उपदेशशतकम्
त्रिषु देवेषु महान्तं भृगुर्बुभुत्सुः परीक्ष्य हरिमेकम् ।
मेनेऽधिकं महिम्ना सेव्यः सर्वोत्तमो विष्णुः ॥ १॥
रुक्माङ्गदः स्वपुत्रं निहत्य खड्गेन मोहिनीवचसा ।
सत्यां ररक्ष वाचं न सङ्कटेऽपि त्यजेद्धर्मम् ॥ २॥
निर्वासितो हितेप्सुर्विभीषणो रावणेन लङ्कायाः ।
तन्नाशहेतुरासीन्नहि निजबन्धुर्विरोद्धव्यः ॥ ३॥
हृतराज्यदर्पसारं सुयोधनं निग्रहीतुमपि शक्ताः ।
प्रोषुर्वनेषु पार्था धीरः समयं प्रतीक्षेत ॥ ४॥
मणिहेतोरभिशप्तः कृष्णः सत्राजिताथ जाम्बवतः ।
जित्वा ददौ तमस्मै जनापवादाद्भजेद्भीतिम् ॥ ५॥
स्वाराज्यमश्नुवानः प्रकोप्य नहुषो मुनीनहिर्भूत्वा ।
न्यपतत्त्वरितमधस्तात्प्राप्तैश्वर्यो न दृप्तः स्यात् ॥ ६॥
सहधर्मिणीं वनान्ताद्दशरथसूनोर्जहार दशवक्त्रः ।
बन्धनमाप समुद्रो न दुर्जनस्यान्तिके निवसेत् ॥ ७॥
हन्तुं देवकतनयां वसुदेवेनोद्यतायुधः कंसः ।
मधुरोक्तिभिरनुनीतः साम्ना मूर्खं वशे कुर्यात् ॥ ८॥
भ्रातर्महदतिचारो न युक्त इति वादिनं दशग्रीवः ।
धनदं बबन्ध युद्धे मूढमतिर्नोपदेष्टव्यः ॥ ९॥
विश्रब्धश्चटुवचनैः कैकेय्यै दशरथो वरं दत्त्वा ।
सङ्कटमाप दुरन्तं स्त्रीषु न कुर्वीत विश्वासम् ॥ १०॥
गर्वाद्योद्धुमुपेतः पौलस्त्यः सपदि कार्तवीर्येण ।
क्रीडामृग इव बद्धो न बलोद्रिक्तेन योद्धव्यम् ॥ ११॥
सन्दीपिताग्रपुच्छो बद्धतनुस्ताडितोऽपि रक्षोभिः ।
लङ्कां मारुतिरदहद्विपदि विजह्यान्न शूरत्वम् ॥ १२॥
रुक्मी छलेन दीव्यन्बलं विजित्याथ परिहसन्नुच्चैः ।
द्राग्वधमाप सभायां नोपहसेन्निर्जितं द्यूते ॥ १३॥
शकुनिसुयोधनकर्णैर्जितोऽक्षधूतैर्युधिष्ठिरो द्यूते ।
निर्वासितः स्वराष्ट्रात्कितवैः सह नाचरेद्द्यूतम् ॥ १४॥
मखरक्षणाय पुत्रं विश्वामित्राय दशरथोऽर्थयते ।
प्रायच्छद्गतशङ्कं दुस्त्यजमप्यर्थिने देयम् ॥ १५॥
त्यज पार्थैः सह रणमिति विदुरेणोक्तोऽम्बिकासुतः सततम् ।
तदमत्वा क्षयमापत्कर्तव्यं भाषितं सुहृदाम् ॥ १६॥
शिशुपालः क्रतुकाले हरिमर्हं गर्हयन्ननर्होक्त्या ।
तत्क्षणमियाय नाशं न महान्तं क्वापि गर्हेत ॥ १७॥
अन्यद्विजाय मोहान्नृगो वदान्यो द्विजस्य गां दत्त्वा ।
सद्योऽभूत्कृकलासो ब्रह्मस्वं दूरतो विसृजेत् ॥ १८॥
सुग्रीवो रघुपतिना हृतदारेणोपगम्य हृतदारः ।
दृढमाबबन्ध सख्यं समानदुःखः सखा कार्यः ॥ १९॥
वीरो वैतनिकः सन्विराटनगरोषितः कुमारीणाम् ।
नर्तयितार्जुन आसीद्भजेदवस्थोचिता वृत्तिम् ॥ २०॥
दुष्यन्तः स्ववधूमपि कण्वानीतां शकुन्तलां ससुताम् ।
सुचिरं विमृश्य भेजे कार्यं सहसा न विदधीत ॥ २१॥
जमदग्निना नियुक्तः सद्यो निजघान मातरं रामः ।
निर्दोषः पुनरासीद्गुरूक्तमविचारितं कुर्यात् ॥ २२॥
शतयोजनततमब्धिं विलङ्घ्य वातात्मजोऽविशल्लङ्काम् ।
वीराग्रतःसरोऽभूद्यशोऽर्जयन्साहसं कुर्यात् ॥ २३॥
प्रहितः सुरैर्जिगीषुर्हरं प्रहर्तुं स्मरोऽभ्ययाद्यावत् ।
भस्मीबभूव तावन्न चिकीर्षेद्दुष्करं कर्म ॥ २४॥
सङ्कुट्य पादघातैः कालिन्द्यां कौलियं कृतागस्कम् ।
निरयापयन्मुकुन्दो दुष्टे दण्डः प्रयोक्तव्यः ॥ २५॥
कुलिशाहतिहृतशिरसेऽप्यदात्कबन्धाय जीवते शक्रः ।
अशनायोरसि वदनं दीनो रिपुरप्यनुग्राह्यः ॥ २६॥
सुग्रीवाय शुकः स्वाद्दशमुखसन्देशमादिशन्कपिभिः ।
सन्ताड्य सपदि बद्धो न दूतभावं भजेदसतः ॥ २७॥
अश्वत्थामा हत इति युधि गिरमनृतां युधिष्ठिरोऽवादीत् ।
पुनरनुतापमवापत्पापं कृत्वानुतप्येत ॥ २८॥
भोगान्बहून्ययातिर्भुक्त्वा वयसा सुतस्य चिरकालम् ।
निरविद्यतावितृप्तः कामं मन्येत दुष्पूरम् ॥ २९॥
बलिरिन्द्रजित्त्रिलोक्यां भुञ्जन्भोगांश्चिराद्विनष्टश्रीः ।
सुतलेऽबध्यत पाशैर्भोगान्क्षणभङ्गुरान्विद्यात् ॥ ३०॥
विलपन्तं हतपुत्रं धृतराष्ट्र वीक्ष्य करुणया कृष्णः ।
क्षणमनुशुशोच सास्रं दुःखितमनु दुःखितो भूयात् ॥ ३१॥
निःक्षत्रियां न चक्रे यावद्रामो भुवं रुषा तावत् ।
आसीद्रणैकतानो विरमेदसमाप्य नारब्धम् ॥ ३२॥
दुहिता विदेहभर्तुर्दाशरथेर्भामिनी सीता ।
वधमाप राक्षसीनां विधेर्विचित्रा गतिर्बोध्या ॥ ३३॥
निगमागमैकवेत्ता द्रोणस्तप्त्वा तपोऽर्थमन्विच्छन् ।
धानुष्कवृत्तिरासीद्धर्मं चार्थं च सेवेत ॥ ३४॥
अधिशम्भुमौलि निवसन्नेककलात्मा यथार्च्यते चन्द्रः ।
न तथा स पूर्णबिम्बः श्रयेन्महान्तं महत्त्वाय ॥ ३५॥
शरतल्पमधिशयानाद्भीष्मादाकर्ण्य धर्मजो धर्मान् ।
दुःखं जहौ दुरन्तं प्रष्टव्याः सत्पथं वृद्धाः ॥ ३६॥
कर्णेन घातयित्वा घटोत्कचं शक्रशक्तिनिर्मोक्षात् ।
जीवितमरक्षि पार्थैः स्वात्मानं सर्वतो रक्षेत् ॥ ३७॥
पृथुकोपहारपाणिर्हरिं सखायं प्रपद्य दीनात्मा ।
श्रीमानभूत्सुदामा श्रयेत सन्मित्त्रमापत्सु ॥ ३८॥
दृष्ट्वा हरिः समक्षं बाणत्राणाय कोटवीं नग्नाम् ।
समरे पराङ्मुखोऽभूत्स्त्रियं विवस्त्रां न वीक्षेत ॥ ३९॥
अदिशल्लक्ष्मणहेतोर्मारुतिमानेतुमोषधीं रामः ।
तामानयत्स दूराद्धुर्यः कार्ये नियोक्तव्यः ॥ ४०॥
आराध्य कैतवज्ञो रौद्रं रुद्राद्वृको वरं लब्ध्वा ।
गौरीमियेष हर्तुं न विनीतं विश्वसेद्धूर्तम् ॥ ४१॥
दशकण्ठरक्षितायां लङ्कायां रक्षसामभूद्वसताम् ।
गृहवित्तबन्धुनाशो वसेन्न राष्ट्रे कुभूपाले ॥ ४२॥
शप्त्वाम्बरीषमार्यं दुर्वासाः कोपनो निरागस्कम् ।
चक्रेण तापितोऽभून्न विदध्यात्क्रोधमस्थाने ॥ ४३॥
मखशिखिनि हूयमानं तक्षकमवितुं प्रपन्नमसमर्थः ।
अजहान्न तु पुरुहूतः शरणमुपेतो न हातव्यः ॥ ४४॥
हत्वा स्वसुस्तनूजान्सद्यो जातान्बहून्खलः कंसः ।
उत्सन्नः सहसाभून्न कुत्सितं कर्म कुर्वीत ॥ ४५॥
सीतां विसृज्य रामः साकं मुनिभिर्मुनिव्रतो राज्यम् ।
शासन्नुवास पुर्यां नेयः सद्भिः समं समयः ॥ ४६॥
कृष्णधनञ्जयभीमान्द्विजवेषस्थाञ्जरासुतश्चिह्नैः ।
क्षात्रैः क्षिप्रमजानादाकारैरिङ्गितं विद्यात् ॥ ४७॥
यां यां दिशं गतोऽभूद्धिरण्यकशिपुर्यदृच्छया विचरन् ।
तां तां सुराः प्रणेमुर्दुष्टजनं दूरतः प्रणमेत् ॥ ४८॥
कुर्वन्नपि मुनिशप्तः स्वजीवितार्थी परीक्षितो यत्नम् ।
दष्टोऽहिना विनष्टो ज्ञेयो मृत्युः सुदुर्वारः ॥ ४९॥
सदिति प्रतीयमानं जगन्मृषैवेति केवलं बुद्ध्वा ।
जनको विमुक्तिमागात्स्वप्नवदन्तर्जगद्बोध्यम् ॥ ५०॥
विहरन्वधूभिरन्तःपुरेऽग्निवर्णो दिवानिशं कामी ।
ग्रस्तोऽथ यक्ष्मणाभूद्विषयान्विषभीषणान्विद्यात् ॥ ५१॥
विप्रः पतिर्वृषल्या हिंस्रोऽप्यभिवादनान्महर्षीणाम् ।
वाल्मीकिर्मुनिरासीत्पुरुषानभिवादयेन्महतः ॥ ५२॥
निशि कामयन्दुरात्मा द्रुपदसुतां कीचको रहः प्राप्ताम् ।
वधमाप भीमसेनात्परस्त्रियं नाभिकाङ्केत ॥ ५३॥
युधि कुरवः कृतवैरा वीरं व्यूहं विशन्तमभिमन्युम् ।
बहवो निजघ्नुरेवं नैको रिपुमण्डलं प्रविशेत् ॥ ५४॥
पुष्करनिर्जितराज्यः पुरमृतुपर्णस्य नैषधो गत्वा ।
सारथिरभून्निगूढो दुरवस्थो न प्रकाशः स्यात् ॥ ५५॥
क्षात्रं विमृष्य धर्मं मान्यैर्गुरुभिर्द्विजैः समं समरे ।
युयुधेऽर्जुनो धनुष्मान्घोरमपि स्वं चरेद्धर्मम् ॥ ५६॥
हरिरम्बुधिमथनोत्थां सुधां सुरेभ्यः सुरां सुरारिभ्यः ।
व्यतरत्समं यथार्हं योग्यं योग्याय दातव्यम् ॥ ५७॥
अथ चैकत्वमवाप्ताः सुरां निपीयोद्धता मिथो घ्नन्तः ।
युधि यादवाः प्रणेशुर्धीमान्मद्यं न सेवेत ॥ ५८॥
यज्ञोत्सवे स्वपित्रा हठादनाकारिता सती गत्वा ।
तनुमजहात्परिभूता क्वापि न गच्छेदनाहूतः ॥ ५९॥
मुचुकुन्देन मुकुन्दो यदुभिरवध्यस्य कालयवनस्य ।
छलतोऽचीकरदन्तं वध्योऽरिर्वञ्चयित्वापि ॥ ६०॥
असकृद्युधि विजितादपि भीतो बार्हद्रथाज्जले दुर्गम् ।
कृत्वा हरिन्यवात्सीद्विजितोऽप्याशङ्कनीयोऽरिः ॥ ६१॥
तुरगार्थेऽभिसरन्तः प्रकोप्य कपिलं क्षणात्समं सर्वे ।
सगरसुताः क्षयमीयुर्न कोपयेत्तापसं शान्तम् ॥ ६२॥
मुनिरपि विश्वामित्रः श्वा भूत्वा गूढमुर्वशीवशगः ।
अन्वव्रजत्स्मरार्तो भेतव्यं दुर्जयात्कामात् ॥ ६३॥
बलदर्पितस्त्रिलोक्यां तृणवद्गणयन्दशाननः शूरान् ।
युधि निर्जितः प्लवङ्गैर्न वहेद्गर्वम्बुधो मनसा ॥ ६४॥
मातुर्वाक्शरविद्धः पञ्चाब्दो दुष्करं तपस्तप्त्वा ।
ध्रुव उच्चैःपदमभजत्पुंसा व्यवसायिना भाव्यम् ॥ ६५॥
नीता रहसि सखीभ्यो बहुमहिता बल्लवी पथि श्रान्ता ।
वह मामिति हरिमूचे न ह्यतिसम्मानयेत्प्रमदाम् ॥ ६६॥
दधतः स्वलक्ष्म युद्धे मुहुः शृगालस्य जल्पतः परुषम् ।
श्रुत्वा जहास शौरिर्न वाग्विवादं शठैः कुर्यात् ॥ ६७॥
अकृतागसमपि रामो वालिनमन्तर्हितश्छलेनैव ।
सख्युर्जघान शत्रुं सुहृद्रिपुं भावयेद्रिपुवत् ॥ ६८॥
क्रुद्धो हली कुरूणां पुरमुत्थाप्य क्षिपन्नद्याम् ।
अनुनीतस्तदमुञ्चत्क्रोधाविष्टोऽनुनेतव्यः ॥ ६९॥
बद्ध्वार्पितं कुमारैर्द्रोणो द्रुपदं कृतापराधमपि ।
व्यसृजद्विसृज्य रोषं क्षमिणा पुरुषेण भवितव्यम् ॥ ७०॥
दुर्योधने सभायां मानभ्रष्टे जहास यद्भीमः ।
तदभूद्विग्रहबीजं न वैरमुत्पादयेत्स्वस्मात् ॥ ७१॥
स्वपितॄन्समुद्दिधीर्षन्प्रापय्य क्ष्मां भगीरथो गङ्गाम् ।
पावितवानितरानपि हितं चरेत्कर्म सर्वेषाम् ॥ ७२॥
तारां जहार चन्द्रः स्त्रियं गुरोर्द्रुह्यतां मिथस्तेन ।
समरोऽभवत्सुराणां बोध्यं वैरैकबीजं स्त्री ॥ ७३॥
अधिवेश्म पूजनीया चिरमुषिता ब्रह्मदत्तभूपस्य ।
अन्धं चकार पुत्रं न नीचमावासयेत्स्वगृहे ॥ ७४॥
लुब्धो बलाज्जिघृक्षन्कामदुघं कौशिको वसिष्ठस्य ।
न प्राप जातदर्पो हठं न कुर्याद्दुरापेऽर्थे ॥ ७५॥
दृप्तं बलेन रोषान्निबध्य वैरं किरीटिना कर्णम् ।
कुरवो व्यधुः सखायं रिपोर्विपक्षः सखा कार्यः ॥ ७६॥
द्विषतां वधे सहायं ककुत्स्थमिन्द्रो रणे वृषो भूत्वा ।
अवहद्विहाय लज्जां कार्यार्थी नावहेन्मानम् ॥ ७७॥
अपि गौतमो द्विनेत्रं शक्रमहल्यारतं शपन्क्रुद्धः ।
चक्रे सहस्रनेत्रं गुणवान्बोध्यः सतां शापः ॥ ७८॥
धनदः पुष्पकमेकं लङ्कापतये युयुत्सवे दत्त्वा ।
अलकामपात्समग्रां बहु रक्षेदल्पदानेन ॥ ७९॥
तनये विनयिनि वीरे पार्थः कुरुभिहतेऽपि सौभद्रे ।
युयुधे विधूय शोकं न गते शोको विधातव्यः ॥ ८०॥
व्यासाच्छ्रुतं भविष्यद्भीमं जनमेजयः स्वकं वृत्तम् ।
शश्वत्स्मरन्नशोचन्न भाविनं चिन्तयेदर्थम् ॥ ८१॥
वैकर्तनमपि कुन्त्याः सुतमपि लोकोऽन्यसेविनं कर्णम् ।
राधेयमेव मेने बुधः स्ववृत्त्यानुवर्तेत ॥ ८२॥
हित्वान्यान्हरिदारान्सात्राजित्यै सुरर्षिरर्थज्ञः ।
दिव्यं ददौ प्रसूनं मनोऽनुवृत्तिं प्रभोः कुर्यात् ॥ ८३॥
रोहिण्या वशगोऽन्याः स्त्रियः परित्यज्य दक्षशापेन ।
यक्ष्मी बभूव चन्द्रो नैकरतः स्थाद्बहुस्त्रीकः ॥ ८४॥
तपसा विधूतपापं माण्डव्यं दण्डयन्यमः सद्यः ।
शूद्रत्वमाप शापान्नादण्ड्ये पातयेद्दण्डम् ॥ ८५॥
सत्राजितं निशायां निर्भरनिद्राणमेव शतधन्वा ।
अवधीत्स्यमन्तकार्थे नातिशयालुर्भवेद्रात्रौ ॥ ८६॥
हतवत्यपि निजतनुजान्गाधिसुते वीर्यवान्विधेः सुनुः ।
प्रतिकर्तुमाप लज्जां कुलानुरूपं वहेच्छीलम् ॥ ८७॥
विद्यां कचो बुभुत्सुः शुक्रात्सञ्जीविनीं विनीतात्मा ।
सुरपक्षगोऽपि लेभे विनयात्संसाधयेत्कार्यम् ॥ ८८॥
द्रोणे सख इति वादिनि नारथिरथिनोः सखित्वमित्याह ।
द्रुपदो विधूय सख्यं नृपं न मित्रं विजानीयात् ॥ ८९॥
अपि शक्तः परिहर्तुं ययातिशापं हरिहते कंसे ।
राजासनं न भेजे पुरातनी पालयेत्संस्थाम् ॥ ९०॥
विमुखो द्युमद्गदार्तः प्रद्युम्नो धिक्कृतो रणे हरिणा ।
परिभवमाप महान्तं न भवेद्विमुखो रणाद्धीरः ॥ ९१॥
एकाग्रतां स्वकर्मणि दत्तात्रेयः प्रशस्य शरकर्तुः ।
समशिक्षतात्मयोगं नीचादपि सद्गुणो ग्राह्यः ॥ ९२॥
अपि वञ्चयन्विरिञ्चिः कृष्णं वत्सान्सवत्सपान्हृत्वा ।
स्वयमेव वञ्चितोऽभून्मायाविषु नाचरेन्मायाम् ॥ ९३॥
मृगयारतः प्रसेनो विघटितसेनोऽटवीमटन्नेकः ।
केसरिणा विनिजघ्ने नैकाकी सञ्चरेद्विपिनम् ॥ ९४॥
शिवलिङ्गान्तमलब्धं लब्धं विधिनेति कामधुक्प्राह ।
अथ निन्द्यमाप शापं न विदध्यात्कूटसाक्षित्वम् ॥ ९५॥
पुत्रेण सव्यसाची पराजितो बभ्रुवाहनेनाजौ ।
तुष्यन्हृदि न ललज्जे पराजयं पुत्रतोऽन्विच्छेत् ॥ ९६॥
चिरसङ्गताय कुन्ती कृष्णाय क्लेशिता कुरुक्षेत्रे ।
व्यसनं स्वमाह सर्वं सुहृदे विनिवेदयेद्दुःखम् ॥ ९७॥
पाञ्चालीगजराजौ हरिणा दुःशासनावहाराभ्याम् ।
त्रातौ क्षणात्प्रपन्नौ हरिं भयार्तः प्रपद्येत ॥ ९८॥
दैवाद्वनोपलब्धां ययातिरब्राह्मणोऽपि गतशङ्कम् ।
शुक्रसुतामुपयेमे विधिप्रणीते प्रवर्तेत ॥ ९९॥
असुरो हितमुपदिष्टः प्रह्लादो नारदेन गर्भस्थः ।
तत्त्वविदुषां वरोऽभूद्धितोपदेशं सदा शृणुयात् ॥ १००॥
स्फुटमार्याशतमदितान्पृथक्प्रमाणीकृतानुदाहरणैः ।
शतमेतानुपदेशान्विभावयन्भावयेत्सिद्धिम् ॥ १०१॥
कुतुकाय कोविदानां मूढमतीनां महोपकाराय ।
निरमात्कविर्गुमानिः शतोपदेशप्रबन्धममुम् ॥ १०२॥
॥ इति श्रीगुमानिकविप्रणीतमुपदेशशतकं समाप्तम् ॥
Encoded and proofread by Akash Pandey