्धुं न संभावित एव तावत्करेण रुद्धोऽपि च केशपाशः ॥ ७-६॥ प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्द्रवरागमेव । उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्कां पदवीं ततान ॥ ७-७॥ विलोचनं दक्षिणमञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा। तथैव वातायनसंनिकर्षं ययौ शलाकामपरा वहन्ती ॥ ७-८॥ जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम् । नाभिप्रविष्टाभरणप्रभेन हस्तेन तस्थाववलम्ब्य वासः ॥ ७-९॥ अर्धाञ्चिता सत्वरमुत्थितायाः पदे पदे दुर्निमिते गलन्ती । कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा ॥ ७-१०॥ तासां मुखैरासवगन्धगर्भैर्व्याप्तान्तराः सान्द्रकुतूहलानाम् । विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्राभरणा इवासन् ॥ ७-११॥ ता राघवं दृष्टिभिरापिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि । तथा हि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा ॥ ७-१२॥ स्थाने वृता भूपतिभिः परोक्षैः स्वयंवरं साधुममंस्त भोज्या । पद्मेव नारायणमन्यथासौ लभेत कान्तं कथमात्मतुल्यम् ॥ ७-१३॥ परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत् । अस्मिन्द्वये रूपविधानयत्नः पत्युः प्रजानां वितथोऽभविष्यत् ॥ ७-१४॥ रतिस्मरौ नूनमिमावभूतां राज्ञां सहस्रेषु तथा हि बाला । गतेयमात्मप्रतिरूपमेव मनो हि जन्मान्तरसंगतिज्ञम् ॥ ७-१५॥ इत्युद्गताः पौरवधूमुखेभ्यः शृण्वन्कथाः श्रोत्रसुखाः कुमारः । उद्भासितं मङ्गलसंविधाभिः संबन्धिनः सद्म समाससाद ॥ ७-१६॥ ततोऽवतीर्याशु करेणुकायाः स कामरूपेश्वरदत्तहस्तः । वैदर्भनिर्दिष्टमथो विवेश नारीमनांसीव चतुष्कमन्तः ॥ ७-१७॥ महार्हसिंहासनसंस्थितोऽसौ सरत्नमर्घ्यं मधुपर्कमिश्रम् । भोजोपनीतं च दुकूलयुग्मं जग्राह सार्धं वनिताकटाक्षैः ॥ ७-१८॥ दुकूलवासाः स वधूसमीपं निन्ये विनीतैरवरोधरक्षैः । वेलासकाशं स्फुटफेनराशिर्नवैरुदन्वानिव चन्द्रपादैः ॥ ७-१९॥ तत्रार्चितो भोजपतेः पुरोधा हुत्वाग्निमाज्यादिभिरग्निकल्पः । तमेव चाधाय विवाहसाक्ष्ये वधूवरौ संगमयांचकार ॥ ७-२०॥ हस्तेन हस्तं परिगृह्य वध्वाः स राजसूनुः सुतरां चकासे । अनन्तराशोकलताप्रवालं प्राप्येव चूतः प्रतिपल्लवेन ॥ ७-२१॥ आसीद्वरः कण्टकितप्रकोष्ठः स्विन्नाङ्गुलिः संववृते कुमारी । तस्मिन्द्वये तत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन ॥ ७-२२॥ तयोरपाङ्गप्रतिसारितानि क्रियासमापत्तिनिवर्तितानि । ह्रीयन्त्रणामानशिरे मनोज्ञामन्योन्यलोलानि विलोचनानि ॥ ७-२३॥ प्रदक्षिणप्रक्रमणात्कृशानोरुदर्चिषस्तन्मिथुनं चकासे । मेरोरुपान्तेष्विव वर्तमानमन्योन्यसंसक्तमहस्त्रियामम् ॥ ७-२४॥ नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन । चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गमग्नौ ॥ ७-२५॥ हविःशमीपल्लवलाजगन्धी पुण्यः कृशानोरुदियाय धूमः । कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे ॥ ७-२६॥ तदञ्जनक्लेदसमाकुलाक्षं प्रम्लानबीजाङ्कुरकर्णपूरम् । वधूमुखं पाटलगन्धलेखमाचारधूमग्रहणाद्बभूव ॥ ७-२७॥ तौ स्नातकैर्बन्धुमता च राज्ञा पुरंध्रिभिश्च क्रमशः प्रयुक्तम् । कन्याकुमारौ कनकासनस्थावार्द्राक्षतारोपणमन्वभूताम् ॥ ७-२८॥ इति स्वसुर्भोजकुलप्रदीपः संपाद्य पाणिग्रहणं स राजा । महीपतीनां पृथगर्हणार्थं समादिदेशाधिकृतानधिश्रीः ॥ ७-२९॥ लिङ्गैर्मुदः संवृतविक्रियास्ते ह्रदाः प्रसन्ना इव गूढनक्राः । वैदर्भमामन्त्र्य ययुस्तदीयां प्रत्यर्प्य पूजामुपदाछलेन ॥ ७-३०॥ स राजलोकः कृतपूर्वसंविदारम्भसिद्धौ समयोपलभ्यम् । आदास्यमानः प्रमदामिषं तदावृत्य पन्थानमजस्य तस्थौ ॥ ७-३१॥ भर्तापि तावत्क्रथकैशिकानामनुष्ठितानन्तरजाविवाहः । सत्त्वानुरूपाहरणीकृतश्रीः प्रास्थापयद्राघवमन्वगाच्च ॥ ७-३२॥ तिस्रस्त्रिलोकप्रथितेन सार्धमजेन मार्गे वसतीरुषित्वा । तस्मादपावर्तत कुण्डिनेशः पर्वात्यये सोम इवोष्णरश्मेः ॥ ७-३३॥ प्रमन्यवः प्रागपि कोसलेन्द्रे प्रत्येकमात्तस्वतया बभूवुः । अतो नृपश्चक्षमिरे समेताः स्त्रीरत्नलाभं न तदाजत्मस्य ॥ ७-३४॥ तमुद्वहन्तं पथि भोजकन्यां रुरोध राजन्यगण स दृप्तः । बलिप्रदिष्टां श्रियमाददानं त्रैविक्रमं पादमिवेन्द्रशत्रुः ॥ ७-३५॥ तस्याः स रक्षार्थमनल्पयोधमादिश्य पित्र्यं सचिवं कुमारः । प्रत्यग्रहीत्पार्थिववाहिनीं तां भागीरथीं शोण इवोत्तरङ्गः ॥ ७-३६॥ पत्तिः पदातिं रथिनं रथेशस्तुरंगसादी तुरगाधिरूढम् । यन्ता गजस्याभ्यपतद्गजस्थं तुल्यप्रतिद्वन्द्वि बभूव युद्धम् ॥ ७-३७॥ नदत्सु तूर्येष्वविभाव्यवाचो नोदीरयन्ति स्म कुलोपदेशान् । बाणाक्षरैरेव परस्परस्य नामोर्जितं चापभृतः शशंसुः ॥ ७-३८॥ उत्थापितः संयति रेणुरश्वैः सान्द्रीकृतः स्यन्दनवंशचक्रैः । विस्तारितः कुञ्जरकर्णतालैर्नेत्रक्रमेणोपरुरोध सूर्यम् ॥ ७-३९॥ मत्स्यध्वजा वायुवशाद्विदीर्णैर्मुखैः प्रवृद्धध्वजिनीरजांसि । बभुः पिबन्तः परमार्थमत्स्याः पर्याविलानीव नवोदकानि ॥ ७-४०॥ रथो रथाङ्गध्वनिना विजज्ञे विलोलघण्टाक्वणितेन नागः । स्वभर्तुनामग्रहणाद्बभूव सान्द्रे रजस्यात्मपरावबोधः ॥ ७-४१॥ आवृण्वतो लोचनमार्गमाजौ रजोन्धकारस्य विजृम्भितस्य । शस्त्रक्षताश्वद्वीपवीरजन्मा बालारुणोऽभूद्रुधिरप्रवाहः ॥ ७-४२॥ स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात्पवनापधूतः । अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाबभासे ॥ ७-४३॥ प्रहारमूर्च्छापगमे रथस्था यन्तॄनुपालभ्य निवर्तिताश्वान् । यैः सादिता लक्षितपूर्वकेतूंस्तानेव सामर्षतया निजघ्नुः ॥ ७-४४॥ अप्यर्धमार्गे परबाणलूना धनुर्भृतां हस्तवतां पृषत्काः । संप्रापुरेवात्मजवानुवृत्त्या पूर्वार्धभागैः फलिभिः शरव्यम् ॥ ७-४५॥ आधोरणानां गजसंनिपाते शिरांसि चक्रैर्निशितैः क्षुराग्रैः । हतान्यपि श्येननखाग्रकोटिव्यासक्तकेशानि चिरेण पेतुः ॥ ७-४६॥ पूर्वं प्रहर्ता न जघान भूयः प्रतिप्रहाराक्षममश्वसादी । तुरंगमस्कन्धनिषण्णदेहं प्रत्याश्वसन्तं रिपुमाचकाङ्क्ष ॥ ७-४७॥ तनुत्यजां वर्मभृतां विकोशैबृहत्सु दन्तेष्वसिभिः पतद्भिः । उद्यन्तमग्निं शमयांबभूवुर्गजा विविग्नाः करशीकरेण ॥ ७-४८॥ शिलीमुखोत्कृत्तशिरःफलाढ्या च्युतैः शिरस्त्रैश्चषकोत्तरेव । रणक्षितिः शोणितमद्यकुल्या रराज मृत्योरिव पानभूमिः ॥ ७-४९॥ उपान्तयोर्निष्कुषितं विहंगैराक्षिप्य तेभ्यः पिशितप्रियापि । केयूरकोटिक्षततालुदेशा शिवा भुजच्छेदमपाचकार ॥ ७-५०॥ कश्चिद्विषत्खड्गहृतोत्तमाङ्गः सद्यो विमानप्रभुतामुपेत्य । वामाङ्गसंसक्तसुराङ्गनः स्वं नृत्यत्कबन्धं समरे ददर्श ॥ ७-५१॥ अन्योन्यसूतोन्मथनादभूतां तावेव सूतौ रथिनौ च कौचित् । व्यश्वौ गदाव्यायतसंप्रहारौ भग्नायुधौ बाहुविमर्दनिष्ठौ ॥ ७-५२॥ परस्परेण क्षतयोः प्रहर्त्रोरुत्क्रान्तवाय्वोः समकालमेव । अमर्त्यभावेऽपि कयोश्चिदासीदेकाप्सरःप्रार्थितयोर्विवादः ॥ ७-५३॥ व्यूहावुभौ तावितरेतरस्माद्भङ्गं जयं चापतुरव्यवस्थम् । पश्चात्पुरोमारुतयोः प्रवृद्धौ पर्यायवृत्येव महार्णवोर्मी ॥ ७-५४॥ परेण भग्नेऽपि बले महौजा ययावजः प्रत्यरिसैन्यमेव । धूमो निवर्त्येत समीरणेन यतस्तु कक्षस्तत एव वह्निः ॥ ७-५५॥ रथी निषङ्गी कवची धनुष्मान्दृप्तः स राजन्यकमेकवीरः । निवारयामास महावराहः कल्पक्षयोद्वृत्तमिवार्णवाम्भः ॥ ७-५६॥ स दक्षिणं तूणमुखेन वामं व्यापारयन्हस्तमलक्ष्यताजौ । आकर्णकृष्टा सकृदस्य योद्धुर्मौर्वीव बाणान्सुषुवे रिपुघ्नान् ॥ ७-५७॥ स रोषदष्टाधिकलोहितोष्ठैर्व्यक्तोर्ध्वरेखा भृकुटीर्वहद्भिः । तस्तार गां भल्लनिकृत्तकण्ठैर्हूंकारगर्भैर्द्विषतां शिरोभिः ॥ ७-५८॥ सर्वैर्बलाङ्गैर्द्विरदप्रधानैः सर्वायुधैः कङ्कटभेदिभिश्च । सर्वप्रयत्नेन च भूमिपालास्तस्मिन्प्रजह्रुर्युधि सर्व एव ॥ ७-५९॥ सोऽस्त्रव्रजैश्छन्नरथः परेषां ध्वजाग्रमात्रेण बभूव लक्ष्यः । नीहारमग्नो दिनपूर्वभागः किंचित्प्रकाशेन विवस्वतेव ॥ ७-६०॥ प्रियंवदात्प्राप्तमसौ कुमारः प्रायुङ्क्त राजस्वधिराजसूनुः । गान्धर्वमस्त्रं कुसुमास्त्रकान्तः प्रस्वापनं स्वप्ननिवृत्तलौल्यः ॥ ७-६१॥ ततो धनुष्कर्षणमूढहस्तमेकांसपर्यस्तशिरस्त्रजालम् । तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यम् ॥ ७-६२॥ ततः प्रियोपात्तरसेऽधरोष्ठे निवेश्य दध्मौ जलजं कुमारः । तेन स्वहस्तार्जितमेकवीरः पिबन्यशो मूर्तमिवाबभासे ॥ ७-६३॥ शङ्खस्वनाभिज्ञतया निवृत्तास्तं सन्नशत्रुं ददृशुः स्वयोधाः । निमीलितानामिव पङ्कजानां मध्ये स्फुरन्तं प्रतिमाशशाङ्कम् ॥ ७-६४॥ सशोणितैस्तेन शिलीमुखाग्रैर्निक्षेपिताः केतुषु पार्थिवानाम् । यशो हृतं संप्रति राघवेण न जीवितं वः कृपयेति वर्णाः ॥ ७-६५॥ स चापकोटीनिहितैकबाहुः शिरस्त्रनिष्कर्षणभिन्नमौलिः । ललाटबद्धश्रमवारिबिन्दुर्भीतां प्रियामेत्य वचो बभाषे ॥ ७-६६॥ इतः परानर्भकहार्यशस्त्रान्वैदर्भि पश्यानुमता मयासि । एवंविधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममैभिः ॥ ७-६७॥ तस्याः प्रतिद्वन्द्विभवाद्विषादात्सद्यो विमुक्तं मुखमाबभासे । निःश्वासबाष्पापगमात्प्रपन्नः प्रसादमात्मीयमिवात्मदर्शः ॥ ७-६८॥ हृष्टापि सा ह्रीविजिता न साक्षाद्वाग्भिः सखीनां प्रियमभ्यनन्दत् । स्थली नवाम्भःपृषताभिवृष्टा मयूरकेकाभिरिवाभ्रवृन्दम् ॥ ७-६९॥ इति शिरसि स वामं पादमाधाय राज्ञा- मुदवहदनवद्यां तामवद्यादपेतः । रथतुरगरजोभिस्तस्य रूक्षालकाग्रा समरविजयलक्ष्मीः सैव मूर्ता बभूव ॥ ७-७०॥ प्रथमपरिगतार्थस्तं रघुः संनिवृत्तं विजयिनमभिनन्द्य श्लाघ्यजायासमेतम् । तदुपहितकुटुम्बः शान्तिमार्गोत्सुकोऽभू- न्न हि सति कुलधुर्ये सूर्यवंश्या गृहाय ॥ ७-७१॥ इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदास- कृतावजस्वयंवराभिगमनो नाम सप्तमः सर्गः ॥
Encoded and proofread by Arvind Kolhatkar akolhatkar at rogers.com

% Text title            : raghuvansha7
% File name             : raghuvansha7.itx
% itxtitle              : raghuva.nsham sargaH 07 (kAlidAsakRitam)
% engtitle              : Raghuvansha by Kalidas Chapter 7
% Category              : kalidasa
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : kalidasa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Arvind Kolhatkar akolhatkar at rogers.com
% Proofread by          : Arvind Kolhatkar akolhatkar at rogers.com
% Latest update         : April 14, 2005
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP